7.3.1
प्रथमे- अग्निहोत्रादिनाम्ना धर्मातिदेशाधिकरणे सूत्राणि 1-4
SŪउक्तं क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशः स्यात्।। 1।।
SŪअपूर्वे वाऽपि भागित्वात्।। 2।।
SŪनाम्नास्त्वौत्पत्तिकत्वात्।। 3।।
SŪप्रत्यक्षाद्गुणसंयोगात्क्रियाभिधानं स्यात्, तदभावेऽप्रसिद्धं स्यात्।। 4।।
तृतीयपादे प्रथमाधिकरणमारचयति-
1विषयः
मासं जुहोत्यग्निहोत्रमिति नामाग्निहोत्रतः
नित्यान्मासाग्निहोत्रेऽस्मिन्धर्माणां नातिदेशकम्
3पूर्वपक्षः
उतातिदेशकं नैव द्वयोर्नाम्नः समत्वतः
अग्नये होत्रमित्यस्य नित्ये संपादितत्वतः
कौण्डपायिनामयने श्रूयते ''मासमग्निहोत्रं जुहोति'' इति। तत्र- 'अग्निहोत्रम्' इत्येतन्नाम नित्याग्निहोत्रादस्मिन्मासाग्निहोत्रे धर्मानतिदेष्टुं नार्हति। कुतः- तस्य नाम्न उभयोरग्निहोत्रयोर्मुख्यवृत्त्या समानत्वात्। इति प्राप्ते-
4सिद्धान्तः
तत्र मुख्यं ततोऽन्यत्र गौणत्वस्य प्रसिद्धये
नित्याग्निहोत्रगान्धर्मांस्तन्नामातिदिशेदिह
ब्रूमः- 'अग्नये होत्रं यस्मिन्कर्मणि तदग्निहोत्रम्' इत्येतमवयवार्थं नित्याग्निहोत्रे संपाद्य तन्नामधेयत्वं प्रथमाध्याये (तत्प्रख्यं चान्यशास्त्रम् 1। 4। 4 इति सूत्रे) निर्णीतम्। अतस्तत्रैवायं शब्दो मुख्यः। न च उभयत्र मुख्यत्वं संभवति। अनेकार्थत्वस्यान्याय्यत्वात्। मुख्यत्वासंभवेन मासाग्निहोत्रे गुणयोगाद्वर्तितुं नित्याग्निहोत्रगुणानतिदिशति।। 1।। 2।। 3।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अग्निहोत्रनाम्नाऽतिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे रथंतरादिशब्दानां गानविशेषार्थताधिकरणे सूत्राणि 1-21”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.3.2
द्वितीये- प्रायणीयनाम्ना धर्मानतिदेशाधिकरणे सूत्रम्
SŪअपि वा सत्रकर्माण गुणार्थैषा श्रुतिः स्यात्।। 5।।
द्वितीयाधिकरणमारचयति-
1विषयः
गवामयन आद्येऽह्नि प्रायणीयेति नाम यत्
तद्द्वादशाहिकादह्नो धर्मानतिदिशेन्न वा
3पूर्वपक्षः
पूर्वन्यायेनातिदेशो नैवं प्रथमता द्वयोः
अह्नोस्तुल्येति मुख्यत्वं समं नातिदिशेदतः
द्वादशाहे प्रथमस्याह्नः 'प्रायणीयम्' इति नाम। तथा गवामयनेऽपि। तत्र- 'अग्निहोत्रनाम'(7। 3। 1 ) न्यायेनादिदेशः। इति चेत्-
4सिद्धान्तः
मैवम्
प्रायणीयशब्दप्रवृत्तिनिमित्तस्य प्राथम्यस्य द्वयोस्तुल्यत्वेनोभयत्र मुख्यत्वेऽप्यनेकार्थत्वप्रसङ्गाभावात्
'प्रारभ्यायते गच्छति प्रवर्तते कर्मानेन इति प्रायणीयम्'
अतो नैतन्नामधेयं धर्मानतिदेशति।
4
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अग्निहोत्रनाम्नाऽतिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- अग्निहोत्रादिनाम्ना धर्मातिदेशाधिकरणे सूत्राणि 1-4”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तत्र मुख्यं ततोऽन्यत्र गौणत्वस्य प्रसिद्धये नित्याग्निहोत्रगान्धर्मांस्तन्नामातिदिशेदिह”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.3.3
तृतीये- सर्वपृष्ठशब्देन षट्पृष्ठानामतिदेशाधिकरणे सूत्राणि 6-11
