12.4.1
प्रथमे- जपस्तुत्याशीरभिधानानां समुच्चयाधिकरणे सूत्रे 1-2
SŪजपाश्चाकर्मयुक्ता स्तुत्याशीरभिधानाश्च याजमानेषु समुच्चयः स्यादाशीःपृथक्त्वात्।। 1।।
SŪसमुच्चयं च दर्शयति।। 2।।
चतुर्थपादे प्रथमाधिकरणमारचयति-
1विषयः
सारस्वतीमनूच्येति विकल्पोऽथ समुच्चयः
3पूर्वपक्षः
जपैक्यादादिमोऽन्त्यः स्यात्प्रकारस्य विभेदतः
दीक्षितस्य वाङ्नियमनात्पूर्वं जपाय मन्त्राः श्रूयन्ते- ''सारस्वतीमनूच्य वाग्यन्तव्या'' इति। एवम्- अग्नावैष्णवी बार्हस्पत्ये उदाहार्ये। अत एव सूत्रकारः- 'अथ वैकेषामाग्नावैष्णवीं सारस्वतीं बार्हस्पत्यामुत्तमामनूच्य वाग्यन्तव्या' इति। तत्र- अनुवचनशब्दाभिधेयस्य जपकार्यस्यैकत्वाद्विकल्पः। इति प्राप्ते
4सिद्धान्तः
ब्रूमः- जपस्यादृष्टार्थत्वेनादृष्टार्थप्रकारभेदे सति कार्यनानात्वात्समुच्चयः
जपमन्त्रवत्स्तुत्याशीरभिधानमन्त्रेषु सजातीयैः समुच्चयो द्रष्टव्यः
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- हौत्राणां मन्त्राणां समुच्चयाधिकरणे सूत्राणि 36-38”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् करणमन्त्रः ''उच्छ्रयणं करोमि'' इत्येवं स्मारयति हौत्रस्तु क्रियमाणमुच्छ्रयणमनुवदन्नध्वर्योः 'यूपोच्छ्रयणं कर्तव्यम्' इत्येवं स्मृतिं जनयति तत्र स्मार्यमाणस्योच्छ्रयणस्यैकत्वेऽपि 'कर्तव्यम्' इत्यस्य, 'करोमि' इत्यस्य च स्मृतिप्रकारस्यान्यत्वात्कार्यैक्याभावेन समुच्चयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.4.2
द्वितीये- बार्हस्पत्ये द्विविधयाज्यानुवाक्ययोर्विकल्पाधिकरणे सूत्रे 3-4
SŪयाज्यानुवाक्यासु तु विकल्पः स्याद्देवतोपलक्षणार्थत्वात्।। 3।।
SŪलिङ्गदर्शनाच्च।। 4।।
द्वितीयाधिकरणमारचयति-
1विषयः
इदं वादिद्वयोः किं स्यात्साहित्यं वा विकल्पनम्
3पूर्वपक्षः
साहित्यं पूर्ववन्मैवं देवताबोधनैक्यतः
ऐन्द्राबार्हस्पत्ये कर्मणि ''इदं वामास्ये हविः प्रियमिन्द्रावृहस्पती'' इत्यादिके याज्यानुवाक्ये द्विविधे आम्नाते। तयोः सारस्वत्यादिवत्समुच्चयः। इति चेत्-
4सिद्धान्तः
मैवम्
दृष्टप्रयोजनस्य देवताबोधनस्यैकत्वात्
तस्मात्- विकल्पः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- जपस्तुत्याशीरभिधानानां समुच्चयाधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- जपस्यादृष्टार्थत्वेनादृष्टार्थप्रकारभेदे सति कार्यनानात्वात्समुच्चयः जपमन्त्रवत्स्तुत्याशीरभिधानमन्त्रेषु सजातीयैः समुच्चयो द्रष्टव्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
द्वितीयं (याज्यापुरोनुवाक्ययोः समुच्चयसाधकं) वर्णकमारचयति-
1विषयः
पुरोनुवाक्यया याज्या विकल्प्या वा समुच्चिता
3पूर्वपक्षः
पुरेवाद्यः समाख्यानाद्वचनाच्च समुच्चयः
देवताप्रकाशनकार्यस्यैकत्वाद्याज्ययोर्यथा विकल्पः, तथैवैकयुग्मगतयोः। इति चेत्-
