10.7.1
प्रथमे- ज्योतिष्टोमे प्रत्यङ्गं हविर्भेदाधिकरणे सूत्रे 1-2
SŪ पशोरेकहविष्ट्वं समस्तचोदितत्वात्।। 1।।
SŪ प्रत्यङ्गं वा ग्रहवदङ्गानां पृथक्प्रकल्पनत्वात्।। 2।।
सप्तमपादस्य प्रथमाधिकरणमारचयति-
1 विषयः पशुः कृत्स्नो हविः किंवा प्रत्यङ्गं हविरन्यता आद्यश्चोदनया मैवमवदानपृथक्त्वतः
3 पूर्वपक्षः ''अग्नीषोमीयं पशुमालभेत'' इत्यत्र कृत्स्नस्य पशोरेकहविष्ट्वं युक्तम्। कुतः- अग्नीषोमदेवतां प्रति द्रव्यत्वेन पशोश्चोदितत्वात्। न हि हृदयाद्यङ्गं साक्षात्पशुर्भवति। इति प्राप्ते-
4 सिद्धान्तः ब्रूमः- ''हृदयस्याग्रेऽवद्यति, अथ जिह्वायाः, अथ वक्षसोऽवद्यति, दोष्णोरवद्यति, पार्श्वयोरवद्यति'' इत्यादिना हृदयाद्यङ्गानामवदानानि पृथगाम्नायन्ते। अवदानं च हविष्ट्वप्रयोजकः संस्कारः। पुरोडाशादौ होतुमवदीयमानत्वदर्शनात्। हविःशब्दश्च कर्मव्युत्पत्त्या होमयोग्यं द्रव्यं ब्रूते। पश्वाकृतिचोदना तु हृदयाद्यङ्गद्वारेण देवतासंबन्धादुपपद्यते। तस्मात्- प्रत्यङ्गं हविर्भेदः।। 1।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वाविंशे- उपावहरणार्थमेव वासोन्तरोत्पादनाधिकरणे सूत्रे 78-79”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे दशमाध्यायस्य षष्ठः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.2
द्वितीये- पशोर्हृदयादिभिरेवाङ्गविशेषैर्यागानुष्ठानाधिकरणे सूत्राणि 3-9
SŪ हविर्भेदात्कर्मणोऽभ्यासः, तस्मात्तेभ्योऽवदानं स्यात्।। 3।।
SŪ आज्यभागवद्वा निर्देशात्परिसंख्या स्यात्।। 4।।
SŪ तेषां वा द्व्यवदानत्वं विवक्षन्नभिनिर्दिशेत्पशोः पञ्चावदानत्वात्।। 5।।
SŪ अंसशिरोनूकसक्थिप्रतिषेधश्च तदन्यपरिसंख्यानेऽनर्थकः स्यात्प्रदानत्वात्तेषां निरवदानप्रतिषेधः स्यात्।। 6।।
SŪ अपि वा परिसंख्या स्यादवदानीयशब्दत्वात्।। 7।।
SŪ अब्राह्मणे च दर्शनात्।। 8।।
SŪ शृताशृतोपदेशाच्च तेषामुत्सर्गवदयज्ञशेषत्वम्।। 9।।
द्वितीयाधिकरणमारचयति-
1 विषयः एकेनाङ्गेन सर्वैर्वा यद्वैकादशभिर्यजिः
2 संशयः प्रत्यङ्गं हविर्भेदे स्थिते सति त्रेधा यागे संशयः।
3 पूर्वपक्षः एकेन यागसंसिद्धेर्हविषां भेदतोऽखिलैः
तत्र- अनिर्दिष्टविशेषेण येन केनाप्यङ्गेन यागः कार्यः। तावतैव सिद्धत्वात्। इत्येकः पक्षः। चोदितपश्वङ्गत्वं परिगणितेषु हृदयादिष्वन्येषु चांसशिरःप्रभृतिषु समानम्। ततो हृदयादिवदंसादीनां हविर्भेदत्वाद्यागमन्तरेण हूयमानत्वलक्षणहविष्ट्वापर्यवसानात्सर्वैरङ्गैर्यागः। इति द्वितीयः पक्षः। हृदयादिभिरेकादशभिरेवाङ्गैर्यागः कर्तव्यः। कुतः- अन्येषामंसादीनां परिसंख्यातत्वात्। चोदकेन सर्वेषामङ्गानामवदाने प्राप्ते हृदयादिवाक्येनांसादयः परिसंख्यायन्ते। ननु- परिसंख्यायां 'विधिः स्वार्थं जह्यात्, परार्थं कल्पेत, प्राप्तं बाधेत' इति दोषत्रयं प्रसज्येत। प्रसज्यतां नाम। सति हि गत्यन्तर एषां दोषत्वम्। परिसंख्यायास्तु ते त्रयः स्वरूपमिति कृत्वा न दोषतां भजन्ते। किंच 'द्वयानि मांसांन्यभिमृशन्ति शृतान्यशृतानि' इति केषांचिन्मांसानामपक्वत्वमुच्यते। पाकस्तु हविषो मांसस्य प्रतिनियतः। तस्मात्- अशृतत्वोक्तिरंसादिपरिसंख्यां गमयति। एतदेवाभिप्रेत्यांसादिप्रतिषेधः श्रुत्या वर्णितः- ''नांसयोरवद्यति, न शिरसः'' इत्यादिना। तस्मात्- एकादशभिरेव यागः।। 2।। 3।।
4 सिद्धान्तः एकादशभिरन्येषां परिसंख्या भवेद्यतः न त्रिदोषी गत्यभावादशृतोक्तेश्च सोचिता
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- ज्योतिष्टोमे प्रत्यङ्गं हविर्भेदाधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.3
तृतीये- ज्योतिष्टोमेऽनिज्याशेषैस्त्र्यङ्गैः स्विष्टकृद्धोमाधिकरणे सूत्रे 10-11
SŪ इज्याशेषात्स्विष्टकृदिज्येत प्रकृतिवत्।। 10।।
SŪ त्र्यङ्गैर्वा शरवद्विकारः स्यात्।। 11।।
तृतीयाधिकरणमारचयति-
1 विषयः इज्याशेषैरशेषैर्वा त्र्यङ्गैः स्विष्टकृतो हुतिः आद्यः प्रकृतिवन्मैवं पूर्वार्धेत्युक्तिशेषतः
3 पूर्वपक्षः पशौ श्रूयते ''त्र्यङ्गैः स्विष्टकृतं यजति'' इति। तत्र- इज्यार्थानां हृदयाद्येकादशाङ्गानां यैः कैश्चित्त्र्यङ्गैरिज्याशेषभूतैः स्विष्टकृद्धोतव्यः। कुतः- प्रकृताविज्याशेषण पुरोडाशेन स्विष्टकृतो हुतत्वादत्रापि चोदकेन तथात्वात्। इति प्राप्ते-
