SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 10, Pāda 5

बाधः

षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः

26adhikaraṇas
88sūtras
10.5.1 प्रथमे- एकदेशग्रहणे प्राथमिकानामेव ग्रहणाधिकरणे सूत्राणि 1-6
आनुपूर्व्येवतामेकदेशग्रहणेष्वागमवदन्त्यलोपः स्यात्।। 1।।
लिङ्गदर्शनाच्च।। 2।।
विकल्पो वा समत्वात्।। 3।।
क्रमादुपजनोऽन्ते स्यात्।। 4।।
लिङ्गमविशिष्टं संख्याया हि तद्वचनम्।। 5।।
आदितो वा प्रवृत्तिः स्यादारम्भस्य तदादित्वाद्वचनादन्त्यविधिः स्यात्।। 6।।
पञ्चमपादस्य प्रथमाधिकरणमारचयति-

1विषयः

प्राकृतानामेकदेशे कोऽपि स्यादाद्य एव वा
अविशेषेण कोऽप्याद्यः पूर्वेणास्यैव बोधनात्

3पूर्वपक्षः

प्रकृतौ 'आग्नेयमष्टाकपालम्' इत्यष्टसंख्याकानि कपालानि विहितानि। विकृतिषु ''द्यावापृथिव्यमेककपालम, आश्विनं द्विकपालकम्, वैष्णवं त्रिकपालम्'' इत्यादिष्वष्टानामेकदेशः। तत्र- आद्यो मध्यमोऽन्त्यो वा यः कोऽप्येकदेश इच्छया स्वीकार्यः, उत- आद्य एवैकदेशः। नियामकाभावात्- यः कोऽपि। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- 'आचतुर्थात्कर्मणोऽभिसमीक्षेत- इदं करिष्यामि, इदं करिष्यामि' इत्युक्तत्वादनुक्रमेण स्मृत्वाऽनुष्ठेयानि। तत्र प्राकृतोऽनुक्रम एवंविधः- उपवेशनामकेन काष्ठविशेषेण प्रथममङ्गारविशेषं सम्यगवस्थाप्य ''ध्रुवमसि'' इति मन्त्रेण तस्मिन्नङ्गारे पुरोडाशकपालमुपदधाति। सोऽयमनुक्रमश्चोदकप्राप्तस्यैव स्मर्यते। तत्राङ्गारावस्थापनेन पूर्वपदार्थेनानन्तरभावि प्रथमकपालोपधानमेव बुद्धावुपस्थाप्यते। तेन च द्वितीयम्। न च प्रथमद्वितीययोर्विशेषाभावः, द्वितीयस्य हि ''धर्त्रमसि'' इति मन्त्रः प्राचीनदेशश्च विशिष्यते। सत्येवं क्रमनियमे प्रतीतपरित्यागाप्रतीतस्वीकारयोरयुक्तत्वादाद्य एवैकदेशः स्वीकार्यः। अवशिष्टस्तु प्रयोजनाभावाल्लुप्यते। ''एकां सामिधेनीमन्वाह'' इत्यस्मिन्पञ्चदशसामिधेन्येकदेशे, द्विरात्रत्रिरात्रादिषु द्वादशाहैकदेशेषु च, अयमेव न्यायो योज्यः।। 1।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तविंशे- चातुर्मास्येष्वाज्यशब्दस्याविकारेणावाहनाधिकरणे सूत्राणि 50-59”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.2 द्वितीये- एकत्रिक आद्ये तृचे गानाधिकरणे सूत्राणि 7-9
एकत्रिके तृचादिषु माध्यंदिने छन्दसां श्रुतिभूतत्वात्।। 7।।
आदितो वा तन्न्यायत्वादितरस्यानुमानिकत्वात्।। 8।।
यथानिवेशं च प्रकृतिवत्संख्यामात्रविकारत्वात्।। 9।।
द्वितीयाधिकरणमारचयति-

1विषयः

तृचाद्यासु तृचे वाद्ये तिसृष्वित्युच्यतेऽग्रिमः
त्रिच्छन्दस्त्वात्प्राकृतं तत्क्रमादत्र तृचोऽखिलः

2संशयः

एवं सति 'एकत्रिकस्य माध्यंदिने तिसृषु' इति यदुक्तम्, तत्र त्रयाणां तृचानामाद्यास्तिस्त्र ऋचो ग्राह्याः, किंवा प्रथमतृचस्थाः क्रमाम्नातास्तिस्त्रः, इति संशयः।

3पूर्वपक्षः

तत्र त्रिच्छन्दस्त्वश्रुत्या प्रबलया दुर्बलं पाठक्रमं बाधित्वा प्रथमपक्षो ग्राह्यः। इति प्राप्ते

4सिद्धान्तः

-
अभिधीयते- यदेतत्त्रिच्छन्दस्त्वम्, तदतेत्प्राकृतम्, तत्र च्छन्दस्त्रयोपेतस्य तृचत्रयस्योपदिष्टत्वात्। विकृतावपि तत्सर्वमतिदिष्टमिति चेत्- बाढम्। अत एव पाठक्रमोऽप्यतिदिष्टः। तथा सति प्रकान्तगायत्रीछन्दस्कस्य तृचस्य समाप्तौ सत्यां पश्चाद्बृहतीछन्दस्के तृचे प्रथमायाः प्रारम्भावसरः। स चारम्भः 'तिसृषु' इति विशेषविधानेन बाध्यते। तस्मात्- आद्यस्तृचो निखिलो ग्राह्यः।। 2।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- एकदेशग्रहणे प्राथमिकानामेव ग्रहणाधिकरणे सूत्राणि 1-6”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.3 तृतीये- एकस्यामृचि धूर्गानाधिकरणे सूत्रे 10-11
त्रिकस्तृचे धुर्ये स्यात्।। 10।।
एकस्यां वा स्तोमस्यावृत्तिधर्मत्वात्।। 11।।
तृतीयाधिकरणमारचयति-

