SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 12, Pāda 2

प्रसङ्गः

सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः

15adhikaraṇas
37sūtras
12.2.1 प्रथमे- विहाराग्नेर्वैदिककर्ममात्रार्थताधिकरणे सूत्राणि 1-7
विहारो लौकिकार्थानामर्थं साधयेत्प्रभुत्वात्।। 1।।
मांसपाकप्रतिषेधश्च तद्वत्।। 2।।
निर्देशाद्वा वैदिकानां स्यात्।। 3।।
सति चौपासनस्य दर्शनात्।। 4।।
अभावदर्शनाच्च।। 5।।
मांसपाको विहितप्रतिषेधः स्यादाहुतिसंयोगात्।। 6।।
वाक्यशेषो वा दक्षिणेऽस्मिन्नारम्भविधानस्य।। 7।।
द्वितीयपादस्य प्रथमाधिकरणमारचयति-

1विषयः

सर्वार्थो वैदिकार्थो वा विहारः, शक्तिमत्त्वतः

3पूर्वपक्षः

आद्यः प्रत्यक्षवचनैर्निराकाङ्क्षत्वतोऽन्तिमः
विहारो गार्हपत्यादिस्त्रिविधोऽग्निः। स च शक्तत्वाल्लौकिकदहनपचन- वैदिकाग्निहोत्रादिव्यवहारार्हः। इति चेत्-

4सिद्धान्तः

मैवम्
''गार्हपत्ये हवींषि श्रपयन्ति'' ''दक्षिणाग्नावन्वाहार्यं पचति'' ''आहवनीये जुह्वति'' इत्येतादृशैः प्रत्यक्षवचनैर्निराकाङ्क्षाणां गार्हपत्यादीनां लौकिकार्थत्वायोगात्
तस्मात्- अग्निहोत्रादिवैदिकार्थो विहारः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकविंशे- बर्हिषो देशान्तरनयने संनहनहरणमन्त्रयोरप्रयोगाधिकरणे सूत्रे 45-46”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वादशाध्यायस्य प्रथमः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.2.2 द्वितीये- सवनीयपशौ पशुपुरोडाशस्य कर्तव्यताधिकरणे सूत्राणि 8-10
सवनीये छिद्रापिधानार्थत्वात्पशुपुरोडाशो न स्यादन्येषामेवमर्थत्वात्।। 8।।
क्रिया वा देवतार्थत्वात्।। 9।।
लिङ्गदर्शनाच्च।। 10।।
द्वितीयाधिकरणमारचयति-

1विषयः

सवनीये पुरोडाशोऽतिदिष्टो नोत विद्यते

3पूर्वपक्षः

अन्यैः पिधानतो न स्याद्देवसंस्कृतये भवेत्
अग्नीषोमीयपशौ विहितो यः पुरोडाशः, स च्छिद्रपिधानार्थः। ''शुषिरो ह वा एतर्हि पशुः, यर्हि वपामुत्खिदति, यद्व्रीहिमयः पुरोडाशो भवति, अपिहित्या अच्छिद्रतायै'' इति श्रुतेः। स च पुरोडाशः सवनीये पशौ चोदकप्राप्तोऽपि न कर्तव्यः। सवनीये विहितैरेव पुरोडाशैस्तच्छिद्रपिधानात्। ''अनुसवनं सवनीयाः पुरोडाशा निरुप्यन्ते, अपिहित्या अच्छिद्रतायै'' इत्युक्तत्वात्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- पुरोडाशस्य पशुदेवतासंस्कारार्थत्वं दशमस्य प्रथमपादे (अधि 09) निरूपितम्
पिधानवाक्यं त्वर्थवादः
तस्मात्- चोदकप्राप्तः पुरोडाशः कर्तव्यः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- विहाराग्नेर्वैदिककर्ममात्रार्थताधिकरणे सूत्राणि 1-7”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''गार्हपत्ये हवींषि श्रपयन्ति'' ''दक्षिणाग्नावन्वाहार्यं पचति'' ''आहवनीये जुह्वति'' इत्येतादृशैः प्रत्यक्षवचनैर्निराकाङ्क्षाणां गार्हपत्यादीनां लौकिकार्थत्वायोगात् तस्मात्- अग्निहोत्रादिवैदिकार्थो विहारः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.2.3 तृतीये- सवनीयपुरोडाशे हविष्कृदाह्वानस्याभावाधिकरणे सूत्रम्
हविष्कृत्सवनीयेषु न स्यात्प्रकृतौ यदि सर्वार्था पशुं प्रत्याहूता सा कुर्याद्विद्यमानत्वात्।। 11।।
तृतीयाधिकरणमारचयति-