4 सिद्धान्तः ब्रूमः- ''दोष्णः पूर्वार्धादग्नये समवद्यति, गुदस्य मध्यतः, श्रोण्या जघनतः'' इति वाक्यशेषेण हृदयादिभ्य एकादशभ्योऽन्यानि त्रीण्यङ्गानि स्विष्टकृते समाम्नायन्ते। न च हृदयादिष्वपि गुदादीन्याम्नातानि, इति शङ्क्यम्। तद्विशेषस्य कल्पसूत्रकारेण दर्शितत्वात्। 'हृदयं जिह्वा वक्षो यकृद्वृक्कौ सव्यं दोः, उभे पार्श्वे दक्षिणा श्रोणिः, गुदं तृतीयम्- इति दैवतावदानानि। दक्षिणोंऽसः, सव्या श्रोणिः, गुदं तृतीयम्- इति सौविष्टकृतानि' इति। तस्मात्- अनिज्याशेषैरङ्गैः स्विष्टकृद्धोमः।। 4।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- पशोर्हृदयादिभिरेवाङ्गविशेषैर्यागानुष्ठानाधिकरणे सूत्राणि 3-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एकादशभिरन्येषां परिसंख्या भवेद्यतः न त्रिदोषी गत्यभावादशृतोक्तेश्च सोचिता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.4
चतुर्थे- अध्यूध्न्या इडाविकारताधिकरणे सूत्राणि 12-16
SŪ अध्यूध्नी तु होतुस्त्र्यङ्गवदिडाभक्षविकारः स्यात्।। 12।।
SŪ शेषे वा समवैति तस्माद्रथवन्नियमः स्यात्।। 13।।
SŪ अशास्त्रत्वात्तु नैवं स्यात्।। 14।।
SŪ अपि वा दानमात्रं स्याद्भक्षशब्दानभिसंबन्धात्।। 15।।
SŪ दातुस्त्वविद्यमानत्वादिडाभक्षविकारः स्यात्, शेषं प्रत्यविशिष्टत्वात्।। 16।।
चतुर्थाधिकरणमारचयति-
1 विषयः होतुर्नियम्यतेऽध्यूध्नी किंवेडां विकरोति सा
3 पूर्वपक्षः अनस्थिभिरिति प्राप्ता होतुः पक्षे नियम्यते
पशावेव श्रूयते ''अध्यूध्नीं होत्रे हरन्ति'' इति। अध्यूध्नी हृदयादिभ्योऽन्यदङ्गम्। तत्र- इयं होतुरेव नान्यस्य- इति नियम्यते। कुतः- पक्षे प्राप्तत्वात्। तथा हि- हृदयादीनिज्याशेषान्भक्षणार्थं पात्रे निक्षिप्यानिज्याशेषानपि तत्र क्षिपेत्। ''अनस्थिभिरिडां वर्धयन्ति'' इति श्रवणात्। अस्मिंश्च भक्षणे प्रत्येकमृत्विजां विभज्यमाने सेयमध्यूध्नी होतुः कदाचित्प्राप्नोति, कदाचिदन्यस्य, ततो नियन्तव्या। इति प्राप्ते-
4 सिद्धान्तः अनुवादोऽनस्थिवाक्यं प्रापिका परिशिष्टगीः नाध्यूध्नी तत्र तेनेडा होतुर्विक्रियते तया
ब्रूमः- 'वर्धयन्ति' इति वर्तमानापदेशेनानस्थिवाक्यमनुवादः। प्रापकं तु परिशिष्टवाक्यम्। तच्चैवमाम्नायते- ''अथ यद्यत्परिशिष्यते, तत्तत्समवत्तधान्यामानयति हृदयं जिह्वा वक्षः'' इत्यारभ्य ''वनिष्ठुम्'' इत्येतदन्तम्। न च तस्मिन्वाक्येऽध्यूध्नी पठिता। ततोऽप्राप्तत्वाद्विधीयमानया तया होतुरिडाभागोऽन्यो बाध्यते। तत्रेयं वचनव्यक्तिः- ''यद्धोत्रे हरन्ति, तदध्यूध्नीम्'' इति। तस्मात्- विकारः।। 5।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- ज्योतिष्टोमेऽनिज्याशेषैस्त्र्यङ्गैः स्विष्टकृद्धोमाधिकरणे सूत्रे 10-11”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.5
पञ्चमे- वनिष्ठोर्भक्षविकारताधिकरणे सूत्रम्
SŪ अग्नीधश्च वनिष्ठुरध्यूध्नीवत्।। 17।।
पञ्चमाधिकरणमारचयति-
1 विषयः वनिष्ठुरपि तद्वत्स्यात्प्राप्तिः प्रासनतो यदि
3 पूर्वपक्षः इडासंस्कार एवायं भक्षो विक्रियते ततः
पशावेव श्रूयते ''वनिष्ठुमग्नीधे'' इति। अध्यूध्नीवद्वनिष्ठुरपि हृदयादिव्यतिरिक्तमङ्गम्। ततः- संशयपूर्वोत्तरपक्षास्तद्वद्योज्याः। अधिका शङ्का त्वेषा- 'इडापात्रे हृदयादिप्रासनवाक्ये वनिष्टुरपि पठितः। ततः पक्षे प्राप्त एव नियम्यते' इति।
4 सिद्धान्तः उपस्तरणादिवत्प्रासनमिडायाः संस्कार एव न त्वेतावता वनिष्ठोर्भक्षत्वप्राप्तिरित्यप्राप्तविधेः पूर्ववद्विकारः- इत्युक्तशङ्कायामुत्तरम्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- अध्यूध्न्या इडाविकारताधिकरणे सूत्राणि 12-16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अनुवादोऽनस्थिवाक्यं प्रापिका परिशिष्टगीः नाध्यूध्नी तत्र तेनेडा होतुर्विक्रियते तया”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.6
षष्ठे- मैत्रावरुणस्यापि शेषभक्षास्तित्वाधिकरणे सूत्रे- 18- 19
SŪ अप्राकृतत्वान्मैत्रावरुणस्याभक्षत्वम्।। 18।।
SŪ स्याद्वा होत्रध्वर्युविकारत्वात्तयोः कर्मामिसंबन्धात्।। 19।।
षष्ठाधिकरणमारचयति-
1 विषयः मैत्रावरुणनाम्नोऽत्र भक्षो नास्त्यस्ति वा नहि
3 पूर्वपक्षः अप्राकृतत्वादध्वर्युहोत्रन्तर्भावतोऽस्ति सः
अत्र पशौ मैत्रावरुणनाम्न इडाभक्षो नास्ति। कुतः- प्रकृतौ मैत्रावरुणस्यानाम्नानेन चोदकप्राप्त्यभावात्।
4 सिद्धान्तः मैवम् 'मैत्रावरुणः प्रेष्यति चान्वाह' इति प्रैषानुवचने तस्य विधीयेते तत्र प्रैषकार्येणाध्वर्यावन्तर्भावः अनुवचनकार्येण च होतरि तस्मात्- अस्ति भक्षः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- वनिष्ठोर्भक्षविकारताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उपस्तरणादिवत्प्रासनमिडायाः संस्कार एव न त्वेतावता वनिष्ठोर्भक्षत्वप्राप्तिरित्यप्राप्तविधेः पूर्ववद्विकारः- इत्युक्तशङ्कायामुत्तरम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.7
