12.1.1
प्रथमे- अग्नीषोमीयप्रयाजादिभिः पुरोडाशस्योपकाराधिकरणे सूत्राणि 1-6
SŪ तन्त्रिसमवाये चोदनातः समानानामेकतन्त्रत्वमतुल्येषु तु भेदः स्याद्विधिप्रक्रमतादर्थ्यात् तादर्थ्यं श्रुतिकालनिर्देशात्।। 1।।
SŪ गुणकालविकाराच्च तन्त्रभेदः स्यात्।। 2।।
SŪ तन्त्रमध्ये विधानाद्वा मुख्यतन्त्रेण सिद्धिः स्यात्तन्त्रार्थस्याविशिष्टत्वात्।। 3।।
SŪ विकाराच्च न भेदः स्यादर्थस्याविकृतत्वात्।। 4।।
SŪ एकेषां चाशक्यत्वात्।। 5।।
SŪ एकाग्निवच्च दर्शनम्।। 6।।
तस्य प्रसङ्गस्य प्रतिपादके द्वादशाध्याये प्रथमपादस्य प्रथमाधिकरणमारचयति-
1 विषयः पश्वर्थानुष्ठितैर्नास्ति पुरोडाश उपक्रिया अस्ति वा विध्यभावान्नो ह्यर्थतस्त्वस्तु लोकवत्
3 पूर्वपक्षः अग्नीषोमीये पशौ यानि चोदकप्राप्तानि प्रयाजाद्यङ्गान्यनुष्ठितानि, तैः पशुपुरोडाश उपकारो नास्ति। कुतः- उपकारबोधकस्य विधेरभावात्। चोदकस्तु 'दर्शपूर्णमासवत्पशुरनुष्ठेयः' इत्येवंरूपत्वात्पशावेव तदुपकारं बोधयति। ननु पशुपुरोडाशस्यापीष्टिविकृतित्वात्तत्रापि चोदकोऽस्ति- इति चेत्- बाढम्। अत एव भिन्न चोदकबलात्पुरोडाशोपकाराय प्रयाजाद्यङ्गानि पृथगनुष्ठेयानि। इति प्राप्ते-
4 सिद्धान्तः ब्रूमः- यद्यपि 'पश्वर्थैः पुरोडाशस्योपकारः' इत्येतादृशं शास्त्रं नास्ति, तथाऽप्ययमुपकारोऽर्थप्राप्तो न निवारयितुं शक्यते। यथा प्रदीपस्य वेदिकार्थं निर्मितस्यार्थसिद्धं मार्गप्रकाशकत्वमनिवार्यम्, तथा पशुतन्त्रमध्येऽनुष्ठीयमानस्य पुरोडाशस्य पश्वर्थैरङ्गैरुपकारः केन वार्येत। तस्मात्- अन्यार्थैरप्यस्तूपकारः।। 2।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकविंशे-हविष्कृदादिमन्त्राणामावृत्त्यधिकरणे सूत्राणि 55-57”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.2
द्वितीये- पुरोडाशे, आज्यभागयोः कर्तव्यताधिकरणे सूत्रम्
SŪ जैमिनेः परतन्त्रत्वापत्तेः स्वतन्त्रप्रतिषेधः स्यात्।। 7।।
द्वितीयाधिकरणमारचयति-
1 विषयः आज्यभागौ पुरोडाशे न स्तः स्तो वाऽस्य चोदकः
3 पूर्वपक्षः लुप्तस्ततो न तौ मैवं प्रयोगांशस्य लोपनात्
''न तौ पशौ करोति'' इति निषेधादाज्यभागयोः पशावभावे पुरोडाशे प्रसङ्गसिद्धिर्नास्ति। ततस्तौ विचार्येते। तत्र 'पुरोडाश आज्यभागौ न स्तः' इति तावत्प्राप्तम्। कुतः- पुरोडाशविषयस्य चोदकस्य लुप्तत्वात्। अन्यथा प्रयाजादीनामपि पुनरनुष्ठानापत्तेः। इति प्राप्ते-
4 सिद्धान्तः न आज्यभागौ प्रति बाधिकायाः प्रसङ्गसिद्धेरभावात् ततः प्रसङ्गसिद्धाङ्गविषयप्रयोगांशस्यैव बाधादबाधितेन प्रयोगवचनांशेनाज्यभागावनुष्ठीयेते यथा देवदत्ते यज्ञदत्तयानमारूढे देवदत्तयानं निवर्तते, न तु वस्त्रालंकरणादिबाधनम्
ब्रूमः- न तावत्पुरोडाशे चोदको लुप्यते। बाधकाभावात्। पूर्वोक्तप्रसङ्गसिद्धिस्तु प्रयोगवचनमेव बाधते, न चोदकम्। अन्यथा प्रयाजादीनां पुरोडाशाङ्गत्वाभावेन प्रसङ्गसिद्धेरप्यवक्तव्यत्वात्। ननु प्रयोगवचनबाधेऽप्याज्यभागौ न स्तः- इति चेत्-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- अग्नीषोमीयप्रयाजादिभिः पुरोडाशस्योपकाराधिकरणे सूत्राणि 1-6”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.3