1विषयः

सवनीये पुरोडाशे स्यादाहूतिर्हविष्कृतः

3पूर्वपक्षः

न वाऽतिदेशात्स्यान्मैवं पश्वाह्वानात्प्रसक्तितः
सवनीयपुरोडाशस्याग्नेयपुरोडाशविकृतित्वात् 'प्रकृतिवद्विकृतिः कर्तव्या' इत्यतिदेशेन हविष्कृदाह्वानं तत्र कर्तव्यम्। इति चेत्-

4सिद्धान्तः

मैवम्
पशौ कृतेन हविष्कृदाह्वानेन पुरोडाशादिष्वपि प्रसक्तत्वान्नास्त्याह्वानम्
यद्यपि- औषधार्थं हविष्कृदाह्वानं पशौ नास्ति, तथाऽप्येषा कृत्वाचिन्ता

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- सवनीयपशौ पशुपुरोडाशस्य कर्तव्यताधिकरणे सूत्राणि 8-10”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- पुरोडाशस्य पशुदेवतासंस्कारार्थत्वं दशमस्य प्रथमपादे (अधि 09) निरूपितम् पिधानवाक्यं त्वर्थवादः तस्मात्- चोदकप्राप्तः पुरोडाशः कर्तव्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.2.4 चतुर्थे- तृतीयसवने हविष्कृदाह्वानस्यापुनरावृत्त्यधिकरणे सूत्रे 12-13
पशौ तु संशृते विधानात्तार्तीयसवनिकेषु स्यात्सौम्याश्विनयोश्चापवृक्तार्थत्वात्।। 12।।
योगाद्वा यज्ञाय तद्विमोके विसर्गः स्यात्।। 13।।
चतुर्थाधिकरणमारचयति-

1विषयः

अस्त्याहूतिश्चरौ सौम्ये नास्ति वा, पशुपाकतः

3पूर्वपक्षः

निवृत्तत्वादस्ति मैवमनिवृत्तेः पुरोत्थितेः
तृतीयसवनीये ये सौम्यचर्वादयः, तेषु हविष्कृदाह्वानं पुनः कर्तव्यम्। पश्वर्थमाहूतायास्तस्याः पशुपाके निष्पन्ने सति निवृत्तत्वात्। इति चेत्-

4सिद्धान्तः

मैवम्
प्रकृतौ पत्नीसंयाजेभ्य ऊर्ध्वं हविष्कृतः पत्न्या उत्थानं वाक्येन विहितम्, पशावपि ततः पूर्वं निवृत्त्यभावात्
तस्मात्- तत्कालीनेषु सौम्यचर्वादिषु नास्ति पुनराह्वानम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- सवनीयपुरोडाशे हविष्कृदाह्वानस्याभावाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् पशौ कृतेन हविष्कृदाह्वानेन पुरोडाशादिष्वपि प्रसक्तत्वान्नास्त्याह्वानम् यद्यपि- औषधार्थं हविष्कृदाह्वानं पशौ नास्ति, तथाऽप्येषा कृत्वाचिन्ता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.2.5 पञ्चमे- निशि यज्ञेऽमावास्यातन्त्रप्रयोगाधिकरणे सूत्राणि 14-18
निशि यज्ञे प्राकृतस्याप्रवृत्तिः स्यात्प्रत्यक्षशिष्टत्वात्।। 14।।
कालवाक्यभेदाच्च तन्त्रभेदः स्यात्।। 15।।
वेद्युद्धननव्रतं विप्रतिषेधात्तदेव स्यात्।। 16।।
तन्त्रमध्ये विधानाद्वा तत्तन्त्रा सवनीयवत्।। 17।।
वैगुण्यादिध्माबर्हिर्न साधयेदग्न्यादानं च यदि देवतार्थम्।। 18।।
पञ्चमाधिकरणमारचयति-

