3.6.1
प्रथमे स्रुवादिषु खादिरतादिविधेः प्रकृतिगामिताधिकरणे सूत्राणि 1-8
SŪसर्वार्थमप्रकरणात्।। 1।।
SŪप्रकृतौ वाऽद्विरुक्तत्वात्।। 2।।
SŪतद्वर्जं तु वचनप्राप्ते।। 3।।
SŪदर्शनादिति चेत्।। 4।।
SŪन चोदनैकार्य्यात्।। 5।।
SŪउत्पत्तिरिति चेत्।। 6।।
SŪन तुल्यत्वात्।। 7।।
SŪचोदनार्थकार्त्स्न्यात्तु न मुख्यविप्रतिषेधात्प्रकृत्यर्थः।। 8।।
षष्ठपादस्य प्रथमाधिकरणमारचयति-
1विषयः
प्रकृतौ विकृतौ वा स्याद्यस्य पर्णेत्यसौ विधिः
प्रकृतावेव वा तुल्याद्वचनादुभयोरसौ
3पूर्वपक्षः
जुहूमाश्रित्य पर्णत्वविधिः प्रकृतिमात्रगः
चोदकेनोभयप्राप्तेर्विकृतौ विधिनाऽत्र किम्
अनारभ्य श्रूयते ''यस्य पर्णमयी जूहूर्भवति, न स पापं श्लोकं शृणोति'' इति। तत्र- अव्यभिचरितक्रतुसंबन्धवतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयते- 'या जुहूः सा पर्णमयी' इति। वाक्यं च प्रकृतिविकृत्योस्तुल्यमेव प्रवर्तते, उभयत्राश्रयभूताया जुह्वाः सत्त्वात्। तस्मात्- प्रकृतिविकृत्योरुभयोरप्ययं विधिः- इति प्राप्ते-
4सिद्धान्तः
एवं ''यस्य स्वादिरः स्रुवो भवति'' इत्युदाहरणीयम्।
1
ब्रूमः- किमयं विधिर्विकृतौ चोदकात्पूर्वं निविशते, पश्चाद्वा। नाद्यः, आश्रयभूताया जुह्वाश्चोदकमन्तरेणासंभवात्। द्वितीये तु पर्णत्वमपि जुह्वा सहैव चोदकेनातिदिश्यते। तत्र पुनर्विधिवैयर्थ्यादयं विधिः प्रकृतिमात्रगः।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे ब्राह्मणानामेव राजन्यचमसानुप्रसर्पणाधिकरणे सूत्रे 52-53”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य पञ्चमः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.2
द्वितीये सामिधेनीनां सप्तदशसंख्याया विकृतिगामिताधिकरणे सूत्रम्
SŪप्रकरणविशेषात्तु विकृतौ विरोधि स्यात्।। 9।।
द्वितीयाधिकरणमारचयति-
1विषयः
सामिधेनीः सप्तदश प्रकृतौ विकृतावुत
3पूर्वपक्षः
पूर्ववत्प्रकृतौ पाञ्चदश्येनैतद्विकल्प्यते
अनारभ्य श्रूयते ''सप्तदश सामिधेनीरनुब्रूयात्'' इति। ''प्रवो वाजा अभिद्यव''- इत्याद्या अग्निसमिन्धनार्था ऋचः सामिधेन्यः। तासां साप्तदश्यं पूर्वन्यायेन प्रकृतिगतम्। यदि प्रकृतौ 'पञ्चदश सामिधेनीरन्वाह' इति विधिः स्यात्, तर्हि पाञ्चदश्यसाप्तदश्ये विकल्पेयाताम्- इति प्राप्ते-
4सिद्धान्तः
विकृतौ साप्तदश्यं स्यात्प्रकृतौ प्रक्रियाबलात्
पाञ्चदश्यावरुद्धत्वादाकाङ्क्षायाः निवृत्तितः
ब्रूमः- विकृतावेव साप्तदश्यं निविशते, प्रकृतौ पाञ्चदश्येनावरुद्धानां सामिधेनीनां संख्याकाङ्क्षाया अभावात्। न च- प्राञ्चदश्यसाप्तदश्यवाक्ययोः समानबलत्वादवरोधाभावः- इति शङ्कनीयम्। पाञ्चदश्ये प्रकरणानुग्रहस्याधिकत्वात्। तस्मात्- मित्रविन्दाध्वरकल्पादिविकृतौ साप्तदश्यमवतिष्ठते। न चात्र पूर्वन्यायोऽस्ति, साप्तदश्यस्य चोदकप्राप्त्यभावेन पुनर्विधाने दोषाभावात्।। 3।। 4।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे स्रुवादिषु खादिरतादिविधेः प्रकृतिगामिताधिकरणे सूत्राणि 1-8”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एवं ''यस्य स्वादिरः स्रुवो भवति'' इत्युदाहरणीयम्। 1”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.3
तृतीये नैमित्तिकसाप्तदश्यस्य प्रकृतिगामिताधिकरणे सूत्रम्
SŪनैमित्तिकं तु प्रकृतौ, तद्विकारः संयोगविशेषात्।। 10।।
तृतीयाधिकरणमारचयति-
1विषयः