तृतीये- सोमे दार्शिकवेद्यकरणाधिकरणे सूत्रे 8-9
SŪ नानार्थत्वात्सोमे दर्शपूर्णमासप्रकृतीनां वेदिकर्म स्यात्।। 8।।
SŪ अकर्म वा कृतदूषा स्यात्।। 9।।
तृतीयाधिकरणमारचयति-
1 विषयः सोमे वेद्यां कृतायां यदिष्टिप्रकृतिकं भवेत् तत्र कार्यैष्टिकी वेदिर्न वा, वेदिस्तु सौमिकी
3 पूर्वपक्षः प्रचाराय हविःसादनाय कार्यैष्टिकी पृथक् मैवं सादनमप्यत्र कर्तुं शक्यं ततो न सा
4 सिद्धान्तः साङ्गप्रधानहविः प्रचाराय कृतायां सौमिक्यां महावेद्यामेवेष्टिप्रकृतिकहविषां सादयितुं शक्यत्वात्पृथगैष्टिकी वेदिर्न कार्या
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- पुरोडाशे, आज्यभागयोः कर्तव्यताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न आज्यभागौ प्रति बाधिकायाः प्रसङ्गसिद्धेरभावात् ततः प्रसङ्गसिद्धाङ्गविषयप्रयोगांशस्यैव बाधादबाधितेन प्रयोगवचनांशेनाज्यभागावनुष्ठीयेते यथा देवदत्ते यज्ञदत्तयानमारूढे देवदत्तयानं निवर्तते, न तु वस्त्रालंकरणादिबाधनम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.4
चतुर्थे- सौम्यचर्वादिहोमस्यैष्टिकपात्रैरनुष्ठानाधिकरणे सूत्रे 10-11
SŪ पात्रेषु च प्रसङ्गः स्याद्धोमार्थत्वात्।। 10।।
SŪ न्याय्यानि वा प्रयुक्तत्वात्, अप्रयुक्ते प्रसङ्गः स्यात्।। 11।।
चतुर्थाधिकरणमारचयति-
1 विषयः सौम्यचर्वादिहोमः किं सौमिकैरैष्टिकैरुत
3 पूर्वपक्षः कार्यसिद्धेः सौमिकैः स्यादवैगुण्यादिहैष्टिकैः
सोमे ग्रहचमसेषु प्रयुक्तेषु प्रवर्तमाने सौम्यचरौ सवनीयपुरोडाशेषु च सौमिकैग्रहचमसैर्होमः। कुतः- तैर्होतुं शक्यत्वेन कार्यसिद्धेः। इति चेत्-
4 सिद्धान्तः मैवम् वैगुण्यप्रसङ्गात् जुहुस्रुवादिभिः कर्तव्यस्य ग्रहादिभिः कृते वैगुण्यं स्यात् विद्यन्ते च सोमे प्रयुक्ता ऐष्टिकस्रुवादयः तस्मात्- अवैगुण्यार्थमौष्टिकैर्होमः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- सोमे दार्शिकवेद्यकरणाधिकरणे सूत्रे 8-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “साङ्गप्रधानहविः प्रचाराय कृतायां सौमिक्यां महावेद्यामेवेष्टिप्रकृतिकहविषां सादयितुं शक्यत्वात्पृथगैष्टिकी वेदिर्न कार्या”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.5
पञ्चमे- शामित्रे पशुपुरोडाशश्रपणाभावाधिकरणे सूत्रम्
SŪ शामित्रे च पशुपुरोडाशो न स्यादितरस्य प्रयुक्तत्वात्।। 12।।
पञ्चमाधिकरणमारचयति-
1 विषयः श्रप्यः पशुपुरोडाशः शामित्रेऽग्नावथोदिते शालामुखीयनाम्नाद्यः पशुतन्त्रगतत्वतः
3 पूर्वपक्षः श्रपणं विहितं गार्हपत्ये सोऽत्र प्रयुज्यते प्राग्वंशपूर्वभागे च होमवैगुण्यहानये
अग्नीषोमीयादिपशुः शामित्रेऽग्नौ श्रप्यते। ततः- पशुतन्त्रमध्यपाती पशुपुरोडाशोऽपि तत्रैव श्रपणीयः। इति चेत्-