1विषयः

निशि यज्ञे दर्शतन्त्रं नोतास्त्येतन्न दर्शगे

3पूर्वपक्षः

तन्त्रमध्ये विध्यभावादस्त्यर्थात्तद्विधानतः
''अग्नये रक्षोघ्ने पुरोडाशमष्टाकपालं निर्वपेत्, यो रक्षोभ्यो विभीयात्'' इति विधायेदमाम्नातम् ''अमावास्यायां निशि यजेत'' इति। एतस्मिन्यज्ञे दर्शयागस्याङ्गतन्त्रं न प्रसज्यते। कुतः- दर्शकर्मणस्तन्त्रमध्येऽस्य रक्षोघ्नस्य विध्यभावात्। यत्तु 'अमावास्यायाम्' इति पदम्, तत्कालपरम्। कर्मपरत्वे लक्षणापत्तेः। अतो न वाक्यात्तन्त्रमध्ये विधिः। प्रकरणं तु भिद्यते, काम्योष्टिकाण्ड एतस्य पाठात्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- मा भूद्वाक्येनं प्रकरणेन वा तन्त्रमध्ये विधिः
तथाऽपि- अमावास्याकाले दर्शकर्मणः प्रक्रान्तत्वेन निशि क्रियमाणो यागोऽर्थवशाद्दर्शकर्मतन्त्रमध्यपाती भवति
तस्मात्- अत्रास्ति प्रसङ्गसिद्धिः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- तृतीयसवने हविष्कृदाह्वानस्यापुनरावृत्त्यधिकरणे सूत्रे 12-13”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रकृतौ पत्नीसंयाजेभ्य ऊर्ध्वं हविष्कृतः पत्न्या उत्थानं वाक्येन विहितम्, पशावपि ततः पूर्वं निवृत्त्यभावात् तस्मात्- तत्कालीनेषु सौम्यचर्वादिषु नास्ति पुनराह्वानम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.2.6 षष्ठे- विकृतिष्वप्यारम्भणीयानुष्ठानाधिकरणे सूत्राणि 19-21
आरम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात्कृता पुनस्तदर्थेन।। 19।।
स्याद्वा कालस्याशेषभूतत्वात्।। 20।।
आरम्भविभागाच्च।। 21।।
षष्ठाधिकरणमारचयति-

1विषयः

आरम्भणीया सौर्यादौ नोत स्यान्न प्रयोगवत्
क्रत्वर्था न प्रयोगार्था क्रत्वारम्भे ततो भवेत्

