5.4.1
प्रथमे पाठक्रमापेक्षया श्रुत्यर्थयोर्बलवत्त्वाधिकरणे सूत्रम्
SŪक्रमको योऽर्थशब्दाभ्यां श्रुतिविशेषादर्थपरत्वाच्च।। 1।।
चतुर्थपादे प्रथमाधिकरणमारचयति-
1विषयः
आश्विनो दशमः पाको यवाग्वा ऐच्छिकः क्रमः
3पूर्वपक्षः
नियतो बाऽग्रिमः पाठश्रुत्यर्थानां समत्वतः
ज्योतिष्टोम ऐन्द्रवायवादिग्रहेष्वाश्विनग्रहस्तृतीयस्थाने पठितः। तस्य च दशमस्थानत्वं वाचकेनैव शब्देनाम्नायते- ''आश्विनो दशमो गृह्यते'' इति। तत्र क्रमबोधकौ श्रुतिपाठौ समबलौ। तथा- अग्निहोत्रहोमादनन्तरं यवागूपाकः पठितः। स चार्थवशात्पूर्वं प्राप्तः। तवार्थपाठौ समबलौ। तस्मात्- उभयत्रैच्छिकः क्रमः- इति प्राप्ते-
4सिद्धान्तः
पाठात्क्रमः कल्पनीयः प्रत्यक्षस्तु श्रुतेः क्रमः
क्लृप्तिर्न शक्तिमुल्लङ्ध्य श्रुत्यर्थौ प्रबलौ ततः
ब्रूमः- पाठो हि न क्रमस्याभिधायकः। किंत्वन्यथानुपपत्त्या क्रर्म कल्पयति। 'दशमः' इत्येषा श्रुतिस्तु साक्षादेव क्रममभिधत्ते। ततः- पाठादपि श्रुतिः प्रबला। तथा पाठः क्रमं कल्पयन्वस्तुसामर्थ्यमनुसृत्यैव कल्पयति। असमर्थं च यवाग्वाः पूर्वमग्निहोत्रमनुष्ठातुम्। द्रव्यमन्तरेण होमासंभवत्। तस्मात्पाठेन श्रुतिसामर्थ्यलक्षणोऽर्थ उपजीव्यत इत्यस्यार्थस्य पाठात्प्राबल्यम्। तथा सति श्रुत्यर्थौ पाठं बाधित्वा क्रमं नियच्छतः।। 1।। 2।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः।। ।17” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे सर्वेषामेकानेकस्तोमकानामग्निष्टोमपूर्वकताधिकरणे सूत्रे 43-44”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे पञ्चमाध्यायस्य तृतीयः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.4.2
द्वितीये मुख्यक्रमेणाग्नेयस्य पूर्वमवदानाद्यनुष्ठानाधिकरणे सूत्राणि 2-4
SŪअवदानाभिघारणासादनेष्वानुपूर्व्यं प्रवृत्त्या स्यात्।। 2।।
SŪयथाप्रदानं वा तदर्थत्वात्।। 3।।
SŪलिङ्गदर्शनाच्च।। 4।।
द्वितीयाधिकरणमारचयति-
1विषयः
अवदानादि सांनाय्ये पूर्वमाग्नेयकेऽथवा
धर्मप्रवृत्तिक्रमतः सांनाय्ये पूर्वतोचिता
3पूर्वपक्षः
प्रदानं पूर्वमाग्नेयेऽवदानं च तथोचितम्
अङ्गानां मुख्यतन्त्रत्वान्मुख्यक्रमबलित्वतः
दर्शपूर्णमासयोः सांनाय्यधर्मा वत्सापाकरणदोहनादयः प्रथममाम्नाताः, पुरोडाशधर्मा निर्वापावघातादयः
पश्चादाम्नाताः। तेनैव पाठक्रमेण धर्मानुष्ठानं प्रवृत्तम्। ततः प्रवृत्तिकक्रमेणावदानमपि सांनाय्ये पूर्वमेव कर्तव्यम्- इति प्राप्ते-
4सिद्धान्तः
ननु- अवदानादिः प्रदानान्त एकः पदार्थः- इत्युक्तम्, तत्र कुतः क्रमविचारः- एवं तर्हि कृत्वाचिन्ताऽस्तु
अथवा स्विष्टकृदवदानादिविषयेयं चिन्ताऽस्तु।
3
