3.5.1
प्रथमे ध्रुवाज्यादिभिः स्विष्टकृदादिशेषाननुष्ठानाधिकरणे सूत्राणि 1-12
SŪ आज्याच्च सर्वसंयोगात्।। 1।।
SŪ कारणाच्च।। 2।।
SŪ एकस्मिन्समवत्तशब्दात्।। 3।।
SŪ आज्ये च दर्शनात्स्विष्टकृदर्थवादस्य।। 4।।
SŪ अशेषत्वात्तु नैवं स्यात्सर्वादानादशेषता।। 5।।
SŪ साधारण्यान्न ध्रुवायां स्यात्।। 6।।
SŪ अक्तत्वाच्च जुह्वां तस्य च होमसंयोगात्।। 7।।
SŪ चमसवदिति चेत्।। 8।।
SŪ न चोदनाविरोधाद्धविःप्रकल्पनाच्च।। 9।।
SŪ उत्पन्नाधिकारात्सति सर्ववचनम्।। 10।।
SŪ जातिविशेषात्परम्।। 11।
SŪ अन्त्यमनेकार्थे।। 12।।
पञ्चमपादस्य प्रथमाधिकरणमारचयति-
1 विषयः उपांशुयाजद्रव्येण शेषकार्यं भवेन्न वा भवेद्धविर्भ्यः सर्वेभ्य इत्युक्त्या प्रापितत्वतः
3 पूर्वपक्षः उक्ताज्यद्रव्यशेषस्तु भाव्युपस्तरणादिकृत् अतो न प्रतिपत्त्यर्हः शेषकार्यं ततः कथम्
ध्रौवादाज्यादुपांशुयाजार्थमवदाने कृते तच्छेषेण ध्रौवेण द्रव्येण स्विष्टकृदादिकं शेषकार्यं कर्तव्यम्। कुतः- ''तद्यत्सर्वेभ्यो हविर्भ्यः समवद्यति'' इति वाक्येन प्रापितत्वात्- इति चेत्-
4 सिद्धान्तः मैवम् कृतार्थद्रव्यशेषो ह्युपयोगापेक्षः प्रतिपत्तिमर्हति ध्रौंव त्वाज्यं न कृतार्थम् तेन कर्तव्यानामुपस्तरणादीनां सद्भावात् तस्मात्- न तेन शेषकार्यं भवति। 1
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकविंशे पुरोडाशविभागस्य भक्षार्थताधिकरणे सूत्राणि 54-57”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य चतुर्थः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.2
द्वितीये साकंप्रस्थाय्ये शेषकर्माननुष्ठानाधिकरणे सूत्रम्
SŪ साकंप्रस्थाय्ये स्विष्टकृदिडं च तद्वत्।। 13।।
द्वितीयाधिकरणमारचयति-
1 विषयः आक्रामन्सह कुम्भीभिरस्ति शेषक्रिया न वा जुह्वाऽवदानात्प्रकृताविव शेषक्रियोचिता
3 पूर्वपक्षः कुम्भीषु शेषासंसिद्धेः साकंप्रस्थाय्यकर्मणि न स्विष्टकृदिडं कार्यमग्नीधः स्रुक्प्रदानतः
''साकंप्रस्थायीयेन यजेत पशुकामः'' इति विहिते कर्मणि श्रूयते ''सह कुम्भीभिरभिक्रामन्नाह'' इति। तत्र चतसृभिर्दधिपयःकुम्भीभिः सहाहवनीयदेशेऽभिक्रमणमात्रं श्रुतम्। न तु तत्र कुम्भीभिर्होमः श्रुतः। तथा सत्यस्य कर्मणः सांनाय्यविकृत्तित्वाज्जुह्वा कुम्भीभ्योऽवदाय होतव्यम्। हुतशेषेण च स्विष्टकृदादिकं सांनाय्यशेषेणेव कर्तव्यम्- इति प्राप्ते
4 सिद्धान्तः नात्र कुम्भीषु हुतशेषः सिध्यति, सांनाय्यवज्जुह्वा तदवदानाभावात् ''अग्नीधे स्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्'' इत्युक्त्या जुहूपभृतोः प्रत्तत्वादभिक्रमणस्य होमार्थत्वाच्च कुम्भीभिरेव दधिपयसोर्होमे सति कुम्भीमात्रमवशिष्यते न तु हविःशेषः तत्र कुतः शेषकार्यम्। 3
-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे ध्रुवाज्यादिभिः स्विष्टकृदादिशेषाननुष्ठानाधिकरणे सूत्राणि 1-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् कृतार्थद्रव्यशेषो ह्युपयोगापेक्षः प्रतिपत्तिमर्हति ध्रौंव त्वाज्यं न कृतार्थम् तेन कर्तव्यानामुपस्तरणादीनां सद्भावात् तस्मात्- न तेन शेषकार्यं भवति। 1”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.3
तृतीये सौत्रामण्यां शेषकर्माननुष्ठानाधिकरणे सूत्रे 14-15
SŪ सौत्रामण्यां च ग्रहेषु।। 14।।
SŪ तद्वच्च शेषवचनम्।। 15।।
तृतीयाधिकरणमारचयति-
