9.3.1
प्रथमे- विकृतौ मन्त्रगतव्रीह्यादिशब्दानामूहाधिकरणे सूत्रे 1-2
SŪ प्रकृतौ यथोत्पत्तिवचनमर्थानां तथोत्तरस्यां ततौ तत्प्रकृतित्वादर्थे चाकार्यत्वात्।। 1।।
SŪ लिङ्गदर्शनाच्च।। 2।।
तृतीयपादस्य प्रथमाधिकरणमारचयति-
1 विषयः अग्निव्रीह्यादयो नोह्या ऊह्या वा नहि चोदनात्
''व्रीहीणां मेध सुमनस्यमानः'' इति द्रव्यविषयः।
3 पूर्वपक्षः विवक्षा देवहविषोर्दृष्टत्वादूह्यते ततः
विकृतिषु 'सूर्याय जुष्टं निर्वपामि' इति, 'नीवाराणां मेध सुमनस्यमानः' इत्येवमूहो न कर्तव्यः। कुतः- चोदकेन यथावस्थितस्यैव मन्त्रपाठस्यातिदिष्टत्वात्। इति चेत्-
4 सिद्धान्तः मैवम् प्रकृतौ देवताहविर्लक्षणयोरर्थयोरेव विवक्षा तथा सति तत्प्रकाशनरूपस्य दृष्टप्रयोजनस्य लाभात् अग्निव्रीहिशब्दविवक्षायामदृष्टार्थो मन्त्रपाठः प्रसज्येत तस्मात्- सूर्यनीवारलक्षणार्थप्रकाशनायोहः कर्तव्यः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे- समिदादीनां यागनामधेयताधिकरणे सूत्राणि 59-60”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे नवमाध्यायस्य द्वितीयः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.3.2
द्वितीये- पौण्डरीकेषु बर्हिःषु स्तरणमन्त्रस्योहाधिकरणे सूत्राणि 3-8
SŪ जातिनैमित्तिकं यथास्थानम्।। 3।।
SŪ अविकारमेकेऽनार्षत्वात्।। 4।।
SŪ लिङ्गदर्शनाच्च।। 5।।
SŪ विकारो वा तदुक्तहेतुः।। 6।।
SŪ लिङ्गं मन्त्रचिकीर्षार्थम्।। 7।।
SŪ नियमो वोभयभागित्वात्।। 8।।
द्वितीयाधिकरणमारचयति-
1 विषयः हरितोक्तिः पौण्डरीके न त्याज्या त्यज्यतेऽथवा
3 पूर्वपक्षः नादृष्टार्थत्वतो मैवं गुणिद्रव्यस्य भासनात्
''मौद्गं चरुं निर्वपेच्छ्रियै श्रीकामः'' इत्यत्र ''पौण्डरीकाणि बर्हीषि भवन्ति'' इति श्रुतम्। तत्र स्तरणमन्त्रश्चोदकप्राप्तः ''दर्भैः स्तृणीत हरितैः'' इति। तत्र पूर्वन्यायेन दर्भशब्दस्थाने पुण्डरीकशब्दः प्रयोक्तव्यः। हरितशब्दस्तु प्रकृतौ नापूर्वीयद्रव्यवाची। ततोऽसमवेतार्थत्वाद्विकृतावप्यदृष्टार्थमनूहेन प्रयोक्तव्यः। इति चेत्-
4 सिद्धान्तः मैवम् गुणद्वारा गुणिद्रव्यप्रकाशने सति दृष्टार्थत्वलाभेन समवेतार्थत्वात् तस्मात्- 'पुण्डरीकैः स्तृणीत रक्तैः' इत्यूहनीयम्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- विकृतौ मन्त्रगतव्रीह्यादिशब्दानामूहाधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रकृतौ देवताहविर्लक्षणयोरर्थयोरेव विवक्षा तथा सति तत्प्रकाशनरूपस्य दृष्टप्रयोजनस्य लाभात् अग्निव्रीहिशब्दविवक्षायामदृष्टार्थो मन्त्रपाठः प्रसज्येत तस्मात्- सूर्यनीवारलक्षणार्थप्रकाशनायोहः कर्तव्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.3.3
तृतीये- अग्नीषोमीयपशौ लौकिकयूपस्पर्शप्रायश्चित्ताधिकरणे सूत्रम्
SŪ लौकिके दोषसंयोगादपवृक्ते हि चोद्यते निमित्तेन प्रकृतौ स्यादभागित्वात्।। 9।।
तृतीयाधिकरणमारचयति-
1 विषयः यूपस्पर्शे वैदिके वा लौकिके मन्त्रकीर्तनम्
3 पूर्वपक्षः आद्यः प्रकरणान्मैवं लौकिके प्रतिषेधतः
