SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 5, Pāda 3

क्रमः

पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः

15adhikaraṇas
44sūtras
5.3.1 प्रथमे प्रयाजादीनामेकादशादिसंख्यायाः सर्वसंपाद्यताधिकरणे सूत्रे 1-2
विवृद्धिः कर्मभेदात्पृषदाज्यवत्तस्य तस्योपदिश्येत।। 1।।
अपि वा सर्वसंख्यत्वाद्विकारः प्रतीयेत।। 2।।
तृतीयपादे प्रथमाधिकरणमारचयति-

1विषयः

एकादश प्रयाजाः किं प्रत्येकं स्यादुतान्यथा
संख्यावृद्धिरिहाद्योऽस्तु प्रतिमुख्यं गुणो यतः

3पूर्वपक्षः

प्रत्येकं समुदाये वा स्वरूपेण न सिध्यति
संख्यावृद्धिः प्रयोगात्तु सावृत्त्या संभविष्यति
अग्नीषोमीयपशौ श्रूयते ''एकादश प्रयाजान्यजति'' इति। तत्र चोदकप्राप्तेषु पञ्चसु प्रयाजेष्येकैकस्येयमेकादशत्वसंख्या युक्ता। कुतः- प्रयाजानुद्दिश्य संख्यागुणे विहिते सति प्रतिप्रधानं गुणस्याभ्युपेयत्वात्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- नह्येकैकस्य प्रयाजस्य स्वरूपमात्रेणैकादशत्वसंख्या संपादयितुं शक्या
नापि पञ्चप्रयाजसमुदायस्य स्वरूपे साऽस्ति
तस्मात्- प्रयोगद्वारा संपादनीया
प्रयोगस्य चावर्तयितुं शक्यत्वात्
पञ्च प्रयाजान्द्विरावर्त्य पुनरपि चरमप्रयाजे सकृदावर्तिते सत्येकादशत्वसंख्या संपद्यते।
1
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे यजमानसंस्काराणां रुक्मप्रतिमोकात्पूर्वभाविताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे पञ्चमाध्यायस्य द्वितीयः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.3.2 द्वितीये प्रथमोपसत्त्रयस्य स्वस्थानावृत्त्यधिकरणे सूत्रम्
स्वस्थानात्तु विवृध्येरन्कृतानुपूर्व्यत्वात्।। 3।।
द्वितीयाधिकरणमारचयति-

1विषयः

आवृत्तिरुपसत्स्वेषा संघस्यैकैकगाऽथवा

3पूर्वपक्षः

त्रिरध्यायं पठेत्यादाविव स्यात्समुदायगा
अग्नौ श्रूयते ''षडुषसदः'' इति। तत्र चोदकप्राप्तानां तिसृणामुपसदां पूर्वन्यायेनावृत्त्या षट्संख्या संपादनीया। सा चावृत्तिर्दण्डकलितवत्समुदायस्य युक्ता। यथा दण्डेन भूप्रदेशं संमिमानः पुरुष आमूलाग्रं कृत्स्नं दण्डं पुनः पुनः पातयति, न तु दण्डस्य प्रत्यवयवं पृथगावृत्तिं करोति। यथा 'त्रिवारं रुद्राध्यायं जपति' इत्यत्र कृत्स्न एवाध्याय आवर्त्यते, न त्वध्यायैकदेश एकैकोऽनुवाकः पृथगेव त्रिः पठ्यते, तथा त्रिसृणामुपसदां समुदाय आवर्तनीयः- इति चेत्-
मैवम्। प्राकृतक्रमबाधप्रसङ्गात्। प्रकृतौ हि दीक्षानन्तरभाविनि दिने होतव्या प्रथमोपसत्, तत ऊर्ध्वदिने द्वितीया, तत ऊर्ध्वदिने तृतीया। ता एताः सकृदनुष्ठाय पुनरुपरितनदिनेऽनुष्ठीयमानायाः प्रथमायाः प्रथमात्वमपैति, चतुर्थीत्वमायाति। तस्मात्- प्राकृतक्रमसिद्धये प्रथमां दिनद्वयेऽभ्यस्य ततो द्वितीयां द्विरभ्यस्येत्- इत्येवं स्वस्थानविवृद्ध्या तासामावृत्तिः कार्या। न चाध्ययदृष्ठान्तो युक्तः, अनुवाकसमुदायस्यैबाध्यायत्वात्, अध्यायस्यैव चावृत्तिविधानात्। न त्विह समुदायस्योपसत्त्वमस्ति। तस्मात्- प्रत्येकमुपसदावर्तनीया। अनेन न्यायेन प्रयाजानामेकादशत्वसिद्धये स्वस्थानविवृद्धावुत्तमः प्रयाजस्त्रिरम्यसनीयः।। 3।। 4।।