SŪविश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज्ज्यौतिष्टोमिकानि पृष्ठानि, अस्ति च पृष्ठशब्दः।। 6।।
SŪषडहाद्वा तत्र हि चोदनाः।। 7।।
SŪलिङ्गाच्च।। 8।।
SŪउत्पन्नाधिकारो ज्योतिष्टोमः।। 9।।
SŪद्वयोर्विधिरिति चेत्।। 10।।
SŪन व्यर्थत्वात्सर्वशब्दस्य।। 11।।
तृतीयाधिकरणमारचयति-
1विषयः
विश्वजित्सर्वपृष्ठः किमनुवादो रथंतरम्
बृहता वा समुच्चेयं यद्वा षाडहिकानि षट्
3पूर्वपक्षः
अतिदेश्यानि तत्राद्यो माहेन्द्रादिचतुष्टये
पृष्ठशब्दाच्चोदकेन सर्वेषामिह संभवात्
''विश्वजित्सर्वपृष्ठो भवति'' इति श्रूयते। तत्र सर्वपृष्ठशब्दोऽनुवादः। कुतः- प्राप्तत्वात्। तथा हि ज्योतिष्टोमे माध्यंदिनपवमानानन्तरभावीनि माहेन्द्रादीनि चत्वारि स्तोत्राणि सन्ति। ''अभि त्वा शूर नोनुमः'' ''कया नश्चित्र आभुवत्'' ''तं वो दस्ममृतीषहम्'' ''तरोभिर्वो विदद्वसु'' इत्येतेषु चतुर्षु सूक्तेषु तानि स्तोत्राणि सप्तदशस्तोमतामापाद्य गीयन्ते। एकस्मिन्सूक्ते विद्यमानानां तिसृणामृचां ब्राह्मणोक्तविधानेन सप्तदशधाभ्यासः सप्तदशस्तोमः। तादृशेषु स्तोत्रेषु पृष्ठशब्दः श्रूयते ''सप्तदशानि पृष्ठानि'' इति। तानि च चत्वारि पृष्ठानि विश्वजिति चोदकप्राप्तत्वात्सर्वपृष्ठशब्देनानूद्यन्ते- इत्येकः पक्षः।
रथंतरपृष्ठबृहत्पृष्ठयोर्ज्योतिष्टोमे विकल्पितयोरिहापि चोदकेन विकल्पप्राप्तौ सर्वशब्देन समुच्चयो विधीयते। तथा सति- अनुवादकृतं वैयर्थ्यं न भविष्यति- इति द्वितीयः पक्षः।
सर्वत्वं बहुषु मुख्यम्, न तु द्वयोः। तस्मात्- अनेन सर्वपृष्ठशब्देन षट्त्संख्यकानि पृष्ठान्यतिदिश्यन्ते। षडहे प्रतिदिनमेकैकं पृष्ठं विहितम्। तानि च षट्पृष्ठानि रथंतर-बृहत्-वैरूप-वैराज-शाक्वर-रैवत- सामभिर्निष्पाद्यानि। यद्यपि विश्वजित ऐकाहिकत्वाज्ज्योतिष्टोमविकृतित्वमेव, न षडहविकृतित्वम् तथाऽपि सर्वपृष्ठोक्तिबलात्तानि षट् पृष्ठान्यतिदिश्यन्ते।। 6।। 7।। 8।।
4सिद्धान्तः
समुच्चयो वा विषये सर्वत्वं बह्वपेक्षया
न तु द्वयोरतः षण्णां पृष्ठानामतिदेशनम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अग्निहोत्रनाम्नाऽतिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- प्रायणीयनाम्ना धर्मानतिदेशाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रायणीयशब्दप्रवृत्तिनिमित्तस्य प्राथम्यस्य द्वयोस्तुल्यत्वेनोभयत्र मुख्यत्वेऽप्यनेकार्थत्वप्रसङ्गाभावात् 'प्रारभ्यायते गच्छति प्रवर्तते कर्मानेन इति प्रायणीयम्' अतो नैतन्नामधेयं धर्मानतिदेशति। 4”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.3.4
चतुर्थे- अवभृथनाम्ना सौमिकधर्मातिदेशाधिकरणे सूत्राणि 12-15
SŪतथाऽवभृथः सोमात्।। 12।।
SŪप्रकृतेरिति चेत्। 13।।
SŪन भक्तित्वात्।। 14।।
SŪलिङ्गदर्शनाच्च।। 15।।
चतुर्थाधिकरणमारचयति-
1विषयः
निष्कासेन तुषैश्चावभृथं यन्तीत्यनूद्यते
नीरोत्सेकः कर्मणो वा विधिः सौमिकधर्मणः
3पूर्वपक्षः
यो दर्शपूर्णमासाभ्यां वारुण्यां चोदकागतः
व्युत्सेकोऽनूद्यतामेष मैवं कर्मणि सौमिके