ज्योतिष्टोमेऽग्नीषोमीयपशुप्रकरणे यूपस्पर्शस्य प्रायश्चित्तमाम्नातम् ''यद्येकं यूपमुपस्पृशेत्। 'एष ते वायो' इति ब्रूयात्'' इति। तदिदमुच्छ्रयणाञ्जनादिकालीने वैदिकस्पर्शे भवति। कुतः- तत्प्रकरणात्। इति चेत्-
4 सिद्धान्तः मैवम् 'यूपो वै यज्ञस्य दुरिष्टमामुञ्चते यद्यूपमुपस्पृशेद्यज्ञस्य दुरिष्टमामुञ्चेत् तस्माद्यूपो नोपस्पृश्यः' इति प्रतिषिध्य पश्चात्प्रायश्चित्ताम्नानात् प्रतिषेधश्च लौकिकस्पर्शविषयः, वैदिकस्य विहितत्वात् तस्मात्- लौकिके स्पर्शे प्रायश्चित्तम्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- पौण्डरीकेषु बर्हिःषु स्तरणमन्त्रस्योहाधिकरणे सूत्राणि 3-8”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् गुणद्वारा गुणिद्रव्यप्रकाशने सति दृष्टार्थत्वलाभेन समवेतार्थत्वात् तस्मात्- 'पुण्डरीकैः स्तृणीत रक्तैः' इत्यूहनीयम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.3.4
चतुर्थे द्विपशुयागे पाशमन्त्रयोरेकवचनान्तबहुवचनान्तयोर्द्विवचनान्तेनोहाधिकरणे सूत्राणि 10-14
SŪ अन्यायस्त्वविकारेणादृष्टप्रतिघातित्वादविशेषाच्च तेनास्य।। 10।।
SŪ विकारो वा तदर्थत्वात्।। 11।।
SŪ अपि त्वन्यायसंबन्दात्प्रकृतिवत्परेष्वपि यथार्थं स्यात्।। 12।।
SŪ यथार्थं त्वन्यायस्याचोदितत्वात्।। 13।।
SŪ छन्दसि तु यथादृष्टम्।। 14।।
चतुर्थाधिकरणमारचयति-
3 पूर्वपक्षः ज्योतिष्टोमेऽग्नीषोमीयपशावेकवचनान्तबहुवचनान्तौ द्वौ पाशमन्त्रौ भिन्नयोः शाखयोराम्नातौ ''अदितिः पाशं प्रमुमोक्त्वेतम्'' इत्येकत्र। ''अदितिः पाशान्प्रमुमोक्त्वेतान्'' इत्यपरत्र। तावुभौ पशुद्वयोपेतायां विकृतौ चोदकेनातिदिष्टौ। सा च विकृतिरेवमाम्नायते ''मैत्रं श्वेतमालभेत, वारुणं कृष्णम्, अपां चौषधीनां च संधावन्नकामः'' इति। तत्रैकेनैव मन्त्रेण चरितार्थत्वान्न द्वयोरतिदेशः। इत्याद्यः पक्षः। तदाऽप्यविकृतस्यैव प्रयोक्तुं शक्यत्वाद्बहुवचनान्तो मन्त्रो युक्तः। प्रकृतावेकस्मिन्पशावसमवेतार्थतया बहुवचनस्य विकृतावनूहनीयत्वात्। इत्येकः पक्षः। तादृग्बहुवचनोपेतत्वादेव मन्त्रोऽप्यसावसमवेतार्थः प्रकृतौ भवति। एकवचनान्तस्तु मन्त्रः प्रकृतौ समवेतार्थत्वाद्विकृतावतिदिश्यताम्। स च द्विवचनान्तेनोहनीयः। इति पक्षान्तरम्। प्रकृतौ विद्यमानयोरुभयोर्मन्त्रयोर्विकृतावतिदेशस्य वारयितुमशक्यत्वादेकमन्त्रपक्षस्यावान्तरत्वेनो-पन्यस्तावुभावपि पक्षावयुक्तौ। मन्त्रद्वयातिदेशपक्षे त्वेकवचनान्तः प्रकृतौ समवेतार्थतया विकृतावूहनीयः। बहुवचनान्तो यथावस्थित एव पठनीयः। इति पूर्वः पक्षः।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- अग्नीषोमीयपशौ लौकिकयूपस्पर्शप्रायश्चित्ताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'यूपो वै यज्ञस्य दुरिष्टमामुञ्चते यद्यूपमुपस्पृशेद्यज्ञस्य दुरिष्टमामुञ्चेत् तस्माद्यूपो नोपस्पृश्यः' इति प्रतिषिध्य पश्चात्प्रायश्चित्ताम्नानात् प्रतिषेधश्च लौकिकस्पर्शविषयः, वैदिकस्य विहितत्वात् तस्मात्- लौकिके स्पर्शे प्रायश्चित्तम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.3.5