सप्तमे- मैत्रावरुणस्यैकभागताधिकरणे सूत्रे 20-21
SŪ द्विभागः स्याद्द्विकर्मत्वात्।। 20।।
SŪ एकत्वाद्वैकभागः स्याद्भागस्याश्रुतिभूतत्वात्।। 21।।
सप्तमाधिकरणमारचयति-
1 विषयः द्विभाग एकभागो वा द्विभागः स्याद्द्विकर्मतः
3 पूर्वपक्षः एकः पुमैक्यतो नो चेद्वैषम्यं प्रकृतावपि
स मैत्रावरुणः कर्मोपाधिना द्विभागः। इति चेत्-
4 सिद्धान्तः न पुरुषैक्योपाधिना भागस्याप्येकत्वं स्यात् अन्यथा प्रकृतावपि कर्मतारतम्यानुसारेण भागतारतम्यं प्रसज्येत
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- मैत्रावरुणस्यापि शेषभक्षास्तित्वाधिकरणे सूत्रे- 18- 19”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'मैत्रावरुणः प्रेष्यति चान्वाह' इति प्रैषानुवचने तस्य विधीयेते तत्र प्रैषकार्येणाध्वर्यावन्तर्भावः अनुवचनकार्येण च होतरि तस्मात्- अस्ति भक्षः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.8
अष्टमे- प्रतिप्रस्थातुर्भक्षाभावाधिकरणेः सूत्रे 22-23
SŪ प्रतिप्रस्थातुश्च वपाश्रपणात्।। 22।।
SŪ अभक्षो वा कर्मभेदात्तस्याः सर्वप्रदानत्वात्।। 23।।
अष्टमाधिकरणमारचयति-
1 विषयः प्रतिप्रस्थातुरत्रास्ति भक्षो नो वा वपामसौ
3 पूर्वपक्षः पचत्यतोऽस्ति नो पक्वा वपा सर्वा हुता यतः
अत्र पशौ प्रतिप्रस्थातुरिडाभक्षोऽस्ति। कुतः- अध्वर्युकर्मणो वपापाकस्य तेन कृतत्वात्।
4 सिद्धान्तः मैवम् भक्षयितुं वपाशेषस्याभावात्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- मैत्रावरुणस्यैकभागताधिकरणे सूत्रे 20-21”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न पुरुषैक्योपाधिना भागस्याप्येकत्वं स्यात् अन्यथा प्रकृतावपि कर्मतारतम्यानुसारेण भागतारतम्यं प्रसज्येत”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.9
नवमे- गृहमेधीयकेऽपूर्वाज्यभागविधानादिकरणे सूत्राणि 24-33
SŪ विकृतौ प्राकृतस्य विधेग्रर्हणात्पुनः श्रुतिरनर्थिका स्यात्।। 24।।
SŪ अपि वाग्नेयवद्विशब्दत्वं स्यात्।। 25।।
SŪ न वा शब्दपृथक्त्वात्।। 26।।
SŪ अधिकं वाऽर्यवत्त्वात्स्यादर्थवादगुणाभावे वचनादविकारे तेषु हि तादर्थ्ये स्यादपूर्वत्वात्।। 27।।
SŪ प्रतिषेधः स्यादिति चेत्।। 28।।
SŪ नाश्रुतत्वात्।। 29।।
SŪ अग्रहणादिति चेत्।। 30।।
SŪ न तुल्यत्वात्।। 31।।
SŪ तथा तद्ग्रहणे स्यात्।। 32।।
SŪ अपूर्वतां तु दर्शयेद्ग्रहणस्यार्थवत्त्वात्।। 33।।
नवमाधिकरणमारचयति-
2 संशयः तत्राष्टधा संशयः- चोदकप्राप्तयोरेवाज्यभागयोरिह पुनः श्रवणादनुवादोऽयम्।
3 पूर्वपक्षः इत्याद्यः पक्षः। तथा सति वैयर्थ्यप्रसङ्गात्। ततः सार्थकत्वाय चोदकैतद्वाक्ययोर्मिलितयोरत्राज्यभागविधायकत्व-मभ्युपेतव्यम्। ओषधिद्रव्यनिर्वापादयो यथा प्रकृतिगताः सन्तो विकृतावपि श्रूयमाणाश्चोदकस्य लिङ्गम्, तथाज्यभागावपि लिङ्गत्वेन सहायकृतौ ततो मिलितयोर्विधायकत्वम्। इति द्वितीयः पक्षः। गृहमेधीयविधिवाक्ये श्रुतस्यौदनस्यैवौषविद्रव्यतया लिङ्गत्वसिद्धेर्नास्ति लिङ्गान्तरापेक्षा। तस्मात्- प्रकृताविष्टौ श्रुतत्वादाज्यभागकर्मण इह पुनः श्रवणमर्थवादत्वेन तत्प्रशंसार्थम्। इति तृतीयः पक्षः। भिन्नप्रकरणे श्रुतस्य विध्येकवाक्यत्वायोगादर्थवादत्वमयुक्तम्। ततः- चोदकप्राप्तादाज्यभागादिकर्मणोऽ-धिकमाज्यभागरूपमङ्गान्तरं विधीयते। इति चतुर्थः पक्षः। ऐष्टिकयोराज्यभागयोरिह प्रत्यभिज्ञानान्नाङ्गान्तरं युक्तम्। तस्मात्- आज्यभागव्यतिरिक्तस्य प्रयाजाद्यङ्गस्य परिसंख्यानार्थमिदमाज्यभागवचनम्। इति पञ्चमः पक्षः। आज्यभागवाक्येन तद्विधिरूपः स्वार्थस्त्यजेत, प्रयाजादिरूपनिषेधोऽन्यार्थः परिगृह्येत, चोदकप्राप्तं च प्रयाजाद्यनुष्ठानं बाध्येत, इति दोषत्रयप्रसङ्गान्न परिसंख्या युक्ता। तेन प्रत्यक्षरूपादस्मादाज्यभागवाक्यादानुमानिकं चोदकवाक्यमाज्यभागव्यतिरिक्तप्रयाजाद्यङ्गेषु संकोचनीयम्। इति षष्ठः पक्षः। यदि चोदकस्य प्रत्यङ्गं पृथग्व्यापाराः स्युः, तदा प्रयाजाद्यङ्गगोचरैर्व्यापारैस्तैषामतिदेशः सिध्यति। आज्यभागगोचरस्यानेन प्रत्यक्षविधिना बाधितत्वान्न चोदकेनाज्यभागातिदेशः, इत्येवं संकोचो वर्णयितुं शक्यते। इह तु 'शब्दबुद्धिकर्मणां विरम्य व्यापाराभावात्' इति न्यायेनैक एव चोदकस्य व्यापारः। तथा सति युगपदतिदेशोऽनतिदेशश्च विरुद्धधर्मः प्रसज्येत। तस्मात्- प्रयाजाद्यङ्गेषु संकोचो न युक्तः। तेन चोदकोऽत्राज्यभागकर्मणि संकोचनीयः। न च- उक्तदोषापत्तिः। अस्य संकोचस्योपसंहाररूपत्वात्। आज्यभागयोरेव शक्तश्चोदकः। तज्ज्ञानं शक्तिज्ञानमुपसंहारः। तथा सत्याज्यभागातिदेशे व्यापृतस्यचोदकस्य को नामातिदेशनिवृत्तिरूपविरुद्धधर्मप्रसङ्गः। तत्राज्यभागकर्मणि