4सिद्धान्तः
मैवम्
पुरोनुवाक्येति समाख्याया उत्तरकालीनयाज्यामन्तरेणानुपपत्तेः
किंच 'पुरोनुवाक्यामनूच्य याज्यया जुहोति' इति प्रत्यक्षेण हविःप्रदानकार्यभेदोक्तिपुरःसरं साहित्यं विधीयते
तस्मात्- समुच्चयः
12.4.3
तृतीये- सोमक्रयसाधनानामजादीनां समुच्चयाधिकरणे सूत्राणि 5-7
SŪक्रयणेषु तु विकल्पः स्यादेकार्थत्वात्।। 5।।
SŪसमुच्चयो वा प्रयोगे द्रव्यसमवायात्।। 6।।
SŪसमुच्चयं च दर्शयति।। 7।।
तृतीयाधिकरणमारचयति-
1विषयः
क्रयणेषु विकल्पः स्यात्साहित्यं वाऽग्रिमो यतः
3पूर्वपक्षः
कार्यैक्यमानतेर्लाभाद्दशोक्तेश्च समुच्चयः
''अजया क्रीणाति, हिरण्येन क्रीणाति, वाससा क्रीणाति'' इत्यादिना बहूनि सोमक्रयसाधनानि द्रव्याण्याम्नातानि। तेषां कार्यैक्याद्विकल्पः। इति चेत्-
4सिद्धान्तः
मैवम्
बहुभिर्द्रव्यैर्विक्रेतुरानतेः सौलभ्यात् 'दशभिः क्रीणाति' इति संख्योक्तेश्च समुच्चयः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- बार्हस्पत्ये द्विविधयाज्यानुवाक्ययोर्विकल्पाधिकरणे सूत्रे 3-4”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् दृष्टप्रयोजनस्य देवताबोधनस्यैकत्वात् तस्मात्- विकल्पः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.4.4
चतुर्थे- उपयजनादिप्रतिपत्तिकर्मणां समुच्चयाधिकरणे सूत्रम्
SŪसंस्कारे च तत्प्रधानत्वात्।। 8।।
चतुर्थाधिकरणमारचयति-
1विषयः
गुदोपयजने किं स्याद्विकल्पोऽथ समुच्चयः
3पूर्वपक्षः
आद्यः स्यादर्थकर्मत्वान्न शेषप्रतिपत्तितः
अग्नीषोमीये ''गुदेनोपयजति'' इति श्रूयते। ऐकादशिनेषु तच्चोदकप्राप्तम्। तत्र- उपयजनस्यार्थकर्मत्वम्, 'गुदेन' इति तृतीयाश्रुत्या प्रतीयते। तस्य चार्थकर्मण एकेन सिद्धत्वादेकादशानां गुदानां विकल्पः। इति चेत्-
4सिद्धान्तः
मैवम्
प्रयाजशेषन्यायेन तृतीयाश्रुतेर्विपरिणामे सति शेषप्रतिपत्तिसंस्कारविधानात्
तस्मात्- समुच्चयः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- सोमक्रयसाधनानामजादीनां समुच्चयाधिकरणे सूत्राणि 5-7”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् बहुभिर्द्रव्यैर्विक्रेतुरानतेः सौलभ्यात् 'दशभिः क्रीणाति' इति संख्योक्तेश्च समुच्चयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.4.5
पञ्चमे-आधाने विविधसंख्याकानां दक्षिणानां विकल्पाधिकरणे सूत्रम्
SŪसंख्यासु तु विकल्पः स्याच्छुतिविप्रतिषेधात्।। 9।।
पञ्चमाधिकरणमारचयति-
1विषयः
एका देया समुच्चेयं विकल्प्यं चाद्य आनतेः
3पूर्वपक्षः
सौलभ्यादन्तिमो नैरपेक्ष्यात्संख्यान्तरादपि
आधाने श्रूयते ''एका देया, षड् देया, द्वादश देया'' इत्यादि। तत्र सोमक्रयन्यायेनानतेः सौलभ्यात्समुच्चयः। इति चेत्-
4सिद्धान्तः
मैवम्
संख्यानां ब्रीह्यादिवत्परस्परनैरपेक्ष्यावगमात्
समुच्चये श्रूयमाणाभिः संख्यान्तरस्य दुर्वारत्वाच्च