पञ्चमे- अग्नीषोमीयपशौ पाशैकत्वपाशबहुत्वाभिधायिमन्त्रयोर्विकल्पाधिकरणे सूत्राणि 15-19
SŪ विप्रतिपत्तौ विकल्पः स्यात्समत्वाद्गुणे त्वन्यायकल्पनैकदेशत्वात्।। 15।।
SŪ प्रकरणविशेषाच्च।। 16।।
SŪ अर्थाभावात्तु नैवं स्यात्, गुणमात्रमितरत्।। 17।।
SŪ द्यावोस्तथेति चेत्।। 18।।
SŪ नोत्पत्तिशब्दत्वात्।। 19।।
पञ्चमाधिकरणमारचयति-
1 विषयः उत्क्रष्टव्यो न वा मन्त्रो बह्वर्थोऽसंगतत्वतः उत्कर्षो न विकल्प्योऽसौ गुणे त्वन्यायकल्पना
3 पूर्वपक्षः योऽयं पूर्वोदाहृतो बहुवचनान्तः पाशमन्त्रः, तस्य प्रकरणादुत्कर्षो बहुपाशयुक्तेषु पशुगणेषु कर्तव्यः। कुतः- एकस्मिन्पशौ प्रकृते तस्यानन्वितत्वात्। इति चेत्- मैवम्। नासावुत्क्रष्टव्यः। किंत्वेकवचनान्तेन मन्त्रेण सह विकल्पनीयः। न हि 'पाशान्' इत्यत्र प्रधानस्यांशस्यानन्वितत्वमस्ति। प्रातिपदिकविभक्त्योः प्रातिपदिकं प्रधानम्। धर्मिवाचकत्वात्। विभक्तिस्तु कर्मत्वकरणत्वादिधर्मवाचकत्वाद्गुणभूता। तथा विभक्तिवचनयोर्विभक्तेः कर्मादिकारकवाचित्वात्प्राधान्यम्। वचनस्य कारकसंख्याभिधायित्वाद्गुणत्वम्। तथा सति बहुवचनान्ते पाशशब्दे प्रातिपादिकं कर्मकारकविभक्तिश्चैकस्मिन्नपि पाशे संगच्छेते। गुणभूते तु बहुवचने लक्षणावृत्तिः कल्पनीया, पाशावयवगतं बहुत्वं लक्ष्यत इति। तस्मात्- गुणभूतं वचनमात्रमनुसृत्य कृत्स्नस्य मन्त्रस्य प्रकरणपाठो न बाधनीयः, किंतु प्रधानानुसारेण मन्त्रयोः समानत्वाद्विकल्पः कर्तव्यः।। 7।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे द्विपशुयागे पाशमन्त्रयोरेकवचनान्तबहुवचनान्तयोर्द्विवचनान्तेनोहाधिकरणे सूत्राणि 10-14”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.3.6
षष्ठे दर्शपूर्णमासयोर्द्विपत्नीके प्रयोगे 'पत्नीं संनह्य' इति मन्त्रस्यानूहाधिकरणे सूत्रम्
SŪ अपूर्वे त्वविकारोऽप्रदेशात्प्रतीयेत।। 20।।
षष्ठाधिकरणमारचयति-
1 विषयः पत्नीमिति द्विपत्न्यादावूह्यं नो वोह्यतेऽर्थतः नोपदेशस्य सामान्यादतिदेशाप्रवृत्तितः
3 पूर्वपक्षः दर्शपूर्णमासयोर्मन्त्र आम्नायते- ''पत्नीं संनह्य'' इति। तत्र- एकपत्नीकस्य यजमानस्य प्रयोगे समवेतार्थः एकवचनान्तः पत्नीशब्दः। स च द्विपत्नीकस्य बहुपत्नीकस्य च प्रयोगेऽर्थवशादूहनीयः। इति चेत्- मैवम्। किमुपदेशप्राप्तस्योहः, अतिदेशप्राप्तस्य वा। नाद्यः। उपदेशस्य सर्वप्रयोगसाधारणत्वात्। यदि- एकपत्नीकप्रयोगार्थमेवायं मन्त्रोपदेशः स्यात्, तदानीमेकवचनं विवक्ष्येत। न त्वेवमस्ति। अन्यथा द्विपत्नीकबहुपत्नीकप्रयोगयोर्मन्त्र एव नोपदिश्येत। तत्र कुत ऊहानूहचिन्तावकाशः। साधारणे तूपदेशे सर्वप्रयोगसमवेतार्थतया पत्नीपदे प्रातिपदिकं कर्मकारकविभक्तिश्चेत्युभयमेव पाशन्यायेन विवक्षितम्। एकवचनं त्वदृष्टार्थम्। तथा च सर्वप्रयोगे समवेतार्थतया पत्नीपदेषु यथावस्थितमेव पठनीयम्। नापि 'अतिदेशप्राप्तस्योहः' इति द्वितीयः पक्षः। द्विबहुपत्नीकप्रयोगयोरविकृतित्वेनातिदेशायोगात्। तस्मादत्र नास्त्यूहः।। 8।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- अग्नीषोमीयपशौ पाशैकत्वपाशबहुत्वाभिधायिमन्त्रयोर्विकल्पाधिकरणे सूत्राणि 15-19”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.3.7