1विषयः

तृचे स्यादृचि वैकस्यां धूर्गानं प्रकृताविव

2संशयः

एकत्रिक एव क्रतौ व्यतिषङ्गेणैकस्यां तिसृषु च स्तोत्रेषु संपाद्यमानेषु यद्धूर्गानम्, तत्किं तृचे स्यात्, उत एकस्यामृचि, इति संशयः।

3पूर्वपक्षः

तृचे भवेदिहैकस्यां श्रुत्यावृत्तिविधानतः
तत्र चोदकेन तृचे भवेत्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- इहैकत्रिकक्रतावेकस्यामृचि धूर्गानं भवेत्
कुतः- 'आवृत्तं धूर्षु स्तुवते' इत्यावृत्तिविधानात्
ननु तृचे गीतेऽपि साम्नस्त्रिरावृत्तिर्भवेत्

आवृत्तेः स्तुतिविशेषणत्वात्
गुणसंकीर्तनपरः पदसमूहः स्तुतिः
तच्चर्गावृत्तिं विना तिसृप्वृक्षु न सिध्यति
तस्मात्- एकस्यां धूर्गानम्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- एकत्रिक आद्ये तृचे गानाधिकरणे सूत्राणि 7-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.4 चतुर्थे- द्विरात्रादिषु दशरात्रस्य विध्यन्तानुष्ठानाधिकरणे सूत्रे 12-13
चोदनासु त्वपूर्वत्वाल्लिङ्गेन धर्मनियमः स्यात्।। 12।।
प्राप्तिस्तु रात्रिशब्दसंबन्धात्।। 13।।
चतुर्थाधिकरणमारचयति-

1विषयः

द्विरात्रादौ द्वादशाहप्रायणीयादिकः क्रमः

2संशयः

तेषु किं द्वादशाहस्य प्रथममहः प्रायणीयसंज्ञमारभ्य क्रमेण विध्यन्तः प्रवर्तते, किंवा प्रायणीयोदयनीयावाद्यन्तौ वर्जयित्वा तन्मध्यगस्य दशरात्रस्य विध्यन्तः प्रवर्तते, इति संशयः।

3पूर्वपक्षः

आद्यन्तौ वर्जयित्वा वा विशेषाभावतोऽग्रिमः
'ईदृशमहरुपादेयम्, ईदृशं वर्जनीयम्' इति विशेषनियामकाभावादादित आरभ्य प्रवर्तते। इति पूर्वः पक्षः।
द्विरात्रप्रकरण एवमाम्नायते ''यत्प्रथमं तद्द्वितीयम्, यद्द्वितीयं तत्तृतीयम्'' इति। अयमर्थः- 'यद्द्विरात्रस्य प्रथममहरनुष्ठेयम्, तद्द्वादशाहस्य द्वितीयम्' इति। एवमुत्तरत्रापि योज्यम्। तदेतत्प्रायणीयवर्जने लिङ्गम्। तथा 'जगतीमन्तर्गच्छति' इति जागतस्याह्नोऽन्तराय आम्नायते। तच्चोदयनीयवर्जने लिङ्गम्। एवमादिभिर्लिङ्गैरुभयं वर्जयित्वाऽवशिष्टस्य विध्यन्तो यत्र यावानपेक्षितः, तत्र तावान्प्रवर्तते- इत्यवगन्तव्यम्।। 4।। 5।।

4सिद्धान्तः

द्वादशाहे द्वितीयस्य त्रिरात्रे प्रथमत्वतः
जागतस्यान्तरायाच्च विध्यन्तो दशरात्रगः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- एकस्यामृचि धूर्गानाधिकरणे सूत्रे 10-11”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- इहैकत्रिकक्रतावेकस्यामृचि धूर्गानं भवेत् कुतः- 'आवृत्तं धूर्षु स्तुवते' इत्यावृत्तिविधानात् ननु तृचे गीतेऽपि साम्नस्त्रिरावृत्तिर्भवेत् न आवृत्तेः स्तुतिविशेषणत्वात् गुणसंकीर्तनपरः पदसमूहः स्तुतिः तच्चर्गावृत्तिं विना तिसृप्वृक्षु न सिध्यति तस्मात्- एकस्यां धूर्गानम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.5 पञ्चमो- अग्नौ धूननाद्यर्थानां मन्त्राणामनियमेनोपादानाधिकरणे सूत्रम्
अपूर्वासु तु संख्यासु विकल्पः स्यात्सर्वासामर्थवत्त्वात्।। 14।।
पञ्चमाधिकरणमारचयति-

1विषयः

धूनने वपने चाग्नौ सप्त चोक्ताश्चतुर्दश
किमाद्यारम्भनियमः किंवारम्भो निजेच्छया

3पूर्वपक्षः

कपालवत्क्रमः प्राप्तः केचित्प्रकरणोचिताः
व्यर्थाः स्युस्तेन मन्त्राणामारम्भोऽत्र विकल्पितः
अग्निचयने मन्त्रा आधूननार्था वपनार्थाश्च बहवः पठिताः। प्रयोगे तु तदेकदेशसंख्याविहिताः 'सप्तभिराधूनोति, चतुर्दशभिर्वपति' इति। तत्र प्रथमाधिकरणोक्तकपालसामिधेन्यादिन्यायेन प्रथमपठितस्यैव मन्त्रस्योपक्रमः प्राप्नोति।