चोदकावस्थापनम्। इति सप्तमः पक्षः। ''पुरोडाशं चतुर्धा करोति'' ''आग्नेयं चतुर्धा करोति'' इत्यनयोरुभयोरपि प्रत्यक्षवचनत्वेन सरूपत्वादत्रोपसंहारः। इह तु प्रत्यक्षपरोक्षयोर्वचनचोदकयोर्विरूपत्वान्नासौ युक्तः। किंच प्रत्यक्षवचनेनैवाज्यभागविधिसिद्धेश्चोदककल्पना निरर्थिका। तस्मात्- उपसंहारो न युक्तः। तस्मात्- अपूर्वो गृहमेधीयो न चोदकेनान्याङ्गानि गृह्णाति। इति कर्तव्यताकाङ्क्षा तु प्रत्यक्षवचनेनैव पूर्यते। एवं सत्युक्तदोषत्रयाभावादष्टमः पक्षोऽभ्युपेयः। ननु सांग्रहिण्यामिष्टौ प्रत्यक्षवचनविहितैरामनहोमैः सह चोदकातिदिष्टानामनुयाजानां समुच्चयोऽङ्गीकृतः, तद्वदत्रापि विधीयमानयोराज्यभागयोश्चोदकप्राप्तप्रयाजाद्यङ्गैः सर्वैः सह समुच्चयोऽस्तु। न। वैषम्यात्। प्रकृतावाज्यभागयोरुपकारः क्लृप्तः, सोऽत्र नामसाम्येन स्मार्यते। तत्र क्लृप्तोपकारैरनुयाजाद्यङ्गैश्चोदकेन सह साऽतिदिष्टैः संपूर्यते। ततो विधिवैयर्थ्यपरिहारायामनहोमेषूपकारे क्लृप्ते सति पश्चात्प्रवर्तमानः प्रयोगवचनः समुच्चित्यानुष्ठापयति। ततो वैषम्यात्क्लृप्तोपकाराज्यभागविधायकेनानेन प्रत्यक्षवचनेन गृहमेधीये चोदको लुप्यते। तस्मात्- अविकृतिरूपं साङ्गमपूर्वं कर्मात्र विधीयते। इति राद्धान्तः।। 11।। 12।। 13।। 14।। 15।। 16।। 17।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- प्रतिप्रस्थातुर्भक्षाभावाधिकरणेः सूत्रे 22-23”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् भक्षयितुं वपाशेषस्याभावात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.10
दशमे- गृहमेधीये स्विष्टकृदाद्यनुष्ठानाधिकरणे सूत्रम्
SŪ ततोऽपि यावदुक्तं स्यात्।। 34।।
दशमाधिकरणमारचयति-
1 विषयः तत्रान्यदङ्गं नो कार्यं कार्यं वाऽन्यानपेक्षणात्
3 पूर्वपक्षः न कार्यं विहितत्वेन कार्यं स्विष्टकृदादिकम्
तत्र गृहमेधीय आज्यभागाभ्यामेव निराकाङ्क्षत्वादन्यत्स्विष्टकृदादिकं न कार्यम्। इति चेत्-
4 सिद्धान्तः न आज्यभागवद्विहितत्वात् ''अग्नये स्विष्टकृते समवद्यति'' इति, ''इडामुपह्वयते'' इति विहितम् तस्मात् यावदुक्तं कार्यम्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- गृहमेधीयकेऽपूर्वाज्यभागविधानादिकरणे सूत्राणि 24-33”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.11
एकादशे- गृहमेधीये प्राशित्रादिभक्षणाभावाधिकरणे सूत्राणि 35-37
SŪ स्विष्टकृद्भक्षप्रतिषेधः स्यात्तुल्यकारणत्वात्।। 35।।
SŪ अप्रतिषेधो वा दर्शनादिडायां स्यात्।। 36।।
SŪ प्रतिषेधो वा विधिपूर्वस्य दर्शनात्।। 37।।
एकादशाधिकरणमारचयति-
1 विषयः तत्रैव परिसंख्यात्वे प्राशित्राद्यस्ति वा न वा
3 पूर्वपक्षः अस्तीडादर्शनान्मैवं तदुक्त्याऽत्रास्ति नेतरत्
गृहमेधीये स्विष्टकृदाज्यभागेष्वष्टधा संशयं हृदि निधाय परिसंख्यार्थं पञ्चमं पक्षमभ्युपेत्येयं कृत्वाचिन्ता। तत्र प्राशित्रादिभक्षणं न परिसंख्यातं तदस्ति। कुतः- भक्षणार्थस्येडोपह्वानस्य तत्र दर्शनात्। इति प्राप्ते
4 सिद्धान्तः ब्रूमः- अत्र गृहमेधीये तदिडाभक्षणं वचनबलेनास्तु स्विष्टकृद्वाक्यप्रापितस्य परिसंख्यातस्य वचनेन निवारितत्वादितरत्प्राशित्रादिभक्षणं परिसंख्यातत्वान्नास्ति
-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- गृहमेधीये स्विष्टकृदाद्यनुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न आज्यभागवद्विहितत्वात् ''अग्नये स्विष्टकृते समवद्यति'' इति, ''इडामुपह्वयते'' इति विहितम् तस्मात् यावदुक्तं कार्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.12
द्वादशे- प्रायणीयातिथ्ययोः शंय्विडान्ततानियमाधिकरणे सूत्रे 38- 39
SŪ शंथ्विडान्तत्वे विकल्पः स्यात्परेषु पत्न्यनुयाजप्रतिषेधोऽनर्थकः स्यात्।। 38।।
SŪ नित्यानुवादो वा कर्मणः स्यादशब्दत्वात्।। 39।।
द्वादशाधिकरणमारचयति-
1 विषयः प्रायणीयातिथ्ययोः किं विकल्पः शंथ्विडान्तयोः
3 पूर्वपक्षः नियमो वा विकल्पः स्यान्निषेधपरिसंख्यया
ज्योतिष्टोमे श्रूयते ''शंय्वन्ता प्रायणीया संतिष्ठते, न पत्नीः संवाजयन्ति। इडान्ता आतिथ्याः संतिष्ठन्ते, नानुयाजान्यजति'' इति। प्रकृतौ यदा ''तच्छंयोः'' इति मन्त्रं जपति, तदानीमध्वर्युः परिधीनग्नौ प्रक्षिपति। तदाह कल्पसूत्रकारः- 'अनूच्यमाने शंयुवाक आहवनीये परिधीन्प्रहरति' इति। ततो हविःशेषेषु भक्षितेषु पत्नीः संयाजयन्ति, इति क्रमः। तथा प्रधानयागनारिष्ठहोमप्राशित्रादिभक्षणेडाभक्षणानुयाजसूक्तवाकशंयुवाकाः, इत्यधस्तनः प्रयोगक्रमः। पत्नीसंयाजानामुपरि फलीकरणहोमप्रायश्चित्तहोमकपालोद्वासनैरिष्टिः समाप्यते। एवं स्थिते विकृतिरूपायाः प्रायणीयेष्टेः शंयुवाकान्तत्वम्, आतिथ्येष्टेरिडाभक्षणान्तत्वं च विकल्पितं स्यात्। कुतः- निषेधविधिवाक्याभ्यां प्रकरणद्वयप्रतीतेः। तथा हि शंय्वन्तत्वेडान्तत्वविधिनैवोपरितनपत्नीसंयाजानुयाजनिषेधे पुनर्निषेधवचनं परिसंख्यार्थम्। पत्नीसंयाजानुयाजव्यतिरिक्ते नास्ति निषेध इति परिसंख्या। तेन प्रकृतिवद्यथाप्राप्तं कपालोद्वासनान्तत्वमनयोरिष्ट्योः प्रतीयते। विधिवाक्येन च शंय्विडान्तत्वम्। तेन व्रीहियववद्विकल्पः। इति प्राप्ते-