सप्तमे द्विपत्नीकविकृतियागेऽपि 'पत्नीं संनह्य' इति मन्त्रस्यानूहाधिकरणे सूत्रम्
SŪ विकृतौ चापि तद्वचनात्।। 21।।
सप्तमाधिकरणमारचयति-
1 विषयः ऊह्यो नो वैष विकृतावूह्योऽपाठेन पाशवत्
3 पूर्वपक्षः नादृष्टच्छान्दसत्वाभ्यां पाशे छान्दसता न हि
एष एकवचनान्तः पत्नीमन्त्रो विकृतौ द्विबहुपत्नीकप्रयोगयोरूहनीयः। कुतः- पाठाभावात्। प्रकृतावर्थानुसारेण प्राप्तोऽप्यूहः सर्वप्रयोगसाधारणेन मन्त्रपाठेन बाधितः। विकृतौ तु बाधितस्य पाठस्याभावेनास्मदायत्ते प्रयोगेऽर्थानुसारेणोहो युक्तः। अत एव पूर्वत्र द्विपाशयुक्तायां विकृतावेकवचनान्तो बहुवचनान्तश्च पाशमन्त्र ऊहितः। इति चेत्- मैवम्। 'पत्नीम्' इत्येकवचनस्याविवक्षितत्वेन प्रकृतावदृष्टार्थतया यथावस्थितपाठे सति विकृतावप्यदृष्टार्थं यथावस्थितस्यैव पठितव्यत्वात्। अश्चोच्येत 'प्रकृतौ छान्दसत्वेन व्यत्ययेनैकचचनमेव द्वित्वबहुत्वयोरप्यर्थयोर्वर्तते' इति। एवं तर्हि विकृतावप्यूहमन्तरेणैव द्वित्वबहुत्वाभिधानान्मा भूदूहः।
4 सिद्धान्तः न च एवं पाशेऽप्यूहो मा भूदिति शङ्कनीयम् प्रकृतावेकवचनबहुवचनयोरेकस्मिन्नेव पाशे वैहिकप्रयोगदर्शनात् द्विंत्वे तदभावात् तस्मात्- पाशस्योहो विकृतौ, न तु पत्नीशब्दस्य
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे दर्शपूर्णमासयोर्द्विपत्नीके प्रयोगे 'पत्नीं संनह्य' इति मन्त्रस्यानूहाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.3.8
अष्टमे सवनीयपशूनामग्नीषोमीयसमानविधानत्वे 'प्रास्मै,अग्निम्' इति मन्त्रेऽनूहाधिकरणे सूत्रम्
SŪ अध्रिगौ सवनीयेषु तद्वत्समानविधानाश्चेत्।। 22।।
अष्टमाधिकरणमारचयति-
1 विषयः अग्नीषोमीयसवनस्थास्तुल्यविधयो यदि
3 पूर्वपक्षः प्रास्मा इति तदा मन्त्रे पत्नीन्यायेन नोहनम्
अग्निष्ठोमोक्थ्यषोडश्यतिरात्ररूपासु ज्योतिष्टोमस्य संस्थास्वेकोत्तरवृद्ध्या सवनीयाः पशव आम्नाताः- ''आग्नेयः पशुरग्निष्टोम आलभ्यः। ऐन्द्राग्न उक्थ्ये द्वितीयः। ऐन्द्रो वृष्णिः षोडशिनि तृतीयः। सारस्वती मेष्यतिरात्रे चतुर्थी'' इति। त एते सवनीयपशवोऽग्नीषोमीयपशुना समानविधयः, न तु तद्विकृतयः- इति कस्यचित्पूर्वपक्षिणो मतम्। तदेवाभ्युपगम्य कृत्वाचिन्ता क्रियते। अध्रिगुप्रैषमन्त्रे ''प्रास्मा अग्निं भरता'' इति वाक्ये पुंलिङ्गचतुर्थ्येकवचनान्त इदं शब्दः पठितः। तस्य मेष्यां स्त्रीलिङ्गतया नास्त्यूहः, इति प्रथमपादे निर्णीतम्। इह त्वेकवचनस्य पशुद्वित्वबहुत्वयोः पत्नीशब्दवत्पूर्वोत्तरपक्षौ द्रष्टव्यौ। अर्थानुसारेण द्विवचनबहुवचनयोरूहः। इति पूर्वः पक्षः। उपदेशस्य साधारणत्वेन सर्वत्र समवेतार्थयोः प्रातिपदिकविभक्त्योरेव विवक्षितत्वेनैकवचनस्याविवक्षितत्वात्, कथंचिद्विवक्षितत्वेऽपिच्छान्दसेन वचनव्यत्ययेन द्व्यर्थबह्वर्थवाचित्वान्नास्त्यूहः। इति राद्धान्तः।