4सिद्धान्तः

तदयुक्तम्
कुतः- यथोक्तसंख्यातिरिक्तानां प्रकरणपठितमन्त्राणां वैयर्थ्यप्रसङ्गात्
प्रकरणेन क्रमं बाधित्वा निजेच्छया प्रथमतो मध्यतोऽन्ततश्चोपक्रम्य विहितसंख्या पूरणीया।
6

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- द्विरात्रादिषु दशरात्रस्य विध्यन्तानुष्ठानाधिकरणे सूत्रे 12-13”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “द्वादशाहे द्वितीयस्य त्रिरात्रे प्रथमत्वतः जागतस्यान्तरायाच्च विध्यन्तो दशरात्रगः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.6 षष्ठे- विवृद्धस्तोमकेऽप्राकृतानां साम्नामागमाधिकरणे सूत्राणि 15-25
सोमविवृद्धौ प्राकृतानामभ्यासेन संख्यापूरणमविकारात्संख्यायां गुणशब्दत्वादन्यस्य चाश्रुतित्वात्।। 15।।
आगमेन वाऽभ्यासस्याश्रुतित्वात्।। 16।।
संख्यायाश्च पृथक्त्वनिवेशात्।। 17।।
पराक्शब्दत्वात्।। 18।।
उक्ताविकाराच्च।। 19।।
अश्रुतित्वान्नेति चेत्।। 20।।
स्यादर्थचोदितानां परिमाणशास्त्रम्।। 21।।
आवापवचनं चाभ्यासे नोपपद्यते।। 22।।
साम्नां चोत्पत्तिसामर्थ्यात्।। 23।।
धुर्येष्वपीति चेत्।। 24।।
नावृत्तिधर्मत्वात्।। 25।।
षष्ठाधिकरणमारचयति-

1विषयः

स्तोमवृद्धिः किमभ्यासादागमाद्वाऽग्रिमो यतः
तत्कल्प्यमश्रुतं मैवं संख्यावापादिलिङ्गतः

2संशयः

तेषु किं प्राकृतानां साम्नामभ्यासाद्वृद्धिर्भवति, किंवा सामान्तरागमात्, इति संशयः।

3पूर्वपक्षः

अश्रुतस्य सामगानस्य कल्पयितुमशक्यत्वादभ्यासाद्वृद्धिः। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- अभ्यासोऽपि न साक्षाच्छ्रुतः। किंत्वेकविंशादिसंख्यापूरणाय कल्प्यते। संख्या च द्रव्यगता भिन्नद्रव्यैरेव पूर्यते, न त्वेकद्रव्यावृत्त्या। न हि- अष्टकृत्व एकं घटमानीय 'मद्गृहे सन्त्यष्टौ घटाः' इति व्यवहरन्ति। ततः स्तोमावयवगता संख्या तदवयवभूतानां साम्नां पदार्थानां भेदं गमयति। स च भेदः सामान्तरागमे लिङ्गम्। ''अत्र ह्येवावपन्ति'' इत्यावापोद्देशेन देशविशेषविधिरपरं लिङ्गम्। सामान्तरोत्पत्त्यर्थत्वमन्यल्लिङ्गम्। तस्मात्- आगमेन वृद्धिः।। 8।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमो- अग्नौ धूननाद्यर्थानां मन्त्राणामनियमेनोपादानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तदयुक्तम् कुतः- यथोक्तसंख्यातिरिक्तानां प्रकरणपठितमन्त्राणां वैयर्थ्यप्रसङ्गात् प्रकरणेन क्रमं बाधित्वा निजेच्छया प्रथमतो मध्यतोऽन्ततश्चोपक्रम्य विहितसंख्या पूरणीया। 6”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.7 सप्तमे- बहिष्पवमान ऋगागमाधिकरणे सूत्रम्
वहिष्पवमाने तु ऋगागमः सामैकत्वात्।। 26।।
सप्तमाधिकरणमारचयति-

1विषयः

किं बहिष्पवमानर्धौ साम्नर्चा वाऽभिपूरणम्

3पूर्वपक्षः

साम्ना पूर्वोक्तितो मैवं सामैकत्वपराक्श्रुतेः
प्रकृतौ प्रातःसवने बहिष्पवमानस्याविवृद्धस्तोमः। तस्य विकृतिषु वृद्धौ सत्यां पूर्वोक्तरीत्या सामान्तरागमे प्राप्ते-

4सिद्धान्तः

ब्रूमः 'एकं हि तत्र साम' इति बहिष्पवमानं प्रकृत्य सामैकत्वमाम्नायते
अतो न सामान्तरागमः संभवति
एवं तर्ह्यभ्यासेन संख्यापूरणमस्तु- इति न वाच्यम्
'पराग्बहिष्पवमानेन स्तुवन्ति' इति पराक्शब्देनाभ्यासप्रतिषेधात्
तस्मात्- ऋगागमः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- विवृद्धस्तोमकेऽप्राकृतानां साम्नामागमाधिकरणे सूत्राणि 15-25”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.8 अष्टमे- सामिधेनीष्ववशिष्टानामागमेन संख्यापूरणाधिकरणे सूत्राणि 27-33
अभ्यासेन तु संख्यापूरणं सामिधेनीष्वभ्यासप्रकृतित्वात्।। 27।।
अविशेषान्नेति चेत्।। 28।।
स्यात्तद्धर्मत्वात्प्रकृतिवदभ्यस्येतासंख्यापूरणात्।। 29।।
यावदुक्तं वा कृतपरिमाणत्वात्।। 30।।
अधिकानां च दर्शनात्।। 31।।
न कर्मस्वपीति चेत्।। 32।।
न चोदितत्वात्।। 33।।
अष्टमाधिकरणमारचयति-