4सिद्धान्तः

प्रथमा मध्यमाऽन्त्येति प्राकृतक्रमसिद्धये
एकैकस्या द्विरभ्यासे षट्संख्याऽपि प्रसिध्यति

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे प्रयाजादीनामेकादशादिसंख्यायाः सर्वसंपाद्यताधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- नह्येकैकस्य प्रयाजस्य स्वरूपमात्रेणैकादशत्वसंख्या संपादयितुं शक्या नापि पञ्चप्रयाजसमुदायस्य स्वरूपे साऽस्ति तस्मात्- प्रयोगद्वारा संपादनीया प्रयोगस्य चावर्तयितुं शक्यत्वात् पञ्च प्रयाजान्द्विरावर्त्य पुनरपि चरमप्रयाजे सकृदावर्तिते सत्येकादशत्वसंख्या संपद्यते। 1”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.3.3 तृतीये सामिधेनीष्वागन्तूनामन्ते निवेशाधिकरणे सूत्राणि 4-6
समिध्यमानवतीं समिद्धवात चान्तरेण ध्वाय्याः स्युर्द्यावापृथिव्योरन्तराले समर्हणात्।। 4।।
तच्छब्दो वा।। 5।।
उष्णिक्ककुभोरन्ते दर्शनात्।। 6।।
तृतीयाधिकरणमारचयति-

1विषयः

सामिधेन्येकविंशत्यामागन्तोर्मध्यतः स्थितिः

3पूर्वपक्षः

अन्ते वा मध्यतो धाय्याशब्दितानां तथेक्षणात्
दर्शपूर्णमासयोः सामिधेनीषु श्रूयते ''एकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्य'' इति। तत्र पठिताः सामिधेन्य ऋच एकादशैव। ''त्रिः प्रथमामन्वाह, त्रिरुत्तमाम्'' इति विधानादावृत्त्या पञ्चदश संपद्यन्ते। अवशिष्टानां षण्णामृचां दशतयीपठितानामागमेन संख्यापूरणं वक्ष्यते। तस्य चागन्तोर्मन्त्रस्य सामिधेनीनां श्रूयमाणानां मध्ये निवेशो युक्तः। कुतः- धाय्याशब्दोदितानामागन्तूनां मन्त्राणां मध्ये निवेशदर्शनात्- इति चेत्-
मैवम्। धाय्यानां मध्यदेशस्य विहितत्वात्। ''इयं वै समिध्यमानवती, असौ समिद्धवती, पदन्तरा तद्धाय्या'' इति श्रूयते। पठितास्वेकादशसु सामिधेनीषु ''समिध्यमानो अध्वरे'' इत्यसावृगष्टमी। ''समिद्धो अग्न आहुत'' इत्यसौ नवमी। तयोर्मध्यं धाय्यानां स्थानम्। धाय्यात्वं च न सर्वेषामागन्तुमन्त्राणाम्। किंतु केषांचिदेव। ''पृथुपाजवत्यौ धाय्ये'' इत्यादिविशेषविधानात्। ''पृथुपाजा अमर्त्यः इत्यादिकमृग्द्वयमित्यर्थः। न च धाय्यानामिवेतरेषामागन्तूनां मन्त्राणां पठितसामिधेनीक्रमविच्छेदेन मध्ये निवेशाय किंचित्प्रमाणमस्ति। तस्मात्- आगन्तूनामन्ते निवेशः।। 5।। 6।।

4सिद्धान्तः

इध्यमानेद्धवत्योस्ता मध्ये धाय्या विधानतः
आगन्तूनामधाय्यानां निवेशोऽन्ते हि युज्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये प्रथमोपसत्त्रयस्य स्वस्थानावृत्त्यधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रथमा मध्यमाऽन्त्येति प्राकृतक्रमसिद्धये एकैकस्या द्विरभ्यासे षट्संख्याऽपि प्रसिध्यति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.3.4 चतुर्थे बहिष्पवमान आगन्तूनां पर्यासोत्तरकालताधिकरणे सूत्राणि 7-12
स्तोमविवृद्धौ बहिष्पवमाने पुरस्तात्पर्यासादागन्तवः स्युस्तथा हि दृष्टं द्वादशाहे।। 7।।
पर्यास इति चान्ताख्या।। 8।।
अन्ते वा तदुक्तम्।। 9।।
वचनात्तु द्वादशाहे।। 10।।
अतद्विकारश्च।। 11।।
तद्विकारेऽप्यपूर्वत्वात्।। 12।।
चतुर्थाधिकरणमारचयति-

1विषयः

स्तोमवृद्धौ किमागन्तोर्मध्येऽन्ते वाऽस्तु मध्यतः
द्वादशाहवदन्यत्र मध्यानुक्तेर्न मध्यतः

