6.6.1
प्रथमे- सत्रे समानकल्पानां सहाधिकाराधिकरणे सूत्राणि 1-11
SŪसन्निपातेवैगुण्यात्प्रकृतिवत्तुल्यकल्पा यजेरन्।। 1।।
SŪवचनाद्वा शिरोवत्स्यत्।। 2।।
SŪन वानारम्भवादत्वात्।। 3।।
SŪस्याद्वा यज्ञार्थत्वादौदुम्बरीवत्।। 4।।
SŪन तत्प्रधानत्वात्।। 5।।
SŪऔदुम्बर्याः परार्थत्वात्कपालवत्।। 6।।
SŪअन्येनापीतिचेत्।। 7।।
SŪनैकत्वात्तस्य चानधिकाराच्छब्दस्य चाविभक्तत्वात्।। 8।।
SŪसन्निपातात्तु निमित्तविघातः स्याद्बृहद्रथंतरवद्विभक्तशिष्टत्वाद्वसिष्ठनिर्वर्त्ये।। 9।।
SŪअपि वा कृत्स्नसंयोगादविघातः प्रतीयेत स्वामित्वेनाभ सम्बन्धात्।। 10।।
SŪसाम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसम्बन्धस्तस्मात्तत्र विघातः स्यात्।। 11।।
षष्ठपादे प्रथमाधिकरणमारचयति-
1विषयः
भिन्नप्रयाजादिकल्पा अपि सत्रेऽधिकारिणः
3पूर्वपक्षः
तुल्यकल्पा एव वाद्यो वसिष्ठादिविधानतः
प्रयाजेषु पुरुषभेदेनानुष्ठानप्रकारो भिद्यते। राजन्यवसिष्ठादीनां नाराशंसो द्वितीयः प्रयाजः। तनूनपादन्येषाम्। तत्र वसिष्ठात्रिवाध्न्यश्वशुनककण्वकश्यपसंकृतिगोत्रोत्पन्ना ये नाराशंसप्रयाजवन्तः, ये चान्ये तनूनपात्प्रयाजवन्तः, त एते भिन्नकल्पा अपि मिलित्वा सप्तदशावराः सत्रेऽधिकारिणः स्युः। कुतः- नाराशंसमुद्दिश्य तदङ्गत्वेन वसिष्ठादिविधानात्। तथा सति सत्रिणां मध्ये केषांचिद्वसिष्ठादिगोत्रजत्वेऽपि तदङ्गत्वं सिध्यति इति प्राप्ते-
4सिद्धान्तः
नारांशसाद्यङ्गातायां स्वामित्वोद्देशपूर्वकम्
नाराशंसविधौ संनिकर्षात्साद्गुण्यतोऽन्तिमः
ब्रूमः- वसिष्ठादीन्यजमानानुद्दिश्य नाराशंसो विधीयते। तथासति विधायकपदगतस्य धात्वर्थस्य विधेयत्वात्संनिकर्षः। वसिष्ठादिविधौ तु पदान्तरोपात्तत्वाद्विप्रकर्षः। अतो वसिष्ठाद्युद्देशेन नाराशंसविधौ, नाराशंसानुष्ठाने वसिष्ठादीनां साद्गुण्यम्, इतरेषां तु वैगुण्यम्, तनूनपादनुष्ठाने तु वैपरीत्यम्। अतः सर्वथाभिन्नकल्पानां सर्वेषां साद्गुण्यं न सिध्यति। अतः साद्गुण्याय तुल्यकल्पा एवाधिकारिणः।। 1।। 2।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकविंशे- अहर्गणेपच्छेदे सर्वावृत्तिनिराकरणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “गणावृत्तिः प्रयोगैक्यात्प्रयोगेऽवान्तरः पृथक् तेनाहरेकमावर्त्यमनङ्गत्वान्न हीतरत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.6.2
द्वितीये- भिन्नकल्पयोरपि राजपुरोहितयोः कुलाययज्ञेऽधिकाराधिकरणे सूत्राणि 12-15
SŪवचनात्तु द्विसंयोगस्तस्मादेकस्य पाणित्वम्।। 12।।
SŪअर्थाभावात्तु नैवं स्यात्।। 13।।
SŪअर्थानां च विभक्तत्वान्न तच्छ्रुतेन संबन्धः।। 14।।
SŪपाणेः प्रत्यङ्गभावादसंबन्धः प्रतीयेत।। 15।।
द्वितीयाधिकरणमारचयति-
3पूर्वपक्षः
कुलाययज्ञं प्रकृत्य श्रूयते ''अनेन राजपुरोहितौ सायुज्यकामौ यजेयाताम्'' इति। तत्र राज्ञः परोहितस्य च भिन्नकल्पत्वात्, अभिन्नप्रयाजाकल्पत्वाय पुरोहितयोरधिकारो वाच्यः। तथा सति 'राज्ञः पुरोहितौ' इति षष्ठीसमास इत्याद्यः पक्षः।