तस्मात्- विकल्पः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- उपयजनादिप्रतिपत्तिकर्मणां समुच्चयाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रयाजशेषन्यायेन तृतीयाश्रुतेर्विपरिणामे सति शेषप्रतिपत्तिसंस्कारविधानात् तस्मात्- समुच्चयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.4.6
षष्ठे- पशुगणेषु जाघनीनां विकल्पाधिकरणे सूत्राणि 10-16
SŪद्रव्यविकारं तु पूर्ववदर्थकर्म स्यात्तथा विकल्पे नियमः प्रधानत्वात्।। 10।।
SŪद्रव्यत्वेऽपि समुच्चयो द्रव्यस्य कर्मनिष्पत्तेः प्रतिपशु कर्मभेदादेवं सति यथाप्रकृति।। 11।।
SŪकपालेऽपि तथेति चेत्।। 12।।
SŪन कर्मणः परार्थत्वात्।। 13।।
SŪप्रत्तिपत्तिस्तु शेषत्वात्।। 14।।
SŪशृतेऽपि पूर्ववत्त्वात्स्यात्।। 15।।
SŪविकल्पे त्वर्थकर्म नियमप्रधानत्वात्, शेषे च कर्मकार्यसमवायात्तस्मात्तेनार्थकर्म स्यात्।। 16।।
षष्ठाधिकरणमारचयति-
1विषयः
समुच्चयो जाघनीनां न वाद्यो गुदवन्न तत्
प्रकृतौ नियमादर्थकर्मातोऽत्र तथात्वतः
3पूर्वपक्षः
ऐकादशिनादिगणेषु जाघन्या पत्नीसंयाजनं चोदकप्राप्तम्। तत्र प्रतिपत्तिकर्मत्वाज्जाघनीनां गुदानामिव समुच्चयः। इति चेत्-
मैवम्। दर्शपूर्णमासयोः पत्नीसंयाजरूपेऽर्थकर्मण्याज्यजाघनीद्रव्ये विकल्पेन विहिते। ते चोभे अग्नीषोमीयपशौ चोदकेन प्राप्ते। तत्र जाघन्यां प्राप्तायां पुनरपि ''जाघन्या पत्नीः संयाजयन्ति'' इति विहितम्। स च पुनर्विधिः 'स्ववैयर्थ्यपरिहारायातिदेशप्राप्तमर्थकर्मत्वं वारयित्वा प्रतिपत्तिकर्मत्वं प्रापयति' इति पूर्वपक्षीकृत्य, 'विकल्पेनातिदिष्टाया जाघन्या नियमेन पुनर्विधेश्चरितार्थत्वान्नार्थकर्मत्वं निवारणीयम्' इति सिद्धान्तनीयम्। तत्प्रकृतावग्नीषोमीयपशावर्थकर्मत्वेन विकृतिष्वर्थकर्मत्वात्। अर्थकर्मणश्चैकया जाघन्या निष्पत्तेर्गुददृष्टान्तासंभवात्- जाघनीनां विकल्पः।। 17।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे-आधाने विविधसंख्याकानां दक्षिणानां विकल्पाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् संख्यानां ब्रीह्यादिवत्परस्परनैरपेक्ष्यावगमात् समुच्चये श्रूयमाणाभिः संख्यान्तरस्य दुर्वारत्वाच्च तस्मात्- विकल्पः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.4.7
सप्तमे- उखायां काम्येन नित्याग्नेर्विकाराधिकरणे सूत्राणि 17-25
SŪउखायां काम्यनित्यसमुच्चयो नियोगे कामदर्शनात्।। 17।।
SŪअसति चासंस्कृतेषु कर्म स्यात्।। 18।।
SŪतस्य च देवतार्थत्वात्।। 19।।
SŪविकारो वा तदुक्तहेतु।। 20।।
SŪवचनादसंस्कृतेषु कर्म स्यात्।। 21।।
SŪसंसर्गे चापि दोषः स्यात्।। 22।।
SŪवचनादिति चेत्।। 23।।
SŪतथेतरस्मिन्।। 24।।
SŪउत्सर्गेऽपि परिग्रहः कर्मणः कृतत्वात्।। 25।।
सप्तमाधिकरणमारचयति-
1विषयः