3पूर्वपक्षः

इदमाम्नायते- ''एकविंशेनातिरात्रेण प्रजाकामं याजयेत्। त्रिणवेनौजस्कामम्। त्रयस्त्रिंशेन प्रतिष्ठाकामम्'' इति। तत प्रकृतौ बहिष्पवमानस्तोत्रे त्रयस्तृचा भवन्ति ''उपास्मै गायता नरः'' इत्यादिरेकः, ''दविद्युतत्या रुचा'' इत्यादिर्द्वितीयः, ''पवमानस्य'' इत्यादिस्तृतीयः। तेषु त्रिषु तृचेषूर्ध्वगानेन त्रिवृत्स्तोमो भवति। न त्वत्र पञ्चदशसप्तदशस्तोमानामिवावृत्तगानमस्ति। स च बहिष्पवमानो विकृतावतिरात्रे चोदकेन प्राप्तः। तत्र त्रिवृत्स्तोमं बाधितुमेकविंशादिस्तोमा विहिताः। बहिष्पवमान आवृत्तगाने मानाभावात्। त्रिषु तृचेष्ववस्थिताभिर्नवभिर्ऋग्भिरेकविंशस्तोमपूरणाभावात्। तत्पूरणाय चत्वारस्तृचा आगमयितव्याः। त्रिणवस्तोमपूरणाय षट्तृचाः। त्रयस्त्रिंशस्तोमपूरणायाष्टौ तृचाः। ऋगागमनं चोपरिष्टाद्वक्ष्यते। तेषां चागन्तूनां मन्त्राणां प्राकृतबहिष्पवमानमध्ये निवेशः कार्यः। कुतः- द्वादशाहे तद्दर्शनात्- इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- द्वादशाहे हि वचनमेवमाम्नायते- ''स्तोत्रियानुरूपौ तृचौ भवतः, वृषण्वन्तस्तृचा भवन्ति, तृच उत्तमः पर्यासः'' इति। अयमर्थः 'प्राकृतानां बहिष्पवमानगतानां त्रयाणां तृचानां स्तोत्रीयः, अनुरूपः, पर्यासश्चेति त्रीणि नामानि। अत्र चोदकागतयोरनुरूपपर्यासयोस्तृचयोर्मध्ये वृषण्वच्छब्दयुक्तास्तृचाः कर्तव्याः' इति। न चैवमतिरात्रे मध्यनिवेशनाय वचनमस्ति। तस्मात्- क्लृप्तक्रममबाधितुमागन्तूनामन्ते निवेशः।। 7।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये सामिधेनीष्वागन्तूनामन्ते निवेशाधिकरणे सूत्राणि 4-6”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इध्यमानेद्धवत्योस्ता मध्ये धाय्या विधानतः आगन्तूनामधाय्यानां निवेशोऽन्ते हि युज्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.3.5 पञ्चमे बहिष्पवमान एवागन्तूनां साम्नां मध्ये निवेशाधिकरणे सूत्रे 13-14
अन्ते तूत्तरयोर्दध्यात्।। 13।।
अपि वा गायत्रीबृहत्यनुष्टुप्सु वचनात्।। 14।।
पञ्चमाधिकरणमारचयति-

1विषयः

आर्भवे साम्न आगन्तोरन्ते मध्येऽथवाऽग्रिमः
पूर्ववत्त्रीणि यज्ञस्येत्युक्त्या मध्ये निवेशनम्

3पूर्वपक्षः

पूर्वोदाहृतेऽतिरात्रे माध्यंदिनार्भवबहिष्पवमानयोश्चोदकप्राप्तौ पञ्चदश-सप्तदशस्तोमौ बाधितुमेकविंशादि विवृद्धस्तोमो वचनादनुष्ठीयते। तत्र बहिष्पवमानवदृगागमनं न भवति, किंतु- सामागमनेन स्तोमपूरणम्- इति दशमे वक्ष्यते। तस्य चागन्तोः साम्नः पूर्वोक्तानामृचामिवान्ते निवेशात्पठितानां तृचानां मध्ये तत्साम चरमे तृचे गातव्यम्- इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- ''त्रीणि ह वै यज्ञस्योदराणि गायत्री, बृहती, अनुष्टुप् च। अत्र ह्येवावपन्ति, अत एवोद्वपन्ति'' इति हि विशेष आम्नायते। अयमर्थः 'स्तोमस्य विवृद्धये साम्न आवापः क्रियते। ह्रासाय चोद्वापः। तावुभावावापोद्वापौ गायत्र्यादिष्वेव, नान्यत्र' इति। ''उच्चा ते जातमन्धसः'' इत्येव माध्यंदिनपवमानस्याद्यस्तृचः। ''स्वादिष्ठया'' इत्येष आर्भवपवमानस्य। तावुभौ गायत्रीच्छन्दस्कौ, तयोरावापः। न तु त्रिष्टुव्जगतीच्छन्दस्कयोरन्ययोस्तृचयोः सामावपनीयम्।। 8।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे बहिष्पवमान आगन्तूनां पर्यासोत्तरकालताधिकरणे सूत्राणि 7-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.3.6 षष्ठे ग्रहेष्टकादीनां क्रत्वग्निशेषताधिकरणे सूत्रे 15-16
ग्रहेष्टकमौपानुवाक्यं सवनचितिशेषः स्यात्।। 15।।
क्रत्वग्निशेषो वा चोदितत्वादचोदनानुपूर्वस्य।। 16।।
षष्ठाधिकरणमारचयति-