1 विषयः सौत्रामण्यां ग्रहे स्विष्टकृदाद्यस्ति न वाऽस्ति तत्
3 पूर्वपक्षः शेषणान्न सुराक्षीरयोरन्यत्रोपयोगतः
सौत्रामणिनामके यागे श्रूयते ''पयोग्रहाः सुराग्रहाश्च गृह्यन्ते'' इति। तत्र प्रकृतिगतसोमग्रहेष्विव शेषकार्यं स्विष्टकृदादिकमस्ति। न चात्र पूर्ववच्छेषाभावः। ''उच्छिनष्टि, न सर्वं जुहोति'' इत्यवशेषयितव्यत्वश्रवणात्- इति चेत्- मैवम्। अवशिष्टस्यान्यत्रोपयोगश्रवणात्। ''ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारम्'' इति श्रूयते। ''यदि ब्राह्मणं न विन्देत्, वल्मीकवपायामवनयेत्'' इति च। ''शतातृण्णायामवनयेत्'' इति च।
4 सिद्धान्तः शतच्छिद्रा कुम्भी शतातृण्णा तस्मात्- नास्ति स्विष्टकृदादिकम्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये साकंप्रस्थाय्ये शेषकर्माननुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नात्र कुम्भीषु हुतशेषः सिध्यति, सांनाय्यवज्जुह्वा तदवदानाभावात् ''अग्नीधे स्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्'' इत्युक्त्या जुहूपभृतोः प्रत्तत्वादभिक्रमणस्य होमार्थत्वाच्च कुम्भीभिरेव दधिपयसोर्होमे सति कुम्भीमात्रमवशिष्यते न तु हविःशेषः तत्र कुतः शेषकार्यम्। 3”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.4
चतुर्थे सर्वपृष्ठेष्टौ स्विष्टकृदिडादीनां सकृदनुष्ठानाधिकरणे सूत्रे 16-17
SŪ द्रव्यैकत्वे कर्मभेदात्प्रतिकर्म क्रियेरन्।। 16।।
SŪ अविभागाच्च शेषस्य, सर्वान्प्रत्यविशिष्टत्वात्।। 17।।
चतुर्थाधिकरणमारचयति-
1 विषयः रथंतरादिभिर्भिन्ना इन्द्रास्तेषां न भिद्यते पुरोडाशस्तत्र शेषकार्यं किं भिद्यते न वा
3 पूर्वपक्षः भिद्यते कर्मणां भेदाच्चौदकैः पृथगुक्तितः शेषस्य सर्वतुल्यत्वात्तत्कार्यं सकृदिष्यताम्
''य इन्द्रियकामो वीर्यकामः स्यात्, तमेतया सर्वपृष्ठया याजयेत्'' इति विहितायामिष्टौ षडिन्द्रा एवं श्रूयन्ते- ''इन्द्राय राथंतराय, इन्द्राय बार्हताय, इन्द्राय वैरूपाय, इन्द्राय वैराजाय, इन्द्राय शाक्वराय, इन्द्राय रैवताय'' इति। तत्र स्वरूपेणैकोऽपीन्द्रः पृष्ठस्तोत्रेषु षट्सु विहितानां षण्णां रथंतरादिसाम्नां संबन्धेन विशेष्यमाणः षोढा भिद्यते। तासां सर्वासामिन्द्रदेवतानामेक एव पुरोडाशो विधीयते- ''द्वादशकपालः पुरोडाशो भवति। वैश्वदेवत्वाय'' इति। तस्मिंश्च पुरोडाशे प्रोक्तदेवताभ्यः पृथक्पृथक्प्रदानाय बहुभ्यः प्रदेशेभ्योऽवदानं श्रूयते ''समन्तं पर्यवद्यति'' इति। तत्र देवताभेदेन प्रदानभेदेन च कर्मणां भेदे सति पृथगतिदेशात्स्विष्टकृदिडादि शेषकार्यं षट्कृत्वः पृथक्कर्तव्यम्- इति चेत्-
4 सिद्धान्तः मैवम् शेषस्यैकत्वेन तत्प्रतिपत्तेः पृथक्त्वासंभवात् तस्मात्- सकृदेव कार्यम्। 6
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये सौत्रामण्यां शेषकर्माननुष्ठानाधिकरणे सूत्रे 14-15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “शतच्छिद्रा कुम्भी शतातृण्णा तस्मात्- नास्ति स्विष्टकृदादिकम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.5
पञ्चमे- ऐन्द्रवायवग्रहे द्विःशेषभक्षणाधिकरणे सूत्रम्
SŪ ऐन्द्रवायवे तु वचनात्प्रतिकर्म भक्षः स्यात्।। 18।।
पञ्चमाधिकरणमारचयति-
1 विषयः ऐन्द्रवायवशेषस्य सकृद्भक्ष उतासकृत्
3 पूर्वपक्षः पूर्वन्यायात्सकृत्प्राप्तौ द्विर्भक्षो वचनाद्भवेत्
ज्योतिष्टोमे योऽयमैन्द्रवायवग्रहः। तत्र संस्कार्यस्य सोमस्यैकत्वात्सकृदेव शेषकार्यम्- इति चेत्-