3पूर्वपक्षः

दर्शपूर्णमासयोः प्रथमप्रयोगस्यैवोपक्रम आरम्भणीया, न प्रयोगान्तरस्य, इति नवमे(पा. 1 अ. 11) निर्णीतम्। आदौ कृतस्य कर्तृसंस्कारस्य यावज्जीवपर्याप्तत्वाद्यथा न प्रयोगान्तर आरम्भणीया, तथा यावज्जीवलक्षणप्रकृतिकालमध्यपातिनीनां सौर्यादिविकृतीनां नास्ति तदपेक्षा। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- 'दर्शपूर्णमासावारप्स्यमानः' इत्युक्तत्वात्क्रत्वर्था हि सा, न तु प्रयोगार्था। क्रत्वन्तराणि हि सौर्यादीनि। ततः प्रयोगान्तरवैषम्यात्सौर्यादौ सा कर्तव्या। न यावज्जीवकालः प्रकृत्यङ्गम्। कर्तृधर्मत्वेन द्वितीये (पा.4 अधि. 1 ) निर्णीतत्वात्। अतो नोक्तरक्षोघ्नन्यायोऽत्र प्रसरति। तस्मात्- नास्त्यत्र प्रसङ्गः।। 6।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- निशि यज्ञेऽमावास्यातन्त्रप्रयोगाधिकरणे सूत्राणि 14-18”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- मा भूद्वाक्येनं प्रकरणेन वा तन्त्रमध्ये विधिः तथाऽपि- अमावास्याकाले दर्शकर्मणः प्रक्रान्तत्वेन निशि क्रियमाणो यागोऽर्थवशाद्दर्शकर्मतन्त्रमध्यपाती भवति तस्मात्- अत्रास्ति प्रसङ्गसिद्धिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.2.7 सप्तमे- प्रधानानां धर्मविरोधे बहूनां धर्मानुष्ठानाधिकरणे सूत्रम्
विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मत्वम्।। 22।।
सप्तमाधिकरणमारचयति-

1विषयः

या पञ्चदशरात्रस्य सुब्रह्मण्याद्यकालगा
आग्नेयी स्यात्किमैन्द्री वा प्रथमाहानुगुण्यतैः

3पूर्वपक्षः

आग्नेयी प्रथमं चाही विरोधानुदयाद्बलि
न बह्वनुग्रहादैन्द्री कुलार्थत्यागनीतितः
पञ्चदशरात्रस्याग्निष्टुत्प्रथममहः। तस्यैकाहरूपोऽग्निष्टुत्प्रकृतिः। तत्रोपसत्कालीनसुब्रह्मण्याह्वानार्थमियमाग्नेयी विहिता। तदतेद्विकृतिरूपे प्रथमेऽहनि चोदकतः प्राप्नोति। इतरेषु चतुर्दशस्वहःसु स्वस्वप्रकृत्यनुसारेणैन्द्री प्राप्ता। उपसत्कालीनायाश्च सुब्रह्मण्याया अहर्गणेषु तन्त्रं निर्णीतम्। तथा सत्यत्रोपसत्कालीनसुब्रह्मण्यायामाग्नेय्यैन्द्र्योः कलहप्राप्तावसंजातविरोधितया प्रबलस्य प्रथमस्याह्न आनुगुण्येनाग्नेयी कार्या। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- बहूनामह्नामनुग्रहायैन्द्री कार्या
'त्यजेदेकं कुलस्यार्थे' इति न्यायेन बहुत्वमपि प्राबल्यकारणम्।
7
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- विकृतिष्वप्यारम्भणीयानुष्ठानाधिकरणे सूत्राणि 19-21”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
इदमेवाधिकरणं वार्तिककाराभिमतेनोदाहरणेनारचयति-

1विषयः

सप्तयागसमूहस्य वृधन्वत्यावृचावुत
वार्त्त्रघ्न्यावाज्यभागार्थे प्रथमत्वाद्दधीन्द्रयोः