1विषयः

अदाभ्यग्रहचित्रिण्यावङ्गे किं सवने चितौ
यागेऽग्नौ वाऽत्र दृष्टत्वादाद्य आवर्त्यतां ततः

3पूर्वपक्षः

यागाग्न्योः फलवत्त्वेनानारभ्योक्ते तदङ्गके
सवने सवने तस्मान्नैवावृत्तिश्चितौ चितौ
अनारभ्य श्रूयते ''योऽदाभ्यं गृहीत्वा सोमाय यजते'' इति, ''चित्रिणीरुपदधाति'' इति च। तत्र ग्रहाणां सवननिष्पादकत्वं प्रत्यक्षेण दृष्टम्। अदाभ्यग्रहस्यापि सवननिष्पादकतया सवनाङ्गत्वे सति प्रतिसवनमदाभ्य आवर्तनीयः। तथेष्टकाभिश्चितिनिष्पत्तिदर्शनाच्चित्रिणीनामिष्टकानां चित्यङ्गत्वे सति प्रतिचयनं चित्रिणीनामावृत्तिः- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- सोमयागः फलवान्, न तु सवनम्
तथैवाग्निः फलोपेतः, न तु चितिः
तत्रानारभ्याधीतस्य वाक्यात्संबन्धः फलवत्येव युक्त इति सवनचयने प्रत्यनङ्गत्वान्नास्ति तयोरावृत्तिः।
9
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे बहिष्पवमान एवागन्तूनां साम्नां मध्ये निवेशाधिकरणे सूत्रे 13-14”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.3.7 सप्तमे चित्रिण्यादीनां मध्यमचितावुपधानाधिकरणे सूत्राणि 17-19
अन्ते स्युरव्यवायात्।। 17।।
लिङ्गदर्शनाच्च।। 18।।
मध्यमायां तु वचनाद्ब्राह्मणवत्यः।। 19।।
सप्तमाधिकरणमारचयति-

1विषयः

चित्रिण्यादेरुत्तमायामुपधानं पुराऽथवा
अव्यवायादुत्तमायां मध्यमायां तु वाक्यतः

3पूर्वपक्षः

उत्तमायां पञ्चम्यां चितौ चित्रिण्यादेरनारभ्याधीताया इष्टकाया उपधानं युक्तम्। तथा सति प्रकरणाधीतानां क्लृप्तक्रमाणामिष्टकानां परस्परव्यवधानं न प्रसज्यते- इति चेत्-
मैवम्। ''यां कां च ब्राह्मणवतीमिष्टकामभिजानीयात्, तां मध्यमायां चितौ'' इति वाक्येनानारभ्याधीतेन ब्राह्मणेन विहितानामिष्टाकानां मध्यमचितौ निवेशः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे ग्रहेष्टकादीनां क्रत्वग्निशेषताधिकरणे सूत्रे 15-16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- सोमयागः फलवान्, न तु सवनम् तथैवाग्निः फलोपेतः, न तु चितिः तत्रानारभ्याधीतस्य वाक्यात्संबन्धः फलवत्येव युक्त इति सवनचयने प्रत्यनङ्गत्वान्नास्ति तयोरावृत्तिः। 9”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.3.8 अष्टमे लोकंपृणातः पूर्वं चित्रिण्याद्युपधानाधिकरणे सूत्रम्
प्राग्लोकंपृणायाः, तस्याः संपूरणार्थत्वात्।। 20।।
अष्टमाधिकरणमारचयति-

1विषयः

लोकंपृणात ऊर्ध्वं स्याच्चित्रिण्युत ततः पुरा
बादरायणदृष्ट्योर्ध्वं पूरणोक्तेस्ततः पुरा