साप्तदश्यं तु वैश्यस्य विकृतौ प्रकृतावुत
पूर्ववच्चेन्न संकोचान्नित्ये नैमित्तिकोक्तितः
3पूर्वपक्षः
गोदोहनेन प्रणयेत्कामीत्येतदुदाहरत्
भाष्यकारस्तदप्यस्तु न्यायस्यात्र समत्वतः
''सप्तदशानुब्रूयाद्वैश्यस्य'' इति विहितं वैश्यनिमित्तं साप्तदश्यं पूर्वन्यायेन विकृतिगतम्- इति चेत्-
मैवम्। नैमित्तिकेनानेन वचनेन प्रकृतिगतस्य नित्यस्य पाञ्चदश्यस्य वैश्यव्यतिरिक्त विषयतया संकोचनीयत्वात्। नित्यं सामान्यरूपतया सावकाशत्वेन च दुर्बलम्। नैमित्तिकं तु विशेषरूपत्वनिरवकाशत्वाभ्यां प्रबलम्। तस्मात्- वैश्यनिमित्तकं साप्तदश्यं प्रकृताववतिष्ठते।
अत्र भाष्यकारोऽन्यदुदाजहार- ''चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्य'' इति। तत्र- प्रकृतेश्चमसेनावरुद्धत्वाद्गोदोहनं विकृतौ- इति पूर्वपक्षः।
4सिद्धान्तः
कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया संकोचनीयत्वात्प्रकृतावेव गोदोहनम्- इति राद्धान्तः।
5
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये सामिधेनीनां सप्तदशसंख्याया विकृतिगामिताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विकृतौ साप्तदश्यं स्यात्प्रकृतौ प्रक्रियाबलात् पाञ्चदश्यावरुद्धत्वादाकाङ्क्षायाः निवृत्तितः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.4
चतुर्थे- आधानस्य पवमानेष्ट्यनङ्गताधिकरणे सूत्राणि 11-13
SŪइष्ट्यर्थमग्न्याधेयं प्रकरणात्।। 11।।
SŪन वा तासां तदर्थत्वात्।। 12।।
SŪलिङ्गदर्शनाच्च।। 13।।
चतुर्थाधिकरणमारचयति-
1विषयः
आधानं पवमानादेरिष्टेरङ्गं न वा भवेत्
अग्नीनामिष्टिशेषत्वात्तद्द्वाराऽस्य तदङ्गता
3पूर्वपक्षः
अनारभ्य विधानात्तु नाङ्गं कस्यचिदाहितिः
अग्न्यर्थत्वात्तत्समेष्टिरग्नयस्त्वग्निहोत्रगाः
इदमाम्नायते- ''अग्नये पवमानायाष्टाकपालं निर्वपेत्, अग्नये पावकाय, अग्नये शुचये'' इति। ''वसन्ते ब्राह्मणोऽग्नीनादधीत'' इति च। तत्र- आधानं पवमानादीष्टीनामङ्गं भवेत्।कुतः- दर्शपूर्णमासविकृतिषु पवमानादीष्टिषु चोदकप्राप्तानामाहवनीयाद्यग्नीनामिष्ट्यङ्गत्वे सत्यग्निद्वारा तत्संस्काररूपस्याधानस्यापि तदङ्गताया अनिवार्यत्वात्- इति चेत्-
मैवम्। न ह्येतदाधानं कस्यचित्क्रतोः प्रकरणे पठितम्। किंतु- अनारभ्याधीतम्। अतो न कस्याप्येतदङ्गम्, किंत्वाधानवदिष्टीनामप्यग्निसंस्कारार्थत्वात्परस्परं नास्त्यङ्गाङ्गिभावशङ्का।
4सिद्धान्तः
ननु- पवमानेष्ठ्यङ्गत्वाभावेऽग्निसंस्कारवैयर्थ्यादग्निद्वारा तदङ्गत्वं युक्तम्- इति चेत्- न
संस्कृनामग्नीनामग्निहोत्राद्युत्तरक्रतुषु तत्तद्वाक्यैर्विनियोगावगमात्
तस्मात्- नाधानमङ्गम्।
7
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये नैमित्तिकसाप्तदश्यस्य प्रकृतिगामिताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया संकोचनीयत्वात्प्रकृतावेव गोदोहनम्- इति राद्धान्तः। 5”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.5
पञ्चमे- आधानस्य सर्वार्थताधिकरणे सूत्रे 14-15
SŪतत्प्रकृत्यर्थं यथाऽन्येऽनारभ्यवादाः।। 14।।
SŪसर्वार्थं वाधानस्य स्वकालत्वात्।। 15।।
पञ्चमाधिकरणमारचयति-
1विषयः
आधानं किं प्रकृत्यर्थं वह्निमात्रेण वा युतम्
3पूर्वपक्षः
संस्कृताग्निप्रनाड्यैतत्पर्णवत्प्रकृतौ स्थितम्