4 सिद्धान्तः मैवम् ''द्विरैन्द्रवायवस्य भक्षयति, द्विर्ह्येतस्य वषट्करोति'' इति वचनाद्द्विर्भक्षणम्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे सर्वपृष्ठेष्टौ स्विष्टकृदिडादीनां सकृदनुष्ठानाधिकरणे सूत्रे 16-17”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् शेषस्यैकत्वेन तत्प्रतिपत्तेः पृथक्त्वासंभवात् तस्मात्- सकृदेव कार्यम्। 6”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.6
षष्ठे सोमे शेषभक्षणाधिकरणे सूत्राणि 19-21
SŪ सोमेऽवचनाद्भक्षो न विद्यते।। 19।।
SŪ स्याद्वाऽन्यार्थदर्शनात्।। 20।।
SŪ वचनानि त्वपूर्वत्वात्तस्माद्यथोपदेशं स्युः।। 21।।
षष्ठाधिकरणमारचयति-
1 विषयः सोमेष्वभक्षो भक्षो वा न भक्षो ग्रहहोमतः
3 पूर्वपक्षः अल्पोक्तेरस्ति शेषोऽस्य भक्षोऽपूर्ववचोबलात्
सोमयागेषु शेषभक्षो नास्ति, ''यद्ग्रहाञ्जुहोति'' इति कृत्स्नग्रहेणाहुतिश्रवणात्कुम्भीष्विव शेषाभावात्- इति चेत्-
4 सिद्धान्तः मैवम् ''अल्पं जुहोति'' इति विशेषवचनाच्छेषः सिध्यति तद्भक्षणं त्वपूर्वार्थ प्रतिपादकवचनेभ्योऽवगम्यते ''आश्विनं भक्षयन्ति'' ''द्विरैन्द्रवायवस्य भक्षयन्ति'' ''सदसि भक्षयन्ति'' इत्यादीनि वचनान्यपूर्वार्थं प्रतिपादयन्ति ततो भक्षविधानादस्ति सोमेषु भक्षः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- ऐन्द्रवायवग्रहे द्विःशेषभक्षणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''द्विरैन्द्रवायवस्य भक्षयति, द्विर्ह्येतस्य वषट्करोति'' इति वचनाद्द्विर्भक्षणम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.7
सप्तमे चमसिनां शेषभक्षाधिकरणे सूत्रम्
SŪ चमसेषु समाख्यानात्संयोगस्य तन्निमित्तत्वात्।। 22।।
सप्तमाधिकरणमारचयति-
1 विषयः किं प्रैतु होतुश्चमस इत्यभक्षोऽथ भक्षणम्
3 पूर्वपक्षः अभक्षोऽनुक्तितो होतुश्चमसेत्याख्ययाऽस्तु तत्
ज्योतिष्टोमे श्रूयते ''प्रैतु होतुश्चमसः, प्रब्रह्मणः, प्रोद्गातॄणां, प्रयजमानस्य, प्रयन्तु सदस्यानाम्'' इति। तत्र वचनाभावादभक्षः- इति चेत्-
4 सिद्धान्तः मैवम् समाख्यागते चमसशब्दे भक्षणस्य प्रतीयमानत्वात् 'चम्यते भक्ष्यते सोमोऽस्मिन्पात्रविशेषे' इति हि तद्व्युत्पत्तिः तस्मात्- अस्ति तद्भक्षणम्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे सोमे शेषभक्षणाधिकरणे सूत्राणि 19-21”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''अल्पं जुहोति'' इति विशेषवचनाच्छेषः सिध्यति तद्भक्षणं त्वपूर्वार्थ प्रतिपादकवचनेभ्योऽवगम्यते ''आश्विनं भक्षयन्ति'' ''द्विरैन्द्रवायवस्य भक्षयन्ति'' ''सदसि भक्षयन्ति'' इत्यादीनि वचनान्यपूर्वार्थं प्रतिपादयन्ति ततो भक्षविधानादस्ति सोमेषु भक्षः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.8
अष्टमे- उद्वातॄणां सह सुब्रह्मण्येन भक्षाधिकरणे सूत्राणि- 23-26
SŪ उद्गातृचमसमेकः श्रुतिसंयोगात्।। 23।।
SŪ सर्वे वा सर्वसंयोगात्।। 24।।
SŪ स्तोत्रकारिणां वा तत्संयोगाद्बहुश्रुतेः।। 25।।
SŪ सर्वे तु वेदसंयोगात्कारणादेकदेशे स्यात्।। 26।।
अष्टमाधिकरणमारचयति-