4 सिद्धान्तः शंथ्विडान्तत्ववाक्याच्च नियमो विधिमात्रतः नित्यानुवादो नञ्वाक्यं दोषबाहुल्यमन्यथा
ब्रूमः- विधिमात्रस्यात्र प्रवृत्तेः शंय्वन्तत्वमिडान्तत्वं च तयोः प्रतिनियतम्। पत्नीसंयाजाद्यभावस्त्वर्थसिद्धः। ततो नञ्पदयुक्तमुपरितनं प्रतिषेधवाक्यं नित्यानुवादः सन्नर्थवादः। पत्नीसंयाजाद्यकरणाल्लाघवं भवतीति। अन्यथा बहवो दोषाः प्रसज्येरन्। विकल्पे तावदष्टौ दोषाः प्रसिद्धाः। परिसंख्यायां च त्रयो दोषाः। विधिपरिसंख्याभ्यां वाक्यभेदोऽपरो दोषः। ततः- शंय्विडान्तत्वं नियतम्।। 20।। 21।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- गृहमेधीये प्राशित्रादिभक्षणाभावाधिकरणे सूत्राणि 35-37”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- अत्र गृहमेधीये तदिडाभक्षणं वचनबलेनास्तु स्विष्टकृद्वाक्यप्रापितस्य परिसंख्यातस्य वचनेन निवारितत्वादितरत्प्राशित्रादिभक्षणं परिसंख्यातत्वान्नास्ति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.13
त्रयोदशे- प्रायणीयातिथ्ययोः पूर्वाभ्यामेव शंय्विडाभ्यां संस्थाधिकरणे सूत्राणि 40-42
SŪ प्रतिषेधार्थवत्त्वाच्चोत्तरस्य परस्तात्प्रतिषेधः स्यात्।। 40।।
SŪ प्राप्तेर्वा पूर्वस्य वचनादतिक्रमः स्यात्।। 41।।
SŪ प्रतिषेधस्य त्वरायुक्तत्वात्तस्य च नान्यदेशत्वम्।। 42।।
त्रयोदशाधिकरणमारचयति-
1 विषयः तत्रैव शंय्विडे पूर्वे परे वा स्वेच्छयाऽथवा परे एवाथवा पूर्वे एवाद्यो द्विविधश्रुतेः
3 पूर्वपक्षः निषेधस्यार्थवत्त्वाय परे एवानुवादगीः पर्वोक्तवाक्यतां याति पूर्वे एवाविरोधतः
प्रायणीयातिथ्ययोरेवान्तत्वेन निर्णीते शंय्विडे पुनः संदिह्येते। प्रकृतौ द्विविधे शंय्विडे पत्नीसंयाजेभ्यः पुरस्तादुपरिष्टाच्च विहिते। ते चात्र चोदकप्राप्ते, द्विविधश्रुतेः। अर्थे चोदकादतिदिष्टे सति विशेषनियामकाभावादिच्छया स्वीकार्ये। इत्येकः पक्षः। यदि प्रायणीया पूर्वशंय्वन्ता, आतिथ्या च पूर्वेडान्ता, तदानीमन्तत्वविधिनैव ताभ्यां शंय्विडाभ्यामूर्ध्वमप्राप्तानां पत्नीसंयाजानामनुयाजानां च वारितत्वान्निषेधो व्यर्थः स्यात्। परयोरन्तत्वे ताभ्यां शंय्विडाभ्यां प्राप्तानां तेषामनिवारणात्तन्निवारणाय सार्थको निषेधः। तस्मात्- परे एव शंय्विडे ग्राह्ये। इति द्वितीयः पक्षः।
4 सिद्धान्तः निषेधोऽयं नित्यानुवादः- इत्युक्तम् स च पूर्वयोः शंय्विडयोरन्तत्वेऽप्येकवाक्यतामापाद्या-र्थवादत्वेनोपपद्यते संजातविरोधिन्यौ हि पूर्वे शंय्विडे तस्मात्- ते एव ग्राह्ये इति राद्धान्तः। 22
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- प्रायणीयातिथ्ययोः शंय्विडान्ततानियमाधिकरणे सूत्रे 38- 39”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “शंथ्विडान्तत्ववाक्याच्च नियमो विधिमात्रतः नित्यानुवादो नञ्वाक्यं दोषबाहुल्यमन्यथा”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.14
चतुर्दशे- उपसदामपूर्वार्थत्वाधिकरणे सूत्राणि 43-46
SŪ उपसत्सु यावदुक्तमकर्म स्यात्।। 43।।
SŪ स्रौवेण वा गुणत्वाच्छेषप्रतिषेधः स्यात्।। 44।।
SŪ अप्रतिषिद्धं वा प्रतिषिध्य प्रतिप्रसवात्।। 45।।
SŪ अनिज्या वा शेषस्य मुख्यदेवतानभीज्यत्वात्।। 46।।
चतुर्दशाधिकरणमारचयति-
1 विषयः उपसत्सु निषिद्धेभ्यः शिष्टं सर्वं किमाचरेत् यावदुक्तमुताद्योऽस्तु चोदकस्यानिवारणात्
3 पूर्वपक्षः स्रौवाघारे पुनः श्रुत्या शिष्टस्य परिसंख्यया अपूर्वार्थत्वतो वाऽन्त्योऽनुवादोऽत्र निषेधगीः
ज्योतिष्टोमे (''षडुपसद उपसद्यन्ते'' इति) विहितासूपसत्सु पठ्यते ''अप्रयाजास्ता अननुयाजाः'' इति। तत्र निषेधात्प्रयाजानुयाजान्वर्जयित्वाऽवशिष्टं चोदकप्राप्तमङ्गजातं सर्वमाचरणीयम्। इति प्राप्ते-
4 सिद्धान्तः नैतद्युक्तम् चोदकप्राप्तस्याघारस्य कारणमन्तरेणाकस्मादभावशङ्काया अयुक्तत्वात् तस्मात्- परिसंख्यार्थ एव पुनर्विधिः आहुत्यन्तरनिन्दा तु तच्छेषभूतोऽर्थवादः यदि 'परिसंख्या त्रिदोषा' इत्युच्येत, तर्हि गृहमेधीयवदपूर्वं कर्मास्तु प्रयाजादिनिषेधो नित्यानुवादः सर्वथा यावदुक्तमत्रानुष्ठेयम्। 24