ब्रूमः- 'याज्यानुवाक्यादिमन्त्रबलादाग्नेये पूर्वं प्रदानम्' इत्युक्तम्। तच्च प्रदानं फलप्रत्यासत्त्या मुख्यम्। अवदानं तु तदङ्गम्। तथा सति मुख्यस्य क्रममनुसृत्यावदानमप्याग्नेये पूर्वं कर्तव्यम्। मुख्यक्रमो हि प्रवृत्तिकक्रमात्प्रबलः। प्रावृत्तिके हि क्रमे सानाय्ये पूर्वमवदानमभिघारणमासादनं च कृत्वा प्रदानमकृत्वाग्नेयेऽवदानादीनि कर्तव्यानि। तथा सति सांनाय्येऽनुष्ठितान्यवदानादीन्यङ्गानि मुख्यात्प्रदानाद्विप्रकृष्यन्ते। मुख्यक्रमाश्रयणे त्वाग्नेये प्रथममवदानादिप्रदानान्तं कृत्वा पश्चात्सांनाय्ये तदनुष्ठीयते। तत्र नास्त्यङ्गाङ्गिविप्रकर्षः।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः।। ।17” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे पाठक्रमापेक्षया श्रुत्यर्थयोर्बलवत्त्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पाठात्क्रमः कल्पनीयः प्रत्यक्षस्तु श्रुतेः क्रमः क्लृप्तिर्न शक्तिमुल्लङ्ध्य श्रुत्यर्थौ प्रबलौ ततः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.4.3
तृतीये- इष्टिसोमयोः पौर्वापर्यनियमाधिकरणे सूत्राणि- 5-9
SŪवचनादिष्टिपूर्वत्वम्।। 5।।
SŪसोमश्चैकेषामग्न्याधेयस्यर्तुनक्षत्रातिक्रमवचनात्, तदन्तेनानर्थकं हि स्यात्।। 6।।
SŪतदर्थवचनाच्च नाविशेषात्तदर्थत्वम्।। 7।।
SŪअयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशादानन्तर्याद्विशङ्का स्यात्।। 8।।
SŪइष्टिरयक्ष्यमाणस्य तादर्थ्ये सोमपूर्वत्वम्।। 9।।
तृतीयाधिकरणमारचयति-
1विषयः
दर्शादीष्ट्वा सोमयागः क्रमोऽयं नियतो न वा
3पूर्वपक्षः
उक्तेराद्यो न सोमस्याधानानन्तरता श्रुतेः
''दर्शपूर्णमासाविष्ट्वा सोमेन यजेत'' इति क्त्वाप्रत्ययेनावगम्यमानः क्रमो नियतः- इति चेत्-
4सिद्धान्तः
मैवम्
''सोमेन यक्ष्यमाणोऽग्नीनादधीत'' इत्याधानानन्तरताया अपि श्रवणात्
तस्मात्- इष्टिसोमयोः पौर्वापर्यं न नियतम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः।। ।17” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये मुख्यक्रमेणाग्नेयस्य पूर्वमवदानाद्यनुष्ठानाधिकरणे सूत्राणि 2-4”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ननु- अवदानादिः प्रदानान्त एकः पदार्थः- इत्युक्तम्, तत्र कुतः क्रमविचारः- एवं तर्हि कृत्वाचिन्ताऽस्तु अथवा स्विष्टकृदवदानादिविषयेयं चिन्ताऽस्तु। 3”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.4.4
चतुर्थे ब्राह्मणस्यापीष्टिसोमयोः पौर्वापर्यानियमाधिकरणे सूत्राणि 10-14
SŪउत्कर्षाद्ब्राह्मणस्य सोमः स्यात्।। 10।।
SŪपौर्णमासी वा श्रुतिसंयोगात्।। 11।।
SŪसर्वस्य वैककर्म्यात्।। 12।।
SŪस्याद्वा विधिस्तदर्थेन।। 13।।
SŪप्रकरणात्तु कालः स्यात्।। 14।।
चतुर्थाधिकरणमारचयति-
1विषयः
विप्रस्य सोमपूर्वत्वं नियतं वा न वाऽग्रिमः
उत्कर्षतो मैवमग्नीषोमीयस्यैव तच्छ्रुतेः
3पूर्वपक्षः