3 पूर्वपक्षः पूर्वोदाहृतवाक्ये 'प्रोद्गातॄणाम्' इत्यत्रैकस्यैव भक्षः। उद्गीथशब्दाभिधेयायाः सामभक्तेरु- द्गातर्युद्गातृप्रातिपदिकस्य रूढत्वात्- इत्येकः पूर्वपक्षः। 'उद्गातॄणाम्' इत्यस्य बहुत्वस्यैकस्मिन्नसंभवादुद्गात्रोपलक्षिताः षोडशर्त्विजः सर्वेऽपि भक्षयेयुः- इति द्वितीयः। उद्गीथप्रस्तावप्रतिहारान्सामभागानुद्गातृप्रस्तोतृप्रतिहर्तारः प्रयोगकाले गायन्ति। 'उदुत्कर्षेण गायन्ति' इति योगेनोद्गातारस्त्रयो भक्षयेयुः- इति तृतीयः पक्षः । 'रूढिर्योगमपहरति' इति न्यायादेक एवोद्गाता। तेन च बहुवचनोपपत्तये प्रत्यासन्ना उपलक्ष्यन्ते। प्रत्यासत्तिश्च प्रस्तोतृप्रतिहर्त्रोरिव सुब्रह्मण्यस्याप्यस्ति। सामवेदाध्यायित्वेन सुब्रह्मण्याह्वानरूपे तदीयकर्मण्यप्यौद्गात्रसमाख्यायाः सत्त्वात्। तस्मात्- 'सुब्रह्मण्येन सहिताश्चत्वारः सामगा भक्षयेयुः'- इत्ययमन्त्यः पक्षो भाष्यकारस्याभिमतः।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे चमसिनां शेषभक्षाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् समाख्यागते चमसशब्दे भक्षणस्य प्रतीयमानत्वात् 'चम्यते भक्ष्यते सोमोऽस्मिन्पात्रविशेषे' इति हि तद्व्युत्पत्तिः तस्मात्- अस्ति तद्भक्षणम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.9
नवमे ग्रावस्तुतोऽपि सोमभक्षणाधिकरणे सूत्राणि 27-30
SŪ ग्रावस्तुतो भक्षो न विद्यतेऽनाम्नानात्।। 27।।
SŪ हारियोजने वा सर्वसंयोगात्।। 28।।
SŪ चमसिनां वा संनिधानात्।। 29।।
SŪ सर्वेषां तु विधित्वात्तदर्था चमसिश्रुतिः।। 30।।
नवमाधिकरणमारचयति-
1 विषयः किं स्याच्चमसिनामेव हारियोजनभक्षणम् सर्वेषां वाऽग्रिमस्तेषां पूर्ववाक्येन संनिधेः
3 पूर्वपक्षः लिप्सन्ते सर्व एवेति हारियोजनवाक्यतः ग्रावस्तुतोऽप्यस्ति भक्षश्चमसित्वमकारणम्
''हरिरसि हारियोजनः'' इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः। होतृब्रह्मादयश्चमसिनः। यस्तु चतुर्णां होतॄणां मध्ये चतुर्थो ग्रावस्तुन्नामकोऽस्ति, नासौ चमसी। तत्र चमसिनामेव हारियोजनभक्षणम्। कुतः-''यथाचमसमन्यांश्चमसांश्चमसिनो भक्षयन्ति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्ते'' इत्यत्र पूर्ववाक्ये चमसिनां संनिहितत्वेनोत्तरवाक्ये सर्वशब्देन तेषामेवाभिधातव्यत्वात्। अतो नास्ति ग्रावस्तुतस्तत्र भक्षः- इति प्राप्ते
4 सिद्धान्तः ब्रूमः- अथशब्देनैवकारेण च चमसिमात्रशङ्कामपोद्य वाक्येन विहितस्य सर्वमक्षणस्य संनिधिमात्रेण संकोचायोगादस्ति ग्रावस्तुतोऽपि भक्षः तस्मात्- चमसित्वं न भक्षणे कारणम्। 14
-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- उद्वातॄणां सह सुब्रह्मण्येन भक्षाधिकरणे सूत्राणि- 23-26”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.10
दशमे वषट्करणस्य भक्षनिमित्तताधिकरणे सूत्रम्
SŪ वषट्काराच्च भक्षयेत्।। 31।।
दशमाधिकरणमारचयति-
1 विषयः आद्यभक्षो वषट्कर्तुर्विधिः प्राथम्य एव किम् किंवा तद्युक्तभक्षे स्याद्वषट्कारनिमित्तके
3 पूर्वपक्षः अप्राप्तेरग्रिमो मैवं समासस्थित्यसंभवात् विशिष्टस्य विधिस्तस्माद्वषट्कारोऽपि कारणम्
''वषट्कर्तुः प्रथमभक्षः'' इत्येवं श्रूयते। वषट्कर्ता होता। तस्य भक्षणं समाख्यया प्राप्तम्। प्राथम्यं त्वप्राप्तमिति तदेवात्र विधियते- इति चेत्-
4 सिद्धान्तः मैवम् 'प्रथमभक्षः' इत्यस्य समस्तपदत्वेन 'यो भक्षः, स प्रथमः' इत्येयं विच्छिद्यान्वे- तुमयोग्यत्वात्प्राथम्यविशिष्टभक्षणमत्र विधीयते तस्मिन्भक्षणे वषट्कारः कारणम्। 16