3पूर्वपक्षः

दर्शधर्मातिदेशेन प्राप्त आद्योऽन्तिमो यतः
घृतं मध्वाप इत्येषां बहूनां बलितोचिता
काम्येष्टिकाण्डे श्रूयते ''अग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेत्, इन्द्राय प्रदात्रे पुरोडाशमेकादशकपालम्, दधि मधु घृतमापो धानाः, तत्संसृष्टं प्राजापत्यं पशुकामः'' इति। एतेषां च सप्तयागानां प्रयोगैक्यादाज्यभागौ तन्त्रेणानुष्ठेयौ। तेष्वैन्द्रयाग ऐन्द्राङ्गविकृतिः। दधियागः सांनाय्यविकृतिः। तदुभयानुसारेण दर्शधर्मातिदेशादाज्यभागयोः पुरोनुवाक्ये वृधन्वत्यावृचौ प्राप्नुतः। 'मधु, घृतम्, आपः' इत्येतद्द्रव्यकास्त्रयो यागा उपांशुयाजविकृतयः। तत्र तदनुसारेण पूर्णमासधर्मातिदेशाद्वार्त्रध्न्यावृचौ प्राप्नुतः। तत्र- ऐन्द्रयागः प्राजापत्ययागात्पूर्वं पठितः। दधिद्रव्यं च मधुघृतोदकद्रव्येभ्यः पूर्वं पठितम्। अतः प्राबल्याद्वृधन्वत्यौ। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- यद्यपि धर्मो मुख्यस्य प्रथममवगम्यते, तथाऽपि भूयसामनुग्रहाय पश्चाद्बाध्यते
तस्मात्- वार्त्रघ्न्यौ।
9
-
12.2.8 अष्टमे- तुल्यसंख्याकानां धर्मविरोधे प्रथमस्यैव धर्मानुष्ठानाधिकरणे सूत्रे 23-24
मुख्यं वा पूर्वचोदनाल्लोकवत्।। 23।।
तथा चान्यार्थदर्शनम्।। 24।।
अष्टमाधिकरणमारचयति-

1विषयः

आग्नावैष्णवसारस्वतयोरिच्छाऽथ मुख्यगम्

3पूर्वपक्षः

आद्यो नियामकाभावादन्त्यः प्राथम्यतो भवेत्
''आग्नावैष्णवमेकादशकपालं निर्वपेत्'', ''सरस्वतीमाज्यस्य यजेत'' इति श्रूयते। तत्र- आग्नावैष्णवस्यैन्द्राग्नविकृतित्वेन, सारस्वताज्यज्य चोपांशुयाजविकृतित्वेन, आज्यभागमन्त्रविकल्पः नियामकाभावात्। इति चेत्-

4सिद्धान्तः

मैवम्
आग्नावैष्णवस्य प्रथमपठितत्वेन मुख्यत्वात्तज्जमनुष्ठानं युक्तम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- प्रधानानां धर्मविरोधे बहूनां धर्मानुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- बहूनामह्नामनुग्रहायैन्द्री कार्या 'त्यजेदेकं कुलस्यार्थे' इति न्यायेन बहुत्वमपि प्राबल्यकारणम्। 7”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.2.9 नवमे- अङ्गगुणविरोधे प्रधानगुणस्यैव प्राबल्याधिकरणे सूत्रम्
अङ्गगुणविरोधे च तादर्थ्यात्।। 25।।
नवमाधिकरणमारचयति-

1विषयः

य इष्ट्या पशुनेत्यादौ दीक्षाकालोऽथ सोमकः
आद्यः प्राथम्यतो मैवं प्रधानस्य बलित्वतः

3पूर्वपक्षः

दीक्षा पर्वणि वा सुत्या दीक्षा स्यात्प्रथमत्वतः
सुत्या प्राधान्यतोऽन्या तु शेषत्वादपकृष्यते
''यदिष्ट्या पशुना सोमेन वा यजेत, योऽमावास्यायां पौर्णमास्यां वा'' इति श्रूयते। तत्र- अङ्गभूताया दीक्षणीयेष्टेः प्रधानभूतायाः सुत्यायाश्चैकमेव पर्वदिनं तत्र वचनाद्भासते। तच्च विरुद्धम् 'एका दीक्षा तिस्त्र उपसदः, पञ्चमी प्रसुतः' इत्युपसद्भिस्तयोर्मध्ये व्यवधानावगमात्। तत्र पूर्वोक्ताग्नावैष्णवन्यायेनेष्टेः प्रथमपठितत्वादीक्षणीयेष्टिः पर्वण्यनुष्ठेया। तदनुसारेण दिनान्तरे सुत्याया उत्कर्षः। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- प्रधानत्वात्सुत्यैव दर्शेऽनुष्ठेया
तदनुसारेण शेषभूता दीक्षा दिनान्तरेऽपकृष्यते।
12
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- तुल्यसंख्याकानां धर्मविरोधे प्रथमस्यैव धर्मानुष्ठानाधिकरणे सूत्रे 23-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् आग्नावैष्णवस्य प्रथमपठितत्वेन मुख्यत्वात्तज्जमनुष्ठानं युक्तम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.2.10 दशमे- परिधौ परिधियूपोभयधर्मानुष्ठानाधिकरणे सूत्रम्
परिधिर्द्व्यर्थत्वादुभयधर्मा स्यात्।। 26।।
दशमाधिकरणमारचयति-