अनारभ्याधीतं पर्णमयीत्वं यथा जुहूप्रणाड्या प्रकृतौ निविष्टम्, तथैवाग्निप्रणाड्या तत्संस्काररूपमाधानं प्रकृतौ निविशते- इति चेत्- मैवम्। वैषम्यात्। द्विविधो हि जुह्वा आकारः- लौकिकः शास्त्रीयश्च। अरत्निमात्रदैर्घ्यहंसमुखत्वत्वग्बिलत्वादिरूपो दृश्यमानो लौकिकः। अपूर्वीयत्वाकारस्तु शास्त्रीयः। तयोरपूर्वीयत्वं क्रतुप्रवेशमन्तरेण नास्ति। तत्र यदि लौकिकाकारमात्रे पर्यवस्यति, तदा पर्णमयीत्वं विफलं भवेत्। काष्ठान्तरेणापि तदाकारस्य सुसंपादत्वात्। अतोऽपूर्वीयत्वाय पर्णः क्रतौ प्रविष्टः। आहवनीयादीनां त्वेक एव शास्त्रीयाकारः। स च विधिबलादाधानेनैव जन्यते, नान्यथा। तस्मादाधानस्य क्रतुप्रवेशं विनैव शास्त्रीयाहवनीयाद्याकारसंपादनसमर्थत्वादग्निहोत्रेण तत्संयुज्यते। तथा सति पर्णवैषम्यात्प्रकृतावप्रविश्याग्नीनु त्पाद्य क्रतुवत्स्वातन्त्र्येणावतिष्ठते। ततो लौकिकोपायसंपादितसुवर्णव्रीह्यादिवदाधानसंपादितानां स्वतन्त्राणा- मेवाहवनीयाद्यग्नीनां पश्चाद्वाक्यैः क्रतुषु विनियोगोऽस्तु।। 9।। 10।।
4सिद्धान्तः
लौकिकाकारमात्रत्वे विफलत्वात्क्रतौ युतिः
पर्णस्याहवनीयादौ शास्त्रीयेऽस्तु स्वतन्त्रता
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- आधानस्य पवमानेष्ट्यनङ्गताधिकरणे सूत्राणि 11-13”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ननु- पवमानेष्ठ्यङ्गत्वाभावेऽग्निसंस्कारवैयर्थ्यादग्निद्वारा तदङ्गत्वं युक्तम्- इति चेत्- न संस्कृनामग्नीनामग्निहोत्राद्युत्तरक्रतुषु तत्तद्वाक्यैर्विनियोगावगमात् तस्मात्- नाधानमङ्गम्। 7”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.6
षष्ठे पवमानेष्टीनामसंस्कृतेऽग्नौ कर्तव्यताधिकरणे सूत्रे 16-17
SŪतासामग्निः प्रकृतितः प्रयाजवत्स्यात्।। 16।।
SŪन वा तासां तदर्थत्वात्।। 17।।
षष्ठाधिकरणमारचयति-
1विषयः
संस्कृते पवमानेष्ट्या वह्नौ सेष्टिर्न वेष्टयः
वह्नौ तत्संस्कृते कार्याश्चोदकस्यानुरोधतः
3पूर्वपक्षः
चोदकः पवमानेष्टौ न तां प्रापयितुं प्रभुः
अनङ्गत्वेष्ट्यसिद्धिभ्यामिष्टयस्तदसंस्कृते
पावमानादीष्टिभिराहवनीयाद्यग्नयः संस्क्रियन्ते। संस्कृतेष्वग्निष्वग्निहोत्रदर्शपूर्णमासादिक्रतवः प्रवर्तन्ते। तथा सति- विमताः पवमानेष्टयस्ताभिरिष्टिभिः संस्कृते बह्नौ कर्तव्याः, इष्टित्वात्, इतरेष्टिवत्। चोदकोऽप्येवं सत्यनुगृहीतो भवति। एताभिरिष्टिभिः संस्कृते वह्नौ प्रकृत्यनुष्ठानात्- इति प्राप्ते-
4सिद्धान्तः
किंच- 'एतस्याः पवमानेष्टेः संस्कृताग्निसिद्ध्यर्थं पवमानेष्ट्यन्तराङ्गीकारे तत्रापि तथा' इत्यनवस्थायामिष्टिरेव न सिध्येत्
तस्मात्- ताभिरिष्टिभिरसंस्कृते वह्नौ पवमानेष्टयः कर्तव्याः।
11
ब्रूमः- यद्यपि पवमानेष्टिर्विकृतिः, तथाऽपि चोदको न तस्यां पवमानेष्टौ पवमानेष्टिमतिदेष्टुं प्रभवति। प्रकृतौ प्रयाजादिवत्पवमानेष्टेरङ्गत्वाभावात्।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- आधानस्य सर्वार्थताधिकरणे सूत्रे 14-15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “लौकिकाकारमात्रत्वे विफलत्वात्क्रतौ युतिः पर्णस्याहवनीयादौ शास्त्रीयेऽस्तु स्वतन्त्रता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.7
सप्तमे- उपाकरणादीनामग्नीषोमीयधर्मताधिकरणे सूत्राणि 18-27
SŪतुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात्।। 18।।
SŪस्थानाच्च पूर्वस्य।। 19।।
SŪश्वस्त्वेकेषां तत्र प्राक्श्रुतिर्गुणार्था।। 20।।
