SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 7, Pāda 4

सामान्यातिदेशः

निर्वापौषधद्रव्यादिलिङ्गातिदेशः

3adhikaraṇas
20sūtras
7.4.1 प्रथमे- सौर्ये चरावितिकर्तव्यतावत्त्वाधिकरणे सूत्रम्
इति कर्तव्यताविधेर्यजतेः पूर्ववत्त्वम्।। 1।।
चतुर्थपादे प्रथमाधिकरणमारचयति-

1विषयः

सौर्ये चरौ न धर्माः स्युः स्युर्वा, मानविवर्जनात्

3पूर्वपक्षः

न स्युः, स्युः करणं यागोऽपेक्ष्यते ह्युपकारिणः
''सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः'' इत्यत्रावघातादयो धर्मा न प्राप्यन्ते। कुतः- प्रापकप्रमाणानां श्रुतिलिङ्गादीनामभावात्। इति चेत्-

4सिद्धान्तः

मैवम्
'विमतो याग उपकरणापेक्षः, करणत्वात्, लौकिकवैदिकभोजनदर्शपूर्णमासवत्' इत्यनुमानेन तत्प्रापणात्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्वापौषधद्रव्यादिलिङ्गातिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- पृष्ठशब्दस्यर्ग्वेदवाचित्वाधिकरणे सूत्रे 35-36”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे सप्तमाध्यायस्य तृतीयः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.4.2 द्वितीये- सौर्ये चरौ वैदिकेतिकर्तव्यताधिकरणे सूत्राणि 2-12
स लौकिकः स्याद्दृष्टप्रवृत्तित्वात्।। 2।।
वचनात्तु ततोऽन्यत्वम्।। 3।।
लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात्।। 4।।
अपि वाऽन्यायपूर्वत्वाद्यत्र नित्यानुवादवचनानि स्युः।। 5।।
मिथो विप्रतिषेधाच्च गुणानां यथार्थकल्पना स्यात्।। 6।।
भागित्वात्तु नियम्येत गुणानामभिधानत्वात्संबन्धादभिधानवत्, यथा धेनुः किशोरेण।। 7।।
उत्पत्तीनां समत्वाद्वा यथाधिकारं भावः स्यात्।। 8।।
उत्पत्तिशेषवचनं च विप्रतिषिद्धमेकस्मिन्।। 9।।
विध्यन्तो वा प्रकृतिवच्चोदनायां प्रवर्तेत तथा हि लिङ्गदर्शनम्।। 10।।
लिङ्गहेतुत्वादलिङ्गे लौकिकं स्यात्।। 11।।
लिङ्गस्य पूर्ववत्त्वाच्चोदनाशब्दसामान्यादेकेनापि निरूप्येत यथा स्थालीपुलाकेन।। 12।।
द्वितीयाधिकरणमारचयति-

1विषयः

विध्यन्तोऽपेक्षितस्तत्र लौकिको वाऽथ वैदिकः

3पूर्वपक्षः

आद्यो निबन्धराहित्यादन्त्यो धीसंनिकर्षतः
तत्र सौर्ये चरावपेक्षितः प्रधानविधेः शेषोऽङ्गकलापः स्थालीपाकादिगतो लौकिको ग्रहीतव्यः। कुतः-अनिबद्धत्वात्। वैदिकस्तु प्रकरणेन कर्मविशेषे निबद्धः सन्न ततो वियोजयितुं शक्यः। इति चेत्-

4सिद्धान्तः

मैवम्
वैदिके करणे वैदिकविध्यन्तस्य बुद्धिसंनिकर्षात्
यथा प्रकरणेन क्वचिन्निबद्धः, तथा चोदकेनान्यत्रापि निबध्यताम्
किंच- ''प्रयाजे प्रयाजे कृष्णलं जुहोति'' इति सौर्ययागविशेषे कृष्णलहोमविधानाय सिद्धवत्प्रयाजोऽनूद्यते
तच्च वैदिकेतिकर्तव्यतायां लिङ्गम्
तस्मात्- वैदिको ग्राह्यः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्वापौषधद्रव्यादिलिङ्गातिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- सौर्ये चरावितिकर्तव्यतावत्त्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'विमतो याग उपकरणापेक्षः, करणत्वात्, लौकिकवैदिकभोजनदर्शपूर्णमासवत्' इत्यनुमानेन तत्प्रापणात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.4.3 तृतीये गवामयन ऐकाहिकेतिकर्तव्यतानुष्ठानाधिकरणे सूत्राणि 13-20
द्वादशाहिकमहर्गणे तत्प्रकृतित्वादैकाहिकमधिकागमात्तदाख्यं स्यादेकाहवत्।। 13।।
लिङ्गाच्च।। 14।।
न वा क्रत्वभिधानादधिकानामशब्दत्वम्।। 15।।
लिङ्गं संघातधर्मः स्यात्तदर्थापत्तेर्द्रव्यवत्।। 16।।
न वाऽर्थधर्मत्वात्संघातस्य गुणत्वात्।। 17।।
अर्थापत्तेर्द्रव्येषु धर्मलाभः स्यात्।। 18।।
प्रवृत्त्या नियतस्य लिङ्गदर्शनम्।। 19।।
विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थत्वात्।। 20।।
तृतीयाधिकरणमारचयति-

3पूर्वपक्षः

गवामयने- 'ज्योतिः, गौः, आयुः' इति ज्योतिरादिनामकास्त्रयो यागा विहिताः। तेषु द्वादशाहिकीतिकर्तव्यता युक्त। कुतः- अनुमितवाक्येन तत्प्रापणात्। 'गवामयनं हि द्वादशाहविकृतिः' इति वक्ष्यति। अतस्तत्संबन्धित्वलिङ्गेन तदीयधर्मपप्रापकश्चोदकोऽनुमीयते। इति प्राप्ते

4सिद्धान्तः

-
अत्र पादे- अधिकरणानि 3, सूत्राणि 20।
आदितः- अधिकरणानि 494, सूत्राणि 1392।
अध्यायश्च समाप्तः।
अष्टमोऽध्याये प्रथमः पादः
स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि।
अनेन सप्तमाष्टमयोरध्याययोः पूर्वोत्तरभाव उपपादितः। सप्तमस्य चतुर्थपादे प्रथमाधिकरणेन 'आनुमानिकवाक्यकृतोऽतिदेशोऽस्ति' इति सत्तामात्रं निरूपितम्। अष्टमे तु तद्विशेषा निरूप्यन्ते।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्वापौषधद्रव्यादिलिङ्गातिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- सौर्ये चरौ वैदिकेतिकर्तव्यताधिकरणे सूत्राणि 2-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् वैदिके करणे वैदिकविध्यन्तस्य बुद्धिसंनिकर्षात् यथा प्रकरणेन क्वचिन्निबद्धः, तथा चोदकेनान्यत्रापि निबध्यताम् किंच- ''प्रयाजे प्रयाजे कृष्णलं जुहोति'' इति सौर्ययागविशेषे कृष्णलहोमविधानाय सिद्धवत्प्रयाजोऽनूद्यते तच्च वैदिकेतिकर्तव्यतायां लिङ्गम् तस्मात्- वैदिको ग्राह्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 7, Pāda 3 Contents Adhyāya 8, Pāda 1 →