नित्योख्याग्नौ काम्यवह्निः संयुज्येताथ बाधकः
3पूर्वपक्षः
कार्यभेदादादिमोऽन्त्यः कामेनान्यप्रसञ्जनात्
अग्निचयने कर्मण्युखां निष्पाद्य तस्यामुखायामग्निर्ध्रियते, स नित्योऽग्निः। तत्प्रकरणे काम्यो वह्निः पठ्यते ''वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्याहृत्यावदध्यात्'' इति। तत्र नित्यस्याग्नेर्होमः कार्यः। काम्यस्य तु फलाय धारणम्। अतः कार्यभेदात्समुच्चयः। इत्येवं प्राप्ते-
4सिद्धान्तः
फलाय धृतेनैवाग्निना होमस्यापि प्रसङ्गसिद्धेर्नित्यो बाध्यते
तथा सति कामिनो वह्न्यन्तरम्, अकामिनो नित्योऽग्निः, इति व्यवस्थितो विकल्पः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- पशुगणेषु जाघनीनां विकल्पाधिकरणे सूत्राणि 10-16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.4.8
अष्टमे-वैकारिकाग्नेराहवनीयत्वाभावाधिकरणे सूत्रे 26-28
SŪस आहवनीयः स्यादाहुतिसंयोगात्।। 26।।
SŪअन्यो वोर्द्धृत्याहरणात्।। 27।।
अष्टमाधिकरणमारचयति-
1विषयः
सोऽग्निराहवनीयो नो वाद्य आहुतियोगतः
3पूर्वपक्षः
अन्योन्याश्रयतो मैवं संस्काराच्चेन्न सोऽत्र हि
स पूर्वोक्तः काम्यो वह्निराहवनीयो भवितुमर्हति। कुतः- तन्निर्वचनस्याहुतियोगस्य तस्मिन्संभवात्। आगत्य हूयतेऽस्मिन्- इत्याहवनीयः। हूयन्ते चात्र काम्याहुतयः। तस्मात्- आहवनीयधर्मा गतश्रीधारणादयस्तत्र कर्तव्याः। ते च कल्पसूत्रकारेण दर्शिताः 'नक्तमाहवनीयं धारयति नित्यं गतश्रियः' इति। इति चेत्-
4सिद्धान्तः
मैवम्
अन्योन्याश्रयत्वप्रसङ्गात्
सिद्धे ह्याहवनीयत्वे तत्र होमविधिः 'यदाहवनीये जुहोति' इति, सिद्धे होमाधारत्वे पश्चादाहवनीयादिकल्पना, इति परस्पराश्रयत्वम्
अथ- आधानसंस्कारादाहवनीयत्वम्
तर्ह्यत्रास्य संस्काराभावान्नास्त्वाहवनीयत्वम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- उखायां काम्येन नित्याग्नेर्विकाराधिकरणे सूत्राणि 17-25”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “फलाय धृतेनैवाग्निना होमस्यापि प्रसङ्गसिद्धेर्नित्यो बाध्यते तथा सति कामिनो वह्न्यन्तरम्, अकामिनो नित्योऽग्निः, इति व्यवस्थितो विकल्पः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.4.9
नवमे- वैकारिकाग्नेराधानिकसंस्काराभावाधिकरणे सूत्रे- 28-29
SŪतस्मिन्संस्कारकर्म शिष्ठत्वात्।। 28।।
SŪस्थानाद्वा परिलुप्येरन्।। 29।।
नवमाधिकरणवारचयति-
1विषयः
अस्त्याधानादि नो वाऽत्र सर्वशेषत्वतोऽस्ति तत्
3पूर्वपक्षः
न संस्कृतस्थानपातान्मथनस्याप्यसंभवात्
अत्र पूर्वोक्ते वह्नावाधानादिकमस्ति। कुतः- आधानस्य सर्वकर्मशेषत्वात्।
4सिद्धान्तः
नैतद्युक्तम्
आधानादिभिः संस्कृतं नित्यमग्निं बाधित्वा तस्य स्थानेऽवस्थितत्वेनाग्न्युत्पादकसंस्कारा-नुपयोगात्
न च ज्वलतो वृक्षाग्रादाहृतस्यारणिमथनेनोत्पत्तिः संभवति