4 सिद्धान्तः परमार्थतस्तु सवनीयपशूनामग्नीषोमीयविकृतित्वादस्त्येव लिङ्गवचनयोः पाशन्यायेनोहः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे द्विपत्नीकविकृतियागेऽपि 'पत्नीं संनह्य' इति मन्त्रस्यानूहाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न च एवं पाशेऽप्यूहो मा भूदिति शङ्कनीयम् प्रकृतावेकवचनबहुवचनयोरेकस्मिन्नेव पाशे वैहिकप्रयोगदर्शनात् द्विंत्वे तदभावात् तस्मात्- पाशस्योहो विकृतौ, न तु पत्नीशब्दस्य”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.3.9
नवमे नीवाराणां व्रीहिप्रतिनिधित्वे मन्त्रे व्रीहिशब्दस्यानूहाधिकरणे सूत्राणि 23-26
SŪ प्रतिनिधौ चाविकारात्।। 23।।
SŪ अनाम्नानादशब्दत्वमभावाच्चेतरस्य स्यात्।। 24।।
SŪ तादर्थ्याद्वा तदाख्यं स्यात्संस्कारैरविशिष्टत्वात्।। 25।।
SŪ उक्तं च तत्त्वमस्य।। 26।।
नवमाधिकरणमारचयति-
1 विषयः व्रीहिप्रतिनिधावूहो व्रीहीणामिति नास्ति वा
3 पूर्वपक्षः अर्थादूहो न सादृश्यादंशानां साधनत्वतः
श्रुतस्य द्रव्यस्यापचारे भूयोवयवसामान्योपेतं द्रव्यान्तरं तस्य प्रतिनिधिर्भवति। तद्यथा व्रीहीणामपचारे नीवारास्तेषां स्थाने निविशन्ते। तदेतत्षष्ठेऽध्यायेऽवस्थितम्। प्रतिनिहितेषु नीवारेषु ''व्रीहीणां मेध'' इत्ययं मन्त्र ऊहितव्यः। कुतः- अर्थानुसारात्। इति चेत्-
4 सिद्धान्तः मैवम् नैवारचरौ नीवाराणां साधनत्वेन विहितानां व्रीहिस्थानीयतया नवति मन्त्रस्योहः इह तु न नीवाराः साधनत्वेन विहिताः, किंतु भूयोवयवसादृश्यद्वारा प्राप्यन्ते ततोऽवयवानामेव साधनत्वम् तथा सति व्रीह्यवयवेष्वविकारेण यथा व्रीहिशब्दः, तथा नीवारावयवेष्वपि प्रवृत्तेर्नास्त्यूहः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे सवनीयपशूनामग्नीषोमीयसमानविधानत्वे 'प्रास्मै,अग्निम्' इति मन्त्रेऽनूहाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “परमार्थतस्तु सवनीयपशूनामग्नीषोमीयविकृतित्वादस्त्येव लिङ्गवचनयोः पाशन्यायेनोहः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.3.10
दशमे द्विपशुयागे 'सूर्यं चक्षुर्गमयतात्' इतिमन्त्राणामनूहाधिकरणे सूत्रे 27-28
SŪ संसर्गिषु चार्थस्यास्थितपरिमाणत्वात्।। 27।।
SŪ लिङ्गदर्शनाच्च।। 28।।
3 पूर्वपक्षः अग्नीषोमीयपशावध्रिगुप्रैषे पशुसंबन्धिनां सूर्यादिसंसर्ग आम्नायते ''सूर्यं चक्षुर्गमयतात्। वातं प्राणमन्ववसृजतात्। दिशः श्रोत्रम्'' इत्यादि। ''मैत्रं श्वेतमालभेत। वारुणं कृष्णम्'' इति विहितयोर्द्वयोः पश्वोर्मन्त्रगताश्चक्षुरादिशब्दा द्विवचनान्तत्वेनोहनीयाः। कुतः- पशुभेदेन चक्षुरादीनां भिन्नत्वात्। इति चेत्- मैवम्। न खल्वत्रेन्द्रियाधिष्ठानं शरीरगतं गोलकं चक्षुःशब्देन विवक्षितम्। तद्विवक्षायामेकस्मिन्नपि पशौ गोलकभेदादेकवचनान्तचक्षुःशब्दस्यानन्वयप्रसङ्गात्। गोलकस्य सूर्यादिप्राप्त्यसंभवाच्च। यत्तु रूपदर्शनादिसामर्थ्यलक्षणं तेजोमात्रम्, तदत्र चक्षुरादिशब्दैर्विवक्षितम्। तच्च पश्वनेकत्वेऽपि ततो निर्गत्य सूर्यादावेकीभूतत्वात्समुद्रप्रविष्टनदीवन्न भेदेनावतिष्ठते। तस्मात्- नास्त्यूहः।। 