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे ग्रावस्तुतोऽपि सोमभक्षणाधिकरणे सूत्राणि 27-30”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- अथशब्देनैवकारेण च चमसिमात्रशङ्कामपोद्य वाक्येन विहितस्य सर्वमक्षणस्य संनिधिमात्रेण संकोचायोगादस्ति ग्रावस्तुतोऽपि भक्षः तस्मात्- चमसित्वं न भक्षणे कारणम्। 14”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.11
एकादशे होमाभिषवयोरपि भक्षनिमित्तताधिकरणे सूत्रम्
SŪ होमाभिषवाभ्यां च।। 32।।
एकादशाधिकरणमारचयति-
1 विषयः आख्यावचोवषट्कारा एव किं भक्षहेतवः
3 पूर्वपक्षः किंवाऽभिषवहोमौ च तत्राद्योऽस्तूक्तया दिशा
'प्रैतु होतुश्चमसः' इत्यत्र समाख्या भक्षहेतुः। हारियोजने वाक्यम्, 'वषट्कर्तुः प्रथमभक्षः' इत्यत्र वषट्कारः, इत्येवमुक्तत्वात्त्रय एव भक्षहेतवः- इति चेत्- मैवम्। ''हविर्धाने ग्रावभिरभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान्भक्षयन्ति'' इति श्रूयते। उत्तरवेद्याः प्रतीचीने सदसः प्राचीने मण्डलेऽभिषवः। उत्तरवेद्यां होमः। सदसि भक्षणम्। तत्र- अभिषवहोमयोर्वचनान्तरप्राप्तयोरविधेयतया तौ निमित्तत्वेनानूद्य भक्षणं विधीयते। तस्मात्- समाख्यादिवदेतयोरपि भक्षणहेतुत्वमस्ति।। 18।। 19।।
4 सिद्धान्तः हविर्धानेऽभिषुत्याथ हुत्वा सदसि भक्षयेत् इति श्रुतत्वतस्तौ च भक्षहेतू यथेत्तरे
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे वषट्करणस्य भक्षनिमित्तताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'प्रथमभक्षः' इत्यस्य समस्तपदत्वेन 'यो भक्षः, स प्रथमः' इत्येयं विच्छिद्यान्वे- तुमयोग्यत्वात्प्राथम्यविशिष्टभक्षणमत्र विधीयते तस्मिन्भक्षणे वषट्कारः कारणम्। 16”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.12
द्वादशे वषट्कर्त्रादीनां चमसे सोमभक्षाधिकरणे सूत्राणि 33-35
SŪ प्रत्यक्षोपदेशाच्चमसानामव्यक्तः शेषे।। 33।।
SŪ स्याद्वा कारणमावादनिर्देशश्चमसानां कर्तुस्तद्वचनत्वात्।। 34।।
SŪ चमसे चान्यदर्शनात्।। 35।।
द्वादशाधिकरणमारचयति-
1 विषयः होतृसंघे विकल्पः किं बाधो वाऽथ समुच्चयः
3 पूर्वपक्षः साम्याद्विकल्पो बाध्यन्तां सावकाशाः समाख्यया
''प्रैतु होतुश्चमसः, प्रब्रह्मणः''- इत्यत्र चमसिषु समाख्या भक्षणे हेतुः। 'वषट्कर्तुः प्रथमभक्षः' इत्यत्र वषट्कारो होतुर्भक्षहेतुः। ''हविर्धाने ग्रावभिरभिषुत्याहवनीये हुत्वा सदसि भक्षयन्ति'' इत्यत्राभिषवसहितो होमोऽध्वर्योर्भक्षहेतुः। तत्र चमसवषट्कारयोः संघो होतरि प्राप्तः। चमसाभिषवसंघोऽध्वर्यौ प्राप्तः। तत्र हेतुद्वयस्य समानबलत्वाद्विकल्पे सत्यन्यतरनिमित्तकृतमेव भक्षणम्- इत्याद्यः पक्षः। वषट्कारादिहेतोश्चमसेतरग्रहे सावकाशत्वान्निरवकाशया चमसिसमाख्यया तद्बाधे सति चमसिषु पाक्षिकमपि वषट्कारादिहेतुकं भक्षणं नास्ति- इति द्वितीयः पक्षः। 'वषट्कर्तुः' इत्यादिवाक्यस्य प्रबलत्वात्समाख्यया बाधो न युक्तः। निरवकाशतया साऽपि प्रबला- इति चेत्- तर्हि प्रमाणद्वयेन पृथग्भक्षणे विहिते समुच्चयोऽभ्युपेयः। न च व्रीहियववद्विकल्पः, तत्र पुरोडाशनिष्पादनस्य दृष्टप्रयोजनस्यैकत्वात्। इह तु नियमादृष्टार्थं भक्षणम्। तच्चादृष्टं यथावचनं द्विविधम्। तस्मात्समुच्चयः।। 20।। 21।।