'इष्टिपूर्वत्वं सोमपूर्वत्वं च विकल्पितम्' इति यदुक्तम्। तत्र ब्राह्मणस्य सोमपूर्वत्वमेव नियतम्। कुतः- उत्कर्षश्रवणात्। ''आग्नेयो वै ब्राह्मणो देवतया। स सोमनेष्ट्वाऽग्नीषोमीयो भवति। यदेवादः पौर्णमासं हविः, तत्तर्ह्यनुनिर्वपेत्। तर्ह्युभयदेवतो भवति'' इति। अस्यायमर्थः- 'प्रजापतेर्मुखादग्निर्ब्राह्मणश्चेत्युभावुत्पन्नौ। ततो ब्राह्मणस्याग्निरेक एव देवतेत्याग्नेय एव ब्राह्मणः। न तु सौम्यः, सोमस्य तद्देवतात्वाभावात्। यदा स ब्राह्मणः सोमेन यजते, तदा सोमोऽप्यस्य देवतेत्यग्नीषोमीयो भवति। तस्याग्नीषोमीयस्य ब्राह्मणस्यानुरूपं पौर्णमासमग्नीषोमीयपुरोडाशरूपं हविः सोमादूर्ध्वमनुनिर्वपेत्, तदा स ब्राह्मणो देवताद्वयसंबन्धी भवति' इति। यद्यपि- अत्र कर्मान्तरं किंचिद्विधीयते- इति कश्चिन्मन्यते, तथाऽपि 'पौर्णमासं हविः' इति विस्पष्टप्रत्यभिज्ञानान्न कर्मान्तरम्, किंतु दर्शपूर्णमासयोः सोमादूर्ध्वमुत्कर्षः। तस्मात्- विप्रस्य सोमपूर्वत्वमेव नियतम्- इति प्राप्ते-
4सिद्धान्तः
ब्रूमः- नात्र दर्शशब्दः पूर्णमासशब्दो वा कश्चिद्यागवाची श्रूयते। 'पौर्णमासम्' इत्येष तद्धितान्तो हविर्विशेषणत्वेनोपन्यस्यते। तच्च हविरग्नीषोमीयपुरोडाशरूपमिति देवताद्वयेन संस्तवादवगम्यते। तस्मादेकस्यैव हविष उत्कर्षः, न तु कृत्स्नयोर्दर्शपूर्णमासयोः। तथा सति ब्राह्मणस्यैकस्मिन्नग्नीषोमीयपुरोडाशे सोमपूर्वत्वनियमः। इतरत्र क्षत्रियवैश्ययोरिवास्यापीष्टिपूर्वत्वसोमपूर्वत्वे विकल्प्येते।। 6।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः।। ।17” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- इष्टिसोमयोः पौर्वापर्यनियमाधिकरणे सूत्राणि- 5-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''सोमेन यक्ष्यमाणोऽग्नीनादधीत'' इत्याधानानन्तरताया अपि श्रवणात् तस्मात्- इष्टिसोमयोः पौर्वापर्यं न नियतम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.4.5
पञ्चमे 'नर्तुं प्रतीक्षेत्' इत्यादिना सोमकालबाधाधिकरणे सूत्राणि 15-18
SŪस्वकाले स्यादविप्रतिषेधात्।। 15।।
SŪअपनयो वाधानस्य सर्वकालत्वात्।। 16।।
SŪपौर्णमास्यूर्ध्वं सोमात्, ब्राह्मणस्य वचनात्।। 17।।
SŪएकं शब्दसामर्थ्यात्प्राक्कृत्स्नविधानात्।। 18।।
पञ्चमाधिकरणमारचयति-
1विषयः
नर्तूनित्याहितेः कालो बाध्यः सोमस्य वाऽग्रिमः
3पूर्वपक्षः
अङ्गसाम्यात्पुरैवास्य बाधात्सोमीयबाधनम्
इदमाम्नायते- ''सोमेन यक्ष्यमाणोऽग्नीनादधीत'' ''नर्तून्सूर्क्षेत्'' ''न च नक्षत्रम्'' इति। सूर्क्षतिधातुर्दशनार्थे वर्तते। ऋतून्नक्षत्रं वा न परीक्षेत इत्यर्थः। अनेन निषेधेनाधानस्य विहितः कालो बाध्यते, न तु सोमस्य विहितः कालः। ''वसन्ते ब्राह्मणोऽग्नीनादधीत'' ''कृत्तिकास्वग्निमादधीत'' इत्यादिना वसन्ताद्यृतवः कृत्तिकादिनक्षत्राणि चाधानकालत्वेन विधीयन्ते। सोमस्यापि ''वसन्ते वसन्ते ज्योतिषा यजेत'' इत्यृतुर्विहितः। पुण्यनक्षत्रमपि शास्त्रान्तरेण प्राप्तम्। तत्र यद्यपि- आधानं न सोमस्याङ्गम्, तथाऽपि- अङ्गभूताग्निसंस्कारत्वादङ्गतुल्यमेवेति तदीय एव कालो बाधनीयः- इति चेत्-
4सिद्धान्तः
मैवम्
पूर्वमेव तत्कालस्य बाधितत्वात्
''यदैवैनं यज्ञ उपनमेदथादधीत'' इति सोमयागाचिकीर्षया कालमाधानस्योपदिशता शास्त्रेण वसन्तकृत्तिकादिकालो बाधितः
तस्मात्- ऋतुनक्षत्रप्रतीक्षानिषेधेन सोमकाल एव बाध्यते