4 सिद्धान्तः मैवम् प्रकृतौ पुराडाशश्रपणं गार्हपत्ये विहितम् स च गार्हपत्यः सोमे प्रयुक्तः प्राचीनवंशशालाया अन्तः पूर्वभागे प्रवर्तमानस्य शालामुखीयनाम्नाऽभिहितस्य पूर्वप्रसिद्ध्याहवनीयस्योत्तरवेदिनिष्पत्तेरूर्ध्वं गार्हपत्यत्वात् तस्मात्- अवैगुण्याय तत्र श्रपयितव्यम्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- सौम्यचर्वादिहोमस्यैष्टिकपात्रैरनुष्ठानाधिकरणे सूत्रे 10-11”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् वैगुण्यप्रसङ्गात् जुहुस्रुवादिभिः कर्तव्यस्य ग्रहादिभिः कृते वैगुण्यं स्यात् विद्यन्ते च सोमे प्रयुक्ता ऐष्टिकस्रुवादयः तस्मात्- अवैगुण्यार्थमौष्टिकैर्होमः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.6
षष्ठे- कौण्डपायिनामयनेऽग्निहोत्रद्रव्यस्य प्राजहिते श्रपणाधिकरणे सूत्रम्
SŪ श्रपणं चाग्निहोत्रस्य शालामुखीये न स्यात्, प्राजहितस्य विद्यमानत्वात्।। 13।।
षष्ठाधिकरणमारचयति-
1 विषयः शालामुखीयवह्नौ किं श्रप्यतां कौण्डपायिने किंवा प्राजहिते वह्नौ, चोदकप्राप्तितोऽग्रिमः
3 पूर्वपक्षः प्राग्वंशे पश्चिमो वह्निर्भवेत्प्राजहितोऽत्र सः अग्निहोत्रेतिनाम्नाप्तो नामाप्तो लिङ्गतो बली
कुण्डपायिनामयनगतेऽग्निहोत्रे यच्छ्रपणम्, तच्छालामुखीये कर्तव्यम्। कुतः- चोदकेन प्राप्तत्वात्। तथा हि प्रकृतिभूतेऽग्निहोत्रे गार्हपत्ये श्रपणं विहितम्। शालामुखीयश्च पूर्वमाहवनीयोऽपि सोमे गार्हपत्यः संपन्नः। ''शालामुखीय एषः, अत ऊर्ध्वं गार्हपत्यः'' इति श्रुतेः। स च द्वादशाहगवामयनपरम्परया चोदकेनात्र प्राप्तः। तस्मात्- तत्र श्रपणम्। इति प्राप्ते
4 सिद्धान्तः ब्रूमः- प्राचीनवंशे पश्चिमवह्नेः पूर्वप्रसिद्धमुख्यगार्हपत्यस्य प्राजहित इति पूर्वाचार्यसंज्ञा स च प्राजहितोऽग्निहोत्रनाम्नाऽत्रातिदिश्यते नामातिदेशश्च शीघ्रवुद्धिहेतुतया लिङ्गातिदेशात्प्रबलः तच्च लिङ्गं परम्परातिदेशात्प्रबलम्, इति वक्तव्यम् तस्मात्- प्राजहिते श्रपणम्। 9
-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- शामित्रे पशुपुरोडाशश्रपणाभावाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रकृतौ पुराडाशश्रपणं गार्हपत्ये विहितम् स च गार्हपत्यः सोमे प्रयुक्तः प्राचीनवंशशालाया अन्तः पूर्वभागे प्रवर्तमानस्य शालामुखीयनाम्नाऽभिहितस्य पूर्वप्रसिद्ध्याहवनीयस्योत्तरवेदिनिष्पत्तेरूर्ध्वं गार्हपत्यत्वात् तस्मात्- अवैगुण्याय तत्र श्रपयितव्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.7
सप्तमे-हविर्धानशकटान्यशकटेनौषधद्रव्यकपुरोडाशनिर्वापाधिकरणे सूत्राणि 14-16
SŪ हविर्धाने निर्वपणार्थं साधयेतां प्रयुक्तत्वात्।। 14।।
SŪ अप्रसिद्धिर्वाऽन्यदेशत्वात्प्रधानवैगुण्यादवैगुण्ये प्रसङ्गः स्यात्।। 15।।
SŪ अनसां च दर्शनात्।। 16।।
सप्तमाधिकरणमारचयति-
1 विषयः हविर्धानोर्ध्वकाले किमौषधार्थमनोन्तरम्
3 पूर्वपक्षः नास्त्यस्ति वा, न शक्तत्वाद्देशभेदादिनाऽन्तिमः
ज्योतिष्टोमे हविर्धाननामकयोः शकटयोः प्रवर्तनादूर्ध्वमौषधद्रव्यकाणां पुरोडाशानां निर्वापाय तयोरेव शक्तत्वान्न शकटान्तरमन्वेष्यम्। इति चेत्-