4 सिद्धान्तः नैव वाचनिकं बाध्यं भक्षणेऽत्र विभागशः सिद्धे विकल्पो नो युक्तः स्वीकार्योऽतः समुच्चयः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे होमाभिषवयोरपि भक्षनिमित्तताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “हविर्धानेऽभिषुत्याथ हुत्वा सदसि भक्षयेत् इति श्रुतत्वतस्तौ च भक्षहेतू यथेत्तरे”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.13
त्रयोदशे होतुः प्रथमभक्षाधिकरणे सूत्राणि 36-39
SŪ एकपात्रे क्रमादध्वर्युः पूर्वो भक्षयेत्।। 36।।
SŪ होता वा मन्त्रवर्णात्।। 37।।
SŪ वचनाच्च।। 38।।
SŪ कारणानुपूर्व्याच्च।। 39।।
त्रयोदशाधिकरणमारचयति-
1 विषयः एकपात्रे किमध्वर्युरद्यात्पूर्वमुतेतरः
3 पूर्वपक्षः तद्धस्ते पात्रसंस्थानात्तस्य प्रथमभक्षणम्
एकस्मिन्पात्रे बहूनां क्वचिद्विहितं भक्षणम्। तत्र- अध्वर्युः प्रथमं भक्षयेत्पात्रसंनिधानात्- इति चेत्- मैवम्। लिङ्गवाक्याभ्यां होतुः प्रथमभक्षावगमात्। ''होतेव नः प्रथमः पाहि'' इति ऋत्विजोऽध्वर्युं संबोध्यैवं प्रार्थयन्ते- 'यथा होताऽस्मत्तः पूर्वं भक्षयित्वा शेषप्रदानेनास्मान्पालितवान्, तथा त्वमपि पाहि' इति। तदेतद्धोतुः प्रथमभक्षे लिङ्गम्। वाक्यं चैवमाम्नातम्- 'वषट्कर्तुः प्रथमभक्षः' इति। तत्र विशिष्टविधानात्प्राथम्यमपि सिध्यति। न चैतद्वचनं पात्रसंनिधिरूपेण न्यायमात्रेण बाधितुं शक्यम्। तस्मात्- होता प्रथमं भक्षयेत्।। 22।। 23।।
4 सिद्धान्तः पाहि होतेव नः पूर्वमिति मन्त्रेण पूर्वता वषट्कर्तुस्तदुक्तेश्च न्यायबाध्यं वचो नहि
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे वषट्कर्त्रादीनां चमसे सोमभक्षाधिकरणे सूत्राणि 33-35”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नैव वाचनिकं बाध्यं भक्षणेऽत्र विभागशः सिद्धे विकल्पो नो युक्तः स्वीकार्योऽतः समुच्चयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.14
चतुर्दशे भक्षस्यानुज्ञापूर्वकत्वाधिकरणे सूत्रम्
SŪ वचनादनुज्ञातभक्षणम्।। 40।।
चतुर्दशाधिकरणमारचयति-
1 विषयः नानुज्ञापूर्वको भक्षस्तत्पूर्वो वाऽत्र लाघवात्
3 पूर्वपक्षः आद्यो नानुपहूतेन पेय इत्युक्तितोऽन्तिमः
अनुज्ञाभक्षयोर्द्वयोरनुष्ठितौ गौरवाद्भक्षमात्रम्- इति चेत् ।
4 सिद्धान्तः मैवम् ''तस्मात्सोमो नानुपहूतेन पेयः'' इति वचनेनानुज्ञाया आवश्यकत्वात्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे होतुः प्रथमभक्षाधिकरणे सूत्राणि 36-39”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पाहि होतेव नः पूर्वमिति मन्त्रेण पूर्वता वषट्कर्तुस्तदुक्तेश्च न्यायबाध्यं वचो नहि”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.15
पञ्चदशे वैदिकवचनेनानुज्ञापनाधिकरणे सूत्रम्
1 विषयः तदुपहूत उपह्वयस्वेत्यनेनानुज्ञापयेल्लिङ्गात्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे भक्षस्यानुज्ञापूर्वकत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''तस्मात्सोमो नानुपहूतेन पेयः'' इति वचनेनानुज्ञाया आवश्यकत्वात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
पञ्चदशाधिकरणमारचयति-
1 विषयः किमनुज्ञा लौकिकोक्त्या वेदोक्त्या वा यथा तथा
3 पूर्वपक्षः अविशेषादुपह्वानमन्त्रलिङ्गात्तु वैदिकी
4 सिद्धान्तः ''उपहूत उपह्वयस्व''- इत्ययं मन्त्रो लिङ्गेन मन्त्रमनुज्ञायां विनियुङ्क्ते तस्मात्- वैदिकोक्त्या तदनुज्ञानम्
3.5.16
षोडशे वैदिकवाक्येन प्रतिवचनाधिकरणे सूत्रम्
SŪ तत्रार्थात्प्रतिवचनम्।। 42।।
षोडशाधिकरणमारचयति-