वरुणप्रघासेषु श्रूयते ''वारुण्यानिष्कासेन तुषैश्चावभृथं यन्ति'' इति। निष्कासेन आमिक्षाया लोपः। ''प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम्'' इत्यादिमन्त्रैर्दर्शपूर्णमासयोर्दिक्षु सर्वास्वप उत्सिच्यन्ते। सोऽयं व्युत्सेको निष्कासविधानार्थमवभृथशब्देनामिक्षायागे चोदकप्राप्तोऽनूद्यते। अस्ति हि व्युत्सेकस्यावभृथत्वम्। ''एष वै दर्शपूर्णमासयोरवभृथः'' इति श्रुतत्वात्। इति प्राप्ते-
4सिद्धान्तः
मुख्यावभृथशब्दो यस्तत्सादृश्यविवक्षया
धर्मानतिदिशन्कर्म विधत्ते धर्मसंयुतम्
ब्रूमः- सौमिके कर्मण्यवभृथशब्दो मुख्यः। तस्य शब्दस्योद्भिदादिवद्विधेयक्रियासामानाधिकरण्येन नामधेयत्वात्। तत्रैव वैदिकप्रयोगबाहुल्याच्च। व्युत्सेके त्वप्संबन्धादुपचर्यते। न हि सौमिककर्मणीव व्युत्सेकेऽवभृथभावनामंशत्रयवतीं पश्यामः, येन तत्र मुख्यत्वमाशङ्क्येत। तस्मात्- सौमिककर्मवाचिनमवभृथशब्दं वरुणप्रघासप्रकरणे प्रयुञ्जान आम्नायो मासाग्निहोत्रन्यायेन सौमिकधर्मानतिदेशन्कर्मान्तरं तद्धर्मसंयुक्तं विधत्ते। न च विपर्ययेणात्रैव मुख्योऽवभृथोऽस्तु- इति शङ्कनीयम्। अपेक्षितस्य धर्मकलापस्यात्राभावात्। तस्मात्- सौमिकधर्मोपेतकर्मान्तरविधिः।। 9।। 10।। 11।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अग्निहोत्रनाम्नाऽतिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- सर्वपृष्ठशब्देन षट्पृष्ठानामतिदेशाधिकरणे सूत्राणि 6-11”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “समुच्चयो वा विषये सर्वत्वं बह्वपेक्षया न तु द्वयोरतः षण्णां पृष्ठानामतिदेशनम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.3.5
पञ्चमे- वारुणप्रघासिकावभृथस्य तुषनिष्कासद्रव्यकत्वाधिकरणे सूत्रम्
SŪद्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात्पुरोडाशस्त्वनादेशे तत्प्रकृतित्वात्।। 16।।
पञ्चमाधिकरणमारचयति-
1विषयः
तत्र द्रव्यं पुरोडाशस्तुषनिष्कासकावुत
प्राप्तोऽवभृथशब्देन पुरोडाशोऽतिदेशतः
3पूर्वपक्षः
तुषनिष्कासयोरत्र साक्षाच्छ्रुत्युपदेशतः
अतिदेशप्रापितस्य पुरोडाशस्य बाधनम्
4सिद्धान्तः
तत्र पूर्वोक्ते कर्मान्तरे धर्मातिदेशकेनावभृथशब्देन पुरोडाशोऽतिदिश्यते
अतिदेशश्चोपदेशाद्दुर्बलः
तस्मात्- तुषनिष्कासाभ्यां पुरोडाशो बाध्यते।
12
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अग्निहोत्रनाम्नाऽतिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- अवभृथनाम्ना सौमिकधर्मातिदेशाधिकरणे सूत्राणि 12-15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मुख्यावभृथशब्दो यस्तत्सादृश्यविवक्षया धर्मानतिदिशन्कर्म विधत्ते धर्मसंयुतम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.3.6
षष्ठे- वैष्णवशब्दादातिथ्ये धर्मानतिदेशाधिकरणे- सूत्रम्
SŪगुणविधिस्तु न गृह्णीयात्समत्वात्।। 17।।
षष्ठाधिकरणमारचयति-
1विषयः
वैष्णवे त्रिकपाले वैष्णवान्नवकपालतः
3पूर्वपक्षः
धर्मातिदेशः स्यान्नो वा विद्यतेऽत्राग्निहोत्रवत्