SŪतेनोत्कृष्टस्य कालविधिरिति चेत्।। 21।।
SŪनैकदेशत्वात्।। 22।।
SŪअर्थेनेति चेत्।। 23।।
SŪन श्रुतिविप्रतिषेधात्।। 24।।
SŪस्थानात्तु पूर्वस्य संस्कारस्य तदर्थत्वात्।। 25।।
SŪलिङ्गदर्शनाच्च।। 26।।
SŪअचोदना वा गुणार्थेन।। 27।।
सप्तमाधिकरणमारचयति-
1विषयः
अग्नीषोमीयसवनीयानुबन्ध्यपशुष्वमी
उपाकरणमुख्यास्तु धर्माः साधारणा न वा
3पूर्वपक्षः
ज्योतिष्टोमप्रकरणे पाठात्साधारणा अमी
पशुधर्माग्रहात्सोमयागे ते स्युर्निरर्थकाः
अग्नीषोमीयः, सवनीयः, अनूबन्ध्यश्च, इत्येते त्रयः पशवो ज्योतिष्टोमप्रकरणे समाम्नाताः। पशुधर्माश्चोपाकरणपर्यग्निकरणादयस्तत्राम्नाताः।''प्रजापतेर्जायमानाः'' ''इमं पशुम्''- इत्याभ्यामृग्भ्यां पशोरुपस्पर्शनमुपाकरणम्। दर्भज्वालया त्रिः प्रदक्षिणीकरणं पर्यग्निकरणम्। त एते धर्मास्त्रिष्वपि पशुषु साधारण्येन विधीयन्ते। त्रयाणामपि ज्योतिष्टोमप्रकरणपाठसाम्यात्।ननु ज्योतिष्ठोमस्य प्रकरणे पठितानेतान्धर्मान्स एव ग्रहीष्यति, न तु पशवः- इति चेत्- न। तस्य सोमयागत्वात्। सोमो ह्यभिषवादीन्धर्मानाकाङ्क्षति, न तु यूपनियोजनविशसनादीन्। तस्मात्- अङ्गिन्यनर्थकाः सन्तोऽङ्गेषु निविशमाना अविशेषतस्त्रिष्वपि पशुष्ववतिष्ठन्ते- इति प्राप्ते-
4सिद्धान्तः
अग्नीषोमीयधर्मत्वं तेषां स्थानात्प्रसिध्यति
द्वयोरितरयोः पश्वोः प्राप्यन्ते चोदकेन ते
ब्रूमः- अस्त्यत्र विशेषः संनिधिलक्षणः। सौत्यनामकादह्नः प्राचीन औपवसथ्यनामकेऽह्नि धिष्ण्यनिर्माणादूर्ध्वमेते धर्मा आम्नाताः। अग्नीषोमीयस्यापि तदेव स्थानम्। सवनीयस्तु सौत्येऽहनि श्रूयते ''आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोति'' इति। अनुबन्ध्यस्त्ववभृथान्ते समाम्नातः। ततः संनिधिना ते धर्मा अग्नीषोमीये संबध्यन्ते, सवनीयानूबन्ध्ययोस्तु चोदकादतिदिश्यन्ते।। 13।। 14।। 15।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे पवमानेष्टीनामसंस्कृतेऽग्नौ कर्तव्यताधिकरणे सूत्रे 16-17”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “किंच- 'एतस्याः पवमानेष्टेः संस्कृताग्निसिद्ध्यर्थं पवमानेष्ट्यन्तराङ्गीकारे तत्रापि तथा' इत्यनवस्थायामिष्टिरेव न सिध्येत् तस्मात्- ताभिरिष्टिभिरसंस्कृते वह्नौ पवमानेष्टयः कर्तव्याः। 11”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.8
अष्टमे शाखाहरणादीनामुभयदोहधर्मताधिकरणे सूत्रे 28-29
SŪदोहयोः कालभेदादसंयुक्तं शृतं स्यात्।। 28।।
SŪप्रकरणाविभागाद्वा तत्संयुक्तस्य कालशास्त्रम्।। 29।।
अष्टमाधिकरणमारचयति-
1विषयः
शाखाछेदादयो दोहे धर्माः सायं व्यवस्थिताः
प्रातश्च सन्ति वा सायं स्थानात्ते पूर्ववत्स्थिताः
3पूर्वपक्षः
आनर्थक्यप्रतिहतिः पूर्ववन्नेह विद्यते
बलिनोऽतः प्रकरणात्प्रातर्दोहेऽपि सन्ति ते
दर्शपूर्णमासप्रकरणे- पलाशशाखाछेदनम्, तया शाखया वत्सापाकरणम्, इत्यादयो दोहधर्माः समाम्नाताः। दोहौ च द्वौ विद्येते- अमावास्यायां रात्रावेको दोहः। प्रतिपदि प्रातरपरो दोहः। तत्र पूर्वन्यायेन प्राथमिके सायंदोहे प्रथमश्रुतास्ते धर्मा व्यवतिष्ठन्ते- इति चेत्-
4सिद्धान्तः
मैवम्
वैषम्यात्
पूर्वत्र हि सोमे विशसनादिधर्माणामनन्वयात्प्रकरणमानर्थक्यप्रतिहतम्
इह तु नास्त्यानर्थक्यप्रतिहतिः
ततः प्रकरणेन स्थानं बाधित्वा द्वयोर्दोहयोस्ते धर्मा अभ्युपेयाः।
16
