SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 8, Pāda 3

विशेषातिदेशः

प्रबलेन लिङ्गेनातिदेशः। तद्यथा- आभिचारिकेष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयस्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः। प्रबलं च द्विदैवत्यत्वम्। शब्दोच्चारणमात्रेण सहसा प्रतिभासात्। क्रमस्तु विलम्बितप्रतीत्या दुर्बलः

6adhikaraṇas
36sūtras
8.3.1 प्रथमे- शुचिदेवक आग्नेयस्य, आग्नावैष्णवे चाग्नीषोमीयस्य, धर्मातिदेशाधिकरणे सूत्रे 1-2
हविर्गणे परमुत्तरस्य देशसामान्यात्।। 1।।
देवतया वा नियम्येत शब्दवत्त्वादितरस्याश्रुतित्वात्।। 2।।
तृतीयपादे प्रथमाधिकरणमारचयति-

1विषयः

आग्नावैष्णव आग्नेयविकृतिः शुचिदेवकः
अग्नीषोमीयविकृतिरथवा व्यत्ययो द्वयोः

3पूर्वपक्षः

प्रथमत्वद्वितीयत्वसाम्यादाद्योऽन्तिमो भवेत्
द्विदेवत्वैकदेवत्वसाम्यस्य श्रुतिमत्त्वतः
हविर्गणः क्वचिच्छ्रूयते ''आग्नावैष्णवमेकादशकपालं निर्वपेत्। सरस्वत्यैचरुम्। बार्हस्पत्यं चरुम्'' इति। गणान्तरं चैवमाम्नायते ''अग्नये पावकाय, अग्नये शुचयेऽष्टाकपालम्'' इति। तत्र-आग्नावैष्णवस्य प्रथमस्थानत्वादाग्नेयविकृतित्वं युक्तम्। शुचिदेवकस्य द्वितीयस्थानत्वादग्नीषोमीयविकृतित्वम्। इति चेत्-

4सिद्धान्तः

द्विदेवत्वादिसाम्यस्य श्रूयमाणत्वेनार्थसिद्धस्थानतो बलीयस्त्वात्
तस्मादाग्नावैष्णवोऽग्रीषोमीयविकृतिः
शुचिदेवक आग्नेयविकृतिः।
1

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रबलेन लिङ्गेनातिदेशः। तद्यथा- आभिचारिकेष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयस्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः। प्रबलं च द्विदैवत्यत्वम्। शब्दोच्चारणमात्रेण सहसा प्रतिभासात्। क्रमस्तु विलम्बितप्रतीत्या दुर्बलः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे पञ्चदशरात्रादिषु सत्रधर्मातिदेशाधिकरणे सूत्राणि 29-32”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरेऽष्टमाध्यायस्य द्वितीयः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.3.2 द्वितीये- जनकसप्तरात्रे त्रिवृत्स्वहःसु द्वादशाहधर्मातिदेशाधिकरणे सूत्राणि 3-5
गणचोदनायां यस्य लिङ्गं तदावृत्तिः प्रतीयेताग्नेयवत्।। 3।।
नानाहानि वा संघातत्वात्प्रवृत्तिलिङ्गेन चोदनात्।। 4।।
तथा चान्यार्थदर्शनम्।। 5।।
द्वितीयाधिकरणमारचयति-