1 विषयः उपह्वयस्वोपहूत इत्यशेषो द्वयोर्भवेत् अनुज्ञानुज्ञापनयोरथवाऽसौ विभज्यते
3 पूर्वपक्षः विभागकरणाभावादशेषश्चेन्न लिङ्गतः उपह्वयेत्वनुज्ञप्तावनुज्ञाने तथेतरः
4 सिद्धान्तः ''उपहूत उपह्वयस्व'' इत्यस्मिन्मन्त्रे मध्यमपुरुषेकवचनान्तो भागः पश्चात्पठितोऽपि प्रश्नसमत्वात्प्रथमभाविन्यनुज्ञापने समर्थः प्रथमैकवचनान्तस्तु प्रथमपठितोऽप्युत्तरसमानत्वा त्पश्चाद्भाविन्यामनुज्ञायां समर्थः तस्मात्- लिङ्गेन विभज्य विनियुज्यते। 26
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे वैदिकवचनेनानुज्ञापनाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.17
सप्तदशे- एकपात्राणामनुज्ञापनाधिकरणे सूत्रम्
SŪ तदेकपात्राणां समवायात्।। 43।।
सप्तदशाधिकरणमारचयति-
1 विषयः उपह्वानमशेषाणामुत स्यादेकपात्रिणाम्
3 पूर्वपक्षः अदृष्टहेतोराद्यः स्याद्दृष्टाधिक्यादितोऽन्तिमः
अनुज्ञापनस्यादृष्टं प्रयोजनम्। तच्च विभिन्नपात्रेष्वपि समानम्- इति चेत्-
4 सिद्धान्तः न दृष्टप्रयोजनस्य सद्भावात् साधारणे वस्तुनि कथंचिद्भागाधिक्येऽपराधो भवति अतो न्यूनाधिकत्वपरिहारनिमित्तमनुज्ञापनमेकपात्रिणामेव
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे वैदिकवाक्येन प्रतिवचनाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “''उपहूत उपह्वयस्व'' इत्यस्मिन्मन्त्रे मध्यमपुरुषेकवचनान्तो भागः पश्चात्पठितोऽपि प्रश्नसमत्वात्प्रथमभाविन्यनुज्ञापने समर्थः प्रथमैकवचनान्तस्तु प्रथमपठितोऽप्युत्तरसमानत्वा त्पश्चाद्भाविन्यामनुज्ञायां समर्थः तस्मात्- लिङ्गेन विभज्य विनियुज्यते। 26”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.18
अष्टादशे स्वयंयष्टुर्भक्षास्तित्वाधिकरणे सूत्राणि 44-45
SŪ याज्यापनयेनापनीतो भक्षः प्रवरवत्।। 44।।
SŪ यष्टुर्वा कारणागमात्।। 45।।
SŪ प्रवृत्तत्वात्प्रवरस्यानपायः।। 46।।
अष्टादशाधिकरणमारचयति-
1 विषयः होतुर्याज्यापनीतौ किं न वषट्कारभक्षयोः अपनीतिरुतापायो नापनीतिर्विभेदतः
3 पूर्वपक्षः यजमानेन यष्टव्यं न विनेष्टिर्वषट्कृतिम् वषट्कारो याज्ययाऽतः सहापैत्यदनं तथा
ज्योतिष्टोम ऋतुयाजनामकेषु यागेष्वाम्नायते- ''यजमानस्य याज्या सोऽभिप्रेष्यति- होतरेतद्यज- इति, स्वयं वां निषद्य यजति'' इति। हौत्रे काण्डे समाम्नाता याज्याः समाख्यया होतुः प्राप्ताः। तासु काचिद्याज्या होतुरपनीय यजमानस्य विधीयते। ततो यजमानः स्वेच्छया होतारं वा प्रेष्यति, स्वयं वा याज्यां पठति। तत्र स्वपाठपक्षे याज्या होतुरपनीयते, न तु वषट्कारभक्षावपनीयेते। तयोर्याज्यायामनन्तर्भावात्। अतो होता वषट्करोति भक्षयति च इति प्राप्ते-
4 सिद्धान्तः मैवम् ''अनवानं यजति'' इति याज्यावषट्कारयोर्मध्ये श्वासनिषेधेनैककर्तृकत्वावगमात् अतो याज्यया सह वषट्कारो होतुरपैति तदपाये वषट्कारनिमित्तो भक्षश्च होतुरपेत्य यजमाने निविशते। 29
ब्रूमः- 'स्वयं वा निषद्य यजति' इति पक्षस्वीकाराद्यजमानेन स्वयं यागः कर्तव्यः। स च यागो वषट्कारमन्तरेण न संभवति। ''याज्याया अधि वषट्करोति'' इति तद्विधानात्। ननु- यजमानो याज्यां पठतु, होता वषट्करोतु- इति चेत्-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे- एकपात्राणामनुज्ञापनाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न दृष्टप्रयोजनस्य सद्भावात् साधारणे वस्तुनि कथंचिद्भागाधिक्येऽपराधो भवति अतो न्यूनाधिकत्वपरिहारनिमित्तमनुज्ञापनमेकपात्रिणामेव”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.19