3पूर्वपक्षः

''चित्रिणीरुपदधाति'' ''वज्रिणीरुपदधाति'' ''भूतेष्टका उपदधाति'' इति विहितं चित्रिण्यादिकं मध्यमायां चितौ लोकंपृणाभिधाया इष्टकाया ऊर्ध्वमुपधेयम्। कुतः- बादरायणेन तथा दृष्टत्वात्। 'अन्ते तु बादरायणः'- (5।2।19) इति सूत्रेण बादरायणस्य मतमुपन्यस्तम्। स ह्यागन्तूनामन्ते निवेशमाह। लोकंपृणा च प्रकरणपठितानामन्तिमेष्टका। ततस्तस्या ऊर्ध्वं चित्रिण्यादिकम्- इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- ''लोकं पृण, छिद्रं पृण'' इत्यनेन मन्त्रेणोपधीयमानेष्टका लोकंपृणा। तस्याः कर्मण्यूनत्वादिदोषपरिहारेण संपूर्तिहेतुत्वं मन्त्रलिङ्गादवगम्यते। ब्राह्मणेऽप्येवमाम्नातम्- ''यदेवास्योनं यच्छिद्रम्, तदेतया परिपूरयति लोकंपृण, छिद्रं पृण'' इति। यद्येतस्या इष्टकाया ऊर्ध्वं चित्रिण्यादय उपधीयेरन्, तदानीं चित्रिण्यादिगते ऊनत्वच्छिद्रत्वे न पूर्येयाताम्। तस्मात्- लोकंपृणातः पूर्वं चित्रिण्याद्युपधानम्।। 12।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे चित्रिण्यादीनां मध्यमचितावुपधानाधिकरणे सूत्राणि 17-19”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.3.9 नवमे- इष्टिसंस्कृतेऽग्नावग्निहोत्राद्यनुष्ठानाधिकरणे सूत्राणि 21-25
संस्कृते कर्म संस्काराणां तदर्थत्वात्।। 21।।
अनन्तरं व्रतं तद्भूतत्वात्।। 22।।
पूर्वं च लिङ्गदर्शनात्।। 23।।
अर्थबादो वाऽर्थस्य विद्यमानत्वात्।। 24।।
न्यायविप्रतिषेधाच्च।। 25।।
नवमाधिकरणमारचयति-

1विषयः

आहिते पवमानेष्टिस्संस्कृते वाऽग्निहोत्रकम्
आधानेनाग्निनिष्पत्तेस्तन्मात्रे कर्म संभवेत्

3पूर्वपक्षः

आधानस्यानपेक्षस्य नाग्न्युत्पादकता मता
समुच्चितस्य हेतुत्वात्कर्म स्यादिष्टिसंस्कृते
अग्न्याधानादूर्ध्वं विलम्ब्य पवमानेष्टयः क्रियन्ते ''द्वादशसु रात्रिष्वनुनिर्वपेत्'' इतीष्टिकालविधानात्ताभ्यः पुरा द्वादशसु दिनेष्वग्निहोत्रमनुष्ठेयम्। आधानमात्रेणाहवनीयाद्यग्नेर्निष्पन्नत्वात्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- आधानेन पवमानेष्टिनिरपेक्षेण नाहवनीयाद्यग्निरुत्पद्यते
अन्यथा पवमानेष्टिवैयर्थ्यप्रसङ्गात्
न च विकल्पः, आधानमुपजीव्य तस्मादुत्तरकाले विधानात्
तत इष्टिभिः समुच्चित्यैवाधानमग्न्युत्पादकम्- इतीष्टिभिः संस्कृते वह्नौ पश्चादग्निहोत्रानुष्ठानम्।
13
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे लोकंपृणातः पूर्वं चित्रिण्याद्युपधानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.3.10 दशमे- अग्निचिद्वर्षणादिव्रतानां क्रत्वन्तेऽनुष्ठानाधिकरणे सूत्राणि 26-28
संचिते त्वग्निचिद्युक्तं प्रापणान्निमित्तस्य।। 26।।
क्रत्वन्ते वा प्रयोगवचनाभावात्।। 27।।
अग्नेः कर्मत्वनिर्देशात्।। 28।।
दशमाधिकरणमारचयति-