आतिथ्येष्टौ वैष्णवो नवकपालो विहितः। तत्र श्रुतो वैष्णवशब्दो राजसूयगते वैष्णवे त्रिकपाले प्रयुज्यमानोऽग्निहोत्र शब्दवन्नवकपालधर्मानतिदिशति। इति पूर्वः पक्षः।
'विष्णुर्देवताऽस्य' इति विग्रहे विहितस्तद्धितप्रत्ययो देवतामभिधत्ते, न तु धर्मान्। तस्मात्- नातिदिशति।
4सिद्धान्तः
श्रुत्या वैष्णवशब्दोऽयं देवताया विधायकः
न गौणवृत्तिमाश्रित्य धर्मानतिदिशत्यतः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अग्निहोत्रनाम्नाऽतिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- वारुणप्रघासिकावभृथस्य तुषनिष्कासद्रव्यकत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तत्र पूर्वोक्ते कर्मान्तरे धर्मातिदेशकेनावभृथशब्देन पुरोडाशोऽतिदिश्यते अतिदेशश्चोपदेशाद्दुर्बलः तस्मात्- तुषनिष्कासाभ्यां पुरोडाशो बाध्यते। 12”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.3.7
सप्तमे- निर्मन्थ्यादिशब्दैर्धर्मानतिदेशाधिकरणे- सूत्रम्
SŪनिर्मन्थ्यादिषु चैवम्।। 18।।
सप्तमाधिकरणमारचयति-
1विषयः
निर्मन्थ्येनेष्टकापाके बर्हिषाऽवटसंस्कृतौ
3पूर्वपक्षः
अतिदेशो न वाद्योऽस्तु धर्मार्थं तन्न पूर्ववत्
अग्नीषोमीयपशौ धर्मवान्निर्मन्थ्योऽग्निराम्नातः। स च निर्मन्थ्यशब्दोऽग्निचयन इष्टकापाके प्रयुक्तः ''निर्मन्थ्येष्टकाः पचन्ति'' इति। तथा दर्शपूर्णमासयोः सधर्मकं बर्हिराम्नातम्। स च बर्हिःशब्दः पशौ प्रयुक्तः ''बर्हिषा यूपावटमवस्तृणाति'' इति। तत्र- उभयत्र तद्रूपसिद्ध्यर्थमतिदेशः। इति चेत्-
4सिद्धान्तः
न
पूर्वोक्तवैष्णवशब्दवन्मुख्यया वृत्त्या विधिसंभवे धर्मलक्षकत्वायोगात्
अग्निमन्थनस्य बर्हिर्लवनस्य च लोकसिद्धत्वेन शास्त्रीयधर्माभावेऽपि लौकिकधर्मैरुभयं निष्पद्यते
तस्मात्- नास्त्यतिदेशः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अग्निहोत्रनाम्नाऽतिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- वैष्णवशब्दादातिथ्ये धर्मानतिदेशाधिकरणे- सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “श्रुत्या वैष्णवशब्दोऽयं देवताया विधायकः न गौणवृत्तिमाश्रित्य धर्मानतिदिशत्यतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.3.8
अष्टमे- प्रणयनशब्देन सौमिकधर्मानतिदेशाधिकरणे सूत्राणि 19-22
SŪप्रणयनं तु सौमिकमवाच्यं हीतरत्।। 19।।
SŪउत्तरवेदिप्रतिषेधश्च तद्वत्।। 20।।
SŪप्राकृतं वाऽनामत्वात्।। 21।।|
SŪपरिसंख्यार्थं श्रवणं गुणार्थमर्थवादो वा।। 22।।
अष्टमाधिकरणमारचयति-
1विषयः
सौमिकं प्राकृतं वा स्याद्द्वयोः प्रणयनं श्रुतम्
3पूर्वपक्षः
आद्योऽप्राप्तवतो मैवमनामत्वेन वादगीः
चातुर्मास्येषु श्रूयते ''द्वयोः प्रमयन्ति। तस्माद्द्वाभ्यां यन्ति'' इति। तत्र सौमिकं यत्सधर्मकमग्निप्रणयनम्, तदेव ग्रहीतव्यम्। कुतः- सोमस्य चातुर्मास्यप्रकृतित्वाभावेन तदीयप्रणयनस्यात्र चोदकाप्राप्तस्य विध्यर्हत्वात्। दर्शपूर्णमासगं त्वग्निप्रणयनं चोदकप्राप्तत्वादविधेयम्। तस्मात्- सौमिकस्य धर्मा अत्र प्रणयनशब्देनातिदिश्यन्ते। इति प्राप्ते
4सिद्धान्तः
ब्रूमः- नायं प्रणयनशब्दः सौमिकस्य प्रणयनकर्मणो नामधेयम्