तस्मान्नास्त्याधानादि
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे-वैकारिकाग्नेराहवनीयत्वाभावाधिकरणे सूत्रे 26-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अन्योन्याश्रयत्वप्रसङ्गात् सिद्धे ह्याहवनीयत्वे तत्र होमविधिः 'यदाहवनीये जुहोति' इति, सिद्धे होमाधारत्वे पश्चादाहवनीयादिकल्पना, इति परस्पराश्रयत्वम् अथ- आधानसंस्कारादाहवनीयत्वम् तर्ह्यत्रास्य संस्काराभावान्नास्त्वाहवनीयत्वम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.4.10
दशमे- नित्यस्योख्यस्याग्नेरधारणाधिकरणे सूत्रे 30-31
SŪनित्यधारणे विकल्पो नह्यकस्मात्प्रतिषेधः स्यात्।। 30।।
SŪनित्यधारणाद्वा प्रतिषेधो गतश्रियः।। 31।।
दशमाधिकरणप्रारचयति-
1विषयः
धृतिर्विकल्पितोख्यस्य किंवा नैवास्ति धारणम्
3पूर्वपक्षः
निषेधात्कल्प्यविधितश्चाद्यो न प्राप्तवारणात्
अग्निचयने योऽयं नित्य उख्योऽग्निः, तस्य सार्वकालिकं धारणं विकल्पितम्। कुतः- विधिनिषेधयोरुभयोः सद्भावात्। प्रतिषेधस्तावदेवं श्रूयते ''न प्रतिसमिध्यो यत्प्रतिसमिध्येत्- भ्रातृव्यमस्मै जनयेत्'' इति। सोऽयं प्रतिषेधः प्राप्तिमन्तरेणानुपपन्नः प्रापकं बिधिं कल्पयति। तस्मात्- विकल्पः। इति चेत्-
4सिद्धान्तः
न
निषेधस्यान्यथाऽप्युपपन्नत्वात्
आहवनीयविषयं नित्यधारणं गतश्रियो यद्विहितम्, तच्चोदकेनोख्येऽग्नौ प्रापितत्वात्प्रतिषिध्यते
तथासति विधेरकल्पितत्वात्केवलेन प्रतिषेधेन धारणाभाव एव प्रतिनियतः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- वैकारिकाग्नेराधानिकसंस्काराभावाधिकरणे सूत्रे- 28-29”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नैतद्युक्तम् आधानादिभिः संस्कृतं नित्यमग्निं बाधित्वा तस्य स्थानेऽवस्थितत्वेनाग्न्युत्पादकसंस्कारा-नुपयोगात् न च ज्वलतो वृक्षाग्रादाहृतस्यारणिमथनेनोत्पत्तिः संभवति तस्मान्नास्त्याधानादि”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.4.11
एकादशे-- शुक्रस्पर्शादीनामेककर्तृकत्वाधिकरणे सूत्रम्
SŪपरार्थान्येको यजमानगणे।। 32।।
एकादशाधिकरणमारचयति-
1विषयः
शुक्रस्पर्शादिकं सत्रे सर्वेषामुत कस्यचित्
3पूर्वपक्षः
अविशेषादादिमोऽन्त्यस्तावतैवार्थसिद्धितः
''शुक्रं यजमानोऽन्वारभते'' ''यजमानसंमितौदुम्बरी भवति'' इति विहितं यत्, तत्सत्रे सर्वेषां यजमानानां भवेत्। कुतः- यजमानस्य सर्वाविशिष्टत्वात्। इति चेत्-
मैवम्। एकेन कृते सति प्रयोजनस्य शुक्रग्रहसंस्कारादेः सिद्धत्वात्। न ह्येते यजमानसंस्कारार्थाः, येन
4सिद्धान्तः
प्रतियजमानामावर्तेरन्