4 सिद्धान्तः न देशभेदात् महावेद्यां मन्त्रपूर्वकं प्रवर्त्य हविर्धानमण्डपे हविर्धानाख्ये शकटे स्थापिते निर्वापस्तु गार्हपत्यात्पश्चिमे देशे किंच- अस्त्यत्र तृतीयं शकटम् 'अनांसि प्रवर्तयन्ति' इति बहुवचनोक्तेः तस्मात्- शकटान्तरे निर्वापः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- कौण्डपायिनामयनेऽग्निहोत्रद्रव्यस्य प्राजहिते श्रपणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- प्राचीनवंशे पश्चिमवह्नेः पूर्वप्रसिद्धमुख्यगार्हपत्यस्य प्राजहित इति पूर्वाचार्यसंज्ञा स च प्राजहितोऽग्निहोत्रनाम्नाऽत्रातिदिश्यते नामातिदेशश्च शीघ्रवुद्धिहेतुतया लिङ्गातिदेशात्प्रबलः तच्च लिङ्गं परम्परातिदेशात्प्रबलम्, इति वक्तव्यम् तस्मात्- प्राजहिते श्रपणम्। 9”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.8
अष्टमे- प्रायणीयादिषु दीक्षाजागरणस्याभावाधिकरणे सूत्रम्
SŪ तद्युक्तं च कालभेदात्।। 17।।
अष्टमाधिकरणमारचयति-
1 विषयः दीक्षाजागरणं प्रायणीयादौ तद्भवेन्न वा
3 पूर्वपक्षः अदृष्टार्थं ततस्तत्स्यान्न रक्षार्थत्वतोऽन्यदा
दीक्षाकालादन्यकाले यद्यपि प्रायणीयादिकम्, तथाऽप्यदृष्टार्थं जागरणं प्रसङ्गात्सिध्यति। इति चेत्-
4 सिद्धान्तः न तस्य रक्षार्थत्वात् ततः कालान्तरे पृथक्कर्तव्यम्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे-हविर्धानशकटान्यशकटेनौषधद्रव्यकपुरोडाशनिर्वापाधिकरणे सूत्राणि 14-16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न देशभेदात् महावेद्यां मन्त्रपूर्वकं प्रवर्त्य हविर्धानमण्डपे हविर्धानाख्ये शकटे स्थापिते निर्वापस्तु गार्हपत्यात्पश्चिमे देशे किंच- अस्त्यत्र तृतीयं शकटम् 'अनांसि प्रवर्तयन्ति' इति बहुवचनोक्तेः तस्मात्- शकटान्तरे निर्वापः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.9
नवमे- विहारभेदेन मन्त्रभेदाधिकरणे सूत्रम्
SŪ मन्त्राश्च संनिपातित्वात्।। 18।।
नवमाधिकरणमारचयति-
1 विषयः विहारभेदे निर्वापमन्त्रादेस्तन्त्रता न वा
3 पूर्वपक्षः तन्त्रं द्बयोः स्मृतेः सिद्धेरुत्तमोक्त्या पृथग्भवेत्
वरुणप्रघासेष्वध्वर्युप्रतिप्रस्थात्रोर्विहारभेदेऽपि मन्त्रेष्वेकेनैव पठ्यमानेषूभयोरर्थस्मृतिसिद्धेस्तन्त्रम्। इति चेत्-
4 सिद्धान्तः मैवम् 'निर्वपामि' इत्युत्तमपुरुषार्थस्य पाठमन्तरेण स्मृत्यभावात् तस्मादुयोः पृथक्पाठः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- प्रायणीयादिषु दीक्षाजागरणस्याभावाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न तस्य रक्षार्थत्वात् ततः कालान्तरे पृथक्कर्तव्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.10
दशमे- दीक्षणीयादिष्वग्न्यन्वाधानस्याभावाधिकरणे सूत्रम्
SŪ धारणार्थत्वात्सोमेऽग्न्यन्वाधानं न विद्यते।। 19।।
दशमाधिकरणमारचयति-
1 विषयः अन्वाधानं दीक्षणीयादिषु स्यान्नास्ति वाऽस्ति तत्
3 पूर्वपक्षः चोदकान्नास्ति सौमिक्यविहारेण धृतत्वतः
दीक्षिण्यादिष्वन्वाधानं कर्तव्यम्। चोदकप्राप्तत्वात्। इति चेत्-
4 सिद्धान्तः न अग्निधारणार्थमन्वाधानम् तच्च धारणं दीक्षणीयादिभ्यः प्राचीनेन सौमिकेनैव विहरणेन सिद्धम् तस्मात्- अन्वाधानं नास्ति