1विषयः

त्रिवृत्स्वहःस्वादिमस्य द्वादशाहस्य वाऽग्रिमः

3पूर्वपक्षः

शाब्दत्रिवृत्त्वतोऽन्त्यः स्यादहःसंघानुसारतः
जनकसप्तरात्रे श्रूयते ''चत्वारि त्रिवृन्त्यहान्यग्निष्टोमाख्यानि'' इति। तत्र त्रिवृत्स्तोमविशिष्टं यत्प्रथममहः, तस्य विध्यन्त उत्तरेषु त्रिष्वहःसु कर्तव्यः। पूर्वन्यायेन शाब्दस्य त्रिवृत्त्वसामान्यस्य विद्यमानत्वात्। इति चेत्-
मैवम्। तदानीमेकस्यैवाह्नश्चतुरावृत्त्या चत्वार्यहानि न सिध्येयुः। किंच- 'अग्निष्टोममुख्यानि' इत्याद्यस्यैकस्यैवाग्निष्टोमत्वं विधीयते। त्वत्पक्षे तूत्तरेषामपि त्रयाणामग्निष्टोमत्वान्मुख(ख्य) शब्दो नोपपद्यते। ततो द्वादशाहस्य विध्यन्तो ग्राह्यः। द्वादशाहे पृष्ठ्ये षडहे त्रिवृत्, पञ्चदशः, सप्तदशः एकविंशः, इत्येतेषां चतुर्णामह्नां परस्परविलक्षणानां संघत्वयोग्यानां विध्यन्ते स्वीकृते सति नोक्तदोषद्वयम्।

4सिद्धान्तः

ननु पञ्चदशानां त्रिवृत्त्वमयुक्तमिति चेत्- न
वचनेन स्तोममात्रबाधात्
तद्व्यतिरिक्तस्तु विध्यन्तोऽतिदेष्टव्यः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रबलेन लिङ्गेनातिदेशः। तद्यथा- आभिचारिकेष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयस्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः। प्रबलं च द्विदैवत्यत्वम्। शब्दोच्चारणमात्रेण सहसा प्रतिभासात्। क्रमस्तु विलम्बितप्रतीत्या दुर्बलः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- शुचिदेवक आग्नेयस्य, आग्नावैष्णवे चाग्नीषोमीयस्य, धर्मातिदेशाधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न द्विदेवत्वादिसाम्यस्य श्रूयमाणत्वेनार्थसिद्धस्थानतो बलीयस्त्वात् तस्मादाग्नावैष्णवोऽग्रीषोमीयविकृतिः शुचिदेवक आग्नेयविकृतिः। 1”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.3.3 तृतीये-षट्त्रिंशद्रात्रे षडहधर्मातिदेशाधिकरणे सूत्रे 6-7
कालाभ्यासेऽपि बादरिः कर्मभेदात्।। 6।।
तदावृत्तिं तु जैमिनिरह्नामप्रत्यक्षसंख्यत्वात्।। 7।।
तृतीयाधिकरणमारचयति-

1विषयः

चत्वारः षडहा द्वादशाहस्य षडहस्य वा
चतुर्विंशतिसंघार्थमाद्योऽन्त्यः षडहश्रुतेः

3पूर्वपक्षः

षट्त्रिंशद्रात्रे श्रूयते ''षडहा भवन्ति चत्वारो भवन्ति'' इति। तत्र- अहः संज्ञकानां सोमयागानां संख्याविशेषः षडहपदान्तर्गतेन षट्शब्देनाभिधीयते। सा च षट्संख्या पुनश्चतुःसंख्यया विशिष्यमाणा चतुर्विंशतिसंख्याकानामह्नां संघे पर्यवस्यति। अहःसंघस्य च प्रकृतिर्द्वादशाहः। अतस्तल्लिङ्गस्य संघत्वस्य दर्शनात्तस्यैव विध्यन्तः प्रवर्तते। यदि सकृत्प्रवृत्त्या चतुर्विंशतिसंख्या न पूर्येत तर्हि यावत्पूर्ति सोऽभ्यस्यताम्। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- षट्भिरहोभिर्निष्पाद्यः कर्मविशेषः षडहशब्दवाच्यः। ते च कर्मविशेषाश्चत्वारः। तथा सति चतुर्विंशतिशब्दो नात्र शाब्दः। ततः शाब्दस्य षडहनामकस्य कर्मविशेषस्य विध्यन्तो न्याय्यः। यदि विलक्षणाः षडहाश्चत्वारो न स्युः, तर्ह्येक एव चतुरभ्यस्यताम्। त्वत्पक्षेऽपि द्वादशाहोऽभ्यस्यते। तस्मात्- षडहत्वविशेषलिङ्गात्तस्यैव विध्यन्तः।। 4।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रबलेन लिङ्गेनातिदेशः। तद्यथा- आभिचारिकेष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयस्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः। प्रबलं च द्विदैवत्यत्वम्। शब्दोच्चारणमात्रेण सहसा प्रतिभासात्। क्रमस्तु विलम्बितप्रतीत्या दुर्बलः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- जनकसप्तरात्रे त्रिवृत्स्वहःसु द्वादशाहधर्मातिदेशाधिकरणे सूत्राणि 3-5”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ननु पञ्चदशानां त्रिवृत्त्वमयुक्तमिति चेत्- न वचनेन स्तोममात्रबाधात् तद्व्यतिरिक्तस्तु विध्यन्तोऽतिदेष्टव्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.3.4 चतुर्थे- संस्थाशब्देषु द्वादशाहिकधर्मातिदेशाधिकरणे सूत्रे 8-9
संस्थागणेषु तदभ्यासः प्रतीयेत कृतलक्षणग्रहणात्।। 8।।
अधिकाराद्वा प्रकृतिस्तद्विशिष्टा स्यादभिधानस्य तन्निमित्तत्वात्।। 9।।
चतुर्थाधिकरणमारचयति-