किंतु निर्मन्थ्यबर्हिरादिशब्दवल्लौकिक एव
ततो न धर्मातिदेशः
यदि प्राकृतप्रणयनस्य प्राप्तत्वाद्विधिवैयर्थ्यम्, तर्ह्यर्थवादसंबन्धाय तद्वाक्यमस्तु
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अग्निहोत्रनाम्नाऽतिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- निर्मन्थ्यादिशब्दैर्धर्मानतिदेशाधिकरणे- सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न पूर्वोक्तवैष्णवशब्दवन्मुख्यया वृत्त्या विधिसंभवे धर्मलक्षकत्वायोगात् अग्निमन्थनस्य बर्हिर्लवनस्य च लोकसिद्धत्वेन शास्त्रीयधर्माभावेऽपि लौकिकधर्मैरुभयं निष्पद्यते तस्मात्- नास्त्यतिदेशः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.3.9
नवमे- मध्यमयोर्द्वयोरेव प्रणयनाधिकरणे सूत्राणि 23-25
SŪप्रथमोत्तमयोः प्रणयनमुत्तरवेदिप्रतिषेधात्।। 23।।
SŪमध्यमयोर्वा गत्यर्थवादात्।। 24।।
SŪऔत्तरवेदिकोऽनारभ्यवादप्रतिषेधः।। 25।।
नवमाधिकरणमारचयति-
1विषयः
आद्यन्तयोर्मध्ययोर्वा पर्वणोस्तत्प्रसञ्जकात्
आद्यन्तयोरूरुगत्या मध्ययोः पर्वणोर्भवेत्
3पूर्वपक्षः
''तस्माद्द्वाभ्यां यन्ति'' इत्यनेनार्थवदेन संबन्धाय पुनर्विधानाय प्राकृतमग्निप्रणयनं चोदकप्राप्तमपि श्रूयते इत्युक्तम्। तद्वैश्वदेवसुनासीरीययोराद्यन्तयोः पर्वणोर्भवितुमर्हति। कुतः- प्रसञ्जकात्। तथा हि- ''न वैश्वदेव उत्तरवेदिमुपवपन्ति। न सुनासीरीये'' इत्युत्तरवेदिप्रतिषेधस्तयोः पर्वणोरुत्तरवेदिं प्रसञ्जयति। अप्रसक्तस्य प्रतिषेधायोगात्। उत्तरवेदिश्चाग्निप्रणयनार्था। तस्मात्- उत्तरवेदिप्रसक्तिद्वारेणाद्यन्तयोरिदमग्निप्रणयनम्। इति प्राप्ते-
4सिद्धान्तः
ब्रूमः- ''ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासः, साकमेधश्च'' इति गमनसाधनत्वमूरुत्वं मध्यमयोः पर्वणोरुपन्यस्तम्। तत्संनिधौ 'द्वयोः प्रणयन्ति' इति चोदकप्राप्तमग्निप्रणयनमर्थवादार्थं पुनर्विधाय 'द्वाभ्यां यन्ति'
इत्यर्थवादेनोरुत्वकल्पनायुक्ताभ्यां पर्वभ्यां गमनमुपन्यस्यते। तस्मात्- मध्यमयोस्तत्प्रणयनम्।
किमर्थं चोदकप्राप्तमाग्निप्रणयनं मध्यमयोः कीर्त्यते- इति चेत्- उत्तरेवद्यग्निनिधानगुणविधानार्थाम्। न च- अत्रोत्तरवेद्यभावात्प्रणयनाभावः- इति शङ्कनीयम्। ''उपात्र वपन्ति'' इत्यनारभ्य श्रुतेन वाक्येनोत्तरवेद्युपवापस्य विहितत्वात्। सा चोत्तरवेदिराद्यन्तयोः पर्वणोर्निषेधान्मध्यमयोर्व्यवतिष्ठते। तस्यां चोत्तरवेद्यां प्रणीतोऽग्निर्निधीयते। एतदर्थमेव हि सार्थवादं पुनर्विधानम्।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अग्निहोत्रनाम्नाऽतिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- प्रणयनशब्देन सौमिकधर्मानतिदेशाधिकरणे सूत्राणि 19-22”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- नायं प्रणयनशब्दः सौमिकस्य प्रणयनकर्मणो नामधेयम् किंतु निर्मन्थ्यबर्हिरादिशब्दवल्लौकिक एव ततो न धर्मातिदेशः यदि प्राकृतप्रणयनस्य प्राप्तत्वाद्विधिवैयर्थ्यम्, तर्ह्यर्थवादसंबन्धाय तद्वाक्यमस्तु”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