3पूर्वपक्षः

दर्शपूर्णमासयोः पञ्चदश साधिधेनीर्विधाय काम्यासु तदावृत्तिर्विधीयते ''एकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्य'' इत्यादिना । यथा बहिष्पवमान ऋगागमः, तथाऽत्रापि। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- एकादशभिः पठिताभिः पञ्चदशसंख्याया अपूर्तावृगन्तरागमेन तत्पूरणं न कृतम्। किंतु तत्पूरणायाभ्यासो विहितः ''त्रिः प्रथमामन्वाह, त्रिरुत्तमाम्'' इति। अतः काम्यानामप्यभ्यासेन पूरणं युक्तम्। अभ्यासपक्षेऽपि यावत्कृत्वोऽभ्यासे सत्येकविंशतिसंख्या पूर्यते, तावत्कृत्वः प्रथमोत्तमे अभ्यसनीये। कुतः- विहितस्य त्रिरभ्यासस्य पूरणार्थत्वदर्शनात्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- बहिष्पवमान ऋगागमाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः 'एकं हि तत्र साम' इति बहिष्पवमानं प्रकृत्य सामैकत्वमाम्नायते अतो न सामान्तरागमः संभवति एवं तर्ह्यभ्यासेन संख्यापूरणमस्तु- इति न वाच्यम् 'पराग्बहिष्पवमानेन स्तुवन्ति' इति पराक्शब्देनाभ्यासप्रतिषेधात् तस्मात्- ऋगागमः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.9 नवमे- षोडशिनां प्राकृतत्वाधिकरणे सूत्राणि 34-41
षोडशिनो वैकृतत्वं तत्र कृत्स्नविधानात्।। 34।।
प्रकृतौ चाभावदर्शनात्।। 35।।
अयज्ञवचनाञ्च।। 36।।
प्रकृतौ वा शिष्टत्वात्।। 37।।
प्रकृतिदर्शनाच्च।। 38।।
आम्नातं परिसंख्यार्थम्।। 39।।
उक्तमभावदर्शनम्।। 40।।
गुणादयज्ञत्वम्।। 41।।
नवमाधिकरणमारचयति-

1विषयः

विकृतौ प्रकृतौ वा स्यात्षोडश्युत्कर्षतोऽग्रिमः
अविरुद्धेन वाक्येनानुत्कर्षात्प्रकृतावसौ

3पूर्वपक्षः

ज्योतिष्टोमप्रकरणे श्रूयते ''य एवं विद्वान्षोडशिनं गृह्णाति'' इति। सोऽयं षोडशिग्रहो विकृतौ निविशते। कुतः- प्रबलेन वाक्येन तस्य ग्रहस्य प्रकरणादुत्कृष्यमाणत्वात्। ''उत्तरेऽहन्द्विरात्रस्य गृह्यते, मध्यमेऽहंस्त्रिरात्रस्य'' इति हि वाक्यम्। द्विरात्रादीनां च विकृतित्वं प्रसिद्धम्। अतः प्रकरणं बाधित्वा विकृतौ निवेशः। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- ''अग्निष्टोमे राजन्यस्य गृह्णीयात्'' इत्यन्यद्वाक्यमस्ति। तेन प्रकृतिभूतेऽग्निष्टोमे निविशते। न चात्र प्रकरणबाधः। अग्निष्टोमस्य ज्योतिष्टोमावान्तरसंस्थारूपत्वेन ततोऽनन्यत्वात्। न च- एवं सति चोदकेनैव द्विरात्रादिषु प्राप्तत्वात्पुनर्विधिवाक्यं व्यर्थम्- इति शङ्क्यम्। अहर्विशेषसंबन्धाय राजन्यादिनिमित्तनैरपेक्ष्याय वाक्योपपत्तेः। तस्मात्- प्रकृतौ निवेशः।। 13।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- सामिधेनीष्ववशिष्टानामागमेन संख्यापूरणाधिकरणे सूत्राणि 27-33”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.10 दशमे- आग्रयणादेव षोडशिग्रहणाधिकरणे- सूत्रे 42-43
तस्याग्रयणाद्ग्रहणम्।। 42।।
उक्थ्याच्च वचनात्।। 43।।
दशमाधिकरणमारचयति-

1विषयः

उक्थ्याग्रयणतः स स्यात्केवलाग्रयणादुत

3पूर्वपक्षः

आद्य उक्तिद्वयादन्त्य उक्थ्योर्ध्वत्वविधित्वतः
स पूर्वोक्तः षोडशी वचनद्वयबलेनोक्थ्यपात्रादाग्रयणपात्राच्च ग्रहीतव्यः। 'उक्थ्यान्निर्गृह्णाति षोडशिनम्' इत्येकं वाक्यम्। 'आग्रयणाद्गृह्णाति षोडशिनम्' इति द्वितीयं वाक्यम्।