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- विहारभेदेन मन्त्रभेदाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'निर्वपामि' इत्युत्तमपुरुषार्थस्य पाठमन्तरेण स्मृत्यभावात् तस्मादुयोः पृथक्पाठः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.11
एकादशे- दीक्षणीयादिषु व्रतोपायनाभावाधिकरणे सूत्राणि 20-23
SŪ तथा व्रतमुपेतत्वात्।। 20।।
SŪ विप्रतिषेधाच्च।। 21।।
SŪ सत्यवदिति चेत्।। 22।।
SŪ न संयोगपृथक्त्वात्।। 23।।
एकादशाधिकरणमारचयति-
1 विषयः व्रतोपानयनमेष्वस्ति न वा, चोदकतोऽस्ति तत्
3 पूर्वपक्षः उपेतस्यापरित्यागे विरोधान्नास्ति तत्पुनः
4 सिद्धान्तः सत्यवचनब्रह्मचर्यादिसंकल्परूपं व्रतं सोमार्थं पूर्वमुपेतम् तच्चासोमसमाप्तेर्न परित्यक्तव्यम् तत्र पुनरुपायनं विरुध्यते ''अग्ने व्रतपते व्रतं चरिष्यामि'' इत्ययमुपायनमन्त्रः न हि चर्यमाणे व्रते 'चरिष्यामि' इति प्रयोगः संभवति तस्मात्- प्रसङ्गसिद्धं व्रतम्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- दीक्षणीयादिष्वग्न्यन्वाधानस्याभावाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न अग्निधारणार्थमन्वाधानम् तच्च धारणं दीक्षणीयादिभ्यः प्राचीनेन सौमिकेनैव विहरणेन सिद्धम् तस्मात्- अन्वाधानं नास्ति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.12
द्वादशे- ऐष्टिकेष्वग्न्यन्वाधानाननुष्ठानाधिकरणे सूत्राणि 24-28
SŪ ग्रहणार्थं च पूर्वमिष्टेस्तदर्थत्वात्।। 24।।
SŪ शेषवदिति चेत्।। 25।।
SŪ न वैश्वदेवो हि।। 26।।
SŪ स्याद्वा व्यपदेशात्।। 27।।
SŪ न गुणार्थत्वात्।। 28।।
द्वादशाधिकरणमारचयति-
1 विषयः परिग्रहाय देवानामन्वाधानं भवेन्न वा असिद्धत्वाद्भवेन्मैवं वैश्वदेवेन सिद्धितः
3 पूर्वपक्षः धारणार्थमन्वाधानं प्रसङ्गात्सिध्यतु नाम, देवतापरिग्रहार्थं त्वसिद्धत्वात्पूनः कर्तव्यम्। अन्वाधानमन्त्रस्य देवतापरिग्रहार्थत्वमपि दर्शपूर्णमासयोराम्नायते ''ममाग्ने वर्चो विहवेष्वस्तु- इत्याग्निं गृह्णाति'' इति। नैतद्युक्तम्। देवतापरिग्रहस्याप्यत्र विद्यमानत्वात्। तथा च श्रूयते ''आग्नावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाणः, अग्निरवमो देवानां विष्णुः परमः, यदाग्नावैष्णवमेकादशकपालं निर्वपति देवता एवोभयतः परिगृह्य दीक्षते'' इति। प्रधानदेवतानामेवात्र परिग्रहः, नाङ्गदेवतानामिति चेत्- एवमपि विश्वदेवतापरिग्रहेण सर्वदेवपरिग्रहः सिध्यति। विश्वशब्दस्य सर्वशब्दपर्यायत्वात्। तस्मात्- न पृथगन्वाधानम्।। 16।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- दीक्षणीयादिषु व्रतोपायनाभावाधिकरणे सूत्राणि 20-23”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सत्यवचनब्रह्मचर्यादिसंकल्परूपं व्रतं सोमार्थं पूर्वमुपेतम् तच्चासोमसमाप्तेर्न परित्यक्तव्यम् तत्र पुनरुपायनं विरुध्यते ''अग्ने व्रतपते व्रतं चरिष्यामि'' इत्ययमुपायनमन्त्रः न हि चर्यमाणे व्रते 'चरिष्यामि' इति प्रयोगः संभवति तस्मात्- प्रसङ्गसिद्धं व्रतम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.13