उक्तमधिकरणद्वयमेकीकृत्य वार्तिककारेण योऽर्थोऽभिहितः, तं दर्शयति-
1विषयः
अनामत्वाच्च वैयर्थ्यात्सौमिकं प्राकृतं न वा
3पूर्वपक्षः
अपूर्वं तत्प्रणयनं शाखान्तरसमोक्तितः
4सिद्धान्तः
''आहवनीयाद्वाऽग्निं प्रणयते'' इति शाखान्तरे मध्यमयोर्नूतनं प्रणयनं विहितम्
तेन समानवचनत्वात्तत्राप्यपूर्वं प्रणयनं विधीयते।
18
7.3.10
दशमे- स्वरसामादिशब्देन धर्मातिदेशाधिकरणे सूत्रे 26-27
SŪस्वरसामैककपालामिक्षं च लिङ्गदर्शनात्।। 26।।
SŪचोदनासामान्याद्वा।। 27।।
दशमाधिकरणमारचयति-
1विषयः
न विकारा विकारा वा स्वरसामादयो, न हि
वैष्णवन्यायतो मैवमनन्यगतिलिङ्गतः
3पूर्वपक्षः
गवामयने द्वयोर्मासषट्कयोर्मध्ये वर्तमानं विषुवन्नामकं प्रधानभूतमेकमहर्विद्यते। तच्च दिवाकीर्त्यम्। तस्मात्प्राचीनास्त्रयः स्वरसामनामका अहर्विशेषाः। तथोपरिष्टादपि त्रयः स्वरसामानः। तदेतदभिप्रेत्य श्रूयते ''अभितो दिवाकीर्त्यं त्रयः स्वरसामानः'' इति। तेषु च ग्रहसातत्यसप्तदशस्तोमादयो धर्मा विहिताः। अन्यत्र त्वेवं श्रूयते ''पृष्ठ्यः षडहः, द्वौ स्वरसामानौ'' इति। तावेतावहर्विशेषौ पूर्वोक्तानां स्वरसाम्नां न विकारौ। कुतः- वैष्णवसमानत्वात्। यथा वैष्णवशब्दो देवतारूपगुणविधानेन मुख्यवृत्तित्वान्न लक्षणया धर्मानतिदिशति, तथा सामविशेषरूपगुणविधायकः स्वरसामशब्दः। इति प्राप्ते-
4सिद्धान्तः
ब्रूमः- अनन्यगतिकलिङ्गवशात्स्वरसामानौ विकारौ भवतः। तथा हि- 'षडहः, द्वौ स्वरसामानौ' इत्येवं योऽयमष्टाह उपन्यस्तः, तत्र षट्त्स्वहःसु क्रमेण 'त्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, त्रिणवः, त्रयस्त्रिंशः' इत्येवं स्तोमषट्कं चोदकेन प्राप्तम्। एवं स्थिते तृतीयषष्ठदिवसगतयोः सप्तदश त्रयस्त्रिंशयोर्व्यत्यासं विधाय सप्तमाष्टमयोरह्नोः सप्तदशस्तोमं सिद्धवत्कृत्वा त्रिषु चरमेष्वहःसु सप्तदशस्तोमनैरन्तर्यमर्थवादेनानुवदति। ''यत्तृतीयं सप्तदशमहः, तत्त्रयस्त्रिंशस्थानमभिपर्याहरन्ति'' इति व्यत्यासविधिः। 'त्रयाणां सप्तदशानामनूचीनतायाः' इत्यनुवादः। तत्र यद्युपान्त्यान्त्ययोरह्नोः सप्तदशस्तोमं स्वरसामशब्दोऽतिदिशेत्, तदा नैरन्तर्यमुपपद्येत, न त्वन्यथा। तस्मात्- न वैष्णवन्यायेन गुणविधिः, किंतु धर्माणामतिदेशकः।। 20।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अग्निहोत्रनाम्नाऽतिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- मध्यमयोर्द्वयोरेव प्रणयनाधिकरणे सूत्राणि 23-25”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.3.11
एकादशे- 'वासो ददाति' इत्यादौ वास आदिशब्दानामाकृतिनिमित्तताधिकरणे - सूत्रे 28-29
SŪकर्मजे कर्म यूपवत्।। 28।।
SŪरूपं वाऽशेषभूतत्वात्।। 29।।
एकादशाधिकरणमारचयति-
1विषयः
वासोनसी वानतक्षणातिदेशकरे न वा
3पूर्वपक्षः
आद्यः क्रियानिमित्तत्वाज्जातिवाचित्वतोऽन्तिमः