ब्रूमः- प्रकृतौ विहित एवाघारः पुनरिह विधीयते। स च चोदकप्राप्तमन्यत्सर्वमङ्गजातं परिसंचष्टे। अन्यथा पुनर्विधानवैयर्थ्यात्। ननु पुनर्विधानं प्रतिप्रसवार्थम्। अत एव श्रुतिस्तत्र स्रौवाघारमभावशङ्कानिराकरणपूर्वकं विदधाति ''नान्यामाहुतिं पुरस्ताज्जुहुयात्, यदन्यामाहुतिं पुरस्ताज्जुहुयादन्यन्मुखं कुर्यात्, स्रुवेणाघारमाघारयति'' इति। अयमर्थः- 'स्रौवाघारः सर्वत्र यज्ञमुखम्। तथा सति यदि कश्चिन्मन्द उपसत्प्रयोगादौ स्रौवाघारमहुत्वा तस्य स्थाने कांचिदन्यामाहुतिं जुहुयात्, तदा मुखव्यत्यासेन प्रत्यवायं प्राप्नुयात्। स्रौव एवाघर आदौ कर्तव्यः' इति।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- प्रायणीयातिथ्ययोः पूर्वाभ्यामेव शंय्विडाभ्यां संस्थाधिकरणे सूत्राणि 40-42”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “निषेधोऽयं नित्यानुवादः- इत्युक्तम् स च पूर्वयोः शंय्विडयोरन्तत्वेऽप्येकवाक्यतामापाद्या-र्थवादत्वेनोपपद्यते संजातविरोधिन्यौ हि पूर्वे शंय्विडे तस्मात्- ते एव ग्राह्ये इति राद्धान्तः। 22”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.15
पञ्चदशे- अवभृथेऽपूर्वकर्मताधिकरणे सूत्राणि 47-50
SŪ अवभृथे बर्हिषः प्रतिषेधाच्छेषकर्म स्यात्।। 47।।
SŪ आज्यभागयोर्वागुणत्वाच्छेषप्रतिषेधः स्यात्।। 48।।
SŪ प्रयाजानां त्वेकदेशप्रतिषेधाद्वाक्यशेषत्वम्, तस्मान्नित्यानुवादः स्यात्।। 49।।
SŪ आज्यभागयोर्ग्रहणं नित्यानुवादो गृहमेधीयवत्स्यात्।। 50।।
पञ्चदशाधिकरणमारचयति-
1 विषयः किं स्यादवभृथे बर्हिर्वर्जं सर्वमुताचरेत् यावदुक्तं प्रयाजानुयाजबर्हिर्निषेधतः
3 पूर्वपक्षः आद्योऽप्सुमन्तावित्याज्यभागोक्त्या परिसंख्यया अन्येनात्र गुणाप्राप्तेरपूर्वत्वेन वाऽन्तिमः
ज्योतिष्टोमगतेऽवभृथे चतुर्थप्रयाजप्रथमानुयाजरूपौ बर्हिर्यागौ वर्जयित्वा शिष्टं चोदकप्राप्तं सर्वमनुष्ठेयम्। कुतः- ''अपबर्हिषः प्रयाजान्यजति, अपबर्हिषावनुयाजौ यजति'' इति बर्हिर्यागद्वयमात्रवर्जनावगमात्। इति प्राप्ते-
4 सिद्धान्तः मैवम् लिङ्गक्रमाभ्यामेव मन्त्रयोः प्राप्तत्वात् अतः परिसंख्यया गृहमेधीयवदुपसद्वदपूर्वकर्मत्वेन वा यावदुक्तमेवानुष्ठेयम्। 26
ब्रूमः- ''अप्सुमन्तावाज्यभागौ यजति'' इति परिसंख्यानादुक्तमेवानुष्ठेयम्। अथोच्येत-चोदकप्राप्तावाज्यभागावनूद्याप्सु शब्दोपेतमन्त्रद्वयरूपस्य गुणस्यात्र विधानान्न परिसंख्या- इति।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- उपसदामपूर्वार्थत्वाधिकरणे सूत्राणि 43-46”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नैतद्युक्तम् चोदकप्राप्तस्याघारस्य कारणमन्तरेणाकस्मादभावशङ्काया अयुक्तत्वात् तस्मात्- परिसंख्यार्थ एव पुनर्विधिः आहुत्यन्तरनिन्दा तु तच्छेषभूतोऽर्थवादः यदि 'परिसंख्या त्रिदोषा' इत्युच्येत, तर्हि गृहमेधीयवदपूर्वं कर्मास्तु प्रयाजादिनिषेधो नित्यानुवादः सर्वथा यावदुक्तमत्रानुष्ठेयम्। 24”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.16
षोडशे- वाजपेयादौ यूपादीनां खादिरत्वादिनियमाधिकरणे सूत्राणि 51-57
SŪ विरोधिनामेकश्रुतौ नियमः स्याद्ग्रहणस्यार्थवत्त्वाच्छरवच्च श्रुतितो विशिष्टत्वात्।। 51।।
SŪ उभयप्रदेशान्नेति चेत्।। 52।।
SŪ शरेष्वपीति चेत्।। 53।।
SŪ विरोध्यग्रहणात्तथा शरेष्विति चेत्।। 54।।
SŪ तथेतरस्मिन्।। 55।।
SŪ श्रुत्यानर्थक्यमिति चेत्।। 56।।
SŪ ग्रहणस्यार्थवत्त्वादुभयोरप्रतिपत्तिः स्यात्।। 57।।
षोडशाधिकरणमारचयति-
1 विषयः बृहद्यवः खादिरश्च विकल्प्या नियता उत
3 पूर्वपक्षः विकल्प्याश्चोदकप्राप्तेर्नियताः स्युः पुनर्विधेः
क्वचिद्विकृतौ श्रूयते ''बृहत्पृष्ठं भवति'' इति। त्रैधातवीये श्रूयते ''यवमयोमध्यमः'' इति। वाजपेये श्रूयते ''खादिरो यूपो भवति'' इति। तत्र बृहद्रथंतरयोः, व्रीहिवयवयोः, खादिरबैल्वादीनां च प्रकृतौ विकल्पितत्वादत्रापि चोदकेन विकल्पिताः। इति चेत्-
4 सिद्धान्तः न पुनर्विधानवैयर्थ्यात् परिसंख्या तु दुष्टत्वान्न शङ्क्या तस्मात्- नियताः कोट्यन्तरं त्वर्थान्निवर्तते
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- अवभृथेऽपूर्वकर्मताधिकरणे सूत्राणि 47-50”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् लिङ्गक्रमाभ्यामेव मन्त्रयोः प्राप्तत्वात् अतः परिसंख्यया गृहमेधीयवदुपसद्वदपूर्वकर्मत्वेन वा यावदुक्तमेवानुष्ठेयम्। 26”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.17
सप्तदशे- काम्येष्टिषु प्राकृतद्रव्यदैवतस्य निवृत्त्यधिकरणे सूत्राणि 58-60
SŪ सर्वासां च गुणानामर्थवत्त्वाद्ग्रहणमप्रवृत्ते स्यात्।। 58।।