1विषयः

शतोक्थ्ये ज्योतिषो यद्वा द्वादशाहस्य नामतः
आद्यः समाप्तिनामैतत्संघत्वादन्तिमो भवेत्

3पूर्वपक्षः

''शतोक्थ्यं भवति। शतातिरात्रं भवति। पञ्चाग्निष्टोमः पञ्चोक्थ्यः'' इत्यादयः श्रूयन्ते। तेषु ज्योतिष्टोमस्य विध्यन्तः कार्यः। कुतः- उक्थ्यः, षोडशी, अतिरात्रः, अग्निष्टोमः, इत्यादीनां ज्योतिष्टोमनामत्वात्। इति चेत्-
मैवम्। उक्थ्यादीनि स्तोत्राणि। तथा सति यस्य कर्मणः समाप्तिर्येन स्तोत्रेण क्रियते, तस्मिन्कर्मणि संस्थानिमित्तक उक्थ्यादिशब्दो वर्तते। ततो द्वादशाहगतेष्वहःसूक्थ्यादिनामसंभवात्संघत्वलिङ्गेन द्वादशाहस्य विध्यन्तो भवति। तत्र- आद्यन्तौ प्रायणीयोदयनीयौ वर्जयित्वा मध्यवर्तिनो दशरात्रस्य विध्यन्तो द्विरात्रादिविकृतिष्वतिदेष्टव्यः, इति दशमाध्याये वक्ष्यते। तथा सत्यत्र दशरात्रो दशकृत्वोऽभ्यस्यमानः प्रत्यहमुक्थ्यस्तोत्रेण समाप्यमानः शतोक्थ्यनामतामापद्यते। एवमितरत्रापि योज्यम्।। 5।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रबलेन लिङ्गेनातिदेशः। तद्यथा- आभिचारिकेष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयस्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः। प्रबलं च द्विदैवत्यत्वम्। शब्दोच्चारणमात्रेण सहसा प्रतिभासात्। क्रमस्तु विलम्बितप्रतीत्या दुर्बलः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये-षट्त्रिंशद्रात्रे षडहधर्मातिदेशाधिकरणे सूत्रे 6-7”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.3.5 पञ्चमे- शतोक्थ्यादौ ज्योतिष्टोमात्स्तोत्रोपचयाधिकरणे सूत्रे 10-11
गणादुपचयस्तत्प्रकृतित्वात्।। 10।।
एकाहाद्वा तेषां समत्वात्स्यात्।। 11।।
पञ्चमाधिकरणमारचयति-

1विषयः

शतोक्थ्यादौ स्तोत्रवृद्धिर्गणादेकाहतोऽथवा
आद्यो गणविकारत्वादन्त्योऽत्र स्तोत्रजन्मतः

