12.3.1
प्रथमे- अष्टरात्रे वत्सत्वगहतवाससोः समुच्चयाधिकरणे सूत्रे 1-2
SŪ विश्वजिति वत्सत्वङ्नामधेयादितरथातन्त्रभूयस्त्वादहतं स्यात्।। 1।।
SŪ अविरोधो वा उपरिवासो हि वत्सत्वक्।। 2।।
तृतीयपादे प्रथमाधिकरणमारचयति-
1 विषयः त्वग्वाससोरष्टरात्रे विकल्पो नियमोऽथवा समुच्चयो वा नामातिदेशसाम्याद्विकल्प्यते
3 पूर्वपक्षः मुख्यत्वेन त्वगेव स्याद्वास एव बहुत्वतः योग्यत्वेन व्यवस्थायामुभयोः स्यात्समुच्चयः
अष्टरात्रे विश्वजित्प्रथममहः। तस्मिन्प्रकृतिभूतादेकाहाद्विश्वजितः परिधानार्थावत्सत्वक्प्राप्नोति। नाम्ना तथाऽतिदेशात्। 'अवभृथादुदेत्य वत्सत्वचं परिधत्ते' इति प्रकृतौ विधानात्। ततो ज्योतिर्नामकोऽभिप्लवः षडहः। तत्र प्रकृतेर्ज्योतिष्टोमादहतं वासो नाम्नाऽतिदिश्यते। ततोऽभिजिदष्टममहः। तत्रापि चोदकाद्वासः प्राप्नोति। तत्र द्वयोर्नामातिदेशयोः समबलत्वादष्टस्वहःसु त्वग्, वासो वा, इच्छया विकल्प्यते। इत्याद्यः पक्षः।
4 सिद्धान्तः विकल्पस्याष्टदोषत्वान्नियमः- इति द्वितीयः पक्षः तत्रापि विश्वजितः प्राथम्येन प्रबलतया त्वगेव- इत्यपरः पक्षः इतरेषामह्नां बहुत्वेन प्रबलतया वास एव इत्यपरः पक्षः कौपीनत्वे वासो योग्यम् त्क्प्रावरणे योग्या तस्मात्सर्वानुग्राहकेण समुच्चयेनात्र प्रसङ्गोऽपोद्यते इति राद्धान्तः। 1
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- द्यावापृथिव्यादीनां सर्वेषामेव तन्त्रित्वाधिकरणे सूत्राणि 35-37”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.2
द्वितीये- अनुनिर्वाप्यपुरोडाशानां पुरोडाशस्यैव तन्त्रित्वाधिकरणे सूत्राणि 3-8
SŪ अनुनिर्वाप्येषु भूयस्त्वेन तन्त्रनियमः स्यात्।। 3।।
SŪ आगन्तुकत्वाद्वा स्वधर्मा स्याच्छ्रुतिविशेषादितरस्य च मुख्यत्वात्।। 4।।
SŪ स्वस्थानत्वाच्च।। 5।।
SŪ स्विष्टकृच्छ्रवणान्नेति चेत्।। 6।।
SŪ विकारः पवमानवत्।। 7।।
SŪ अविकारो वा प्रकृतिवच्चोदनां प्रति भावाच्च।। 8।।
द्वितीयाधिकरणमारचयति-
1 विषयः स्वाधर्म्यमनुनिर्वाप्येष्वस्ति नो वा, बहुत्वतः
3 पूर्वपक्षः अस्ति मैवं तन्त्रमध्ये विहितत्वात्प्रसङ्गिता
अग्नौ श्रूयते ''अग्नीषोमीयस्य पशुपुरोडाशमनु देवसुवां हवींषि निर्वपति'' इति। तत्र हविषामष्टानां बहुत्वेन पुरोडाशाद्बलवत्त्वात्तन्त्रित्वम्। ततः स्वधर्मा एव तेऽनुष्ठेयाः। न तु पुरोडाशधर्मैः प्रसङ्गसिद्धिः। इति चेत्-
4 सिद्धान्तः मैवम् प्रत्यक्षेण पुरोडाशतन्त्रमध्ये विधानेन प्राप्तस्य प्रसङ्गित्वस्य युक्तिमात्रेण वारयितुमशक्यत्वात्स्वाधर्म्यं नास्ति