1विषयः

न धावेद्वर्षतीत्यादि चितौ सत्यां क्रतावुत

3पूर्वपक्षः

आद्यश्चितेर्निमित्तत्वान्न क्रतावग्निचित्त्वतः
इदमाम्नायते- ''अग्निचिद्वर्षति न धावेत्, न स्त्रियमुपेयात्'' इति। तान्येतान्यग्निचिद्व्रतानि चितौ निष्पन्नायां सत्यां तदाप्रभृति प्रवर्तन्ते, न तु चितेऽग्नौ क्रत्वनुष्ठानं प्रतीक्षन्ते। कुतः- अग्निचित्पदे चयनस्य निमित्तत्वेनोपन्यासात्। न हि सति निमित्ते नैमित्तिकस्य विलम्बो युक्तः- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- क्रतावुपयोक्तुमग्निश्चयनेन संस्क्रियते
न चानिष्पन्ने क्रतौ चयनसंस्कारः सफलो भवति
तस्मात् क्रतौ निष्पन्ने सति पश्चाच्चयनसाफल्यात्- 'अयं पुरुषः- अग्निं चितवान्' इत्यमुमर्थमर्हति- इति क्रत्वन्ते तानि व्रतानि
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- इष्टिसंस्कृतेऽग्नावग्निहोत्राद्यनुष्ठानाधिकरणे सूत्राणि 21-25”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- आधानेन पवमानेष्टिनिरपेक्षेण नाहवनीयाद्यग्निरुत्पद्यते अन्यथा पवमानेष्टिवैयर्थ्यप्रसङ्गात् न च विकल्पः, आधानमुपजीव्य तस्मादुत्तरकाले विधानात् तत इष्टिभिः समुच्चित्यैवाधानमग्न्युत्पादकम्- इतीष्टिभिः संस्कृते वह्नौ पश्चादग्निहोत्रानुष्ठानम्। 13”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.3.11 एकादशे- दीक्षाया इष्टिसिद्धताधिकरणे सूत्राणि 29-31
परेणावेदनाद्दीक्षितः स्यात्, सर्वैर्दीक्षाभिसंबन्धात्।। 29।।
इष्ट्यन्ते वा तदर्था ह्यविशेषार्थसंबन्धात्।। 30।।
समाख्यानं च तद्वत्।। 31।।
एकादशाधिकरणमारचयति-

1विषयः

इष्टिदण्डादिभिर्दीक्षा किं वेष्ट्यैवोक्तितोऽग्रिमः

3पूर्वपक्षः

युक्तः संस्कार इष्ट्यैव दण्डादेर्व्यञ्जकत्वतः
ज्योतिष्टोमे श्रूयते- ''आग्नावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाणः'' इति। अन्यदपि श्रुतम्- ''दण्डेन दीक्षयति, मेखलया दीक्षयति, कृष्णाजिनेन दीक्षयति'' इति। तत्र- इष्टिवद्दण्डादीनामपि साधनत्वाभिधानात्सर्वैरयं दीक्षितः- इति चेत्-

4सिद्धान्तः

मैवम्
इष्टेः क्रियारूपत्वात्संस्कारहेतुत्वं युक्तम्
दण्डादयस्तु द्रव्यरूपा न पुरुषं संस्कर्तुं प्रभवन्ति
न चैतावता दण्डादिवैयर्थ्यम्, 'दीक्षितोऽयम्' इत्यभिव्यक्तिरूपस्य दृष्टप्रयोजनस्य सद्भावात्
तस्मात्- इष्ट्यैव दीक्षा सिध्यति

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- अग्निचिद्वर्षणादिव्रतानां क्रत्वन्तेऽनुष्ठानाधिकरणे सूत्राणि 26-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- क्रतावुपयोक्तुमग्निश्चयनेन संस्क्रियते न चानिष्पन्ने क्रतौ चयनसंस्कारः सफलो भवति तस्मात् क्रतौ निष्पन्ने सति पश्चाच्चयनसाफल्यात्- 'अयं पुरुषः- अग्निं चितवान्' इत्यमुमर्थमर्हति- इति क्रत्वन्ते तानि व्रतानि”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.3.12 द्वादशे काम्येष्टीनामनियमेनानुष्ठानाधिकरणे सूत्राणि 32-36
अङ्गवत्क्रतूनामानुपूर्व्यम्।। 32।।
न वाऽसंबन्धात्।। 33।।
काम्यत्वाच्च।। 34।।
आनर्थक्यान्नेति चेत्।। 35।।
स्याद्विद्यार्थत्वाद्यथा परेषु सर्वस्वारात्।। 36।।
द्वादशाधिकरणमारचयति-

1विषयः

काम्यनैमित्तिकाः कार्या यथापाठं न वाऽग्रिमः

3पूर्वपक्षः

पाठस्य क्रमहेतुत्वान्न प्रयोगपृथक्त्वतः
काम्वयागाः श्रूयन्ते- ''ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः'' इत्यादयः। तथा नैमित्तिकयागाश्च तस्मिन्काण्ड आम्नाताः- ''अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत्। यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपातयेत्'' इत्यादयः। तत्र 'पाठः क्रमहेतुः' इति प्रयाजोदाहरणेन दर्शितत्वाद्यथापाठमेते यागाः क्रमेण कर्तव्याः- इति चेत्-

