7.1.1
द्वितीये- इषौ श्येनीयविशेषधर्मातिदेशाधिकरणे सूत्राणि 13-16
SŪसमाने पूर्ववत्त्वादुत्पन्नाधिकारः स्यात्।। 13।।
SŪश्येनस्येति चेत्। 14।।
SŪनासंनिधानात्।। 15।।
SŪअपि वा यद्यपूर्वत्वादितरदधिकार्थे ज्यौतिष्टोमिकाद्विधेस्तद्वाचकं समानं स्यात्।। 16।।
द्वितीयाधिकरणमारचयति-
1विषयः
इषौ समानमितरच्छ्येनेनेत्यनुवादकम्
श्येनवैशेषिकाणां वाऽतिदेशोऽत्रानुवादकः
3पूर्वपक्षः
ज्योतिष्टोमविकारत्वात्तद्धर्माश्चेदकात्समाः
श्येनेष्वोरितरत्वोक्तिरिषुवैशेषिकं प्रति
इषुनामकः श्येननामकश्च द्वावेकाहौ ज्योतिष्टोमविकारौ। तयोरुभयोर्ज्योतिष्टोमधर्माश्चोदकेन प्राप्ताः। ते चोभयत्र समानाः। तच्च समानत्वमिषुप्रकरणेऽनेन वाक्येनानूद्यते- 'समानमितरच्छ्येनेन' इति।
ननु- अत्रेतरशब्दोक्तिरनुपपन्ना। तत्प्रतियोगिनः कस्यचिदप्यनिर्दिष्टत्वात्- इति चेत्- न। पूर्ववाक्यविहितस्य विशेषधर्मस्य प्रतियोगित्वात्। 'इषौ यो वैशेषिको धर्मो विहितः, तं परित्यज्य, इतरच्चोदकप्राप्तं सर्वं श्येनेन समानम्' इत्यर्थः। तस्मात्- 'अनुवादकमिदं वाक्यम्' इति प्राप्ते-
4सिद्धान्तः
इषुवैशेषिकादुक्तादितरच्छ्येनगं स्फुरेत्
वैशेषिकं लोहितोष्णीषादि तेनातिदिश्यते
ब्रूमः- इतरशब्दः प्रतियोगिसजातीयं ब्रूते। तद्यथा- 'देवदत्त एवाधीते, नेतरः कश्चित्' इत्युक्ते- अध्ययनप्रसक्तिमान्यज्ञदत्तादिर्माणवकः प्रतीयते, न तु गवाश्वघटपटादिः। एवमत्रापि- इषुवैशेषिकस्य पूर्ववाक्योक्तस्य प्रतियोगित्वात्तत्सजातीयं श्येनगतं लोहितोष्णीषादिरूपं वैशेषिकं धर्मजातमितरशब्देन प्रतिभाति। तच्च प्रकृतावभावान्न चोदकेन प्राप्तम्। तस्मादिषावनुष्ठेयत्वेनातिदिश्यते।। 4।। 5।। 6।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनातिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- प्रयाजादिधर्माणामपूर्वप्रयुक्तताधिकरणे सूत्राणि 1-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अङ्गप्रधानयोर्मुख्यापूर्वभेदसमन्वयात् प्रकृतार्थं ततः कार्यमतिदेशविचारणम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.1.2
तृतीये- पञ्चहविःषु सार्थवादविध्यतिदेशाधिकरणे सूत्राणि 17-21
SŪपञ्चसंचरेष्वर्थवादातिदेशः संनिधानात्।। 17।।
SŪसर्वस्य वैकशब्द्यात्।। 18।।
SŪलिङ्गदर्शनाच्च।। 19।।
SŪविहिताम्नानान्नेति चेत्।। 20।।
SŪनेतरार्थत्वात्।। 21।।
तृतीयाधिकरणमारचयति-
1विषयः
वैश्वदेवब्राह्मणस्यातिदेशो वादमात्रगः
स वादाङ्गविधिस्थो वा हविर्विध्यन्वयाद्भवेत्
3पूर्वपक्षः
अर्थवादैकनिष्ठोऽसौ मैवमङ्गविधेरपि
समानः सोऽन्वयोऽङ्गानां विधिरप्यतिदिश्यताम्
चातुर्मास्येषु वैश्वदेव- वरुणप्रघास- साकमेध- सुनासीरीय- नामकानि चत्वारि पर्वाणि। तत्र- वैश्वदेवेष्टौ हवींषि विहितानि- ''आग्नेयमष्टाकपालं निर्वपति'' ''सौम्यं चरुम्'' ''सावित्रं द्वादशकपालम्'' ''सारस्वतं चरुम्'' ''पौष्णं चरुम्'' ''मारुतं सप्तकपालम्'' ''वैश्वदेवीमामिक्षाम्'' ''द्यावापृथिव्यमेककपालम्'' इति। तेषां हविषां ब्राह्मणेऽर्थवादः समाम्नाताः- ''वार्त्रघ्नानि वा एतानि हवींषि'' इति। अङ्गविधयोऽपि तत्राम्नाताः- ''त्रेधा बर्हिः संनद्धं भवति'' ''त्रेधा संनद्ध इध्मः'' ''नव प्रयाजा इज्यन्ते'' ''नवानूयाजाः'' इति। एवं स्थिते वरुणप्रघासेषु पूर्वोक्तान्याग्नेयादीनि पञ्चहवींषि विधाय तदीयं पूर्वोदाहृतं ब्राह्मणमेतेषु पञ्चस्वतिदिशति- ''एतद्ब्राह्मणान्येव पञ्च हवींषि, यद्ब्राह्मणानीतराणि'' इति। तत्र- अर्यवादमात्रस्यातिदेशो न्याय्यः, तस्य हविर्विधिभिः सह स्तुत्यस्तावकरूपेणान्वयसंभवात्। अङ्गविधीनां तदसंभवात्। इति चेत्-