'पुरोहितं वृणीते' इत्युपादेयगतस्यैकत्वस्य विवक्षितत्वाद्राजद्वयमन्तरेण पुरोहितद्वयासंभवात् 'राजपुरोहितश्च राजपुरोहितश्च' इत्यस्मिन्नर्थे कृतैकशेषत्वादुभयो राज्ञोः पुरोहितौ- इति द्वितीयः पक्षः।
अराज्ञः पुरोहिताभावाद्व्यावर्त्याभावेन राजपदं व्यर्थम्। ततः 'राजानौ च तौ पुरोहितौ च' इति कर्मधारयसमास इति तृतीयः पक्षः।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- सत्रे समानकल्पानां सहाधिकाराधिकरणे सूत्राणि 1-11”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नारांशसाद्यङ्गातायां स्वामित्वोद्देशपूर्वकम् नाराशंसविधौ संनिकर्षात्साद्गुण्यतोऽन्तिमः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.6.3
तृतीये- सत्रे ब्राह्मणमात्रस्याधिकाराधिकरणे सूत्राणि 16-23
SŪसत्राणि सर्ववर्णानामविशेषात्।। 16।।
SŪलिङ्गदर्शनाच्च।। 17।।
SŪब्राह्मणानां वेतरयोरार्त्विज्याभावात्।। 18।।
SŪवचनादिति चेत्। 19।।
SŪन स्वामित्वं हि विधीयते।। 20।।
SŪगार्हपते वा स्यातामविप्रतिषेधात्।। 21।।
SŪन वा कल्पविरोधात्।। 22।।
SŪस्वामित्वादितरेषामहीने लिङ्गदर्शनम्।। 23।।
तृतीयाधिकरणमारचयति-
1विषयः
सत्रं वर्णत्रयस्योत विप्रस्यैवाविशेषतः
3पूर्वपक्षः
त्रयस्य मैवं स्वामित्वं विप्राणामृत्विजां यतः
4सिद्धान्तः
''ऋद्धिकामाः सत्रमासीरन्'' इत्यत्र 'विप्राः' इति विशेषो न श्रूयते
तस्मात्- वर्णत्रयस्य सत्राधिकारः
इति चेत्- मैवम्
'विप्राणामेवार्त्विज्यम्' इति द्वादशे वक्ष्यते
ऋत्विक्कार्ये यजमानाः सूत्रे समाम्नाताः- 'ये यजमानास्त ऋत्विजः' इति
तस्मात्- विप्राणामेव सत्रम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- भिन्नकल्पयोरपि राजपुरोहितयोः कुलाययज्ञेऽधिकाराधिकरणे सूत्राणि 12-15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.6.4
चतुर्थे विश्वामित्रतत्समानकल्पानामेवाधिकाराधिकरणे सूत्राणि 24-26
SŪवासिष्ठानां वा ब्रह्मत्वनियमात्।। 24।।
SŪसर्वेषां वा प्रतिप्रसवात्।। 25।।
SŪविश्वामित्रस्य हौत्रनियमाद्भृगुशुनकवसिष्ठानामनधिकारः।। 26।।
1विषयः
विप्रस्य सत्रं सर्वस्य वासिष्ठस्यैव वा भवेत्
3पूर्वपक्षः
विश्वामित्रस्यैव वाद्य ऋद्धीच्छुत्वेन मध्यमः
चतुर्थाधिकरणमारचयति
ऋद्धिकामस्य सत्रं विहितम्। ब्राह्मणश्च सर्व ऋद्धिं वाञ्छति। तस्मात्- 'विप्रस्य सर्वस्य सत्राधिकारः' इत्याद्यः पक्षः।
''वासिष्ठो ब्रह्मा भवति'' इति वचनादवासिष्ठस्य ब्रह्मत्वासंभवाद्ब्रह्मत्वाय वासिष्ठस्याधिकारो वाच्यः। तथा सति भिन्नकल्पत्ववारणाय तत्तुल्यकल्पा एवाधिक्रियन्ते- इति द्वितीयः पक्षः।
'वासिष्ठो ब्रह्मा' इति वाक्यं न वासिष्ठस्य ब्रह्मत्वाधिकारबोधकम्। ''रश्मिरसि क्षयाय त्वा'' इत्यादयो मन्त्राः स्तोमभागाः, तानधीयानः स्वयमवासिष्ठोऽपि ब्रह्मतामर्हति- इति स्तोमभागप्रशंसारूपेऽर्थवादे 'वासिष्ठो ब्रह्मा' इति पठितत्वात्। तस्मात्- ''वैश्वामित्रो होता'' इति विहितस्य होतृत्वस्य सिद्धये वैश्वामित्रस्य तत्समानकल्पानां चाधिकारः, नान्येषाम्।। 7।। 8।।