''वासो ददाति'' ''अनो ददाति'' इति श्रूयते। तत्र यथा यूपशब्दस्य शास्त्रीयच्छेदनतक्षणादिक्रिया प्रवृत्तिनिमित्तम्, तथा वासः शब्दस्य लौकिकी कुविन्दकर्तृका तन्तुवानक्रिया, अनः शब्दस्य वर्धकिकर्तृका दारुतक्षणक्रिया। तस्मात् वासोनः शब्दयोः क्रियातिदेशकत्वाद्वानतक्षणे कारयित्वा तदुभयं दातव्यम्। इति चेत्-
4सिद्धान्तः
न
गवाश्वादिशब्दवज्जातिवाचित्वात्
पाचकादिशब्दानां क्रियामुपलभ्यैव प्रयुज्यमानत्वात्क्रियैव प्रवृत्तिनिमित्तम्
वासः शकटादिषु क्रियामनुपलभ्यापि जातिमुपलभ्य शब्दं प्रयुञ्जते
तस्मात्- वासोनः शब्दौ न क्रियामतिदिशतः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अग्निहोत्रनाम्नाऽतिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- स्वरसामादिशब्देन धर्मातिदेशाधिकरणे सूत्रे 26-27”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.3.12
द्वादशे- गर्गत्रिरात्रे लौकिकेऽग्नावुपनिधानाधिकरणे सूत्राणि 30-32
SŪविशये लौकिकः स्यात्सर्वार्थत्वात्।। 30।।
SŪन वैदिकमर्थनिर्देशात्।। 31।।
SŪतयोत्पत्तिरितरेषां समत्वात्।। 32।।
द्वादशाधिकरणमारचयति-
1विषयः
वैदिको लौकिको वाऽग्निर्निधेयः संस्कृतेर्वशात्
आद्यो होमाय संस्कारो जात्यर्थत्वेन लौकिकः
3पूर्वपक्षः
गर्गत्रिरात्र आज्यदोहसामानि प्रकृत्य श्रूयते ''अग्निमुपनिधाय स्तुवीत'' इति। तत्र- उपनिधेयोऽ-ग्निर्वैदिकः स्यात्। कुतः- आधानादिसंस्कारस्य प्रयोजनाकाङ्क्षितया समस्तवैदिककर्मशेषत्वात्। इति प्राप्ते-
4सिद्धान्तः
ब्रूमः- ''आहवनीये जुहोति'' ''गार्हपत्ये हवींषि श्रपयति'' इत्यादिभिर्होमादिभिः संस्काराकाङ्क्षा निवर्तिता। ततो नाहवनीयादिशब्दवदग्निशब्दः संस्कारनिमित्तः। किंतु वासःशब्दवज्जातिवाची। तथा सति लौकिकत्वान्नाधानादिसंस्कारमतिदिशति। लौकिककार्येष्विव वैदिककार्येष्वग्निर्लौकिकः शेषभावं भजते, तस्य सर्वकार्यसमर्थत्वात्। ततोऽग्निशब्दो जातिमात्रमुपस्थापयल्लौकिकवह्निमात्रेण चरितार्थो विनाहवनीयादि-संस्कारवाचकं विशेषणं न वैदिकोपस्थापको भवति।। 22।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अग्निहोत्रनाम्नाऽतिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- 'वासो ददाति' इत्यादौ वास आदिशब्दानामाकृतिनिमित्तताधिकरणे - सूत्रे 28-29”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न गवाश्वादिशब्दवज्जातिवाचित्वात् पाचकादिशब्दानां क्रियामुपलभ्यैव प्रयुज्यमानत्वात्क्रियैव प्रवृत्तिनिमित्तम् वासः शकटादिषु क्रियामनुपलभ्यापि जातिमुपलभ्य शब्दं प्रयुञ्जते तस्मात्- वासोनः शब्दौ न क्रियामतिदिशतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.3.13
त्रयोदशे- यूपशब्दस्य संस्कारप्रयोजकताधिकरणे सूत्रे 33-34
SŪसंस्कृतं स्यात्तच्छब्दत्वात्।। 33।।
SŪभक्त्या वाऽयज्ञशेषत्वाद्गुणानामभिधानत्वात्।। 34।।
त्रयोदशाधिकरणमारचयति-
1विषयः
संस्कारः स्यादुपशये न वा, यूपोक्तितोऽग्रिमः
न स्यान्नियोजनाभावात्तूष्णींछेदेन यूपता
3पूर्वपक्षः
यूपैकादशिन्यां श्रूयते ''उपशयो यूपो भवति'' इति। एकादशानां यूपानां समूह एकादशि। तत्र दक्षिणतोऽवस्थापित एकादशो यूप उपशयः। तथा च श्रूयते ''यद्दक्षिणत उपशयः'' इति। तस्मिन्नुपशये परिव्याणादिको यूपसंस्कारोऽस्ति। संस्कारनिमित्तकस्य यूपशब्दस्य तत्र प्रयुक्तत्वात्। इति चेत्-