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- अष्टरात्रे वत्सत्वगहतवाससोः समुच्चयाधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विकल्पस्याष्टदोषत्वान्नियमः- इति द्वितीयः पक्षः तत्रापि विश्वजितः प्राथम्येन प्रबलतया त्वगेव- इत्यपरः पक्षः इतरेषामह्नां बहुत्वेन प्रबलतया वास एव इत्यपरः पक्षः कौपीनत्वे वासो योग्यम् त्क्प्रावरणे योग्या तस्मात्सर्वानुग्राहकेण समुच्चयेनात्र प्रसङ्गोऽपोद्यते इति राद्धान्तः। 1”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.3
तृतीये- भिन्नोपकारकाणां गुणानां समुच्चयाधिकरणे सूत्रम्
SŪ एककर्मणि शिष्टत्वाद्गुणानां सर्वकर्म स्यात्।। 9।।
तृतीयाधिकरणमारचयति-
1 विषयः ऋजुत्वादय आधारे विकल्प्यन्ते न वाऽग्रिमः
3 पूर्वपक्षः एकार्थत्वाददृष्टार्थभेदात्संभवतोऽन्तिमः
दर्शपूर्णमासयोराम्नायते ''ऋजुमाघारयति, संततमाघारयति, ऊर्ध्वमाधारयति'' इति। तेषामृजुत्वादीनामाघारोपकारद्वारा कार्यस्यैकत्वाद्विकल्पः। इति चेत्-
4 सिद्धान्तः मैवम् दृष्टद्वारभेदाभावेऽप्यदृष्टद्वारभेदात्सहानुष्ठानसंभवाच्च विकल्पो न
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- अनुनिर्वाप्यपुरोडाशानां पुरोडाशस्यैव तन्त्रित्वाधिकरणे सूत्राणि 3-8”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रत्यक्षेण पुरोडाशतन्त्रमध्ये विधानेन प्राप्तस्य प्रसङ्गित्वस्य युक्तिमात्रेण वारयितुमशक्यत्वात्स्वाधर्म्यं नास्ति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.4
चतुर्थे- प्रयोजनैक्ये गुणानां विकल्पाधिकरणे सूत्राणि 10-15
SŪ एकार्थास्तु विकल्पेरन्समुच्चये ह्यावृत्तिः स्यात्प्रधानस्य।। 10।।
SŪ अभ्यस्येतार्थवत्त्वादिति चेत्।। 11।।
SŪ नाश्रुतित्वात्।। 12।।
SŪ सति चाभ्यासशास्त्रत्वात्।। 13।।
SŪ विकल्पवच्च दर्शयति।। 14।।
SŪ कालान्तरेऽर्थवत्त्वं स्यात्।। 15।।
चतुर्थाधिकरणमारचयति-
1 विषयः समुच्चयो यवव्रीह्योर्विकल्पो वाऽत्र पूर्ववत् आद्यो मैवं नैरपेक्ष्याददृष्टाभेदतोऽन्तिमः
3 पूर्वपक्षः अष्टदोषनिदानविकल्पपरिहाराय प्रयोगवचनानुग्रहाय च समुच्चयः स्वात्। ऋज्वाधारधर्मवत्। इति चेत्- मैवम्। अदृष्टस्य कल्पयितुमशक्यत्वात्। तर्हि- अस्तु दृष्टभेदः- इति चेत्- एकं पुरोडाशनिष्पादनमन्तरेणान्यस्य कार्यस्यादर्शनात्। न च पेषणादौ दृषदुपलयोरिव समुच्चयः शङ्कनीयः। तद्वत्परस्परसापेक्षत्वाभावात्। अत एव 'ब्रीहिभिर्यजेत' इत्यत्र यवनिरपेक्षाणां व्रीहीणां यागसाधनत्वं विधीयते। एवं 'यवैर्यजेत' इत्यत्रापि। तस्मात्- विकल्पः।। 5।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- भिन्नोपकारकाणां गुणानां समुच्चयाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् दृष्टद्वारभेदाभावेऽप्यदृष्टद्वारभेदात्सहानुष्ठानसंभवाच्च विकल्पो न”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.5