12।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे नीवाराणां व्रीहिप्रतिनिधित्वे मन्त्रे व्रीहिशब्दस्यानूहाधिकरणे सूत्राणि 23-26”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् नैवारचरौ नीवाराणां साधनत्वेन विहितानां व्रीहिस्थानीयतया नवति मन्त्रस्योहः इह तु न नीवाराः साधनत्वेन विहिताः, किंतु भूयोवयवसादृश्यद्वारा प्राप्यन्ते ततोऽवयवानामेव साधनत्वम् तथा सति व्रीह्यवयवेष्वविकारेण यथा व्रीहिशब्दः, तथा नीवारावयवेष्वपि प्रवृत्तेर्नास्त्यूहः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.3.11
एकादशे द्विपशुयागे, अध्रिगुप्रैषे 'एकधा' इत्यस्य शब्दस्याभ्यासाधिकरणे सूत्राणि 29-31
SŪ एकधेत्येकसंयोगादभ्यासेनाभिधानं स्यात्।। 29।।
SŪ अविकारो वा बहूनामेककर्मवत्।। 30।।
SŪ सकृत्त्वं त्वैकध्यं स्यादेकल्पत्वात्त्वचोऽनभिप्रेतं तत्प्रकृतित्वात्परेष्वभ्यासेन विवृद्धावभिधानं स्यात्।। 31।।
एकादशाधिकरणमारचयति-
1 विषयः आद्यो मैवं प्राकृतस्य सकृत्त्वस्योचितत्वतः
3 पूर्वपक्षः एकधेत्यविकारः स्यादभ्यासो वा सहत्वतः। तस्मिन्नेवाध्रिगुप्रैषे श्रूयते ''एकधाऽस्य त्वचमाच्छ्यतात्'' इति। छिन्धीत्यर्थः। तत्र द्वयोः पश्वोरेकधेत्यस्य शब्दस्य नास्ति विकारः। कुतः- तस्य शब्दस्येह सहत्ववाचित्वात्। 'एकधा गाः पाययति' इत्यत्र यौगपद्ये प्रयोगदर्शनात्। पश्वनेकत्वेऽपि त्वगुत्पाटनस्यैककालीनत्वं बहुपुरुषकर्तृकस्य घटते। इति प्राप्ते
4 सिद्धान्तः ब्रूमः- प्रकृतावेकस्मिन्पशौ यौगपद्यलक्षणोऽर्थो न संभवति ततः सकृत्वं तस्य शब्दस्यार्थः त्वगियमवयवशो बहुकृत्वो न च्छेत्तव्या, किंतु सर्वाऽपि सकृदेकप्रयत्नेनेत्युक्तं भवति यत्प्रकृतौ सकृत्वं, तदेव विकृतावुचितम् ततः प्रतिपशु सकृत्त्वमभिधातुम् 'एकधा' इत्ययं मन्त्रोऽभ्यसितव्यः
-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे द्विपशुयागे 'सूर्यं चक्षुर्गमयतात्' इतिमन्त्राणामनूहाधिकरणे सूत्रे 27-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.3.12
द्वादशे द्विपश्वादिपशुविकृतौ मेधपतिशब्दस्य देवतानुसारेणोहाधिकरणे सूत्राणि 32-40
SŪ मेधपतित्वं स्वामिदेवतस्य समवायात्सर्वत्र च प्रयुक्तत्वात्, तस्य चान्यायनिगदत्वात्, सर्वत्रैवाधिकारः स्यात्।। 32।।
SŪ अपि वा द्विसमवायोऽर्थान्यत्वे यथासंख्यं प्रयोगः स्यात्।। 33।।
SŪ स्वामिनो वैकशब्द्यादुत्कर्षो देवतायां स्यात्पत्न्यां द्वितीयशब्दः स्यात्।। 34।।
SŪ देवता तु तदाशीष्ट्वात्संप्राप्तत्वात्स्वामिन्यनर्थिका स्यात्।। 35।।
SŪ उत्सर्गाच्च भक्त्या तस्मिन्पतित्वं स्यात्।। 36।।
SŪ उत्कृष्येतैकसंयुक्तो द्विदेवते संभवात्।। 37।।
SŪ एकस्तु समवायात्तस्य तल्लक्षणत्वात्।। 38।।