एकोनविंशे फलचमसस्येज्याविकारताधिकरणे सूत्राणि 47-51
SŪ फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात्।। 47।।
SŪ इज्याविकारो वा संस्कारस्य तदर्थत्वात्।। 48।।
SŪ होमात्।। 49।।
SŪ चमसैश्चतुल्यकालत्वात्।। 50।।
SŪ लिङ्गदर्शनाच्च।। 51।।
एकोनविंशाधिकरणमारचयति-
3 पूर्वपक्षः ज्योतिष्टोमे श्रूयते ''यदि राजन्यं वैश्यं वा याजयेत्, स यदि सोमं बिभक्षयिषेत्, न्यग्रोधस्तिभिनीराहृत्य ताः संपिष्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छेत्, न सोमम्'' इति। स्तिभिन्यो मुकुलानि। तत्र- उपक्रमोपसंहारयोर्भक्षविषयत्वाद्भक्षमात्रे सोमः पिष्टेन विक्रियते- इति चेत्-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे स्वयंयष्टुर्भक्षास्तित्वाधिकरणे सूत्राणि 44-45”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''अनवानं यजति'' इति याज्यावषट्कारयोर्मध्ये श्वासनिषेधेनैककर्तृकत्वावगमात् अतो याज्यया सह वषट्कारो होतुरपैति तदपाये वषट्कारनिमित्तो भक्षश्च होतुरपेत्य यजमाने निविशते। 29”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.5.20
विंशे ब्राह्मणानामेव राजन्यचमसानुप्रसर्पणाधिकरणे सूत्रे 52-53
SŪ अनुप्रसर्पिषु सामान्यात्।। 52।।
SŪ ब्राह्मणा वा तुल्यशब्दत्वात्।। 53।।
विंशाधिकरणमारचयति-
1 विषयः राजसूये क्वचित्कर्तुश्चमसो दशभिर्जनैः भक्ष्यः किं तत्र राजन्या भक्षका ब्राह्मणा उत
3 पूर्वपक्षः आद्यो भानात्संख्ययैकजातेर्विप्राः शतं दश चमसानद्युरित्युक्त्या राजपात्रं च विप्रगम्
राजसूये दशपेयनामके यागे श्रूयते ''दश दशैकैकं चमसमनुप्रसर्पन्ति'' इति। तत्र यजमानस्य राजन्यस्य यश्चमसः, सोऽयं राजन्यैरेव दशभिर्भक्षणीयः। कुतः- 'दश' इति संख्याया जात्येकत्वप्रतिभानात्। तथा हि- दशपेयस्य ज्योतिष्टोमविकृतित्वात्प्राकृतं धर्मजातं चोदकेन प्राप्तम्। प्रकृतौ च- यजमानचमसस्य भिन्नजातिभिर्भक्षणं नास्ति, इत्यत्रापि तथैव प्राप्तम्। यदि- अत्र 'दश' इति विशेषो विधीयते, तर्हि प्राकृतं भक्षसंख्यामात्रं निवर्तताम्, नत्वेकजातित्वम्। तस्मात्- राजन्यो यजमानोऽन्यै राजन्यैर्नवभिः सह भक्षयेत्- इति प्राप्ते-
4 सिद्धान्तः इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य पञ्चमः पादः
ब्रूमः- प्रकृतितः प्राप्तेषु दशसु चमसेषु भक्षणायानुप्रसर्पतां पुरुषाणां 'दश, दश' इति वीप्सया प्रतिचमसं दशसंख्यां विधायार्थसिद्धां शतसंख्यामनूद्य संख्येयानां सर्वेषां ब्राह्मण्यं विधीयते ''शतं ब्राह्मणाः पिबन्ति'' इति। तथा सति यजमानस्यापि राजन्यस्य यत्र चमसभक्षो नास्ति, तत्र कुतोऽन्ये राजन्या भक्षयेयुः। तस्मात्- ब्राह्मणा एव भक्षकाः।। 34।। 35।। अत्र पादे अधिकरणानि 20, सूत्राणि 53। आदितः अधिकरणानि 184, सूत्राणि 515। तृतीयाध्यायस्य षष्ठः पादः अनारभ्याधीतानि।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रतिपत्तिकर्माणि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे फलचमसस्येज्याविकारताधिकरणे सूत्राणि 47-51”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
Set from the transmitted text; four limbs are the source, the fifth is inferred and marked.
Sanātana Guru Sampradāya Pratiṣṭhānam, Mysore · sarvaveda.info