पञ्चमे- वैगुण्यसमाधानार्थानां प्रायश्चित्तानां विकल्पाधिकरणे सूत्रम्
SŪ प्रायश्चित्तेषु चैकार्थ्यान्निष्पन्नेनाभिसंयोगः, तस्मात्सर्वस्य निर्घातः।। 16।।
पञ्चमाधिकरणमारचयति-
1 विषयः वैश्वानरे पथिकृते साहित्यं वा विकल्पनम् साहित्यं स्याददृष्टाय विकल्पः स्यात्समाधये
3 पूर्वपक्षः विहितयोर्दर्शपूर्णमासयोः कदाचिदननुष्ठाने प्रायश्चित्तं श्रूयते ''वैश्वानरं द्वादशकपालं निर्वपेदमावास्यां वा पौर्णमासीं वाऽतिपात्य'' इति। ''अग्नये पथि कृते पुरोडाशमष्टाकपालं निर्वपेत्, यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपातयेत्'' इति च। अत्र पूर्ववद्दृष्टप्रयोजनाभावाददृष्टार्थमुभयं समुच्चित्यानुष्ठेयम्। इति चेत्- मैवम्। यज्ञवैगुण्यसमाधेर्दृष्टप्रयोजनत्वादन्योन्यनिरपेक्षयोर्द्वयोर्व्रीहियववद्विकल्पः। एवम्- ऋग्यजुः सामविहितस्याननुष्ठानात्, निषिद्धस्याचरणाद्वा यद्यज्ञवैगुण्यम्, तस्य वैगुण्यमात्रस्य समाधानाय निरपेक्षाणि प्रायश्चित्तानि विहितानि ''भूः स्वाहेति गार्हपत्ये जुहुयात्, भुवः स्वाहेति दक्षिणाग्नौ जुहुयात्, स्वः स्वाहेत्याहवनीये जुहुयात्, भूर्भुवःस्वः स्वाहेत्याहवनीये जुहुयात्'' इति। तान्येतानि विकल्प्यन्ते प्रत्येकं वैगुण्यसमाधानक्षमत्वात्।। 6।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- प्रयोजनैक्ये गुणानां विकल्पाधिकरणे सूत्राणि 10-15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.6
षष्ठे- नैमित्तिकप्रायश्चित्तानां समुच्चयाधिकरणे सूत्रम्
SŪ समुच्चयस्त्वदोषनिर्घातार्थेषु।। 17।।
षष्ठाधिकरणमारचयति-
1 विषयः भिन्नस्कन्नादिहोमादेर्विकल्पो वा समुच्चयः
3 पूर्वपक्षः विकल्पः पूर्ववन्मैवमदोषे विहितत्वतः
यज्ञपात्रभेदनहविर्द्रव्यस्कन्दनादिनिमित्तेषु श्रूयते ''भिन्ने जुहोति'' इत्यादि। तत्र वैगुण्यसमाधानार्थत्वात्पूर्ववद्विकल्पः। इति चेत्-
4 सिद्धान्तः मैवम् दोषसंयोगमनुपन्यस्य भेदनादिनिमित्तमुपजीव्य विहितत्वात् अतो नैमित्तिकानामनेकेषां प्रयोगवचनपरिगृहीतत्वेन समुच्चयः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- वैगुण्यसमाधानार्थानां प्रायश्चित्तानां विकल्पाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.7
सप्तमे- कर्मकालेऽनध्यायेऽपि मन्त्राणां प्रयोगाधिकरणे सूत्रे 18-19
SŪ मन्त्राणां कर्मसंयोगात्स्वधर्मेण प्रयोगः स्याद्धर्मस्य तन्निमित्तत्वात्।। 18।।
SŪ विद्यां प्रति विधानाद्वा सर्वकालं प्रयोगः स्यात्कर्मार्थत्वात्प्रयोगस्य।। 19।।