त्रयोदशे- ऐष्टिकेषु पत्नीसंनहनाननुष्ठानाधिकरणे सूत्रम्
SŪ संनहनं च वृत्तत्वात्।। 29।।
त्रयोदशाधिकरणमारचयति-
1 विषयः पत्नीसंनहनं कार्यं चोदकादिति चेन्न तत्
3 पूर्वपक्षः बन्धवासोधारणयोर्योक्त्रबन्धनसिद्धितः
4 सिद्धान्तः यद्यदृष्टाय बन्धः, यदि वासोधारणं दृष्टप्रयोजनम् तदुभयमपि सौमिकेन योक्त्रबन्धनेन सिध्यति ''योक्त्रेण पत्नीं संनह्यति'' इति सोमे विधीयते तस्मात्- प्रसङ्गसिद्धं पत्नीसंनहनम्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- ऐष्टिकेष्वग्न्यन्वाधानाननुष्ठानाधिकरणे सूत्राणि 24-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.14
चतुर्दशे- ऐष्टिकेष्वारण्यभोजनाभावाधिकरणे सूत्रम्
SŪ अन्यविधानादारण्यभोजनं न स्यात्, उभयं हि वृत्त्यर्थम्।। 30।।
चतुर्दशाधिकरणमारचयति-
1 विषयः आरण्याशनमत्रास्ति चोदकप्राप्तितो यदि
3 पूर्वपक्षः वृत्त्यर्थत्वेन तत्सिद्धं सोमप्रोक्तात्पयोव्रतात्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- ऐष्टिकेषु पत्नीसंनहनाननुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यद्यदृष्टाय बन्धः, यदि वासोधारणं दृष्टप्रयोजनम् तदुभयमपि सौमिकेन योक्त्रबन्धनेन सिध्यति ''योक्त्रेण पत्नीं संनह्यति'' इति सोमे विधीयते तस्मात्- प्रसङ्गसिद्धं पत्नीसंनहनम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.15
पञ्चदशे- ऐष्टिकेषु शेषभक्षानुष्ठानाधिकरणे सूत्रम्
SŪ शेषभक्षास्तथेति चेन्नान्यार्थत्वात्।। 31।।
पञ्चदशाधिकरणमारचयति-
1 विषयः यजमानगता भक्ष्या न सन्त्यारण्यवद्यदि
3 पूर्वपक्षः न वृत्त्यर्था इमे किंतु कर्तव्याः प्रतिपत्तये
4 सिद्धान्तः इडाप्राशित्रभक्षाणां प्रतिपत्त्यर्थत्वं षष्ठे निरूपितम्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- ऐष्टिकेष्वारण्यभोजनाभावाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “स्पष्टोऽर्थः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.16
षोडशे- ऐष्टिकेष्वन्वाहार्यदानाभावाधिकरणे सूत्रम्
SŪ भृतत्वाच्च परिक्रयः।। 32।।
षोडशाधिकरणमारचयति-
1 विषयः अन्वाहार्योऽत्र दातव्यो न वाद्यः सोममात्रगा
3 पूर्वपक्षः गवादिदक्षिणा यस्मान्नानत्यन्तरवर्जनात्
''गौश्वाश्वश्च'' इत्यादिदक्षिणा प्रधानस्यैव, न त्वङ्गानाम्। 'दक्षिणाः सोमस्य' इत्यादि। अत इष्टिषु चोदकप्राप्तोऽन्वाहार्यो दातव्यः।
4 सिद्धान्तः मैवम् सोमप्रयोगमध्यपातिनीषु पृथगानत्यभावात् तस्मात्- न दातव्यः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- ऐष्टिकेषु शेषभक्षानुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इडाप्राशित्रभक्षाणां प्रतिपत्त्यर्थत्वं षष्ठे निरूपितम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.17
सप्तदशे- ऐष्टिकेषु शेषभक्षस्य संस्कारार्थतया कर्तव्यत्वाधिकरणे सूत्रे 33-34
SŪ शेषभक्षास्तथेति चेत्।। 33।।