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः।। ।17” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे ब्राह्मणस्यापीष्टिसोमयोः पौर्वापर्यानियमाधिकरणे सूत्राणि 10-14”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.4.6
षष्ठे- आज्यस्य सोमादनुत्कर्षाधिकरणे सूत्राणि 19-21
SŪपुरोडाशस्त्वनिर्देशे तद्युक्ते देवताभावात्।। 19।।
SŪआज्यमपीति चेत्। 20।।
SŪन मिश्रदेवतत्वादैन्द्राग्नवत्।। 21।।
षष्ठाधिकरणमारचयति-
1विषयः
आज्यं चोत्कृष्यते नो वा तस्याग्नीषोमयोर्गतः
3पूर्वपक्षः
आद्यः प्रजापतिं विष्णुं वा यष्टुं शक्तितोऽन्तिमः
अग्नीषोमीयस्य पुरोडाशस्य सोमादूर्ध्वमुत्कर्षः- इत्युक्तम्। तद्वदुपांशुयाजार्थं यदाज्यं तस्योत्कर्षः कार्यः। अग्नीषोमसंबन्धस्य समानत्वात्- इति चेत्-
4सिद्धान्तः
मैवम्
विष्णुप्रजापत्योरपि विकल्पितदेवत्वेन यष्टुं शक्यत्वात्
तस्मात्- नाज्यस्योत्कर्षः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः।। ।17” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे 'नर्तुं प्रतीक्षेत्' इत्यादिना सोमकालबाधाधिकरणे सूत्राणि 15-18”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् पूर्वमेव तत्कालस्य बाधितत्वात् ''यदैवैनं यज्ञ उपनमेदथादधीत'' इति सोमयागाचिकीर्षया कालमाधानस्योपदिशता शास्त्रेण वसन्तकृत्तिकादिकालो बाधितः तस्मात्- ऋतुनक्षत्रप्रतीक्षानिषेधेन सोमकाल एव बाध्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.4.7
सप्तमे विकृतानामैन्द्राग्नादीनां सद्यस्कालताधिकरणे सूत्राणि 22-24
SŪविकृतेः प्रकृतिकालत्वात्सद्यस्कालोत्तरा विकृतिस्तयोः प्रत्यक्षशिष्टत्वात्।। 22।।
SŪद्वैयहकाल्ये तु यथान्यायम्।। 23।।
SŪवचनाद्वैककाल्यं स्यात्।। 24।।
सप्तमाधिकरणमारचयति-
1विषयः
द्व्यहकालाः किमैन्द्राग्नाद्याः सद्यस्कालगा उत
3पूर्वपक्षः
आद्यः प्रकृतिवन्मैवं विकृत्युक्तिविशेषतः
''ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः'' ''सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः'' इत्यादयो द्व्यहकालाः। कुतः- प्रकृतौ तद्दर्शनात्। पर्वण्यग्न्यन्वाधानम्, इध्मस्य बर्हिषश्च संपादनम्, प्रतिपदीष्टिः- इति द्व्यहकालत्वं प्रकृतौ दृष्टम्। तथैव विकृतावपि युक्तम्- इति चेत्-
4सिद्धान्तः
मैवम्
एकाहकालत्वस्य वाचनिकत्वात्
''य इष्ट्या पशुना सोमेन वा, आग्रयणेन वा यक्ष्यमाणः, सोऽमावास्यायां पौर्णमास्यां वा यजेत'' इति वचनाच्चोदकप्राप्तं द्व्यहकालत्वं बाध्यते
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः।। ।17” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- आज्यस्य सोमादनुत्कर्षाधिकरणे सूत्राणि 19-21”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् विष्णुप्रजापत्योरपि विकल्पितदेवत्वेन यष्टुं शक्यत्वात् तस्मात्- नाज्यस्योत्कर्षः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.4.8