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- उपाकरणादीनामग्नीषोमीयधर्मताधिकरणे सूत्राणि 18-27”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अग्नीषोमीयधर्मत्वं तेषां स्थानात्प्रसिध्यति द्वयोरितरयोः पश्वोः प्राप्यन्ते चोदकेन ते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.9
नवमे सादनादीनां सवनत्रयधर्मताधिकरणे सूत्रम्
SŪतद्बत्सवनान्तरे ग्रहाम्नानम्।। 30।।
नवमाधिकरणमारचयति-
1विषयः
ग्रहधर्माः सादनाद्याः प्रातःसवन एव ते
3पूर्वपक्षः
त्रिषु वा निश्चितस्थानादाद्यः पूर्ववदुत्तरः
ज्योतिष्टोमे- प्रातःसवने सन्त्यैन्द्रवायवादयो ग्रहाः, माध्यंदिने सवने मरुत्वतीयादयः, तृतीयसवन आदित्यादयः। तत्र सादनसंमार्गादयो धर्माः प्रातःसवनीयग्रहसंनिधावाम्नायन्ते- ''उपोप्तेऽन्ये ग्रहाः साद्यन्ते, अनुपोप्ते ध्रुवः'' इति। ''दशापवित्रेण ग्रहं संमार्ष्टि'' इति च। ध्रुवव्यतिरिक्तानां ग्रहाणामधस्तान्मृत्तिकोपवेशनं कृत्वा तत्र सादनम्, ध्रुवस्य तु न तथा। पूर्वाधिकरणे शाखाहरणादयः प्रधानयोर्दधिपयसोर्धर्माः समाम्नाताः, तच्च दधि पूर्वेद्युः सायंदोहमन्तरेण न सिध्यतीति तत्सिद्ध्यर्थं केवलं सायं दुह्यते, न तु सायंदोहस्यासाधारणत्वेन धर्मैः सहैकस्मिन्देशे पाठोऽस्तीति स्थानं न निश्चितम्। इह तु तन्निश्चितमिति प्रातःसवन एव ते धर्मा इति चेत्-
4सिद्धान्तः
मैवम्
सादनादीनां वाक्येन ग्रहधर्मत्वं, प्रकरणेन ज्योतिष्टोमधर्मत्वं चावगम्यते
तस्मान्निश्चितमपि स्थानं वाक्यप्रकरणाभ्यां बाधित्वा त्रिषु सवनेषु सादनादयोऽवतिष्ठन्ते
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे शाखाहरणादीनामुभयदोहधर्मताधिकरणे सूत्रे 28-29”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् वैषम्यात् पूर्वत्र हि सोमे विशसनादिधर्माणामनन्वयात्प्रकरणमानर्थक्यप्रतिहतम् इह तु नास्त्यानर्थक्यप्रतिहतिः ततः प्रकरणेन स्थानं बाधित्वा द्वयोर्दोहयोस्ते धर्मा अभ्युपेयाः। 16”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.10
दशमे रशनात्रिवृत्त्वादीनां सर्वपशुधर्मताधिकरणे सूत्रम्
SŪरशना च लिङ्गदर्शनात्।। 31।।
दशमाधिकरणमारचयति-
1विषयः
एकत्रैवोत सर्वत्र रशनावेष्टनादयः
अग्नीषोमीय एवैते क्रमाल्लिङ्गादितोऽन्तिमः
3पूर्वपक्षः
अग्नीषोमीयपशुसंनिधौ रशनया यूपस्य वेष्टनम्, रशनायास्त्रिवृत्त्वं दर्भमयत्वं च, इत्यादयो धर्मा आम्नाताः- ''परिव्ययति, ऊर्ग्वै रशना'' इति, ''त्रिवृद्भवति'' इति, ''दर्भमयी भवति'' इति च। तत्र येयं रशना, ये च वेष्टनादयः, ते सर्वे संनिधेरवान्तरप्रकरणाद्वाऽग्नीषोमीय एव स्युः- इति चेत्-
मैवम्। सवनीयपशावपि तत्सद्भावो लिङ्गादवगम्यते। ''त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोति'' इति त्रिवृत्त्वपरिव्याणयोः सिद्धवदनुवादो लिङ्गम्। किं च तृतीयाश्रुत्या वाक्येन च परिव्याणस्य यूपधर्मता, न तु पशुधर्मता यूपश्च त्रयाणां पशूनां तन्त्रम्, इति वक्ष्यते। तस्मात्- सर्वेषु पशुष्वेते धर्माः स्युः।। 18।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे सादनादीनां सवनत्रयधर्मताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् सादनादीनां वाक्येन ग्रहधर्मत्वं, प्रकरणेन ज्योतिष्टोमधर्मत्वं चावगम्यते तस्मान्निश्चितमपि स्थानं वाक्यप्रकरणाभ्यां बाधित्वा त्रिषु सवनेषु सादनादयोऽवतिष्ठन्ते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.11