SŪ न कर्मसंयोगात्।। 34।।
सप्तदशाधिकरणमारचयति-
1 विषयः ऋत्विग्भक्षा निवर्तेरन्यद्यन्वाहार्यवन्न तत्
3 पूर्वपक्षः याजमानवदेतेषां कार्यत्वात्प्रतिपत्तये
4 सिद्धान्तः इदं च प्रतिपत्त्यर्थत्वं दशमाध्याये वर्णितम्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- ऐष्टिकेष्वन्वाहार्यदानाभावाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् सोमप्रयोगमध्यपातिनीषु पृथगानत्यभावात् तस्मात्- न दातव्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.18
अष्टादशे- ऐष्टिकेषु होतुर्वरणसद्भावाधिकरणे सूत्राणि 35-41
SŪ प्रवृत्तवरणात्प्रतितन्त्रं वरणं होतुः क्रियेत।। 35।।
SŪ ब्रह्माऽपीति चेत्।। 36।।
SŪ न प्राङ्नियमात्तदर्थं हि।। 37।।
SŪ निर्दिष्टस्येति चेत्।। 38।।
SŪ नाश्रुतित्वात्।। 39।।
SŪ होतुस्तथेति चेत्।। 40।।
SŪ न कर्मसंयोगात्।। 41।।
अष्टाशाधिकरणमारचयति-
1 विषयः नैतासु वरणं होतुरस्ति वानत्यभावतः
3 पूर्वपक्षः नास्त्यन्वाहार्यवद्धर्मकृत्त्वादत्रेष्टिवद्भवेत्
यथैतास्विष्टिषु पृथगानत्यभावादन्वाहार्यो नास्ति, तथा होतुर्वरणमपि नास्ति। इति चेत्-
4 सिद्धान्तः न वरणस्य धर्मार्थत्वात् दर्शपूर्णमासेष्टावपि धर्मार्थमेव वरणम् वरणात्प्रागपि सामिधेनीषु होतुः प्रवृत्तत्वात् न हि प्रवृत्तस्य पुनरानतिः कर्तव्या तस्मात्- प्रकृताविवात्रापि धर्मार्थमेव वरणं कार्यम् न त्वानर्त्यर्थेन सौमिकवरणेनास्य प्रसङ्गसिद्धिः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे- ऐष्टिकेषु शेषभक्षस्य संस्कारार्थतया कर्तव्यत्वाधिकरणे सूत्रे 33-34”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इदं च प्रतिपत्त्यर्थत्वं दशमाध्याये वर्णितम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.19
एकोनविंशे- आतिथ्यायां बर्हिषः प्रतिकर्म प्रोक्षणाभावाधिकरणे सूत्रे 42-43
SŪ यज्ञोत्पत्त्युपदेशे निष्ठितकर्मप्रयोगभेदात्प्रतितन्त्रं क्रियेत।। 42।।
SŪ न वा कृतत्वात्तदुपदेशो हि।। 43।।
एकोनविंशाधिकरणमारचयति-
1 विषयः आतिथ्यादिगते बर्हिष्युक्षणादि पृथङ्न वा
3 पूर्वपक्षः आद्योऽतन्त्रप्रसङ्गत्वान्न प्रसङ्गानिवारणात्
''यदातिथ्यायां बर्हिः, तदुपसदाम्, तदग्नीषोमीयस्य'' इति श्रुतम्। तच्च बर्हिस्त्रयाणां साधारणमिति चतुर्थे निरूपितम्। तस्मिन्साधारणे बर्हिषि प्रोक्षणादिसंस्कारः प्रतिकर्म पृथगनुष्ठेयः। कुतः- तन्त्रप्रसङ्गयोरत्रासंभवात्। न तावत्तन्त्रमस्ति, दर्शयागत्रयवदेककालीनत्वाभावात्। नापि प्रसङ्गः, एकस्य तन्त्रमध्येऽन्ययोरपठितत्वात्। इति प्राप्ते
4 सिद्धान्तः ब्रूमः- बर्हिष एकत्वात्सकृत्प्रोक्षणादिभिः संस्कारे पुनः प्रोक्षणाद्यपेक्षा नास्ति ते च प्रोक्षणादयः प्राथम्यादातिथ्यायां कार्याः तत उपसत्स्वग्नीषोमीये च प्रसङ्गसिद्धिर्न वारयितुं शक्यते