4सिद्धान्तः

अत्रोच्यते- आग्रयणपात्रादेव ग्रहीतव्यः
कुतः- उक्थ्यवाक्यस्योत्तरकालविधिपरत्वात्
'तं पराञ्चमुक्थ्यान्निर्गृह्णाति' इत्यूर्ध्वकालवाचिनः पराक्शब्दस्य प्रयोगात्
अतो नोभयस्माद्ग्रहणम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- षोडशिनां प्राकृतत्वाधिकरणे सूत्राणि 34-41”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.11 एकादशे- तृतीयसवन एव षोडशिग्रहणाधिकरणे सूत्राणि 44-48
तृतीयसवने वचनात्स्यात्।। 44।।
अनभ्यासे पराक्शब्दस्य तादर्थ्यात्।। 45।।
उक्थ्याविच्छेदवचनत्वात्।। 46।।
आग्रयणाद्वा पराक्शब्दस्य देशवाचित्वात्पुनराधेग्यवत्।। 47।।
विच्छेदः स्तोमसामान्यात्।। 48।।
एकादशाधिकरणमारचयति-

1विषयः

सवनेषु तृतीये वा स त्रयोक्त्या भवेत्रिषु
द्वे निन्दित्वा तृतीयस्य विधेस्तत्रैव गृह्यताम्

3पूर्वपक्षः

स पूर्वोक्तः षोडशिग्रहस्त्रिषु सवनेषु भवेत्। कुतः- सवनत्रयस्योक्तत्वात्। षोडशिनं प्रकृत्याम्नायते- ''प्रातःसवने ग्राह्यः, माध्यंदिनसवने ग्राह्यः, तृतीयसवने ग्राह्यः'' इति।
नैतत्। सवनद्वयस्यार्थवादत्वेन तृतीयसवनस्योक्तत्वात्। अत एव वाक्यशेषे सवनद्वयं निन्दित्वा तृतीयसवनं विधीयते ''यत्प्रातःसवने (गृह्णीयात्, वज्र उत्तरे सवने व्यतिरिच्येत, यन्माध्यंदिने मध्यतो वज्रं निहन्यात्'') इत्यादिना सवनद्वये वज्रपातदोषोऽभिहितः। 'तृतीयसवने ग्राह्यः, न सर्वेषु सवनेषु गृह्णाति' इति प्रशंसापूर्वकं विहितम्। तस्मात्- तृतीयसवन एव षोडशिग्रहः।। 15।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- आग्रयणादेव षोडशिग्रहणाधिकरणे- सूत्रे 42-43”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अत्रोच्यते- आग्रयणपात्रादेव ग्रहीतव्यः कुतः- उक्थ्यवाक्यस्योत्तरकालविधिपरत्वात् 'तं पराञ्चमुक्थ्यान्निर्गृह्णाति' इत्यूर्ध्वकालवाचिनः पराक्शब्दस्य प्रयोगात् अतो नोभयस्माद्ग्रहणम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.12 द्वादशे- षोडशिग्रहस्य सस्तोत्रशस्त्रताधिकरणे सूत्राणि 49-52
उक्थ्याग्निष्टोमसंयोगादस्तुतशस्त्रः स्यात्सति हि संस्थान्यत्वम्।। 49।।
सस्तुतशस्त्रो वा तदङ्गत्वात्।। 50।।
लिङ्गदर्शनाच्च।। 51।।
वचनात्संस्थान्यत्वम्।। 52।।
द्वादशाधिकरणमारचयति-

1विषयः

अग्निष्टोमोक्थ्यसंबन्धी षोडश्यस्तुतशस्त्रकः

3पूर्वपक्षः

तद्युक्तो वाऽग्रिमः प्राप्तस्तत्तत्संस्थामबाधितुम्
षोडशिनं प्रकृत्याम्नायते ''अग्निष्टोमे राजन्यस्य गृह्णीयात्, अप्युक्थ्ये ग्राह्यः'' इति। सोऽयमग्निष्टोमोक्थ्यसंस्थयोर्विहितः षोडशिग्रहः स्तुतशस्त्रवर्जितो भवितुमर्हति। अन्यथा तदीयाभ्यां स्तुतशस्त्राभ्यां क्रतुसमाप्तौ षोडशिसंस्थात्वं प्रसज्येत, अग्निष्टोमसंस्थात्वं च बाध्येत। तत्संबन्धिसमाप्त्यभावात्। इति प्राप्ते-

4सिद्धान्तः

स्तोत्रं भवत्येकविंशं हरिवच्छस्यते ततः
इष्यते ह्यन्तसंस्थात्वं स्तुतशस्त्रयुतस्ततः
ब्रूमः- ''एकविंशं स्तोत्रं भवति प्रतिष्ठायै हरिवच्छस्यते'' इति षोडशिनि प्रत्यक्षविधिना स्तुतशस्त्रे विहिते। किंच 'ग्रहं वा गृहीत्वा, चमसं वोन्नीय स्तोत्रमुपाकरोति' इति ग्रहणचमसोन्नयनयोस्तत्र निमित्तत्वं श्रुतम्। न हि सति निमित्ते नैमित्तिकं त्यक्तुं शक्यम्। तस्मात्पूर्वसंस्थात्वहानिमन्यसंस्थात्वं चाभ्युपेत्य स्तुतशस्त्रयुतत्वं द्रष्टव्यम्।। 16।। 17।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- तृतीयसवन एव षोडशिग्रहणाधिकरणे सूत्राणि 44-48”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.13 त्रयोदशे- अङ्गिरसां द्विरात्रे षोडशिनः परिसंख्याधिकरणे सूत्रे 53-54
अभावादतिरात्रेषु गृह्यते।। 53।।
अन्वयो वाऽनारभ्यविधानात्।। 54।।
त्रयोदशाधिकरणमारचयति-