एकादशे, अंश्वदाभ्ययोरपि सादनादिधर्मवत्त्वाधिकरणे सूत्राणि 32-34
SŪआराच्छिष्टमसंयुक्तमितरैः संनिधानात्।। 32।।
SŪसंयुक्तं वा तदर्थत्वाच्छेषस्य तन्निमित्तत्वात्।। 33।।
SŪनिर्देशाद्व्यवतिष्ठेत।। 34।।
एकादशाधिकरणमारचयति-
1विषयः
ग्रहधर्मा अनारभ्योक्तांश्वदाभ्यद्वये न हि
3पूर्वपक्षः
विद्यन्ते वा प्रकरणादाद्यो वाक्यादिहान्तिमः
अनारभ्य द्वौ ग्रहौ श्रुतौ- ''अंशुं गृह्णाति'' इति, ''अदाभ्यं गृह्णाति'' इति च। तयोः सादनसंमार्गादयो ग्रहधर्मा न विद्यन्ते। कुतः- आरभ्याधीतेष्वैन्द्रवायवादिष्वेव प्रकरणेन व्यवस्थापितत्वात्- इति चेत्-
4सिद्धान्तः
मैवम्
'ग्रहाः साद्यन्ते' इत्यादिवाक्येन ग्रहधर्मत्वावगमे तयोरपि ग्रहयोरनिवार्यत्वात्
न चैन्द्रवायवादयः प्रकरणिनः ज्योतिष्ठोमो हि प्रकरणी
तस्मात्सन्ति तयोर्धर्माः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे रशनात्रिवृत्त्वादीनां सर्वपशुधर्मताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.12
द्वादशे चित्रिण्यादीष्टकानामग्न्यङ्गताधिकरणे सूत्रम्
SŪअग्न्यङ्गमप्रकरणे तद्वत्।। 35।।
द्वादशाधिकरणमारचयति-
1विषयः
अखण्डादीष्टकाधर्माश्चित्रिण्यादिषु नोचिताः
3पूर्वपक्षः
सन्ति वा वाक्यमप्यत्रानारभ्योक्तं ततो न ते
अनारभ्य श्रूयते ''चित्रिणीरुपदधाति'' इति। अग्निप्रकरणे चेष्टकानां धर्माः श्रुताः- ''अखण्डामकृष्णां कुर्यात्'' इति। पूर्वत्र- अंश्वदाभ्ययोरुत्पत्तिवाक्यस्यानारभ्याधीतत्वेऽपि विनियोजकवाक्यं प्रकरणाधीतम्। चित्रिण्यादिनामकानां त्विष्टकाविशेषाणां विनियोजकं वाक्यमप्यनारभ्याघीतम्। तच्च चित्यन्तरे ताश्चित्रिणीर्विनियुङ्क्ते। अखण्डत्वादिधर्मास्तु षण्णां चितीनां मध्ये प्रथमचितावाम्नाताः। तस्मात्- ते चित्रिण्यादिषु नोचिताः- इति प्राप्ते-
4सिद्धान्तः
प्रकृतापूर्वसंबन्धात्तादृशादपि वाक्यतः
अखण्डत्वादयोऽग्न्यर्थचित्रिण्यादिषु सन्ति ते
ब्रूमः- यद्यप्युत्पत्तिविनियोजकवाक्ययोरन्यतरस्यापि प्रकरणपाठो नास्ति, तथाऽपि ''य एवं विद्वानग्निं चिनुते'' इति प्रकृतं यदेतदग्न्यपूर्वं तत्संबन्धित्वेनैव चित्रिण्यादयोऽप्यप्रकरणपठितेनापि वाक्येन विनियुज्यन्ते। अखण्डत्वादयश्चाग्निसाधनभूतेष्टकाधर्माः, न तु प्रथमचितिधर्माः। तस्मात्- अग्निसाधनभूतासु चित्रिण्यादीष्टकास्वपि ते सन्ति।। 20।। 21।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे, अंश्वदाभ्ययोरपि सादनादिधर्मवत्त्वाधिकरणे सूत्राणि 32-34”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'ग्रहाः साद्यन्ते' इत्यादिवाक्येन ग्रहधर्मत्वावगमे तयोरपि ग्रहयोरनिवार्यत्वात् न चैन्द्रवायवादयः प्रकरणिनः ज्योतिष्ठोमो हि प्रकरणी तस्मात्सन्ति तयोर्धर्माः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.13
त्रयोदशे- अभिषवादीनां सोममात्रधर्मताधिकरणे सूत्रम्
SŪनैमित्तिकमतुल्यत्वादसमानविधानं स्यात्।। 36।।
त्रयोदशाधिकरणमारचयति-
1विषयः
विधयोऽभिषवाद्याः स्युः फलाख्ये चमसे न वा
नैमित्तिकस्य नित्येन तुल्यत्वादस्ति तद्विधिः
3पूर्वपक्षः
नित्ये कृतार्थाः संस्काराः पश्चाद्भाविनिमित्तजे
न विधेयाः किंतु तत्र प्राप्यन्तामतिदेशतः