4सिद्धान्तः
मैवम्
उपकार्योपकारकभावेन हविषामङ्गानां चान्वयात्
तस्मात्- अर्थवादसहितानामङ्गविधीनामतिदेशः।
7
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनातिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- इषौ श्येनीयविशेषधर्मातिदेशाधिकरणे सूत्राणि 13-16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इषुवैशेषिकादुक्तादितरच्छ्येनगं स्फुरेत् वैशेषिकं लोहितोष्णीषादि तेनातिदिश्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.1.3
चतुर्थे- एककपालैन्द्राग्नयोः सार्थवादविध्यतिदेशाधिकरणे सूत्रम्
SŪएककपालैन्द्राग्नौ च तद्वत्।। 22।।
चतुर्थाधिकरणमारचयति-
1विषयः
श्रुतमेककपालस्य ब्राह्मणस्यातिदेशनम्
तत्पूर्ववत्तथैन्द्राग्न एतद्ब्राह्मण इत्यपि
3पूर्वपक्षः
एककपालब्राह्मणं वैश्वदेवे वरुणप्रघासेषु च पठितम्। ऐन्द्राग्नब्राह्मणं वरुणप्रघासेष्वेवाम्नातम्। एवं स्थिते साकमेधेषु विहितयोरेककपालैन्द्राग्नयोर्ब्राह्मणातिदेश आम्नायते- ''एतद्ब्राह्मण ऐन्द्राग्नः, एतद्ब्राह्मण एककपालो यद्ब्राह्मण इतरश्चेतरश्च'' इति। तत्रोभयत्र पूर्वन्यायेनार्थवादसहिताङ्गविधिकाण्डस्य सर्वस्यातिदेशः। पूर्वन्यायस्य विषयव्याप्तये वक्ष्यमाणोदाहरणस्मारणाय बीजकथनम्।। 9।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनातिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- पञ्चहविःषु सार्थवादविध्यतिदेशाधिकरणे सूत्राणि 17-21”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् उपकार्योपकारकभावेन हविषामङ्गानां चान्वयात् तस्मात्- अर्थवादसहितानामङ्गविधीनामतिदेशः। 7”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
7.1.4
पञ्चमे- साकमेधे वारुणप्रघासिकैककपालातिदेशाधिकरणे सूत्रम्
SŪएककपालानां वैश्वदेविकः प्रकृतिराग्रयणे सर्वहोमापरिवृत्तिदर्शनादवभृथे च सकृद्व्यवदानस्य वचनात्।। 23।।
पञ्चमाधिकरणमारचयति-
3पूर्वपक्षः
वैश्वदेवे द्यावापृथिव्य एककपालः, वरुणप्रघासेषु काय एककपालः। तयोः पृथग्ब्राह्मणं समाम्नातम्। साकमेधेषु वैश्वकर्मण एककपालः। तस्मिन्वैश्वदेविकैककपालब्राह्मणमतिदेष्टव्यम्। कुतः- प्रकृतित्वेन तस्मिन्नुपदिश्यमानधर्मबाहुल्यात्। वारुणप्रघासिकस्य तद्विकृतित्वादल्पा एव धर्मविशेषा उपदिष्टाः- 'शमीमय्यो हिरण्मय्यो वा स्रुचो भवन्ति' इत्यादयः तत्र बह्वनुग्रहो न्याय्यः। इति प्राप्ते
4सिद्धान्तः
-
वारुणप्रघासिकब्राह्मणस्य प्रत्यासन्नत्वात्तस्यैवातिदेशो युक्तः। ऐन्द्राग्नब्राह्मणं तत्रत्यमेवातिदिश्यते। वैश्वदेवे तदभावात्। तत्साहचर्यादिदमपि तत्रत्यमेव।
ननु- प्रकृतिभूताद्वैश्वदेविकैककपालादेव वारुणप्रघासिक इव साकमेधीयेऽपि चोदकेन धर्मातिदेशसिद्धौ ब्राह्मणातिदेशवाक्यमिदं व्यर्थम्- इति चेत्-
अत्र पादे- अधिकरणानि 5, सूत्राणि 23।
आदितः- अधिकरणानि 476, सूत्राणि 1315।
सप्तमाध्यायस्य द्वितीयः पादः
रथंतरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनातिदेशः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- एककपालैन्द्राग्नयोः सार्थवादविध्यतिदेशाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]