3पूर्वपक्षः

सन्ति बहवो द्विरात्राः। तेष्वङ्गिरसां द्विरात्रे श्रूयते ''वैखानसं पूर्वेऽहन्सामभवति, षोडश्युत्तरे'' इति। सोऽयं षोडश्यप्राप्तः सन्विधीयते। न च चोदकात्प्राप्तिः शङ्क्या, प्रत्यक्षवचनस्य शीघ्रप्रवृत्तेः। चोदको ह्यानुमानिकत्वेन विलम्बते। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- मा भूच्चोदकः। अस्ति ह्यनारभ्याधीतं प्रत्यक्षं विध्यन्तरम्- ''उत्तरेऽहनि द्विरात्रस्य गृह्यते'' इति। तेन सर्वेषु प्राप्तः सन् 'अङ्गिरसां द्विरात्र एव, नान्येषु द्विरात्रेषु' इति परिसंख्यायते। ततः- अङ्गिरसां द्विरात्रेषु नियमेन षोडशी गृह्यते, तदितरेष्वतिरात्रविकृतित्वेनातिदेशाद्विकल्प्यते। तदेतद्वृत्तिकारमतम्।
एतदेवाधिकरणं भाष्यकारमतेनाचरयति-
वृत्तिकारस्य सिद्धान्तरूपा परिसंख्या, सैव भाष्यकृन्मते पूर्वपक्षः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- षोडशिग्रहस्य सस्तोत्रशस्त्रताधिकरणे सूत्राणि 49-52”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “स्तोत्रं भवत्येकविंशं हरिवच्छस्यते ततः इष्यते ह्यन्तसंस्थात्वं स्तुतशस्त्रयुतस्ततः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.14 चतुर्दशे- नानाहीने षोडशिग्रहग्रहणाधिकरणे सूत्राणि 55-57
चतुर्थे चतुर्थेऽहन्यहीनस्य गृह्यत इत्यभ्यासेन प्रतीयेत भोजनवत्।। 55।।
अपि वा संख्यावत्त्वान्नानाहीनेषु गृह्यते पक्षवदेकस्मिन्संख्यार्थभावात्।। 56।।
भोजने तत्संख्यं स्यात्।। 57।।
चतुर्दशाधिकरणमारचयति-

1विषयः

किं चतुर्थेष्वहीनस्य ग्रहो नानागतेषु वा
वीप्सैकवचनाभ्यां स्यादेकस्मिन्नेव स ग्रहः

3पूर्वपक्षः

चतुर्थाष्टमतापत्तेर्नानाहीनेषु स ग्रहः
जात्यैकवचनं वीप्सा न्यायप्राप्तानुवादिनी
षोडशिनं प्रकृत्यामनन्ति ''चतुर्थे चतुर्थेऽहन्यहीनस्य गृह्यते'' इति। सोऽयमेकस्मिन्नेवाहीने प्रथममारभ्य गणिते चतुर्थेऽहनि ग्राह्यः। पुनरपि पञ्चममारभ्य गणिते चतुर्थेऽहनि ग्राह्यः। एवं सति वीप्सा चरितार्था भविष्यति। नानाहीनगतचतुर्थदिवसविवक्षायां 'चतुर्थेऽहनि' इत्येतावतैव तत्सिद्धेर्वीप्साऽनर्थिका। 'अहीनस्य' इत्येकवचनं तु बहुषु नोपपन्नम्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- एकाहीनपक्षे 'चतुर्थे वाऽष्टमे वा' इत्येवमुच्येत
एकवचनं तु नानाहीनपक्षे जात्यभिप्रायम्
वीप्सा बहुप्रदेशगतचतुर्थदिनस्य न्यायप्राप्तं बहुत्वमनुवदति
तस्मात्- नानाहीनेषु चतुर्थे स ग्रहः।
21
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- अङ्गिरसां द्विरात्रे षोडशिनः परिसंख्याधिकरणे सूत्रे 53-54”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.15 पञ्चदशे- वर्णकद्वयविशिष्टेऽधिकरणे सूत्रम्
जगत्साम्नि सामाभावादृक्तः साम तदाख्यं स्यात्।। 58।।
पञ्चदशाधिकरण (स्य विकृतौ ग्रहाणामाग्रयणाग्रतासाधकं प्रथमं वर्णक)मारचयति-

1विषयः

प्रकृतौ विकृतौ वा स्याद्ग्रहेष्वाग्रयणाग्रता

3पूर्वपक्षः

आद्यः प्रकरणादन्त्यो जगत्सामत्वसंभवात्
ज्योतिष्टोमप्रकरणे श्रूयते ''यदि रथंतरसामा सोमः स्यात्, ऐन्द्रवायवाग्रान्ग्रहान्गृह्णीयात्। यदि बृहत्सामा शुक्राग्रान्। यदि जगत्सामा, आग्रयणाग्रान्'' इति। अयमर्थः- 'माध्यंदिनसवने पृष्ठस्तोत्रे रयंतरनामकं साम यस्य सोमयागस्य स सोमो रथंतरसामा। एवमितरत्रापि' इति। तत्र जगत्सामसोमे ग्रहाणामाग्रयणादित्वं प्रकरणपाठात्प्रकृतौ निविशते- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- जगन्नाम्नः साम्नः क्वाप्यभावाज्जगत्यामृच्युत्पन्नस्य तु साम्नो विकृतिषु विषुवन्नामकेषु मुख्येऽहनि संभवाद्विकृतौ निविशते
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- नानाहीने षोडशिग्रहग्रहणाधिकरणे सूत्राणि 55-57”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- एकाहीनपक्षे 'चतुर्थे वाऽष्टमे वा' इत्येवमुच्येत एकवचनं तु नानाहीनपक्षे जात्यभिप्रायम् वीप्सा बहुप्रदेशगतचतुर्थदिनस्य न्यायप्राप्तं बहुत्वमनुवदति तस्मात्- नानाहीनेषु चतुर्थे स ग्रहः। 21”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
(जगत्साम्नो जगत्यृगुत्पन्नसामतासाधकं) द्वितीयवर्णकमारचयति-