4सिद्धान्तः

मैवम्
एकप्रयोगाभावेन परस्परक्रमाकाङ्क्षाया अभावात्
तस्मात्- कामो वा निमित्तं वा यदोत्पद्यते, तदा तत्रोदितो यागः कर्तव्यः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- दीक्षाया इष्टिसिद्धताधिकरणे सूत्राणि 29-31”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् इष्टेः क्रियारूपत्वात्संस्कारहेतुत्वं युक्तम् दण्डादयस्तु द्रव्यरूपा न पुरुषं संस्कर्तुं प्रभवन्ति न चैतावता दण्डादिवैयर्थ्यम्, 'दीक्षितोऽयम्' इत्यभिव्यक्तिरूपस्य दृष्टप्रयोजनस्य सद्भावात् तस्मात्- इष्ट्यैव दीक्षा सिध्यति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.3.13 त्रयोदशे यज्ञानामग्निष्टोमपूर्वताधिकरणे सूत्रे 37-38
य एतेनेत्यग्निष्टोमः प्रकरणात्।। 37।।
लिङ्गाच्च।। 38।।
त्रयोदशाधिकरणमारचयति-

1विषयः

एतेनानिष्ट्वेति सर्वसंस्थोऽग्निष्टोम एव वा

3पूर्वपक्षः

अविशेषात्सर्वसंस्थो ज्योतिष्टोमोऽत्र वर्ण्यताम्
ज्योतिष्टोमे श्रूयते ''एष वाव प्रथमो यज्ञो यज्ञानाम्, यज्ज्योतिष्टोमः, य एतेनानिष्ट्वाऽथान्येन यजेत गर्तपत्यमेव हि तज्जीर्येत प्र वा मीयते'' इति। यथा गर्ते पतितमुच्छिष्टपत्रावल्यादिकं पुनर्न क्वाप्युपयुज्यते, केवलं जीर्यते, तथा प्रथमतोऽनुष्ठितं यज्ञान्तरं न फलोपयुक्तम्। यजमानश्चानेनापराधेनापमृत्युभाग्भवति- इत्यर्थः। अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामो वाजपेयश्च, इति ज्योतिष्टोमस्य सप्त संस्थाभेदाः। तत्र संस्थाविशेषमनुपन्यस्य ज्योतिष्टोम इत्येव प्रकृतत्वात् 'एतेनानिष्ट्वा-' इत्येतच्छब्दात्सर्वसंस्थोपेतो ज्योतिष्टोमोऽत्र परामृश्यते। ततः सप्त संस्था अनुष्ठाय पश्चाद्यज्ञान्तरमनुष्ठेयम्- इति प्राप्ते-

4सिद्धान्तः

अग्निष्टोमप्रक्रियाऽत्र तस्य प्रथमयज्ञतः
तेनेष्ट्वाऽन्येन यष्टव्यं संस्था आगन्तवोऽपराः
ब्रूमः- ज्योतिष्टोमस्य ह्यग्निष्टोमसंस्थैव नैजं रूपम्। अग्निष्टोमस्य नित्यत्वात्। अत एव- प्रकरणमेतदग्निष्टोमस्य- इत्येतच्छब्देन स एव परामृश्यते। अत्यग्निष्टोमादिसंस्थानां काम्यत्वेनानित्यत्वान्नित्यज्योतिष्टोमस्वरूपत्वमयुक्तमिति षट्संस्था आगन्तुकाकारविशेषाः। तस्मात्- अग्निष्टोमस्यैव प्रथमयज्ञत्वात्तेनेष्ट्वा यज्ञान्तरमनुष्ठातुं शक्यते।। 18।। 19।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे काम्येष्टीनामनियमेनानुष्ठानाधिकरणे सूत्राणि 32-36”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् एकप्रयोगाभावेन परस्परक्रमाकाङ्क्षाया अभावात् तस्मात्- कामो वा निमित्तं वा यदोत्पद्यते, तदा तत्रोदितो यागः कर्तव्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.3.14 चतुर्दशे ज्योतिष्टोमविकाराणामग्निष्टोमपूर्वकताधिकरणे सूत्राणि 39-42
अथान्येनेति संस्थानां संनिधानात्।। 39।।
तत्प्रकृतेर्वापत्तिविहारौ हि न तुल्येषूपपद्येते।। 40।।
प्रशंसा वा विहरणाभावात्।। 41।।
विधिप्रत्ययाद्वा नह्यकस्मात्प्रशंसा स्यात्।। 42।।
चतुर्दशाधिकरणमारचयति-

1विषयः

अन्येनेत्यत्र संस्थानामुक्तिः सर्वस्य वाऽग्रिमः
संनिधेस्तद्विकारस्य सर्वस्योक्तिर्हि वाक्यतः