1विषयः

पश्वर्थपरिधौ स्वीयधर्मो यद्वा द्विधर्मता

3पूर्वपक्षः

मुख्यत्वादादिमोऽन्त्यः स्यान्नियोजनविधानतः
पशुमत्सु चातुर्मास्येषु ''परिधौ पशुं नियुञ्जन्ति'' इति श्रूयते। तत्र मार्जनादयः परिधेः स्वकीयधर्माः। त एव मुख्यत्वात्तस्मिन्ननुष्ठेयाः, न तु प्रोक्षणादयो यूपधर्माः। तेषां परिधिं प्रत्यमुख्यत्वात्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- यथाऽग्निपरिधानार्थत्वेन मार्जनादीनां परिधिधर्माणामनुष्ठानम्, तथा यूपकार्ये नियोजने परिधिविधानेन यूपधर्माणां प्रोक्षणादीनामप्यनुष्ठानं युक्तम्
ततो द्विधर्मत्वम्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- अङ्गगुणविरोधे प्रधानगुणस्यैव प्राबल्याधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- प्रधानत्वात्सुत्यैव दर्शेऽनुष्ठेया तदनुसारेण शेषभूता दीक्षा दिनान्तरेऽपकृष्यते। 12”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.2.11 एकादशे- परिधौ विरोधियूपधर्माननुष्ठानाधिकरणे सूत्राणि 27-29
यौप्यस्तु विरोधे स्यान्मुख्यानन्तर्यात्।। 27।।
इतरो वा तस्य तत्र विधानात्।। 28।।
उभयोश्चाङ्गसंयोगः।। 29।।
एकादशाधिकरणमारचयति-

1विषयः

विरोधितक्षणाद्यत्र कार्यं नो वा यतो यजौ

3पूर्वपक्षः

यूपासत्तिस्ततः कार्यं न तद्रूपोपमर्दनात्
त्वक्सहितत्वशयानत्वादयः परिधिधर्माः। तेषां विरोधिनस्तक्षणोच्छ्रयणादयो यूपधर्माः। ते च यागे प्रत्यासन्नाः। यागनिष्पादकस्य पशोरङ्गे यूपे वर्तमानत्वात्। त्वक्सहितत्वादयस्तु नासन्नाः, यागस्य निष्पादकं हविः, हविषामाधारोऽग्निः, अग्नेरङ्गं परिधिः, परिधौ च वर्तमानत्वात्। तस्मात्- तक्षणादयः कार्याः। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- तक्षणादिना परिधिस्वरूप उपमर्दिते सति कुत्र पशुनियोजनं क्रियते
तस्मात्- न कार्याः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- परिधौ परिधियूपोभयधर्मानुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- यथाऽग्निपरिधानार्थत्वेन मार्जनादीनां परिधिधर्माणामनुष्ठानम्, तथा यूपकार्ये नियोजने परिधिविधानेन यूपधर्माणां प्रोक्षणादीनामप्यनुष्ठानं युक्तम् ततो द्विधर्मत्वम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.2.12 द्वादशे- सवनीयपुरोडाशयोः पशोरेव तन्त्रिताधिकरणे सूत्राणि 30-32
पशुसवनीयेषु विकल्पः स्याद्वैकृतश्चेदुभयोरश्रुतिभूतत्वात्।। 30।।
पाशुकं वा तस्य वैशेषिकाम्नानात्, तदनर्थकं विकल्पे स्यात्।। 31।।
पशोश्च विप्रकर्षस्तन्त्रमध्ये विधानात्।। 32।।
द्वादशाधिकरणमारचयति-