सप्तमाधिकरणमारचयति-
1 विषयः अनध्याये मन्त्रपाठः क्रतौ नास्त्यस्ति वा, न सः
3 पूर्वपक्षः तत्पाठस्य निषिद्धत्वादस्ति तत्रानिषेधतः
''पर्वणि नाध्येयम्'' इति निषिद्धत्वादनध्याये क्रतुप्रयोगे मन्त्रपाठो नास्ति। इति चेत्-
4 सिद्धान्तः न निषेधस्य ग्रहणाध्यापनविषयत्वेन क्रतुप्रयोगे तन्निषेधाभावात् तस्मात्- क्रतावनध्यायेऽप्यस्ति मन्त्रप्रयोगः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- नैमित्तिकप्रायश्चित्तानां समुच्चयाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् दोषसंयोगमनुपन्यस्य भेदनादिनिमित्तमुपजीव्य विहितत्वात् अतो नैमित्तिकानामनेकेषां प्रयोगवचनपरिगृहीतत्वेन समुच्चयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.8
अष्टमे- कर्मणि प्रावचनस्वरेणैव मन्त्रोच्चारणाधिकरणे सूत्राणि 20-22
SŪ भाषास्वरोपदेशादैरवत्प्रावचनप्रतिषेधः स्यात्।। 20।।
SŪ मन्त्रोपदेशो वा न भाषिकस्य, प्रायापत्तेर्भाषिकश्रुतिः।। 21।।
SŪ विकारः कारणाग्रहणे।। 22।।
अष्टमाधिकरणमारचयति-
1 विषयः स्वरो मन्त्रे भाषिकः किं स्यात्प्रावचनिकोऽथवा ब्राह्मणोक्तेरादिमोऽन्त्यस्तदुक्तेर्लक्षणत्वतः
3 पूर्वपक्षः तत्तच्छाखीयब्राह्मणस्वरो भाषिक इत्युच्यते। तदुक्तमाचार्यैः- छन्दोगा बह्वृचाश्चैव तथा वाजसनेयिनः। उच्चनीचस्वरं प्राहुः स वै भाषिक उच्यते । इति। सोऽयं भाषिकः क्रतौ मन्त्रेषु प्रयोक्तव्यः। ब्राह्मणेनोक्तत्वात्। मन्त्रविनियोगस्य लिङ्गेन सिद्धत्वात्। स्वरविशेषविधानाय ब्राह्मणे मन्त्र उपादीयते। इति प्राप्ते-
4 सिद्धान्तः ब्रूमः- न हि ब्राह्मणे मन्त्रः पठ्यते। किंतु पठनसिद्धस्वराद्युपेतं मन्त्रकाण्डसमुत्पन्नं मन्त्रमुपलक्षयितुं तदुपलक्षणसमर्थानि मन्त्रोपक्रमसदृशानि कानिचिदक्षराण्युर्च्चायन्ते-''इमामगृभ्णन्रशनामृतस्येत्यश्वा-भिधानीमादत्ते'' इति। एवमेवाभिप्रायं द्योतयितुं क्वचिच्छब्दान्तरेणोपलक्ष्यते। तद्यथा- ''सावित्राणि जुहोति प्रसूत्यै'' इति। यत्र लिङ्गसिद्धो विनियोगः, तत्र ब्राह्मणमनुवादकमस्तु। तस्मात्- प्रावचनिकः स्वरः क्रतौ प्रयोक्तव्यः।। 9।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- कर्मकालेऽनध्यायेऽपि मन्त्राणां प्रयोगाधिकरणे सूत्रे 18-19”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न निषेधस्य ग्रहणाध्यापनविषयत्वेन क्रतुप्रयोगे तन्निषेधाभावात् तस्मात्- क्रतावनध्यायेऽप्यस्ति मन्त्रप्रयोगः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.9
नवमे- ब्राह्मणोत्पन्नमन्त्रस्य भाषिकस्वरेणैवोच्चारणाधिकरणे सूत्रे 23-24