3पूर्वपक्षः

पूर्वोदाहृते शतोक्थ्ये, शतातिरात्रे च स्तोत्रवृद्धिरपेक्षिता। तथा हि ज्योतिष्ठोमः सप्तसंस्थः। तत्राग्निष्टोमः प्रथमसंस्था। तत्र द्वादश स्तोत्राणि। प्रातःसवने बहिष्पवमानस्तोत्रमेकम्, चत्वार्याज्यस्तोत्राणि। माध्यंदिनसवने माध्यंदिनः पवमान एकं स्तोत्रम्, चत्वारि पृष्ठस्तोत्राणि। तृतीयसवने- आर्भवः पवमान एकं स्तोत्रम्, यज्ञायज्ञियसामसाध्यमग्निष्टोमस्तोत्रमपरम्, तेन स्तोत्रेणायं प्रकृतिरूपो यज्ञः संतिष्ठते। तद्विकृतिषु प्रथमायामग्निष्टोमस्तोत्रादूर्ध्वं त्रीण्युक्थ्यस्तोत्राणि भवन्ति। तैः सा विकृतिः संतिष्ठते। ततोऽप्यूर्ध्वं षोडशेन स्तोत्रेणान्या विकृतिः संतिष्ठते। एवं विकृत्यन्तरेषु द्रष्टव्यम्। तस्मात्- समाप्तिनिमित्तान्यग्निष्टोमोक्थ्यषोडश्यतिरात्रादिनामानि। एतदेवोपजीव्य पूर्वाधिकरणे द्वादशाहगतानामह्नामुक्थ्यादिनामसंभवात्तदीयदशरात्रविध्यन्तः शतोक्थ्यादावतिदिष्टः। तस्य च दशरात्रस्याद्यन्तौ द्वावग्निष्टोमौ। तथा सति दशकृत्वस्तदभ्यासे विंशतिरग्निष्टोमाः संपद्यन्ते। तेषामुक्थ्यत्वं संपादयितुं प्रत्यग्निष्टोममुक्थ्यनामकं स्तोत्रं वर्धनीयम्। अन्यथा शतोक्थ्यत्वं न स्यात्, किंत्वशीत्युक्थ्यत्वमेव स्यात्। एवं सति- अतिरात्रेऽपि प्रत्यहमतिरात्रत्वप्रयोजकं स्तोत्रं वर्धनीयम्। तत्र गणत्वेन द्वादशाहविकारत्वात्तदीयस्तोत्रातिदेशः। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- उक्थ्यादिस्तोत्राण्येकाहज्योतिष्टोम उत्पन्नानि। तस्मात्- एकाहाद्यथा द्वादशाहेऽतिदिश्यन्ते, तथा शतोक्थ्येऽप्येकाहादेवातिदिश्यन्ताम्। अन्यथा 'भिक्षुको भिक्षुकान्तराल्लिप्सते' इति न्याय आपतेत्। या त्वतिदेशपरम्परा तत्र तत्रोदाहृता, तत्र सर्वत्र प्रबलं लिङ्गमुपन्यस्तम्। इह तु गणत्वमहर्गतम्, न तु स्तोत्रगतम्। तस्मात्- द्वादशाहीयस्तोत्र गतान्विशेषानुपेक्ष्य तद्विशेषरहितानिस्तोत्राणि ज्योतिष्टोमादतिदेष्टव्यानि।। 6।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रबलेन लिङ्गेनातिदेशः। तद्यथा- आभिचारिकेष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयस्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः। प्रबलं च द्विदैवत्यत्वम्। शब्दोच्चारणमात्रेण सहसा प्रतिभासात्। क्रमस्तु विलम्बितप्रतीत्या दुर्बलः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- संस्थाशब्देषु द्वादशाहिकधर्मातिदेशाधिकरणे सूत्रे 8-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.3.6 षष्ठे- गायत्रीषूत्पत्तिगायत्रीणामतिदेशाधिकरणे सूत्राणि 12-36
गायत्रीषु प्राकृतीनामवच्छेदः प्रवृत्त्यधिकारात्, संख्यात्वादग्निष्टोमवदव्यतिरेकात्त-दाख्यत्वम्।। 12।।
तन्नित्यवच्च पृथक्सतीषु तद्वचनम्।। 13।।
न विंशतौ दशेति चेत्। 14।।
ऐकसंख्यमेव स्यात्।। 15।।
गुणाद्वा द्रव्यशब्दः स्यादसर्वविषयत्वात्।। 16।।
गोत्ववच्च समन्वयः।। 17।।
संख्यायाश्च शब्दवत्त्वात्।। 18।।
इतरस्याश्रुतित्वाच्च।। 19।।
द्रव्यान्तरे निवेशादुक्थ्यलोपैर्विशिष्टं स्यात्।। 20।।
अशास्त्रलक्षणत्वाच्च।। 21।।
उत्पत्तिनामधेयत्वाद्भक्त्या पृथक्सतीषु स्यात्।। 22।।
वचनमिति चेत्। 23।।
यावदुक्तम्।। 24।।
अपूर्वे च विकल्पः स्याद्यदि संख्याविधानम्।। 25।।
ऋग्गुणत्वान्नेति चेत्।। 26।।
तथा पूर्ववति स्यात्।। 27।।
गुणावेशश्च सर्वत्र।। 28।।
निष्पन्नग्रहणान्नेति चेत्।। 29।।
तथेहापि स्यात्।। 30।।
यदि वाऽविशये नियमः प्रकृत्युपबन्धाच्छब्देष्वपि प्रसिद्धः स्यात्।। 31।।
दृष्टः प्रयोग इति चेत्।। 32।।
तथा शरेष्वपि।। 33।।
भक्त्येति चेत्।। 34।।
तथेतरस्मिन्।। 35।।
अर्थस्य चासमाप्तत्वान्न तासामेकदेशे स्यात्।। 36।।
षष्ठाधिकरणमारचयति-