SŪ संसर्गित्वाच्च तस्मात्तेन विकल्पः स्यात्।। 39।।
SŪ एकत्वेऽपि गुणानपायात्।। 40।।
द्वादशाधिकरणमारचयति-
1 विषयः अविकारो विकारो वा स्यान्मेधपतिशब्दयोः विकारे स्वामिदेवार्थ एकार्थो वाऽन्तिमेऽपि किम्
2 संशयः तत्र- एकवचनान्तस्य मेधपतिशब्दस्य द्विवचनान्तस्य च बहुपशुयुक्तासु विकृतिष्वनूहः, ऊहो वा, इति संशयः।
3 पूर्वपक्षः स्वाम्यर्थो देवतार्थो वा स्यादन्याय्यत्वतोऽग्रिमः अर्थभेदाद्विकारोऽत्र द्वावर्थौ शब्दयोर्द्वयोः
ऊहपक्षेऽपि किमेकवचनान्तस्य यजमानोऽर्थः, द्विवचनान्तस्याग्नीषोमौ देवते इत्येवमर्थभेदः। किंवा शब्दद्वयस्यैक एवार्थ इति संशयः। एकार्थत्वपक्षेऽपि यजमान एवार्थः, देवतैव वा, इति संशयः। तत्र- अग्नीषोमीये पशौ यजमानः, अग्नीषोमौ च, इति त्रयो मेधस्य पतयः, तेष्वेकवचनस्य द्विवचनस्य वाऽन्याय्यनिगदत्वेन प्रकृतावविवक्षितस्य वचनस्य विकृतावनूहः। इत्याद्यः पक्षः। प्रकृतौ समवेतार्थत्वे संपादयितुं शक्ये सत्यन्याय्यनिगदत्वाभावाद्विकृतावूहः कर्तव्यः। इति द्वितीयः पक्षः। अस्मिन्द्वितीयपक्षेऽपि प्रकृतावुपन्यस्तप्रकारेणार्थभेदाद्विकृतिषु बहुयजमानयुक्तास्वहीनादिषु यजमानानुसारेणैकवचनान्त ऊहनीयः। अनेकपशुयुक्तासु विकृतिषु देवतानुसारेण द्विवचनान्त ऊहनीयः। सोऽयं शाखाविकल्पेन प्रथमः पक्षः। शाखाभेदेन पाठभेदेऽपि मन्त्रभेदाभावादर्थभेदो न युक्तः। किंतु- एक एवार्थः। इति पक्षान्तरम्। तदपि देवतायाः संप्रदानत्वेन स्वामित्वाभावान्मेधपतिशब्दयोग्यता नास्तीति यजमान एव तच्छब्दार्थः। तस्मिंश्च यजमाने स्वत एकत्वम्, जायया सह द्वित्वम्। इत्येकवचनद्विवचने उभे अपि समवेतार्थे। ततो यजमानद्वयोपेतायां विकृतावेकवचनान्तो द्वित्वेनोहनीयः। द्विवचनान्तो बहुत्वेन। इति पूर्वः पक्षः। मेधस्य यजमानार्थत्वं नैवाशासनीयम्। तस्य सिद्धत्वात्। देवतार्थत्वं त्वाशासनीयम्। ततो मेधमाशासाना इत्येतद्देवतायां समवेतार्थम्। संप्रदानस्याप्युद्देश्यत्वेन प्राधान्यान्मेधपतित्वमविरुद्धम्, देवताकारेणैकत्वादग्नित्वसोमत्वाकारेण द्वित्वाच्चैकवचनद्विवचने उपपन्ने। तस्मात्- देवतानुसारेण विकृतावूहः। इति राद्धान्तः।। 14।। 15।। 16।।
4 सिद्धान्तः मन्त्रैक्यादर्थ एकोऽत्र स्वाम्यस्मिञ्जायया द्विता देवार्थाशीर्देव एकोऽधिष्ठाने द्वे द्विधेरणम्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे द्विपशुयागे, अध्रिगुप्रैषे 'एकधा' इत्यस्य शब्दस्याभ्यासाधिकरणे सूत्राणि 29-31”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- प्रकृतावेकस्मिन्पशौ यौगपद्यलक्षणोऽर्थो न संभवति ततः सकृत्वं तस्य शब्दस्यार्थः त्वगियमवयवशो बहुकृत्वो न च्छेत्तव्या, किंतु सर्वाऽपि सकृदेकप्रयत्नेनेत्युक्तं भवति यत्प्रकृतौ सकृत्वं, तदेव विकृतावुचितम् ततः प्रतिपशु सकृत्त्वमभिधातुम् 'एकधा' इत्ययं मन्त्रोऽभ्यसितव्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.3.13
त्रयोदशे बहुदैवत्ये पशावप्येकवचनान्तमेधपतिशब्दस्य विकल्पाधिकरणे सूत्रे 41-42
SŪ नियमो बहुदेवते विकारः स्यात्।। 41।।