SŪ तन्न्यायत्वाददृष्टोऽप्येवम्।। 23।।
SŪ तदुत्पत्तेर्वा प्रवचनलक्षणत्वात्।। 24।।
नवमाधिकरणमारचयति-
1 विषयः ब्राह्मणोत्पन्नमन्त्रस्य त्रैस्वर्यं भाषिकोऽथवा
3 पूर्वपक्षः आद्योऽन्यमन्त्रवन्मैवं स्वरान्तरविवर्जनात्
4 सिद्धान्तः ''वानस्पत्योऽसि'' इत्ययं मन्त्रो ब्राह्मण एवोत्पन्नः, ''तं प्रोहेत्- वानस्पत्योऽसि'' इत्याम्नानात् न चास्य मन्त्रस्य कश्चित्प्रावचनिकः स्वरोऽस्ति तस्मात्- भाषिकः स्वरः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- कर्मणि प्रावचनस्वरेणैव मन्त्रोच्चारणाधिकरणे सूत्राणि 20-22”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.10
दशमे-मन्त्राणां पाठानन्तरमेव पदार्थानुष्ठानाधिकरणे सूत्रम्
SŪ मन्त्राणां करणार्थत्वान्मन्त्रान्तेन कर्मादिसंनिपातः स्यात्, सर्वस्य वचनार्थत्वात्।। 25।।
दशमाधिकरणमारचयति-
1 विषयः यदा कदाचिन्मन्त्रान्ते वा कर्मानियमाद्भवेत्
2 संशयः इत्यादि मन्त्रे बहुधा संशयः- किं मन्त्रादौ कर्म कर्तव्यम्, उत ''अगृभ्णन्रशनामृतस्य'' इत्येवंविधस्य कर्मप्रकाशकमन्त्रस्योच्चारण-काले, किंवा यस्य कस्यचित्पदस्य काले, आहोस्वित्- मन्त्रान्ते, अथवा- तथाऽपि किंचित्कालं विलम्ब्य, इति।
3 पूर्वपक्षः आद्यो मैवं कृत्स्नजन्यस्मृतेरङ्गत्वतोऽन्तिमः
तत्र नियामकाभावात्- यदा कदाचित्। इति प्राप्ते
4 सिद्धान्तः ब्रूमः- कृत्स्नमन्त्रजन्यार्थस्मरणं कर्मणोऽङ्गम् तच्च समाप्तेः पूर्वं नोदेति विलम्बे तूत्पन्नं स्मरणं विनश्यति ततः परिशेषान्मन्त्रान्ते कर्म संनिपतेत्
-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- ब्राह्मणोत्पन्नमन्त्रस्य भाषिकस्वरेणैवोच्चारणाधिकरणे सूत्रे 23-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “''वानस्पत्योऽसि'' इत्ययं मन्त्रो ब्राह्मण एवोत्पन्नः, ''तं प्रोहेत्- वानस्पत्योऽसि'' इत्याम्नानात् न चास्य मन्त्रस्य कश्चित्प्रावचनिकः स्वरोऽस्ति तस्मात्- भाषिकः स्वरः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.11
एकादशे- वसोर्धारायां मन्त्रान्ते कर्मसंनिपाताधिकरणे सूत्रे 26-27
SŪ संततवचनाद्धारायामादिसंयोगः।। 26।।
SŪ कर्मसंतानो वा नानाकर्मत्वादितरस्याशक्यत्वात्।। 27।।
एकादशाधिकरणमारचयति-
1 विषयः मन्त्रादौ किं वसोर्धारा मन्त्रान्ते वाऽत्र संततेः आद्यो होमेषु सांतत्याद्द्वादशान्तेषु तद्धुतिः
3 पूर्वपक्षः अग्नौ किंचित्कर्म विहितम्- ''संततां वसोर्धारां जुहोति'' इति। तत्र सांतत्यमविच्छिन्नत्वम्। तच्च कर्ममन्त्रयोः सहोपक्रमे सत्युपपद्यते। तस्मात्- मन्त्रादौ कर्मसंनिपातः। इति प्राप्ते-