न्यग्रोधमुकुलरूपस्य फलस्य पिष्टं चम्यते यत्र स फलचमसः। स च नैमित्तिकः। राजन्यवैश्यौ निमित्तीकृत्य विहितत्वात्। सोमस्तु नित्यः, उपाधिक्रममप्यनुपजीव्यैव 'सोमेन यजेत' इति विहितत्वात्। तस्य च नित्यस्य सोमस्य यथा यागसाधनत्वम्, तथा फलचमसस्यापि तदस्ति। तस्मात् ''सोममभिषुणोति'' ''सोमं क्रीणाति'' इत्यादयो यागद्रव्यसंस्कारविधयः सोम इव फलचमसेऽपि प्रवर्तन्ते- इति प्राप्ते
4सिद्धान्तः
ब्रूमः- नित्या अभिषवादिसंस्कारा नित्यं सोमं संस्कार्यं लब्ध्वा चरितार्थाः सन्तो नान्यं संस्कार्यमपेक्षन्ते फलचमसस्तु सोमविकारत्वात्पश्चाद्भावी
ततो निरपेक्षाः संस्कारविधयो न तत्र प्रवर्तन्ते
न चैतावता संस्काराभावः, चोदकेन तत्सिद्धेः
तस्मात्- सोममात्रसंबन्धिनो विधयः।
22
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे चित्रिण्यादीष्टकानामग्न्यङ्गताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रकृतापूर्वसंबन्धात्तादृशादपि वाक्यतः अखण्डत्वादयोऽग्न्यर्थचित्रिण्यादिषु सन्ति ते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.14
चतुर्दशे प्रतिनिधिष्वपि मुख्यधर्मानुष्ठानाधिकरणे सूत्राणि 37-39
SŪप्रतिनिधिश्च तद्वत्।। 37।।
SŪतद्वत्प्रयोजनैकत्वात्।। 38।।
SŪअशास्त्रलक्षणत्वाच्च।। 39।।
चतुर्दशाधिकरणमारचयति-
1विषयः
नीवारादिप्रतिनिधेरतुल्यो वा विधिः समः
पुरेवातुल्यता साम्यमाकाराद्व्रीहिता यतः
3पूर्वपक्षः
''व्रीहिभिर्यजेत'' इति विहितानां व्रीहीणामसंभवे नीबाराः प्रतिनिधित्वेन स्वीकार्या इति वक्ष्यते। तत्र पूर्वन्यायेनावघातादिविधयो व्रीहिषु कृतार्थाः पश्चाद्भाविनि नीवारादौ न प्रवर्तन्ते- इति चेत्-
मैवम्। व्रीहिशब्दो हि जातिविशेषेणाकारविशेषेण वोपेतं द्रव्यमाचष्टे। नीवारेषु जातितो व्रीहिशब्दार्थत्वाभावेऽप्याकारतो व्रीहिशब्दार्थत्वेन ''व्रीहीनवहन्ति'' इति विधिः प्रवर्तते। यथा व्रीहिजातावेव समीचीनानां व्रीहीणामभावे जलवह्न्याद्युपघातेन सारविकलेष्वपि विधिः, तथा जातिविकलेष्वपि ब्रीहिषु मुख्यैकदेशरूपत्वाद्विधिरस्तु।। 24।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- अभिषवादीनां सोममात्रधर्मताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- नित्या अभिषवादिसंस्कारा नित्यं सोमं संस्कार्यं लब्ध्वा चरितार्थाः सन्तो नान्यं संस्कार्यमपेक्षन्ते फलचमसस्तु सोमविकारत्वात्पश्चाद्भावी ततो निरपेक्षाः संस्कारविधयो न तत्र प्रवर्तन्ते न चैतावता संस्काराभावः, चोदकेन तत्सिद्धेः तस्मात्- सोममात्रसंबन्धिनो विधयः। 22”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.15
पञ्चदशे श्रुतेष्वपि प्रतिनिधिषु मुख्यधर्मानुष्ठानाधिकरणे सूत्रम्
SŪनियमार्था गुणश्रुतिः।। 40।।
पञ्चदशाधिकरणमारचयति-
1विषयः
पूतीकाभिषवोऽतुल्यस्तुल्यो वा सोमतुल्यता
3पूर्वपक्षः
नास्ति नैमित्तिकत्वेन तुल्यः प्रतिनिधित्वतः
''यदि सोमं न विन्देत, पूतिकानभिषुणुयात्'' इति श्रूयते। तत्र सोमाभावं निमित्तीकृत्य पूतीकलताखण्डानां विहितत्वात्फलचमसवन्नैमित्तिकत्वेन सोमाभिषवक्रयादिविधिः पूतीकेषु न तुल्यः- इति
चेत्-
4सिद्धान्तः
मैवम्
नीवारवत्प्रतिनिधित्वात्
ननु- प्रतिनिधित्वे स्वयमेवोपादित्सितत्वाद्विधिर्नापेक्षितः
अत एव नीवारेषु विधिर्न श्रुतः- इति चेत्- न
विधेर्नियमार्थत्वस्य षष्ठे वक्ष्यमाणत्वात्
तस्मात्- अभिषवक्रयादिविधिः सोमपूतीकयोस्तुल्यः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे प्रतिनिधिष्वपि मुख्यधर्मानुष्ठानाधिकरणे सूत्राणि 37-39”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.6.16