SŪ अधिकं स्यादिति चेत्।। 59।।
SŪ नार्थाभावात्।। 60।।
सप्तदशाधिकरणमारचयति-
1 विषयः काम्येष्टिषु द्रव्यदेवं प्राकृतं न निवर्तते
3 पूर्वपक्षः निवर्तते वा न प्राप्तेर्विकल्पो वा समुच्चयः
''ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः'' इत्यादिषु प्राकृतयोरग्निदेवताष्टाकपालद्रव्ययोर्नास्ति निवृत्तिः। कुतः- चोदकेन प्राप्तत्वात्। श्रुतयोरतिदिष्टयोश्च द्रव्यदेवतायोर्विकल्पः समुच्चयो वा स्वेच्छया कार्यः। इति प्राप्ते-
4 सिद्धान्तः उत्पत्तिशिष्टेनैवात्र निराकाङ्क्षत्वतः कुतः चोदकः शिष्ट एवास्य विषयोऽर्थोन्निवर्तते
ब्रूमः- उत्पन्नस्य यागस्येतिकर्तव्यताकाङ्क्षायां पश्चाच्चोदकस्यावसरः। इह तूत्पत्तिशिष्टाभ्यां द्रव्यदेवताभ्यां यागस्य तद्विषयाकाङ्क्षानिवृत्तेर्न तत्र चोदकस्यावकाशोऽस्ति। ननु सकृद्व्यापृतश्चोदकः क्वचित्प्रवर्तते, क्वचिन्निवर्तते, इत्येतन्न संभवति- इति चेत्- मा भूत्तत्संभवः। न वयं तन्निवृत्तिं ब्रूमः, किंतु श्रुताभ्यां द्रव्यदेवताभ्यामन्य एवाङ्गकलापश्चोदकस्य विषयः। ततः प्राकृतयोर्द्रव्यदेवतयोरप्राप्तत्वादेव फलतो निवृत्तिं ब्रूमः। तस्मात्- दूरापेतौ विकल्पसमुच्चयौ।। 29।। 30।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- वाजपेयादौ यूपादीनां खादिरत्वादिनियमाधिकरणे सूत्राणि 51-57”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न पुनर्विधानवैयर्थ्यात् परिसंख्या तु दुष्टत्वान्न शङ्क्या तस्मात्- नियताः कोट्यन्तरं त्वर्थान्निवर्तते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.18
अष्टादशे- सौमापौष्णपशौ खादिरयूपस्य नियमाधिकरणे सूत्राणि 61-63
SŪ तथैकार्थविकारे प्राकृतस्याप्रवृत्तिः, प्रवृत्तौ हि विकल्पः स्यात्।। 61।।
SŪ यावच्छ्रुतीति चेत्।। 62।।
SŪ न प्रकृतावशब्दत्वात्।। 63।।
अष्टादशाधिकरणमारचयति-
1 विषयः औदुम्बरः खादिरेण समुच्चेयोऽथ बाधकः
3 पूर्वपक्षः द्वयोर्नियोजनादाद्यो निरपेक्षत्वतोऽन्तिमः
पशुकामेनानुष्ठेये सौमापौष्णे पशौ श्रूयते ''औदुम्बरो यूपो भवति'' इति। तत्र चोदकप्राप्तेन खादिरेण सह श्रूयमाणस्यौदुम्बरस्य समुच्चयः कार्यः। कुतः- द्वयोर्यूपयोः पशुनियोजनसंभवेन चोदकपरित्यागायोगात्। इति प्राप्ते
4 सिद्धान्तः ब्रूमः- खादिरौदुम्बरौ परस्परनिरपेक्षतया पशुनियोजनक्षमौ प्रमाणद्वयबलेन प्राप्तौ तयोः समुच्चयाङ्गीकारे नैरपेक्ष्यं परित्यज्येत तस्मात्- उपदिष्ट औदुम्बरोऽतिदिष्टस्य बाधकः
-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे- काम्येष्टिषु प्राकृतद्रव्यदैवतस्य निवृत्त्यधिकरणे सूत्राणि 58-60”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उत्पत्तिशिष्टेनैवात्र निराकाङ्क्षत्वतः कुतः चोदकः शिष्ट एवास्य विषयोऽर्थोन्निवर्तते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.19
एकोनविंशे- ब्रह्मवर्चसकामैर्व्रीहिभिरेव यागाधिकरणे सूत्राणि 64-71
SŪ विकृतौ त्वनियमः स्यात्पृषदाज्यवद्ग्रहणस्य गुणार्थत्वात्, उभयोश्च प्रदिष्टत्वाद्गुणशास्त्रं यदेति स्यात्।। 64।।
SŪ ऐकार्थ्याद्वा नियम्येत श्रुतितो विशिष्टत्वात्।। 65।।
SŪ विरोधित्वाच्च लोकवत्।। 66।।
SŪ क्रतोश्च तद्गुणत्वात्।। 67।।
SŪ विरोधिनां च तच्छ्रुतावशब्दत्वाद्विकल्पः स्यात्।। 68।।
SŪ पृषदाज्ये समुच्चयाद्ग्रहणस्य गुणार्थत्वम्।। 69।।
SŪ यद्यपि चतुरवत्तीति तु नियमे नोपपद्यते।। 70।।
SŪ ऋत्वन्तरे वा तन्न्यायत्वात्कर्मभेदात्।। 71।।
एकोनविंशाधिकरणमारचयति-
1 विषयः किं शुक्ला व्रीहयः पक्षे चोदकप्रापितान्यवान् न बाधन्तेऽथ बाधन्ते गुणार्थोक्तिरतोऽग्रिमः
3 पूर्वपक्षः वाक्यभेदो यागशुक्लगुणयोर्विधितो भवेत् विशिष्टस्य विधौ कार्यमेकं वा बाधकास्ततः
''सौमारौद्रं चरुं निर्वपेच्छ्रुक्लानां व्रीहीणां ब्रह्मवर्चसकामः'' इत्यत्र चोदकप्राप्तो व्रीहियवविकल्पो न बाध्यः। कुतः- प्रत्यक्षस्य व्रीहिवाक्यस्यातिदिष्टपाक्षिकव्रीह्यनुवादेन शुक्लगुणविधानार्थत्वे सति बाधमन्तरेणोपपन्नत्वात्। इति प्राप्ते
4 सिद्धान्तः ब्रूमः- यागस्तावदप्राप्तत्वाद्विधेयः तत्र गुणोऽपि यदि पृथग्विधीयते तदा वाक्यं भिद्येत ततः शुक्लव्रीहिद्रव्यविशिष्टो यागोऽत्र विधीयते तथा सत्यतिदिष्टव्रीहियवयोर्यत्कार्यं तदेवोपदिश्यमानशुक्लव्रीहीणां कार्यम् ततस्ते व्रीहयः पाक्षिकान्यवान्बाधन्ते। 32
-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे- सौमापौष्णपशौ खादिरयूपस्य नियमाधिकरणे सूत्राणि 61-63”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- खादिरौदुम्बरौ परस्परनिरपेक्षतया पशुनियोजनक्षमौ प्रमाणद्वयबलेन प्राप्तौ तयोः समुच्चयाङ्गीकारे नैरपेक्ष्यं परित्यज्येत तस्मात्- उपदिष्ट औदुम्बरोऽतिदिष्टस्य बाधकः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.20