4 सिद्धान्तः ब्रूमः- तस्मिन्वसोर्धाराख्ये कर्मणि ''द्वादश द्वादशानि जुहोति'' इति श्रुतम्। द्वादशभिर्मन्त्रवाक्यैः संपाद्यमेकमाहुतिस्वरूपं द्वादशम्। तद्यथा ''वाजश्च मे, प्रसवश्च मे, प्रयतिश्च मे, प्रसितिश्च मे, अधीतिश्च मे, क्रतुश्च मे, स्वरश्च मे, श्लोकश्च मे, श्रावश्च मे, श्रुतिश्च मे, ज्योतिश्च मे, सुवश्च मे,'' इत्येतैर्द्वादशभिर्मन्त्रवाक्यैरेकाहुतिर्होतव्या। एकादशोत्तराहुतयः ''प्राणश्च मे, अपानश्च मे'' इत्यादिभिर्निष्पाद्यन्ते। एतेषु च होमद्वादशकेषु मध्ये मध्ये विलम्बाभावः साहित्यम्, न तु मन्त्रकर्मणोः सहोपक्रमः। तस्मात्- पूर्वन्यायेन मन्त्रान्ते कर्मसंनिपातस्य नास्ति कश्चिद्विघ्नः।। 12।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे-मन्त्राणां पाठानन्तरमेव पदार्थानुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- कृत्स्नमन्त्रजन्यार्थस्मरणं कर्मणोऽङ्गम् तच्च समाप्तेः पूर्वं नोदेति विलम्बे तूत्पन्नं स्मरणं विनश्यति ततः परिशेषान्मन्त्रान्ते कर्म संनिपतेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.12
द्वादशे- आघारेऽपि मन्त्रान्ते कर्मसंनिपाताधिकरणे सूत्रम्
SŪ आघारे च दीर्घधारत्वात्।। 28।।
द्वादशाधिकरणमारचयति-
1 विषयः आघारे मन्त्रसाहित्यं धारा वा संतताऽग्रिमः कर्मैकत्वाग्नाज्यधारानैरन्तर्यस्य संभवात्
3 पूर्वपक्षः ''संततमाघारयति'' इत्यत्र पूर्ववदाहुतिनैरन्तर्यं न संभवति। आहुतेरेकत्वात्। अतो मन्त्रसाहित्यस्यैव संततशब्दार्थत्वात्, मन्त्रादौ कर्मोपक्रमः। इति चेत्- मैवम्। क्षार्यमाणाज्यविन्दुनैरन्तर्यस्य शब्दार्थत्वसंभवात्। न च प्रयाजाज्याहुतिष्वपि नैरन्तर्यमस्ति- इति शङ्कनीयम्। तत्र विच्छिद्य विच्छिद्य बिन्दुपातेऽपि कर्मवैकल्याभावात्। अत्र तु न तथा, इति वैषम्यम्। तथा सति 'आघाराय यदाज्यं जुह्वां गृहीतम्, तत्सर्वं शनैरविच्छेदनाहवनीये पातयेत्' इति संततशब्दार्थः। यदि मन्त्रकर्मणोः सहोपक्रमः स्यात्, तदानीम् 'अनेन मन्त्रेण' इति तृतीयाश्रुत्युक्तं पूर्वकाललक्षणं मन्त्रस्य करणत्वं हीयते। तस्मात्पूर्ववन्मन्त्रान्ते कर्मसंनिपातः।। 13।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- वसोर्धारायां मन्त्रान्ते कर्मसंनिपाताधिकरणे सूत्रे 26-27”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.13
त्रयोदशे- एककार्यमन्त्राणां विकल्पाधिकरणे सूत्रम्
SŪ मन्त्राणां संनिपातित्वादेकार्थानां विकल्पः स्यात्।। 29।।
त्रयोदशाधिकरणमारचयति-
1 विषयः पूषाद्येकार्थमन्त्राणां साहित्यं वा विकल्पना
3 पूर्वपक्षः आद्यः शक्यत्वतो मैवं मन्त्रान्ते संनिपाततः