4सिद्धान्तः
ब्रह्मत्वाय ह्यवासिष्ठे ब्रह्मता स्तोमभागतः
वैश्वामित्रसमानानामेव होतृत्वसिद्धये
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- सत्रे ब्राह्मणमात्रस्याधिकाराधिकरणे सूत्राणि 16-23”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “''ऋद्धिकामाः सत्रमासीरन्'' इत्यत्र 'विप्राः' इति विशेषो न श्रूयते तस्मात्- वर्णत्रयस्य सत्राधिकारः इति चेत्- मैवम् 'विप्राणामेवार्त्विज्यम्' इति द्वादशे वक्ष्यते ऋत्विक्कार्ये यजमानाः सूत्रे समाम्नाताः- 'ये यजमानास्त ऋत्विजः' इति तस्मात्- विप्राणामेव सत्रम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.6.5
पञ्चमे- सत्र आहिताग्नेरेवाधिकाराधिकरणे सूत्राणि 27- 32
SŪविहारस्य प्रभुत्वादनग्नीनामपि स्यात्।। 27।।
SŪसारस्वते च दर्शनात्।। 28।।
SŪप्रायश्चित्तविधानाच्च।। 29।।
SŪसाग्नीनां वेष्टिपूर्वत्वात्।। 30।।
SŪस्वार्थेन च प्रयुक्तत्वात्।। 31।।
SŪसंनिवापं च दर्शयति।। 32।।
पञ्चमाधिकरणमारचयति-
1विषयः
अनाधातुश्च तत्किं वाधातुरेवाग्रिमो यतः
3पूर्वपक्षः
एकस्याग्निषु तत्सिद्धिर्न स्वाग्निष्वात्मनेपदात्
तत्सत्रमग्न्याधानरहितस्यापि संभवति। कुतः- सत्रिणां मध्ये कस्यचिदाहिताग्नित्वे तदीयेष्वग्निषु तेन सह प्रवृत्तैरनाहिताग्निभिरपि तस्य सत्रस्य साधयितुं शक्यत्वात्। इति चेत्-
4सिद्धान्तः
मैवम्
'आदधीत' इत्यात्मनेपदमाधानफलस्य कर्तृगामितां दर्शयति
तत्फलं चाग्नीनां कर्मयोग्यता
ततो येऽनाहिताग्नयः, न तेऽधिकारिणः
यश्चाहिताग्निः, तस्यैव कर्मयोग्यत्वम्, नान्यस्य
किंच- सोमविकृतीनामिष्टिपूर्वत्वं निर्णीतम्
इष्टिश्चाधानपूर्विका
तस्मात्- आधातुरेव सत्राधिकारः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे विश्वामित्रतत्समानकल्पानामेवाधिकाराधिकरणे सूत्राणि 24-26”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रह्मत्वाय ह्यवासिष्ठे ब्रह्मता स्तोमभागतः वैश्वामित्रसमानानामेव होतृत्वसिद्धये”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.6.6
षष्ठे- जुह्वादीनां साधारण्याधिकरणे सूत्राणि 33-35
SŪजुह्वादीनामप्रयुक्तत्वात्संदेहे यथाकामी प्रतीयेत।। 33।।
SŪअपि वाऽन्यानि पात्राणि साधारणानि कुवींरन्विप्रतिषेधाच्छास्त्रकृतत्वात्।। 34।।
SŪप्रायश्चित्तमापदि स्यात्।। 35।।
1विषयः
जुह्वादयो यस्य कस्य कार्याः साधारणा उत
3पूर्वपक्षः
अविरोधादग्रिमोन्त्यो मृतदाहे विरोधतः
सत्रिणां मध्ये यस्य कस्यचित्संबन्धिभिर्जुह्वादिपात्रैः सत्रं प्रयोक्तव्यम्। कुतः- अविरोधात्। अन्यदीयेष्वग्निष्वात्मनेपदं यथा विरुध्यते, नैवमत्र विरोधः कश्चिदुपलभ्यते। इति प्राप्ते
4सिद्धान्तः
ब्रूमः- 'यस्य जुह्वादयः स चेत्सत्रमध्ये म्रियेत, तदा मृतेन सह जुह्वादयो दह्यन्ते
आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्च दक्षिणहस्ते जुहूमासादयति' इत्यादिवचनैस्तदवगमात्
पात्रदाहे चावशिष्टः सत्रप्रयोगो विगुणः स्यात्
तस्मात्- साधारणा जुह्वादयः सत्रे संपादनीयाः
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- सत्र आहिताग्नेरेवाधिकाराधिकरणे सूत्राणि 27- 32”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'आदधीत' इत्यात्मनेपदमाधानफलस्य कर्तृगामितां दर्शयति तत्फलं चाग्नीनां कर्मयोग्यता ततो येऽनाहिताग्नयः, न तेऽधिकारिणः यश्चाहिताग्निः, तस्यैव कर्मयोग्यत्वम्, नान्यस्य किंच- सोमविकृतीनामिष्टिपूर्वत्वं निर्णीतम् इष्टिश्चाधानपूर्विका तस्मात्- आधातुरेव सत्राधिकारः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.6.7
सप्तमे विकृतसप्तदशसामिधेनीषु वर्णत्रयाधिकाराधिकरणे सूत्राणि 36-39
SŪपुरुषकल्पेन वा विकृतौ कर्तृनियमः स्याद्यज्ञस्य तद्गुणत्वादभावादितरान्प्रत्येकस्मिन्नधिकारः स्यात्।। 36।।
SŪलिङ्गाच्चेज्याविशेषवत्।। 37।।
SŪन वा संयोगपृथक्त्वाद्गुणस्येज्याप्रधानत्वादसंयुक्ता हि चोदना।। 38।।
SŪइज्यायां तद्गुणत्वाद्विशेषेण नियम्येत।। 39।।
सप्तमाधिकरणमारचयति-
1विषयः
सामिधेनीसाप्तदश्यं वैकृतं वैश्यगाम्युत
वर्णत्रयस्य वाद्योऽस्तु वैश्यकर्तृविधानतः
3पूर्वपक्षः
प्रकृतौ पाञ्चदश्यस्य बाधकं वैश्य ईरितम्
विकृतौ त्रयगं वाक्यं त्रयोऽतोऽत्राधिकारिणः
अध्वरकल्पादिष्विष्टिविकृतिषु श्रूयते ''सप्तदश सामिधेनीरनुब्रूयात्'' इति। तदेतत्सामिधेनीसाप्तदश्यं वैश्यस्य भवितुमर्हति। कुतः- प्रकृतौ ''सप्तदशानुब्रूयाद्वैश्यस्य'' इति वाक्येन साप्तदश्याङ्गभूतकर्तृतया वैश्यस्य विहितत्वात्। तस्मात्-साप्तदश्यद्वारा वैश्य एवाध्वरकल्पादिष्वधिक्रियते। इति प्राप्ते-
4सिद्धान्तः
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य षष्ठः पादः
ब्रूमः- प्रकृतौ ''पञ्चदश सामिधेनीरन्वाह'' इति वर्णत्रयसाधारण्येन पाञ्चदश्यं विधाय वैश्यं निमित्तीकृत्य पाञ्चदश्यबाधकतया साप्तदश्यं विहितम्। ततः साप्तदश्यवाक्यस्य प्रकृतावेवान्वयसंभवान्न विकृतिषूत्कर्षः। यत्तु विकृतिगतं साप्तदश्यवाक्यं तद्वर्णत्रयसाधारणम्। तस्मात्- अध्वरकल्पादौ वर्णत्रयाधिकारः।। 11।। 12।।
अत्र पादे- अधिकरणानि 7, सूत्राणि 39। आदितः- अधिकरणानि 449, सूत्राणि 1210।
षष्ठाध्यायस्य सप्तमः पादः
पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- जुह्वादीनां साधारण्याधिकरणे सूत्राणि 33-35”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- 'यस्य जुह्वादयः स चेत्सत्रमध्ये म्रियेत, तदा मृतेन सह जुह्वादयो दह्यन्ते आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्च दक्षिणहस्ते जुहूमासादयति' इत्यादिवचनैस्तदवगमात् पात्रदाहे चावशिष्टः सत्रप्रयोगो विगुणः स्यात् तस्मात्- साधारणा जुह्वादयः सत्रे संपादनीयाः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]