विंशे- पञ्चावदानतायाः सर्वाङ्गसाधारणताधिकरणे सूत्रे 72-73
SŪ यथाश्रुतीति चेत्।। 72।।
SŪ न चोदनैकत्वात्।। 73।।
विंशाधिकरणमारचयति-
1 विषयः वपायामेव किंवाऽन्येष्वपि पञ्चावदानता वपोद्देशादाद्यपक्षोऽवदानोद्देशतोऽन्तिमः
3 पूर्वपक्षः ब्रूमः- अवदानस्य चोदकप्राप्तत्वेन विधेयत्वाभावादवदानमुद्दिश्य विधीयमाना संख्याऽवदानयुक्तेष्वन्येष्वपि पश्ववयवेषु भवति इति राद्धान्तः
पशौ श्रूयते ''यद्यपि चतुरवत्ती यजमानः, पञ्चावत्तैव वपा कार्या'' इति। यजमानविशेषस्य चतुरवत्तित्वं गोत्रभेदेन स्मृतिकारैः पठ्यते- जामदग्न्या वत्सबिदा वार्ष्टिषेणाश्च ते त्रयः। पञ्चावत्तिन एवान्ये सर्वे चतुरवत्तिनः।। इति। सर्वेषां यजमानानां गोत्रविशेषमपोद्य श्रूयमाणमिदं पञ्चावत्तित्वं वपामुद्दिश्य विधानाद्वपायामेव। इति प्राप्ते
4 सिद्धान्तः - इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे दशमाध्यायस्य सप्तमः पादः अत्र पादे- अधिकरणानि 20, सूत्राणि 73। आदितः- अधिकरणानि 756, सूत्राणि 2159। दशमाध्यायस्याष्टमः पादः ''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो नञर्थविचारः। एकादशोध्याये प्रथमः पादः तन्त्रस्योपोद्घातो वर्णितः।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- ब्रह्मवर्चसकामैर्व्रीहिभिरेव यागाधिकरणे सूत्राणि 64-71”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- यागस्तावदप्राप्तत्वाद्विधेयः तत्र गुणोऽपि यदि पृथग्विधीयते तदा वाक्यं भिद्येत ततः शुक्लव्रीहिद्रव्यविशिष्टो यागोऽत्र विधीयते तथा सत्यतिदिष्टव्रीहियवयोर्यत्कार्यं तदेवोपदिश्यमानशुक्लव्रीहीणां कार्यम् ततस्ते व्रीहयः पाक्षिकान्यवान्बाधन्ते। 32”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.7.21
प्रथमे- प्रदेशानारभ्यविधानयोर्निषेधस्य पर्युदासताधिकरणे सूत्राणि 1-4
SŪ प्रतिषेधः प्रदेशेऽनारभ्यविधाने च, प्राप्तप्रतिषिद्धत्वाद्विकल्पः स्यात्।। 1।।
SŪ अर्थप्राप्तवदिति चेत्।। 2।।
SŪ न तुल्यहेतुत्वादुभयं शब्दलक्षणम्।। 3।।
SŪ अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्।। 4।।
अष्टमपादस्य प्रथमाधिकरणमारचयति-
1 विषयः नार्षेयं न च होतारं नानुयाजेष्वितीदृशे
3 पूर्वपक्षः विकल्पः पर्युदासो वा स्यादाद्यो वचनद्वयात्
महापितृयज्ञे चोदकप्राप्तं वरणं प्रति श्रूयते ''नार्षेयं वृणीते, न होतारम्'' इति। तथाऽनारभ्यवादः श्रूयते ''आश्रावयेति चतुरक्षरम्, अस्तु श्रौषडिति चतुरक्षरम्, यजेति द्व्यक्षरम्, ये यजामह इति पञ्चाक्षरम्, अस्तु श्रौषडिति चतुरक्षरम्, यजेति द्व्यक्षरम्, ये यजामह इति पञ्चाक्षरम्, द्व्यक्षरो वषट्कारः, एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तः'' इति। तत्रोक्तम्- ''नानुयाजेषु ये यजामहं करोति'' इति। तत्र वरणस्य विधिप्रतिषेधौ चोदकप्रत्यक्षवचनाभ्यां प्रतीयेते। 'ये यजामहे' इति मन्त्रस्य तु द्वाभ्यां प्रत्यक्षवचनाभ्यां विधिप्रतिषेधप्रतीतिः। तत्र विधायकप्रतिषेधकयोर्द्वयोः प्रमाणयोरवैयर्थ्यार्थं विकल्पः। इति प्राप्ते-
4 सिद्धान्तः अन्याय्यत्वाद्विकल्पस्य विध्यंशः सा निषेधगीः तेनानुयाजवाक्यस्थस्तदर्थं पर्युदस्यति
ब्रूमः- अष्टदोषग्रस्तत्वाद्विकल्पो न न्याय्यः। ननु परस्परविरुद्धयोर्विधिप्रतिषेधयोः समुच्चयस्याप्यभावात्का गतिरत्र- इति चेत्- उच्यते। निषेधत्वेन प्रतीयमानमिदं 'न' इत्यनेन शब्देनोपेतं वाक्यं विधिवाक्यस्यांशो भविष्यति। तथा हि- यदि 'न' इत्ययं शब्दः करोतिना संबध्यते, तदा 'ये यजामहं न करोति' इत्येवं प्रतिषेधः स्यात्। यदि च 'वृणीते' इत्याख्यातप्रत्ययेन संबध्यते, तदा 'वरणं न कर्तव्यम्' इति निषिध्येत। न त्वेवं संबध्यते, किंत्वनुयाजपदेन वृञ्धातुना च संबध्यते। तथा सति- 'अनुयाजव्यतिरिक्तेषु यागेषु ये यजामहः कर्तव्यः' 'वरणव्यतिरिक्तमङ्गजातमनुष्ठेयम्' इति ये यजामहवरणपर्युदासेन विधेरेव विशेषितत्वे सति प्रतिषेधवाक्यस्य कस्यचिदभावान्न विकल्पः शङ्कितुमपि शक्यः।। 1।। 2।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे- पञ्चावदानतायाः सर्वाङ्गसाधारणताधिकरणे सूत्रे 72-73”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
Set from the transmitted text; four limbs are the source, the fifth is inferred and marked.
Sanātana Guru Sampradāya Pratiṣṭhānam, Mysore · sarvaveda.info