पुरोडाशविभागे त्रयो मन्त्राः श्रुताः- ''पूषा वां विभजतु,'' ''भगो वां विभजतु'' ''अर्यमा वां विभजतु'' इति। तव समुच्चित्यानुष्ठातुं शक्यत्वात्समुच्चयः। इति चेत्-
4 सिद्धान्तः मैवम् प्रथममन्त्रान्ते कर्मणः संनिपाते सति मन्त्रान्तरे प्रयोजनाभावात् तस्मात्- विकल्पः व्रीहियवयोर्निर्णीतस्यैव विकल्पस्यायं प्रपञ्चः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- आघारेऽपि मन्त्रान्ते कर्मसंनिपाताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.14
चतुर्दशे- संख्याविहितमन्त्राणां समुच्चयाधिकरणे सूत्रम्
SŪ संख्याविहितेषु समुच्चयोऽसंनिपातित्वात्।। 30।।
चतुर्दशाधिकरणमारचयति-
1 विषयः चतुर्भिरभ्रिमित्यत्र विकल्पो वा समुच्चयः विकल्पः पूर्ववन्मैवं समूहे करणत्वतः
3 पूर्वपक्षः अग्नौ श्रूयते ''चतुर्भिरभ्रिमादत्ते'' इति। तत्र पूर्वोक्तविभागमन्त्रवत्प्रतिमन्त्रं पृथक्करणत्वं नास्ति। चतुःसंख्यया समूहे करणत्वप्रतीतेः। तस्मात्- मन्त्रान्ते कर्मसंनिपातस्याबाधेनैव समुच्चयः स्यात्। न च पूर्वस्यैकैकस्य मन्त्रान्ते संनिपातो न स्यात्- इति शङ्कनीयम्। वाचनिकसंख्यया न्यायसिद्धस्य तस्य बाधितत्वात्।। 15।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- एककार्यमन्त्राणां विकल्पाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रथममन्त्रान्ते कर्मणः संनिपाते सति मन्त्रान्तरे प्रयोजनाभावात् तस्मात्- विकल्पः व्रीहियवयोर्निर्णीतस्यैव विकल्पस्यायं प्रपञ्चः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.15
पञ्चदशे- ब्राह्मणविहितमन्त्राणां विकल्पाधिकरणे सूत्राणि 31-35
SŪ ब्राह्मणविहितेषु च संख्यावत्सर्वेषामुपदिष्टत्वात्।। 31।।
SŪ याज्यावषट्कारयोश्च समुच्चयस्य दर्शनं तद्वत्।। 32।।
SŪ विकल्पो वा समुच्चयस्याश्रुतित्वात्।। 33।।
SŪ गुणार्थत्वादुपदेशस्य।। 34।।
SŪ वषट्कारे नानार्थत्वात्समुच्चयः।। 35।।
पञ्चदशाधिकरणमारचयति-
1 विषयः प्रथमन्त्रौ समुच्चेयौ विकल्प्यौ वा चतुष्ट्ववत्
3 पूर्वपक्षः आद्य उक्तिद्वयान्मैवं समुच्चित्यनुदीरणात्
''उरु प्रथस्वेति पुरोडाशं प्रथयति'' ''उरु ते यज्ञपतिः प्रथताम्- इतिपुरोडाशं प्रथयति'' इति ब्राह्मणेन पुरोडाशप्रथने द्वौ मन्त्रौ विनियुक्तौ। तस्य च मन्त्रविनियोगस्य मन्त्रलिङ्गेनैव सिद्धत्वाद्ब्राह्मणगतं वचनद्वयं चतुःसंख्यावत्समुच्चये पर्यवस्यति। इति चेत्-
4 सिद्धान्तः मैवम् तस्मिन्वचनद्वये मन्त्रयोः परस्परनैरपेक्ष्यप्रतिभानेन समुच्चयस्यायुक्तत्वात् अतो लिङ्गसिद्ध एवार्थोऽनूद्यते- इति व्रीहियववद्विकल्पः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- संख्याविहितमन्त्राणां समुच्चयाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.3.16