1विषयः

बृहद्रथंतरैकं किं द्वयं वोत रथंतरम्
यद्वा जगत्यामुत्पन्नं जगत्सामाग्रिमो भवेत्

2संशयः

पूर्वोक्तोदाहृतवाक्ये 'जगन्नामकं साम यस्य सोमस्यासौ जगत्सामा' इत्यत्र जगद्विशेषणेन विशेष्यमाणे साम्नि चतुर्धा संशयः।

3पूर्वपक्षः

ज्योतिष्टोमस्य तादृक्त्वादविकल्पाय तु द्वयम्
जगत्त्वं सर्वताऽत्रास्ति तदुक्तिव्यर्थता तदा
तत्र बृहद्रथंतरयोरन्यतरत्स्यात्। कुतः- 'बृहता रथंतरसाम्ना वा' इति ज्योतिष्टोमस्यान्यतरसाध्यत्वावगमात्। जगच्छब्दश्च 'गच्छति प्रवर्तते ज्योतिष्टोमोऽनेन' इति व्युत्पत्त्या तत्र संभवति। इति प्रथमः पक्षः।
नैतद्युक्तम्। विकल्पप्रसङ्गात्। स चाष्टदोषग्रस्तः। तस्मात्- सामद्वयसमुच्चयोऽभ्युपेयः। उदाहृतो वाशब्दोऽपि चकारार्थे ज्ञेयः। जगच्छब्दश्च कृत्स्नवाची। कृत्स्नत्वं चात्रास्ति। एकस्यापि साम्नोऽपरित्यक्तत्वात्। इति द्वितीयः पक्षः।
एतदप्ययुक्तम्। 'यदि जगत्सामा' इत्यस्य वैयर्थ्यप्रसङ्गात्। अन्यतरपक्षस्यैन्द्रवायवाग्रत्वशुक्राग्रत्वा-भ्यामवरुद्धत्वेन परिशेषेण समुच्चयपक्षस्यैवाश्रयणीयत्वात्पुनस्तदुक्तिव्यर्था। वाशब्दश्च विकल्पे मुख्योऽत्र बाध्येत। तस्मात्- रथंतरमेव स्यात्। तद्योनौ 'ईशानमस्य जगतः' इति जगच्छब्दश्रवणेन जगत्सामत्वसंभवात्। इति तृतीयः पक्षः।
तदप्ययुक्तम्। तत्र ह्यर्थपरं जगत्पदं शब्दपरत्वेनोपलक्ष्यते। तेन शब्देन च शब्दोपेतामृचमुपलक्ष्य तया च तन्निष्ठं सामोपलक्षणीयम्। इति विप्रकर्षः। तस्मात्- जगत्यामुत्पन्नं साम इति चतुर्थः पक्षोऽभ्युपेयः। यद्यपि च्छन्दोवाचिना जगतीशब्देन तद्युक्तामृचमुपलक्ष्य सामोपलक्षणीयम्, तथाऽपि तत्संनिकृष्पते। यतो वैदिको जगच्छब्दो जगतीपर्यायः। तस्माच्चतुर्थः पक्षो राद्धान्तः।। 24।। 25।। 26।।

4सिद्धान्तः

रथंतरं जगच्छब्दाद्विप्रकृष्टाऽत्र लक्षणा
जगत्यृचि स्थितं सामेत्येतत्स्यात्संनिकर्षतः
10.5.16 षोडशे- गोसवे-उपवत्यग्रवत्योरभावाधिकरणे सूत्राणि 59-61
उभयसाम्नि नैमित्तिकं विकल्पेन समत्वात्स्यात्।। 59।।
मुख्येन वा नियन्येत।। 60।।
निमित्तविघाताद्वा क्रतुयुक्तस्य कर्म स्यात्।। 61।।
षोडशाधिकरणमारचयति-

3पूर्वपक्षः

गोसवादिषु क्रतुषु रथंतरपृष्ठबृहत्पृष्ठयोः समुच्चयो विहितः 'गोसव उभे कुर्यात्' इत्यादिना। प्रकृतौ त्विदमाम्नातम् ''उपवतीं रथंतरपृष्ठस्य प्रतिपदं कुर्यात्, अग्रवतीं बृहत्पृष्ठस्य'' इति। ते इमे उपवत्यग्रवत्यावृचौ पृष्ठद्वयस्याङ्गभूते गोसवादिष्वतिदेशतः प्राप्ते विकल्प्ये। कुतः-तन्निमित्तयोः पृष्ठयोर्द्विविधत्वात्। न च- अत्र समुच्चयः शङ्कयः। ऋचोर्द्वयोः प्राथम्यस्य व्याहतत्वात्। तस्मात्- विकल्पः। इत्येकः पूर्वपक्षः।
प्रथमश्रुतत्वेन रथंतरस्य मुख्यत्वादुपवतीमेव प्रतिपदं कुर्यात्। इति द्वितीयः पूर्वपक्षः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- वर्णकद्वयविशिष्टेऽधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- जगन्नाम्नः साम्नः क्वाप्यभावाज्जगत्यामृच्युत्पन्नस्य तु साम्नो विकृतिषु विषुवन्नामकेषु मुख्येऽहनि संभवाद्विकृतौ निविशते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.17 सप्तदशे- ऐन्द्रवायवस्य सर्वादावप्रतिकर्षाधिकरणे सूत्राणि 62-64
ऐन्द्रवायवस्याग्रवचनादादितः प्रतिकर्षः स्यात्।। 62।।
अपि वा धर्माविशेषात्तद्धर्माणां स्वस्थाने प्रकरणादग्रत्वमुच्यते।। 63।।
धारासंयोगाच्च।। 64।।
सप्तदशाधिकरणमारचयति-