3पूर्वपक्षः

पूर्वोदाहृत एव वाक्ये योऽयम् 'अन्येन' इत्यन्यशब्दः, सोऽग्निष्टामेन सजातीयानत्यग्निष्टोमादिसंस्थाभेदानेव परामृशति। तेषामेव बुद्धौ संनिहितत्वात्- इति चेत्-
मैवम्। ''यज्ञानां प्रथमो यज्ञः'' इत्यनेन वाक्येन सर्वयज्ञप्रतियोगिकस्य प्राथम्यस्योपन्यासाद्बुद्धौ संनिहिता अशेषयज्ञा अन्यशब्देनोच्यन्ते। तस्मात्- अत्यग्निष्टोमादयः संस्थाभेदाः, एकाहाहीनसत्ररूपाश्च सोमविकृतिरूपाः सर्वे यागा अग्निष्टोमात्प्राग्नानुष्ठेयाः। सोमविकृतीनामेवायं नियमो नत्विष्टिपशूनाम्- इत्यस्मिन्नर्थे लिङ्गमिदमाम्नायते- ''प्रजापतिर्वा अग्निष्टोमः। स उत्तरानेकाहानसृजत। ते सृष्टा अब्रुवन्- न वयं स्वेनात्मना प्रभवामः- इति। तेभ्यः स्वां तनुं प्रायच्छत्। तया प्राभवन्'' इति। तस्मात्- सोमविकृतिष्वयं नियमः।। 20।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे यज्ञानामग्निष्टोमपूर्वताधिकरणे सूत्रे 37-38”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अग्निष्टोमप्रक्रियाऽत्र तस्य प्रथमयज्ञतः तेनेष्ट्वाऽन्येन यष्टव्यं संस्था आगन्तवोऽपराः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.3.15 पञ्चदशे सर्वेषामेकानेकस्तोमकानामग्निष्टोमपूर्वकताधिकरणे सूत्रे 43-44
एकस्तोमे वा क्रतुसंयोगात्।। 43।।
सर्वेषां वा चोदनाविशेषात्प्रशंसा स्तोमानाम्।। 44।।
पञ्चदशाधिकरणमारचयति-

1विषयः

एकस्तोमेऽन्यशब्दः स्याद्बहुस्तोमेऽपि वाऽग्रिमः
त्रिवृदन्येत्यर्थवादान्नान्यमात्रस्य संभवात्

3पूर्वपक्षः

ब्रूमः- 'स तं दीपयति' इत्यत्र प्रकाशकत्वमात्रमुच्यते
तच्च व्याप्तिमन्तरेण संबन्धमात्रादप्युपपद्यते
तस्मात्- अग्निष्टोमप्रतियोगितया बहुस्तोमैकस्तोमसाधारण्येन श्रूयमाणस्यान्यशब्दस्य संकोचे हेत्वभावात्सर्वविषयोऽयमन्यशब्दः
अत्र पूर्वोदाहृतः 'अन्येन' इत्ययमन्यशब्द एकस्तोमके क्रतौ वर्तते। कुतः- अर्थवादेन तदवगमात्। ''यो वै त्रिवृदन्यं यज्ञक्रतुमापद्यते, स तं दीपयति। यः पञ्चदशः स तम्। यः सप्तदशः स तम्। य एकविंशः स तम्'' इत्यर्थवादः। अस्यायमर्थः- 'त्रिवृदादयश्चत्वारः स्तोमा अग्निष्टोमे विद्यन्ते। तेषु त्रिवृत्स्तोमो विकृतिरूपं यज्ञं प्राप्नोति, स त्रिवृत्स्तोमस्तं यज्ञं दीपयति प्रकाशयति सर्वान्व्याप्नोति' इति। स्तोमान्तरस्याप्रवेशाय त्रिवृत एव सर्वस्मिन्यज्ञस्वरूपे व्याप्तावयमेकस्तोमकः क्रतुर्भवति। एवं पञ्चदशादिस्तोमव्याप्तिर्योजनीया। तथा सत्यर्थवादादेकस्तोमकानामेव बुद्धिस्थत्वात्त एवान्यशब्देनोच्यन्ते। एकस्तोमकाश्च षड्रात्रादिष्वहीनेष्वाम्नाताः- ''त्रिवृदग्निष्टोमो भवति। पञ्चदश उक्थ्यो भवति'' इत्यादयः। तस्मात्- तद्विषयोऽन्यशब्दः- इति प्राप्ते

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे पञ्चमाध्यायस्य तृतीयः पादः
-
अत्र पादे- अधिकरणानि 15, सूत्राणि 44।
आदितः- अधिकरणानि 353, सूत्राणि 918।
पञ्चमाध्यायस्य चतुर्थः पादः
क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे ज्योतिष्टोमविकाराणामग्निष्टोमपूर्वकताधिकरणे सूत्राणि 39-42”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 5, Pāda 2 Contents Adhyāya 5, Pāda 4 →