तस्मात्- एक एव कुर्यात्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- नित्यस्योख्यस्याग्नेरधारणाधिकरणे सूत्रे 30-31”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न निषेधस्यान्यथाऽप्युपपन्नत्वात् आहवनीयविषयं नित्यधारणं गतश्रियो यद्विहितम्, तच्चोदकेनोख्येऽग्नौ प्रापितत्वात्प्रतिषिध्यते तथासति विधेरकल्पितत्वात्केवलेन प्रतिषेधेन धारणाभाव एव प्रतिनियतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.4.12
द्वादशे- अहीने शुक्रस्पर्शादौ यस्य कस्यचिद्यजमानस्य कर्तृत्वाधिकरणे सूत्रम्
SŪअनियमोऽविशेषात्।। 33।।
द्वादशाधिकरणमारचयति-
1विषयः
अहीने सत्रवच्छुक्रस्पृगैक्ये स नियम्यते
3पूर्वपक्षः
न वाद्यः संभवान्मैवं विशेषानवधारणात्
यथा सत्रे यजमानेष्वेक एव शुक्रग्रहं स्पृशति, तथा- अहीनेऽप्येक एव- इति पूर्वन्यायेन स्थिते सति स एकः किं नियम्यते, उत यः कोऽपि, इति संशये सति-
नियमस्य सत्रे वक्ष्यमाणत्वादिहापि नियमः। इति पूर्वः पक्षः।
4सिद्धान्तः
विशेषस्यावधारयितुमशक्यत्वात्- यः कोऽपि
इति राद्धान्तः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे-- शुक्रस्पर्शादीनामेककर्तृकत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रतियजमानामावर्तेरन् तस्मात्- एक एव कुर्यात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.4.13
त्रयोदशे- सत्रे शुक्रस्पर्शादौ गृहपतेरेव कर्तृत्वाधिकरणे सूत्रम्
SŪमुख्यो वाऽविप्रतिषेधात्।। 34।।
त्रयोदशाधिकरणमारचयति-
1विषयः
कश्चिद्गृहपतिर्वा स्यात्सत्रे कश्चिदहीनवत्
3पूर्वपक्षः
इतरेषां तदार्त्विज्यादविलम्बार्थमन्तिमः
पूर्वोक्तेनाहीनन्यायेन सत्रे यः कोऽपि शुक्रस्पर्शादिकं कुर्यात्। इति चेत्-
4सिद्धान्तः
मैवम्
गृहपतिव्यतिरिक्तानां तदानीमार्त्विज्यकार्ये विनियुक्तानां शुक्रस्पर्शाद्यसंभवात्
विलम्बे तु- आर्त्विज्यशुक्रस्पर्शयोर्विहितमेककालीनत्वं हीयेत
तस्मात्- अविलम्बार्थं गृहपतिरेव कुर्यात्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- अहीने शुक्रस्पर्शादौ यस्य कस्यचिद्यजमानस्य कर्तृत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विशेषस्यावधारयितुमशक्यत्वात्- यः कोऽपि इति राद्धान्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.4.14
चतुर्दशे- सत्रेऽञ्जनादिसंस्काराणां सर्वगामित्वाधिकरणे सूत्राणि 35-38
SŪसत्रे गृहपतिरसंयोगाद्धौत्रवत्।। 35।।
SŪआम्नायवचनाच्च।। 36।।
SŪसर्वे वा तदर्थत्वात्।। 37।।
SŪगृहपतिरिति च समाख्यासामान्यात्।। 38।।
चतुर्दशाधिकरणमारचयति-
1विषयः
अञ्जनाद्या गृहपतेः सर्वेषां वा, समाख्यया
3पूर्वपक्षः
आद्यो नो फलिसंस्काराः सर्वेषां फलिता मता
अञ्जनाभ्यञ्जनादयो गृहपतेर्युक्ताः संस्काराधिक्येन गृहपतित्वसमाख्याया उपपन्नत्वात्। इति चेत् ।
4सिद्धान्तः
मैवम्
फलित्वप्रयोजका एते संस्काराः
फलित्वं च सर्वेषां यजमानानाम्
यत्तु गृहपतेः फलाधिक्यं श्रूयते ''भूयिष्ठामृद्धिमृध्नोति'' इति, तद्वाचनिकम्
न तु संस्काराधिक्यकृतम्