षोडशे दीक्षणीयादिधर्माणामग्निष्टोमाङ्गताधिकरणे सूत्राणि 41-47
SŪसंस्थास्तु समानविधानाः प्रकरणाविशेषात्।। 41।।
SŪव्यपदेशश्च तुल्यवत्।। 42।।
SŪविकारास्तु कामसंयोगे नित्यस्य समत्वात्।। 43।।
SŪअपि वा द्विरुक्तत्वात्प्रकृतेर्भविष्यन्तीति।। 44।।
SŪवचनात्तु समुच्चयः।। 45।।
SŪप्रतिषेधाच्च पूर्वलिङ्गानाम्।। 46।।
SŪगुणविशेषादेकस्य व्यपदेशः।। 47।।
षोडशाधिकरणमारचयति-
1विषयः
उक्थ्यादिषु समो दीक्षणीयाद्यङ्गविधिर्न वा
एकप्रकरणत्वेन फलवत्त्वाच्च तुल्यता
3पूर्वपक्षः
उक्थ्यादयः कामयोगाद्विकाराः प्रक्रिया ततः
अग्निष्टोमात्मके ज्योतिष्टोममात्रे च तद्विधिः
ज्योतिष्टोमः- स्वयमेकोऽपि समाप्तिभेदाद्भिद्यते। यज्ञायज्ञियस्तोत्रेण समाप्तौ 'अग्निष्टोमः' इत्युच्यते। तस्मादपि स्तोत्रादूर्ध्वमुक्थ्यस्तोत्रेण समाप्तौ 'उक्थ्यः' इत्युच्यते। एवं षोडश्यादयोऽपि। तादृशस्य सप्तसंस्थावतो ज्योतिष्टोमस्य प्रकरणे दीक्षणीयेष्टिप्रायणीयेष्ट्यादीनामङ्गानां विधिराम्नातः। स च विधिर्ज्योतिष्टोमस्य प्रथमसंस्थाविशेषेऽग्निष्टोमे यथा प्रवृत्तः, तथैवोक्थ्यादिष्वपि प्रवर्तते। कुतः- प्रकरणसंबन्धस्य समानत्वात्।
किंच- यथाऽग्निष्टोमः फलत्वादङ्गविधिभिः संयुज्यते। एवमुक्थ्यादयोऽपि। तेषां च फलमेवमाम्नायते-''पशुकाम उक्थ्यं गृह्णीयात्'' ''षोडशिना वीर्यकामः स्तुवीत'' ''अतिरात्रेण प्रजाकामं याजयेत्'' इति।
तस्मात्- सप्तस्वपि संस्थासु समानोऽङ्गविधिः- इति प्राप्ते-
4सिद्धान्तः
इति श्रीमाधवीये जौमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य षष्ठः पादः
ब्रूमः- यदेतदुक्थ्यादीनां फलमुदाहृतम्, तत्तु तेषां विकारत्वं गमयति। 'काम्यो गुणः श्रूयमाणो नित्यमर्थं विकृत्य निविशते' इति न्यायाद्यथा गोदोहनगुणो नित्यं चमससाधनकमपां प्रणयनं विकृत्य निविशते, एवमुक्थ्यगुणो नित्यामग्निष्टोमस्य संस्थां विकृत्य संस्थान्तरत्वं गमयति। ततोऽग्निष्टोमस्य गुणविकारा उक्थ्यादय इति न सर्वसंस्थासाधारणं प्रकरणम्, किंतु- अग्निष्टोमस्यैवासाधारणम्।
ननु- ''ज्योतिष्टोमेन यजेत'' इत्युक्तत्वाज्ज्योतिष्टोमस्येदं प्रकरणम्, न त्वग्निष्टोमसंस्थायाः- इति चेत्- बाढम्। असौ ज्योतिष्टोमो न कदाचिदप्यग्निष्टोमं व्यभिचरति, उक्थ्यादीनामप्यन्तर्भाविताग्निष्टोमकत्वात्। उक्थ्यादींस्तु व्यभिचरति,विनाऽपि तैरग्निष्टोमदशायां ज्योतिष्टोमत्वसंभवात्। अतोऽग्निष्टोमसंस्थस्य ज्योतिष्टोमस्येदं प्रकरणं सत्तत्रैव दीक्षणीयाद्यङ्गविधिं निवेशयति। उक्थ्यादिषु चोदकादङ्गान्यतिदिश्यन्ते।। 26।। 27।।
अत्र पादे अधिकरणानि 16, सूत्राणि 47
आदितः अधिकरणानि 200, सूत्राणि 562।
तृतीयाध्यायस्य सप्तमः पादः
बहुप्रधानोपकारकप्रयाजादीनि।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अनारभ्याधीतानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे श्रुतेष्वपि प्रतिनिधिषु मुख्यधर्मानुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् नीवारवत्प्रतिनिधित्वात् ननु- प्रतिनिधित्वे स्वयमेवोपादित्सितत्वाद्विधिर्नापेक्षितः अत एव नीवारेषु विधिर्न श्रुतः- इति चेत्- न विधेर्नियमार्थत्वस्य षष्ठे वक्ष्यमाणत्वात् तस्मात्- अभिषवक्रयादिविधिः सोमपूतीकयोस्तुल्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]