SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 8, Pāda 4

विशेषातिदेशः

दर्विहोमेष्वतिदेशोऽपोद्यते

5adhikaraṇas
28sūtras
8.4.1 प्रथमे- दर्विहोमस्य कर्मनामधेयताधिकरणे सूत्रम्
दर्विहोमो यज्ञाभिधानं होमसंयोगात्।। 1।।
चतुर्थपादे प्रथमाधिकरणमारचयति-

1विषयः

दर्विहोमो गुणो नाम वा गुणो दधिहोमवत्

3पूर्वपक्षः

गुणासंभवतो लोकवेदयोर्नाम तद्भवेत्
इदमाम्नायते- ''यदेकया जुहुयाद्दर्विहोमं कुर्यात्'' इति। तत्र 'दर्व्या होमो दर्विहोमः' इति तृतीयासमासे सति 'दध्ना जुहोति' इत्यादाविवहोमानुवादेन गुणविधित्वसंभवाद्दर्व्याख्यो गुणो विधीयते। इति चेत्-

4सिद्धान्तः

मैवम्
न तावल्लोके स्थालीपाकाष्टकादिहोमे दर्विगुणोऽपि विधातुं शक्यः
लौकिकशिष्टाचारादेव तत्र साधनप्राप्तेः
नापि वेदसिद्धाग्निहोत्रनारिष्ठादिहोमे, तत्र विहितजुह्वादिबाधप्रसङ्गात्
तस्मात् 'दर्विहोमः' इति कर्मनामधेयम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “दर्विहोमेष्वतिदेशोऽपोद्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- गायत्रीषूत्पत्तिगायत्रीणामतिदेशाधिकरणे सूत्राणि 12-36”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरेऽष्टमाध्यायस्य तृतीयः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.4.2 द्वितीये- दर्विहोमस्य लौकिकवैदिकोभयकर्मनामधेयताधिकरणे सूत्रे 2-3
स लौकिकानां स्यात्कर्तुस्तदाख्यत्वात्।। 2।।
सर्वेषां वा दर्शनाद्वास्तुहोमे।। 3।।
द्वितीयाधिकरणमारचयति-

1विषयः

लौकिकस्योत सर्वस्य नामाद्योऽम्बष्ठवाक्यतः

3पूर्वपक्षः

निमित्तसाम्याद्वेदेऽपि तदुक्तेः सर्वनाम तत्
''अम्बष्ठानां दार्विहोमिको ब्राह्मणः'' इति स्मृतावम्बष्ठस्वामिके स्मार्तहोमे तत्प्रयोगाल्लौकिकस्यैव होमस्य तन्नाम। इति चेत्-

4सिद्धान्तः

मैवम्
'दर्व्या होमो दर्विहोमः' इति प्रवृत्तिनिमित्तस्य लौकिकवैदिकयोः समानत्वात्
'दर्विहोमं कुर्यात्' इति श्रुत्यक्ते वैदिकहोमनामलिङ्गत्वाच्च सर्वस्यैव होमस्यैतन्नाम

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “दर्विहोमेष्वतिदेशोऽपोद्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- दर्विहोमस्य कर्मनामधेयताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् न तावल्लोके स्थालीपाकाष्टकादिहोमे दर्विगुणोऽपि विधातुं शक्यः लौकिकशिष्टाचारादेव तत्र साधनप्राप्तेः नापि वेदसिद्धाग्निहोत्रनारिष्ठादिहोमे, तत्र विहितजुह्वादिबाधप्रसङ्गात् तस्मात् 'दर्विहोमः' इति कर्मनामधेयम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.4.3 तृतीये- दर्विहोमशब्दस्य होमनामधेयताधिकरणे सूत्रम्
जुहोतिचोदनायां वा तत्संयोगात्।। 4।।
तृतीयाधिकरणमारचयति-

1विषयः

यजतेरपि नाम स्याज्जुहोतेरेव वाऽग्रिमः

3पूर्वपक्षः

अविशेषेण मुख्यत्वाज्जुहोतेर्लक्षणाऽन्यथा
तन्नाम जुहोतिचोदनानां यजतिचोदनानां च भवितुमर्हति। कुतः- विशेषाश्रवणात्। इति चेत्-

4सिद्धान्तः

मैवम्
जुहोतिचोदनासु होमशब्दस्य मुख्यत्वात्
यजतिचोदनानां तन्नामत्वे लक्षणा स्यात्
तस्मात्- जुहोतिचोदनानामेव नाम