SŪ विकल्पो वा प्रकृतिवत्।। 42।।
त्रयोदशाधिकरणमारचयति-
1 विषयः आदित्येष्वेकवाच्येष ऊह्यो नो वोह्यतेऽन्यवत्
3 पूर्वपक्षः गणार्थत्वादनूहोऽतो विकल्पः प्रकृताविव
प्रजापशुसंपत्तिकामस्य बहुदैवत्यः पशुराम्नायते- ''यः कामयेत प्रथेय पशुमिः प्र प्रजया जायेय- इति, स एतामविं वशामादित्येभ्यः कामायालभेत'' इति। वशा बन्ध्या। कामाय कामुकेभ्य इत्यर्थः। अत्र- चोदकप्राप्तो 'मेधपतये' इत्येकवचनान्तः शब्द आदित्यानां बहुत्वाद्बहुवचनान्तत्वेनोहनीयः। यथा 'मेधपतिभ्याम्' इति द्विवचनान्त ऊह्यते। यथा वा 'पाशः' इत्येकवचनान्त ऊह्यते। तद्वत्। इति चेत्-
4 सिद्धान्तः मैवम् प्रकृतावग्नीषोमयोर्गणैकत्वमेकवचनान्तो ब्रूते आदित्यानामपि गणैकत्वं समानमित्यनूहः तस्मात्- अविकृत एकवचनान्त इतरेण सह प्रकृताविवात्रापि विकल्प्यते
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे द्विपश्वादिपशुविकृतौ मेधपतिशब्दस्य देवतानुसारेणोहाधिकरणे सूत्राणि 32-40”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मन्त्रैक्यादर्थ एकोऽत्र स्वाम्यस्मिञ्जायया द्विता देवार्थाशीर्देव एकोऽधिष्ठाने द्वे द्विधेरणम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.3.14
चतुर्दशे- एकादशिन्यामेकवचनान्तमेधपतिशब्दस्योहाधिकरणे सूत्रम्
SŪ अर्थान्तरे विकारः स्याद्देवतापृथक्त्वादेकाभिसमवायात्स्यात्।। 43।।
चतुर्दशाधिकरणमारचयति-
1 विषयः कृष्णग्रीवादिके नोह ऊहो वाऽस्य न पूर्ववत् देवत्वं न गणस्यात ऊहो बह्वभिधित्सया
3 पूर्वपक्षः मैवम् वैषम्यात् आदित्यगणस्य तत्र देवत्वम्, इह त्वेकैकस्य पृथग्देवत्वम् अतो बहून्देवानभिधातुं बहुवचनान्तत्वमूहनीयम्
यूपैकादशिन्यामग्न्यादिदेवताकाः पशव आम्नाताः- ''प्रैवाग्नेयेन वापयति। मिथुनं सारस्वत्या करोति। रेतः सौम्येन दधाति। प्रजनयति पौष्णेन'' इत्यादिना। ते च स्वनामभिरन्यत्राम्नाताः ''आग्नेयः कृष्णग्रीवः। सारस्वती मेषी। बभ्रुः सौम्यः। पौष्णः श्यामः'' इत्यादिना। तत्र- अस्यैकवचनान्तस्य मेधपतिशब्दस्यादित्येष्विव नोहः। इति चेत्- अत्र पादे- अधिकरणानि 14, सूत्राणि 43। आदितः- अधिकरणानि 581, सूत्राणि 1693। नवमाध्यायस्य चतुर्थः पादः मन्त्रोहप्रसङ्गापतितो विचारः।
4 सिद्धान्तः इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे नवमाध्यायस्य तृतीयः पादः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे बहुदैवत्ये पशावप्येकवचनान्तमेधपतिशब्दस्य विकल्पाधिकरणे सूत्रे 41-42”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रकृतावग्नीषोमयोर्गणैकत्वमेकवचनान्तो ब्रूते आदित्यानामपि गणैकत्वं समानमित्यनूहः तस्मात्- अविकृत एकवचनान्त इतरेण सह प्रकृताविवात्रापि विकल्प्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
Set from the transmitted text; four limbs are the source, the fifth is inferred and marked.
Sanātana Guru Sampradāya Pratiṣṭhānam, Mysore · sarvaveda.info