1विषयः

सवनीयपुरोडाशाः प्रातःसवनगास्त्रयः

3पूर्वपक्षः

सवनीयः पशुस्तत्र तन्त्रित्वं किं विकल्प्यते
यदीयतन्त्रमध्येऽर्थान्तरं, स तन्त्री। अर्थान्तरं प्रसङ्गि। तथा सति 'प्रातःकालीनसवनीयपुरोडाशानां सवनीयपशोश्च मध्ये तन्त्रित्वमस्यैव' इति नियमे हेतुर्नास्ति। उभयत्र प्रत्यक्षाङ्गोपदेशाभावात्। चोदकप्राप्तेश्च समानत्वात्। माध्यंदिनतृतीयसवनद्वयगतानां पशुतन्त्रमध्य उपक्रमात्प्रसङ्गित्वमेव, न तु तन्त्रित्वमिति निश्चेतुं शक्यते। पशोः प्रातः कालीनानां चोपक्रमेऽपि पौर्वापर्यं न ज्ञायते। तस्मात्- विकल्पेन तन्त्रित्वम्। इति प्राप्ते-

4सिद्धान्तः

पशोरेवेतिनियमो हेत्वभावाद्विकल्प्यते
पुनः प्रैषात्स्वरुप्रासात्पशोरेव हि तन्त्रिता
ब्रूमः- सवनीयपशौ चोदकप्राप्ते मैत्रावरुणप्रैषमन्त्रे पाठविकारः प्रत्यक्षमाम्नायते 'अयं यजमानः' इति पाठस्य 'अयं सुतासुती यजमानः' इति विशेषितत्वात्। तथा सोमान्ते स्वरोः प्रतिपत्तिः प्रत्यक्षमाम्नायते ''संस्थिते यज्ञे प्रस्तरं प्रहरति, स्वरुं वा यज्ञवैशसाय'' इति। तस्मात्- पशुस्तन्त्री। पुरोडाशानां तूपक्रमे पश्चाद्भावित्वनिश्चयाभावेऽपि समाप्तिपूर्वभावित्वनिश्चयेन मध्यपातित्वात्प्रसङ्गित्वम्।। 16।। 17।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- परिधौ विरोधियूपधर्माननुष्ठानाधिकरणे सूत्राणि 27-29”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- तक्षणादिना परिधिस्वरूप उपमर्दिते सति कुत्र पशुनियोजनं क्रियते तस्मात्- न कार्याः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.2.13 त्रयोदशे- समानतन्त्रप्रकृतिविकृत्योर्विकृतितन्त्रानुष्ठानाधिकरणे सूत्रम्
अपूर्वं च प्रकृतौ समानतन्त्रा चेदनित्यत्वादनर्थकं हि स्यात्।। 33।।
त्रयोदशाधिकरणमारचयति-

1विषयः

प्रकृतिर्विकृतिर्वा स्यात्तन्त्रिणी, प्रकृतिर्यतः
नित्याऽसावुपदिष्टाङ्गा मैवं कामबलित्वतः

3पूर्वपक्षः

''य इष्ट्या पशुना'' इत्यादिशास्त्रात्प्रकृतिविकृत्योर्नित्यकाम्येष्ट्योः पर्वण्येवानुष्ठेयतया सहप्रयोगे सति यावज्जीवं कर्तव्यत्वादङ्गोपदेशयुक्तत्वाच्च प्रबला प्रकृतिर्दर्शपूर्णमासेष्टिस्तन्त्रिणी। जीवनमध्यपतितत्वाच्चोदकप्रवृत्तेरुपदेशापेक्षत्वाच्च दुर्बला सौर्यादिविकृतिः प्रसङ्गिनी। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- कामस्य शीघ्रप्रवर्तकत्वादनुष्ठाने प्रबला विकृतिरेव तन्त्रिणी। यद्यपि विकृतिरेकाहकाला, प्रकृतिर्द्व्यहकाला, तथाऽपि सहप्रयोगं कृत्वाऽपि चिन्तितम्।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- सवनीयपुरोडाशयोः पशोरेव तन्त्रिताधिकरणे सूत्राणि 30-32”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पशोरेवेतिनियमो हेत्वभावाद्विकल्प्यते पुनः प्रैषात्स्वरुप्रासात्पशोरेव हि तन्त्रिता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.2.14 चतुर्दशे- आग्रयणे प्रसूनबर्हिषामेव ग्रहणाधिकरणे सूत्रम्
अधिकश्च गुणः साधारणेऽविरोधात्कांस्यभोजिवदमुख्येऽपि।। 34।।
चतुर्दशाधिकरणमारचयति-