-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे- ऐष्टिकेषु होतुर्वरणसद्भावाधिकरणे सूत्राणि 35-41”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न वरणस्य धर्मार्थत्वात् दर्शपूर्णमासेष्टावपि धर्मार्थमेव वरणम् वरणात्प्रागपि सामिधेनीषु होतुः प्रवृत्तत्वात् न हि प्रवृत्तस्य पुनरानतिः कर्तव्या तस्मात्- प्रकृताविवात्रापि धर्मार्थमेव वरणं कार्यम् न त्वानर्त्यर्थेन सौमिकवरणेनास्य प्रसङ्गसिद्धिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.20
विंशे- आतिथ्यायां स्तरणमन्त्रावृत्त्यधिकरणे सूत्रम्
SŪ देशपृथक्त्वान्मन्त्रोऽभ्यावर्तते।। 44।।
विंशाधिकरणमारचयति-
1 विषयः तत्रास्तरणमन्त्रस्य प्रसङ्गो यदि वा भिदा
3 पूर्वपक्षः आद्यः प्रोक्षणवन्मैवं देशस्तरणभेदतः
तस्मिन्नातिथ्याबर्हिषि ''ऊर्णाम्रदसं त्वां स्तृणामि'' इति य आस्तरणमन्त्रः, तस्याग्नीषोमीये प्रसङ्गसिद्धिः स्यात्। प्रोक्षणादौ तद्दर्शनात्। इति चेत्-
4 सिद्धान्तः मैवम् आतिथ्यायाः प्राग्वंशो देशः, अग्नीषोमीयस्योत्तरवेदिः ततो देशभेदतः स्तरणभेदे सति तत्संनिपातिनो मन्त्रस्याप्यावर्तनीयत्वात्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- आतिथ्यायां बर्हिषः प्रतिकर्म प्रोक्षणाभावाधिकरणे सूत्रे 42-43”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- बर्हिष एकत्वात्सकृत्प्रोक्षणादिभिः संस्कारे पुनः प्रोक्षणाद्यपेक्षा नास्ति ते च प्रोक्षणादयः प्राथम्यादातिथ्यायां कार्याः तत उपसत्स्वग्नीषोमीये च प्रसङ्गसिद्धिर्न वारयितुं शक्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
12.1.21
एकविंशे- बर्हिषो देशान्तरनयने संनहनहरणमन्त्रयोरप्रयोगाधिकरणे सूत्रे 45-46
SŪ संनहनहरणे तथेति चेत्।। 45।।
SŪ नान्यार्थत्वात्।। 46।।
एकविंशाधिकरणमारचयति-
1 विषयः संनाहे हरणे मन्त्रावावर्त्यौं किं न वाऽग्रिमः पूर्ववन्नेदृशं कार्यं प्रकृतौ तदभावतः
3 पूर्वपक्षः मैवम् प्रकृतौ लवनदेशादानयने कार्ये तौ मन्त्रौ दृष्टौ, न तु गाहपत्यादाहवनीयं प्रत्यानयने अतोऽत्रापि प्राग्वंशादुत्तरवेदिं प्रत्यानयने तौ मन्त्रौ न चोदकात्प्राप्नुतः
आतिथ्यादेशे संस्कृतं बर्हिः संनह्याग्नीषोमीयदेशे यदा नीयते, तदा संनहने हरणे च ''इन्द्राण्यै संनहनम्'' ''बृहस्पते मूर्ध्ना हरामि'' इति यौ मन्त्रौ, तौ स्तरणवदावर्तनीयौ। इति चेत्- अत्र पादे- अधिकरणानि 21, सूत्राणि 46। आदितः- अधिकरणानि 860, सूत्राणि 2522। द्वादशाध्यायस्य द्वितीयः पादः सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः।
4 सिद्धान्तः इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वादशाध्यायस्य प्रथमः पादः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे- आतिथ्यायां स्तरणमन्त्रावृत्त्यधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् आतिथ्यायाः प्राग्वंशो देशः, अग्नीषोमीयस्योत्तरवेदिः ततो देशभेदतः स्तरणभेदे सति तत्संनिपातिनो मन्त्रस्याप्यावर्तनीयत्वात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
Set from the transmitted text; four limbs are the source, the fifth is inferred and marked.
Sanātana Guru Sampradāya Pratiṣṭhānam, Mysore · sarvaveda.info