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “दर्विहोमेष्वतिदेशोऽपोद्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- दर्विहोमस्य लौकिकवैदिकोभयकर्मनामधेयताधिकरणे सूत्रे 2-3”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'दर्व्या होमो दर्विहोमः' इति प्रवृत्तिनिमित्तस्य लौकिकवैदिकयोः समानत्वात् 'दर्विहोमं कुर्यात्' इति श्रुत्यक्ते वैदिकहोमनामलिङ्गत्वाच्च सर्वस्यैव होमस्यैतन्नाम”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.4.4 सिंहावलोकितन्यायेन पुनरपि प्रथमाधिकरणशेषभूतान्येव सूत्राणि 5-9
द्रव्योपदेशाद्वा गुणाभिधानं स्यात्।। 5।।
न लौकिकानामाचारग्रहणत्वाच्छब्दवतां चान्यार्थविधानात्।। 6।।
दर्शनाच्चान्यपात्रस्य।। 7।।
तथाऽग्निहविषोः।। 8।।
उक्तश्चार्थसंबन्धः।। 9।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “दर्विहोमेष्वतिदेशोऽपोद्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- दर्विहोमशब्दस्य होमनामधेयताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् जुहोतिचोदनासु होमशब्दस्य मुख्यत्वात् यजतिचोदनानां तन्नामत्वे लक्षणा स्यात् तस्मात्- जुहोतिचोदनानामेव नाम”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.4.5 चतुर्थे- दर्विहोमशब्दस्यापूर्वताधिकरणे सूत्राणि 10-28
तस्मिन्सोमः प्रवर्तेताव्यक्तत्वात्।। 10।।
न वा स्वाहाकारेण संयोगात्, वषट्कारस्य च निर्देशात्, तन्त्रे तेन विप्रतिषेधात्।। 11।।
शब्दान्तरत्वात्।। 12।।
लिङ्गदर्शनाच्च।। 13।।
उत्तरार्थस्तु स्वाहाकारो यथा साप्तदश्यं तात्राविप्रतिषिद्धा पुनःप्रवृत्तिर्लिङ्गदर्शनात्पशुवत्।। 14।।
अनुत्तरार्थो वाऽर्थवत्त्वात्, आनर्थक्याद्धि प्राथम्यस्योपरोधः स्यात्।। 15।।
न प्रकृतावपीति चेत्।। 16।।
उक्तं समवाये पारदौर्बल्यम्।। 17।।
तच्चोदनावेष्टेः प्रवृत्तित्वात्तद्विधिः स्यात्।। 18।।
शब्दसामर्थ्याच्च।। 19।।
लिङ्गदर्शनाच्च।। 20।।
तत्राभावस्य हेतुत्वाद्गुणार्थे स्याददर्शनम्।। 21।।
विधिरिति चेत्।। 22।।
न वाक्यशेषत्वाद्गुणार्थे च समाधानं नानात्वेनोपपद्यते।। 23।।
येषां वाऽपरयोर्होमः, तेषां स्यादविरोधात्।। 24।।
तत्रौषधानि चोद्यन्ते, तानि स्थानेन गम्येरन्।। 25।।
लिङ्गाद्वा शेषहोमयोः।। 26।।
प्रतिपत्ती तु ते भवतः, तस्मादतद्विकारत्वम्।। 27।।
संनिपाते विरोधिनामप्रवृत्तिः प्रतीयेत विध्युत्पत्तिव्यवस्थानादर्थस्यापरिणेयत्वाद्वचनादतिदेशः स्यात्।। 28।।
चतुर्थाधिकरणमारचयति-

3पूर्वपक्षः

जयाभ्याताननारिष्ठादिषु दर्विहोमेषूत्पत्तिवाक्ये देवताया अश्रवणादव्यक्तलिङ्गेन सोमधर्माः कर्तव्याः। इति चेत्-
मैवम्। सोमे श्रुतस्य यजतिलिङ्गस्यात्राभावात्। किंच ''पृथिव्यै स्वाहा। अन्तरिक्षाय स्वाहा'' इति दर्विहोममन्त्रेषु स्वाहाकार आम्नातः। स च सोमविध्यन्तातिदेशे विरुध्येत। तेन स्वाहाकारविरोधिनो वषट्कारस्य प्राप्यमाणत्वात्। किंचोदाहृतैर्मन्त्रगतचतुर्थ्यन्तैः पदैर्देवतासमर्पणान्नास्त्यव्यक्तत्वम्। तस्मात्- दर्विहोमानामपूर्वकर्मत्वान्नास्ति तत्र कस्यापि विध्यन्तस्यातिदेशः।। 4।।
अत्र पादे- अधिकरणानि 4, सूत्राणि 28।
आदितः- अधिकरणानि 529, सूत्राणि 1531।
नवमोऽध्याययस्य प्रथमः पादः
उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः।
अष्टमनवमयोरध्याययोरनेन पूर्वोत्तरभाव उपजीव्योपजीवकरूपेणोपन्यस्तः। मन्त्रसामसंस्कारेष्वतिदिष्ट-पदार्थेषु यत्रास्त्यूहः, यत्र च नास्ति, तदुभयमत्र विचार्यम्। ऊहस्य लक्षणमेवमाहुः-
प्राकृतस्थानपतितपदार्थान्तरकार्यतः। ऊहः प्रयोगो विकृत ऊह्यमानतयोदितः।। इति।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “दर्विहोमेष्वतिदेशोऽपोद्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सिंहावलोकितन्यायेन पुनरपि प्रथमाधिकरणशेषभूतान्येव सूत्राणि 5-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 8, Pāda 3 Contents Adhyāya 9, Pāda 1 →