समाख्या त्वन्तरेणापि संस्काराधिक्यमृत्विजामिव कर्मकरत्वादुपपद्यते
तस्मात्- सर्वेषामञ्जनाद्याः कार्याः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- सत्रे शुक्रस्पर्शादौ गृहपतेरेव कर्तृत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् गृहपतिव्यतिरिक्तानां तदानीमार्त्विज्यकार्ये विनियुक्तानां शुक्रस्पर्शाद्यसंभवात् विलम्बे तु- आर्त्विज्यशुक्रस्पर्शयोर्विहितमेककालीनत्वं हीयेत तस्मात्- अविलम्बार्थं गृहपतिरेव कुर्यात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.4.15
पञ्चदशे याजमानार्त्विज्ययोरार्त्विज्यस्यैव बलवत्त्वाधिकरणे सूत्राणि 39-41
SŪविप्रतिषेधे परम्।। 39।।
SŪहौत्रे परार्थत्वात्।। 40।।
SŪवचनं परम्।। 41।।
पञ्चदशाधिकरणमारचयति-
1विषयः
याजमानार्त्विज्ययोः किं बलवत्पूर्वमुत्तरम्
3पूर्वपक्षः
उताद्यश्चोदकप्राप्तेरन्त्यः प्रत्यक्षतो विधेः
सत्रे यत्र याजमानार्त्विज्यकर्मणोरेकदा प्राप्तिः, तत्र याजमानं बलवत्। चोदकेन प्राप्तवात्। इति चेत्-
4सिद्धान्तः
मैवम्
'ये यजमानास्त ऋत्विजः' इत्यार्त्विज्यस्य प्रत्यक्षविहितत्वात्
तस्मादार्त्विज्यं बलवत्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- सत्रेऽञ्जनादिसंस्काराणां सर्वगामित्वाधिकरणे सूत्राणि 35-38”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् फलित्वप्रयोजका एते संस्काराः फलित्वं च सर्वेषां यजमानानाम् यत्तु गृहपतेः फलाधिक्यं श्रूयते ''भूयिष्ठामृद्धिमृध्नोति'' इति, तद्वाचनिकम् न तु संस्काराधिक्यकृतम् समाख्या त्वन्तरेणापि संस्काराधिक्यमृत्विजामिव कर्मकरत्वादुपपद्यते तस्मात्- सर्वेषामञ्जनाद्याः कार्याः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.4.16
षोडशे- ब्राह्मणस्यैवार्त्विज्याधिकरणे सूत्राणि 42-47
SŪप्रभुत्वादार्त्विज्यं सर्ववर्णानां स्यात्।। 42।।
SŪस्मृतेर्वा स्याद्ब्राह्मणानाम्।। 43।।
SŪफलचमसविधानाच्चेतरेषाम्।। 44।।
SŪसान्नाय्येऽप्येवं प्रतिषेधोऽसोमपीथहेतुत्वात्।। 45।।
SŪचतुर्धाकरणे च निर्देशात्।। 46।।
SŪअन्वाहार्ये च दर्शनात्।। 47।।
षोडशाधिकरणमारचयति-
3पूर्वपक्षः
विप्रक्षत्रियवैश्यानामधीतवेदानां विद्यावत्त्वादार्त्विज्यमस्ति। इति चेत्-
वेदानां स्थितिकृत्पुरो हरिहरोऽभूत्सूत्रकृज्जैमिनि- स्तद्भाष्यं शबरोऽभ्यधाद्गदितवांस्तद्विस्तरं माधवः।
अत्र पादे- अधिकरणानि 16, सूत्राणि 47 ।
आदितः- अधिकरणानि 907, सूत्राणि 2644।
।।ग्रन्थश्च सम्पूर्णः।
***********
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे याजमानार्त्विज्ययोरार्त्विज्यस्यैव बलवत्त्वाधिकरणे सूत्राणि 39-41”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'ये यजमानास्त ऋत्विजः' इत्यार्त्विज्यस्य प्रत्यक्षविहितत्वात् तस्मादार्त्विज्यं बलवत्”