SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 7, Pāda 2

सामान्यातिदेशः

रथंतरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः

1adhikaraṇas
21sūtras
7.2.1 प्रथमे रथंतरादिशब्दानां गानविशेषार्थताधिकरणे सूत्राणि 1-21
साम्नोऽभिधानशब्देन प्रवृत्तिः स्याद्यथाशिष्टम्।। 1।।
शब्दैस्त्वर्थविधित्वादर्थान्तरेऽप्रवृत्तिः स्यात्पृथग्भावात्क्रियाया ह्यभिसंबन्धः।। 2।।
स्वार्थे वा स्यात्प्रयोजनं क्रियायास्तदङ्गभावेनोपदिस्येरन्।। 3।।
शब्दमात्रमिति चेत्। 4।।
नौत्पत्तिकत्वात्।। 5।।
शास्त्रं चैवमनर्थकं स्यात्।। 6।।
स्वरस्येति चेत्। 7।।
नार्थाभावाच्छ्रुतेरसंबन्धः।। 8।।
स्वरस्तूत्पत्तिषु स्यान्मात्रावर्णाविभक्तत्वात्।। 9।।
लिङ्गदर्शनाच्च।। 10।।
अश्रुतेस्तु विकारस्योत्तरामु यथाश्रुति।। 11।।
शब्दानां चासामञ्जस्यम्।। 12।।
अपि तु कर्मशब्दः स्याद्भावोऽर्थः प्रसिद्धग्रहणत्वाद्विकारो ह्यविशिष्टोऽन्यैः।। 13।।
अद्रव्यं चापि दृश्यते।। 14।।
तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वादर्थो ह्यासामलौकिको विधानात्।। 15।।
तस्मिन्संज्ञाविशेषाः स्युर्विकारपृथक्त्वात्।। 16।।
योनिशस्याश्च तुल्यवदितराभिर्विधीयन्ते।। 17।।
अयोनौ चापि दृश्यतेऽतथायोनि।। 18।।
ऐकार्थ्येनास्ति वैरूप्यमिति चेत्। 19।।
स्यादर्थान्तरेष्वनिष्पत्तेर्यथा लोके।। 20।।
शब्दानां च सामञ्जस्यम्।। 21।।
द्वितीयपादे प्रथमाधिकरणमारचयति-

3पूर्वपक्षः

इदमाम्नायते- ''कवतीषु रथंतरं गायति'' इति। ''कया नश्चित्र आभुवत्'' इत्याद्यास्तिस्त्र ऋचः कवत्यः। तासु वामदेव्यं सामाध्ययनतः प्राप्तम्। तद्बाधितुं रथंतरं साम तास्वतिदिश्यते। तत्र- अतिदेश्यस्वरूपं निश्चेतुं रथंतरशब्दस्यार्थश्चिन्त्यते। गानविशेषयुक्ता ''अभि त्वा शूर नोनुमः'' इतीयमृक् 'रथंतरम्' इत्युच्यते। कुतः- अध्येतृप्रसिद्धितः। 'रथंतरं गीयताम्' इति केनचिदुक्ता अध्येतारः स्वरस्तोभविशेषयुक्ताम् ''अभि त्वा'' इत्यृचं पठन्ति, न तु स्वरस्तोभमात्रम्। तस्मात्- गानविशिष्टाया ऋचो रथंतरशब्दार्थत्वम्। इति प्राप्ते

4सिद्धान्तः

-
अत्र पादे- अधिकरणानि1, सूत्राणि 21।
आदितः- अधिकरणानि 447, सूत्राणि 1336।
सप्तमाध्यायस्य तृतीयः पादः
अग्निहोत्रनाम्नाऽतिदेशः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथंतरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- साकमेधे वारुणप्रघासिकैककपालातिदेशाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 7, Pāda 1 Contents Adhyāya 7, Pāda 3 →