षोडशे- हौत्राणां मन्त्राणां समुच्चयाधिकरणे सूत्राणि 36-38
SŪ हौत्रास्तु विकल्पेरन्नेकार्थत्वात्।। 36।।
SŪ समुच्चयो वा क्रियमाणानुवादित्वात्।। 37।।
SŪ समुच्चयं च दर्शयति।। 38।।
षोडशाधिकरणमारचयति-
1 विषयः उद्दिवेत्युच्छ्रयस्वेति विकल्पो वा समुच्चयः
3 पूर्वपक्षः विकल्पः स्मारकत्वैक्यादाकारान्यत्वतोऽन्तिमः
यूपस्योच्छ्रयणे करणभूत एष मन्त्रोऽध्वर्युणा पाठ्यते ''उद्दिवं स्तभानान्तरिक्षं पृण पृथिवीमुपरेण दृंह'' इति। उच्छ्रीयमाणाय यूपाय प्रेषितेन होत्रा मन्त्रः पठ्यते ''उच्छ्रयस्य वनस्पते वर्ष्मन्पृथिव्या अधि'' इति। अनयोर्मन्त्रयोर्यूपोच्छ्रयणस्मारणमेकमेव कार्यम्। तस्मात्- विकल्पः। इति चेत्-
4 सिद्धान्तः मैवम् करणमन्त्रः ''उच्छ्रयणं करोमि'' इत्येवं स्मारयति हौत्रस्तु क्रियमाणमुच्छ्रयणमनुवदन्नध्वर्योः 'यूपोच्छ्रयणं कर्तव्यम्' इत्येवं स्मृतिं जनयति तत्र स्मार्यमाणस्योच्छ्रयणस्यैकत्वेऽपि 'कर्तव्यम्' इत्यस्य, 'करोमि' इत्यस्य च स्मृतिप्रकारस्यान्यत्वात्कार्यैक्याभावेन समुच्चयः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- ब्राह्मणविहितमन्त्राणां विकल्पाधिकरणे सूत्राणि 31-35”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् तस्मिन्वचनद्वये मन्त्रयोः परस्परनैरपेक्ष्यप्रतिभानेन समुच्चयस्यायुक्तत्वात् अतो लिङ्गसिद्ध एवार्थोऽनूद्यते- इति व्रीहियववद्विकल्पः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
द्वितीयवर्णकमारचयति-
1 विषयः उच्छ्रयस्व समिद्धस्येत्यादीनां किं विकल्पनम् समुच्चयो वा कार्यैक्यादाद्योऽनुस्मृतयेऽन्तिमः
3 पूर्वपक्षः मैवम् प्रथममन्त्रेणोत्पन्नायाः स्मृतेरुत्तरोत्तरमनुस्मृतेः पृथक्प्रयोजनत्वात् तस्मात्- समुच्चयः
''उच्छ्रयस्व'' इत्यृगेका। ''समिद्धस्व श्रयमाणः'' इति द्वितीया। ''ऊर्ध्व उषुणः'' इति तृतीया। ''ऊर्ध्वो नः पाहि'' इति चतुर्थी। ता(या) एताः क्रियमाणमनुवदन्त्यो होत्रा पठ्यन्ते। तासां यूपोच्छ्रयणकर्तव्यतास्मारणस्य कार्यस्यैकत्वाद्विकल्पः। इति चेत्- अत्र पादे- अधिकरणानि 16, सूत्राणि सूत्राणि 38। आदितः- अधिकरणानि 891, सूत्राणि 2597। द्वादशाध्यायस्य चतुर्थः पादः ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्।
4 सिद्धान्तः इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वादशाध्यायस्य तृतीयः पादः
Set from the transmitted text; four limbs are the source, the fifth is inferred and marked.
Sanātana Guru Sampradāya Pratiṣṭhānam, Mysore · sarvaveda.info