न। संस्कारप्रयोजनस्यात्राभावात्। पशुं नियोक्तुं यूपः संस्क्रियते। तच्च नियोजनमितरेषु दशसु यूपेष्वस्ति, न त्वेकादश उपशये। तथा च तैत्तिरीयब्राह्मणम् ''सर्वे वा अन्ये यूपाः पशुमन्तः, अथोपशय एवापशुः'' इति। परिव्याणादिसंस्काराभावेऽप्यमन्त्रकाश्छेदनादयः केचिद्धर्मास्तत्र वाचनिका विद्यन्ते। तावताऽल्पेन सादृश्येन गौणी तत्र यूपत्वोक्तिः। तस्मात्- न यूपशब्दो धर्मानतिदिशति।। 23।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अग्निहोत्रनाम्नाऽतिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- गर्गत्रिरात्रे लौकिकेऽग्नावुपनिधानाधिकरणे सूत्राणि 30-32”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.3.14
चतुर्दशे- पृष्ठशब्दस्यर्ग्वेदवाचित्वाधिकरणे सूत्रे 35-36
SŪकर्मणः पृष्ठशब्दः स्यात्तथाभूतोपदेशात्।। 35।।
SŪअभिधामोपदेशाद्वा विप्रतिषेधाद्द्रव्येषु पृष्ठशब्दः स्यात्।। 36।।
चतुर्दशाधिकरणमारचयति-
1विषयः
पृष्ठैरुपस्तुतौ स्तोत्रधर्माः सन्ति न वाऽग्रिमः
3पूर्वपक्षः
अग्निहोत्रनयान्मैवं मन्त्रोक्तेरात्मनेपदात्
अग्निचयने श्रूयते ''पृष्ठैरुपतिष्ठते'' इति। पृष्ठशब्दो ज्योतिष्टोमे माध्यंदिनसवनगतस्य स्तोत्रस्य कर्मणो नामधेयमिति प्रथमाध्याये (1-4-3) निर्णीतम्। सोऽग्निचयनगतोपस्थानकर्मणि प्रयुज्यमानोऽग्निहोत्रशब्दन्यायेन पृष्ठस्तोत्रधर्मानुपस्थानेऽतिदिशति। इति चेत्-
मैवम्। अत्र पृष्ठशब्दस्य मन्त्रपरत्वेन कर्मपरत्वाभावात्। ''मासमग्निहोत्रं जुहोति'' इत्यत्राग्निहोत्रशब्दो जुहोतिधातुना समानाधिकृतः कर्मपरः। अत्र तु 'उपान्मन्त्रकरणे' (पा.सू.1-3-25) इत्येतत्पाणिनीयं सूत्रमुपशब्दयुक्तात्तिष्ठतेर्धातोपात्मनेपदं विदधत्तृतीयान्तस्य पृष्ठशब्दस्य मन्त्रात्मककरणपरतां दर्शयति।
यद्यपि स्तोत्रकर्मवाची पृष्ठशब्दः, तथाऽपि तत्साधनभूतान्रथंतरादिसामोपेतान् ''अभि त्वा शूर'' इत्यादिमन्त्रानुपलक्षयति। न च लक्षणाश्रयणमेव दोषः- इति वाच्यम्। त्वत्पक्षेऽप्याश्रयणीयत्वात्। किंच त्वत्पक्षे यथाऽग्निहोत्रशब्देन तद्धर्मानुपलक्ष्य तैश्च धर्मैस्तद्युक्तं मासाग्निहोत्रात्मकं कर्मान्तरं लक्ष्यते, तथा स्तोत्रवाचिना पृष्ठशब्देन तद्धर्मोपलक्षणद्वारेणोपस्थानरूपं कर्मान्तरं लक्षणीयमिति विप्रकृष्यते। तस्मात्- पृष्ठशब्दो न स्तोत्रधर्मानतिदिशति।। 24।।
अत्र पादेः- अधिकरणानि 14, सूत्राणि 36।
आदितः- अधिकरणानि 491, सूत्राणि 1372।
सप्तमाध्यायस्य चतुर्थः पादः
निर्वापौषधद्रव्यादिलिङ्गातिदेशः।
4सिद्धान्तः
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे सप्तमाध्यायस्य तृतीयः पादः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अग्निहोत्रनाम्नाऽतिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- यूपशब्दस्य संस्कारप्रयोजकताधिकरणे सूत्रे 33-34”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]