1विषयः

अहर्गायत्रमित्यत्र वर्णलोप ऋचोऽथवा
आद्यः संख्योक्तितो मैवं गद्यादौ तत्प्रसङ्गतः

3पूर्वपक्षः

मैवम्
अतिप्रसङ्गात्
कविभिर्निर्मिते गद्ये, तत्तद्देशीयभाषासु च तथाक्षरसंख्यया गायत्रीत्वं केन वार्येत
तस्मात्- दशतय्यामुत्पन्नासु चतुर्विंशत्यक्षरास्वृक्षुवर्तमानः कश्चिदवान्तरजातिविशेषस्तत्प्रवृत्तिनिमित्तम्
तस्मात्- तासामृचामागमः कर्तव्यः
''वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत'' इति श्रुतम्। तत्रेदमपरमाम्नातम्- ''गायत्रमेतदहर्भवति'' इति। तस्मिन्नेकाहे बृहस्पतिसवरूपे प्रकृतिभूताज्ज्योतिष्टोमान्नानाछन्दांसि त्रिष्टुबादीन्यतिदिष्टानि। तेष्वधिकाक्षराणि विलोप्य चतुर्विंशत्यक्षराणि परिशेष्य गायत्रीत्वं संपादनीयम्। कुतः- ''चतुर्विंशत्यक्षरा गायत्री'' इत्यक्षरसंख्यायास्तच्छब्दप्रवृत्तिनिमित्तत्वश्रवणात्। इति चेत्-
अत्र पादे- अधिकरणानि 6, सूत्राणि 36।
आदितः- अधिकरणानि 525, सूत्राणि 1503।
अष्टमाध्यायस्य चतुर्थः पादः
दर्विहोमेष्वतिदेशोऽपोद्यते।

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरेऽष्टमाध्यायस्य तृतीयः पादः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रबलेन लिङ्गेनातिदेशः। तद्यथा- आभिचारिकेष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयस्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः। प्रबलं च द्विदैवत्यत्वम्। शब्दोच्चारणमात्रेण सहसा प्रतिभासात्। क्रमस्तु विलम्बितप्रतीत्या दुर्बलः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- शतोक्थ्यादौ ज्योतिष्टोमात्स्तोत्रोपचयाधिकरणे सूत्रे 10-11”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 8, Pāda 2 Contents Adhyāya 8, Pāda 4 →