1विषयः

बर्हिराग्रयणे किंचित्प्रसूनं वा बहुत्वतः
प्राथम्याच्चाग्रिमो मैवमलोपात्कांस्यभोजिवत्

3पूर्वपक्षः

ऐन्द्राग्नवैश्वदेवद्यावापृथिव्यादयो वैश्वदेवपर्वगतद्यावापृथिव्यानुसारेणाग्रयणेष्टौ प्रयुज्यन्ते। तत्रैन्द्रवैश्वदेवयोर्बर्हिर्मात्रं चोदकप्राप्तम्। तत्प्रकृतौ बर्हिर्विशेषस्यानुक्तत्वात्। द्यावापृथिव्ये तु स्वप्रकृत्यनुसारेण प्रसूनबर्हिरतिदिश्यते। प्रसूनं पुष्पितम्, लूनशेषान्मूलात्पुनरुत्पन्नं वा। तत्राग्रयणे यत्किंचिद्बर्हिर्मात्रं कर्तव्यम्। ऐन्द्राग्नवैश्वदेवयोरनेकत्वेन प्राथम्येन च तदानुगुण्यस्यन्याय्यत्वात्। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- बर्हिरन्तरस्वीकारे द्यावापृथिव्ये प्रमाणप्राप्तः प्रसूनत्वनियमो लुप्यते। प्रसूनस्वीकारे चैन्द्राग्नवैश्वदेवयोर्न किंचिल्लुप्यते। तस्मात्- अलोपाय कांस्यभोजिन्यायेन प्रसूनमेव कर्तव्यम्। शिष्यस्य कांस्यभोजनव्रतमस्ति, गुरोस्तु तन्नास्ति, तयोः सहभोजने यथोपसर्जनमपि शिष्यमनुसृत्य तमलोपयितुं कांस्यमाद्रियते। तथाऽत्रापि द्रष्टव्यम्।। 19।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- समानतन्त्रप्रकृतिविकृत्योर्विकृतितन्त्रानुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.2.15 पञ्चदशे- द्यावापृथिव्यादीनां सर्वेषामेव तन्त्रित्वाधिकरणे सूत्राणि 35-37
तत्प्रवृत्त्या तु तन्त्रस्य नियमः स्याद्यथा पाशुकं सूक्तवाकेन।। 35।।
न वाऽविरोधात्।। 36।।
अशास्त्रलक्षणाच्च।। 37।।
पञ्चदशाधिकरणमारचयति-

3पूर्वपक्षः

यथा मैत्रावरुणप्रैषमन्त्रविकारः पशुसंबन्धी सन्पशोस्तन्त्रित्वमापादयति, तथा प्रसूनत्वं द्यावापृथिव्यसंबन्धित्वाद्द्यावापृथिव्यस्य तन्त्रित्वमापादयति। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- उक्तप्रैषमन्त्रविकारः प्रत्यक्षश्रुतः। इदं प्रसूनत्वमतिदिष्टत्वान्न तन्त्रितामापादयितुं क्षमम्।
अत्र पादे- अधिकरणानि 15, सूत्राणि 37।
आदितः- अधिकरणानि 875, सूत्राणि 2559।
द्वादशाध्यायस्य तृतीयः पादः
त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- आग्रयणे प्रसूनबर्हिषामेव ग्रहणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 12, Pāda 1 Contents Adhyāya 12, Pāda 3 →