अष्टमे सोमात्सांनाय्यविकारादीनामुत्कर्षाधिकरणे सूत्रम्
SŪसांनाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात्प्रकृतिवत्।। 25।।
अष्टमाधिकरणमारचयति-
1विषयः
आमिक्षादेरनियतिः स्यात्सोमादूर्ध्वमेव वा
3पूर्वपक्षः
अविशेषादग्रिमोऽन्त्यो नासोमेति विशेषतः
''वैश्वदेव्यामिक्षा'' इत्यादिः सांनाय्यविकारः। ''अग्नीषोमीयमेकादशकपालं निर्वपेत्'' ''वसन्तेन ब्रह्मवर्चसकामः'' इत्यादिरग्नीषोमीयपुरोडाशविकारः। तस्योभयस्य सोमात्प्रागूर्ध्वं वा यथेच्छमनुष्ठानम्। कुतः- विशेषनियामकस्याभावात्- इति चेत्-
4सिद्धान्तः
मैवम्
''नासोमयाजी संनयेत्'' इति निषेधेन सांनाय्यं सोमादूर्ध्वमुत्कृष्यते
अग्नीषोमीयपुरोडाशस्योत्कर्षः पूर्वमेव दर्शितः
तस्मात्- तद्विकारयोरप्युत्कर्षो युक्तः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः।। ।17” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे विकृतानामैन्द्राग्नादीनां सद्यस्कालताधिकरणे सूत्राणि 22-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् एकाहकालत्वस्य वाचनिकत्वात् ''य इष्ट्या पशुना सोमेन वा, आग्रयणेन वा यक्ष्यमाणः, सोऽमावास्यायां पौर्णमास्यां वा यजेत'' इति वचनाच्चोदकप्राप्तं द्व्यहकालत्वं बाध्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.4.9
नवमे सोमविकाराणां दर्शपूर्णमासात्प्रागकर्तव्यताधिकरणे सूत्रम्
SŪतथा सोमविकारा दर्शपूर्णमासाभ्याम्।। 26।।
नवमाधिकरणमारचयति-
3पूर्वपक्षः
''गवा यजेत'' इत्यादिना गवादिनामकाः सोमविकारा एकाहा आन्नाताः। तेषामपि सोमवदिष्टिपूर्वत्वं विकल्पितम्- इति चेत्-
मैवम्। सोमस्य पूर्वत्वं वचनेन साक्षान्नोक्तम्, किंतु ''सोमेन यक्ष्यमाणोऽग्नीनादधीत'' इत्याधानानन्तर्याभिधाने सत्यर्थादिष्टेः पूर्वं सोमानुष्ठानं संपद्यते। तस्मादनुक्तं पूर्वभावित्वं चोदको नातिदिशति। अर्थसिद्धमप्यतिदिश्यताम्- इति चेत्- न। इहासंभवात्। सकृदेवाधानम्। तथा सति तदानन्तर्यं प्रकृतावुपक्षीणम्। न ह्येकस्यानन्तर्यस्य भिन्नकालीनयोः प्रकृतिविकृत्योः संबन्धः संभवति। तस्मादिष्ट्युत्तरकालीनत्वं सोमस्य निवारयितुं समर्थस्याधानानन्तर्यस्य विकृतिष्वनतिदेशात् ''दर्शपूर्णमासाविष्ट्वा सोमेन यजेत'' इत्युक्तस्योत्तरकालीनत्वस्यातिदेशाच्चेष्टेरूर्ध्वमेव गवादिविकृतयोऽनुष्ठेयाः।। 11।।
समाप्तश्चायं पञ्चमोऽध्यायः।।
अत्र पादे- अधिकरणानि 9, सूत्राणि 26।
आदितः- अधिकरणानि 362, सूत्राणि 944।
षष्ठाध्यायस्य प्रथमः पादः
कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः।। ।17” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे सोमात्सांनाय्यविकारादीनामुत्कर्षाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''नासोमयाजी संनयेत्'' इति निषेधेन सांनाय्यं सोमादूर्ध्वमुत्कृष्यते अग्नीषोमीयपुरोडाशस्योत्कर्षः पूर्वमेव दर्शितः तस्मात्- तद्विकारयोरप्युत्कर्षो युक्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]