1विषयः

पुरोपांशोरुत स्वस्य स्थाने स्यादैन्द्रवायवः

3पूर्वपक्षः

आद्योऽग्रत्वविधेर्मैवं धारायुक्ताग्रतोक्तितः
ज्योतिष्टोमे श्रूयते ''ऐन्द्रवायवाग्रा ग्रहा गृह्यन्ते'' इति। मन्त्रकाण्डविधिकाण्डयोर्ग्रहाणामयं पाठक्रमः ''उपांशुग्रहः प्रथमः, अन्तर्यामग्रहो द्वितीयः, ऐन्द्रवायवग्रहस्तृतीयः, मैत्रावरुणग्रहश्चतुर्थः'' इत्यादि। तत्र- ऐन्द्रवायवस्याग्रत्वविधानादुपांशुपूर्वमेव ग्रहणम्। इति पूर्वः पक्षः।

4सिद्धान्तः

नैतद्युक्तम्
अग्रत्वस्य धाराग्रहापेक्षत्वात्
ऐन्द्रवायवादयो धाराग्रहाः
तद्वाक्ये 'धारया गृह्णाति' इति श्रुतत्वात्
एवं सति पाठक्रमो न बाध्यते
तस्मात्- ऐन्द्रवायवः स्वस्यैव स्थाने ग्रहीतव्यः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- गोसवे-उपवत्यग्रवत्योरभावाधिकरणे सूत्राणि 59-61”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.18 अष्टादशे- कामसंयोगेऽप्यैन्द्रवायवस्यादावप्रतिकर्षाधिकरणे सूत्रे 65-66
कामसंयोगे तु वचनादादितः प्रतिकर्षः स्यात्।। 65।।
तद्देशानां वाऽग्रसंयोगात्तद्युक्तं कामशास्त्रं स्यान्नित्यसंयोगात्।। 66।।
अष्टादशाधिकरणमारचयति-

1विषयः

सर्वादौ स्वस्य वा स्थाने काम्यः स्यादैन्द्रवायवः

3पूर्वपक्षः

पुनर्विधेरादिमोऽन्त्यः कामायैतद्विधानतः
ज्योतिष्टोम एव श्रूयते ''ऐन्द्रवायवाग्रान्ग्रहान्गृह्णीयात्, यः कामयेत यथापूर्वं प्रजाः कल्पेरन्'' इति। सोऽयं काम्य ऐन्द्रवायवः सर्वेषामुपांशुप्रभृतीनां ग्रहाणामादौ स्यात्। कुतः- धाराग्रहादित्वस्य पूर्वमेव सिद्धौ सत्यां पुनरप्यग्रताविधानात्। इति पूर्वः पक्षः।

4सिद्धान्तः

नात्र सर्वाग्रत्वं विधातुं शक्यम्, धाराग्रहाणां प्रकृतत्वात्
अतो यथाप्राप्ताग्रत्वोपेतानां धाराग्रहाणां कामसंयोगोऽत्र विधीयत इति स्वस्थान एवायं ग्रहः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे- ऐन्द्रवायवस्य सर्वादावप्रतिकर्षाधिकरणे सूत्राणि 62-64”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नैतद्युक्तम् अग्रत्वस्य धाराग्रहापेक्षत्वात् ऐन्द्रवायवादयो धाराग्रहाः तद्वाक्ये 'धारया गृह्णाति' इति श्रुतत्वात् एवं सति पाठक्रमो न बाध्यते तस्मात्- ऐन्द्रवायवः स्वस्यैव स्थाने ग्रहीतव्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.19 एकोनविंशे- आश्विनाग्रादीनां ग्रहाणां प्रतिकर्षाधिकरणे सूत्राणि 67-69
परेषु चाग्रशब्दः पूर्ववत्स्यात्तदादिषु।। 67।।
प्रतिकर्षो वा नित्यार्थेनाग्रस्य तदसंयोगात्।। 68।।
प्रतिकर्षं च दर्शयति।। 69।।
एकोनविंशाधिकरणमारचयति-

1विषयः

स्वस्थाने प्रतिकर्षो वा शुक्रादेः पूर्ववद्भवेत्

3पूर्वपक्षः

स्थाने मैवं तदग्रत्वाप्राप्तेः स प्रतिकृष्यते
तत्रैव श्रूयते ''शुक्राग्रान्ग्रहान्गृह्णीयादभिचरतो मथ्यग्रान्गृह्णीयादभिचर्यमाणस्य'' इत्यादि। पूर्वन्यायेन च शुक्रादीनां स्वस्थाने ग्रहणम्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- ऐन्द्रवायवस्य धाराग्रहाग्रत्वं स्वस्थाने पाठादेव प्राप्तम्
शुक्रादीनां तु तन्न
इति वैषम्यम्
तथा सति विधीयमानाग्रत्वं पाठक्रमबाधमन्तरेणानुपपन्नत्वात्प्रतिकृष्यते
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे- कामसंयोगेऽप्यैन्द्रवायवस्यादावप्रतिकर्षाधिकरणे सूत्रे 65-66”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नात्र सर्वाग्रत्वं विधातुं शक्यम्, धाराग्रहाणां प्रकृतत्वात् अतो यथाप्राप्ताग्रत्वोपेतानां धाराग्रहाणां कामसंयोगोऽत्र विधीयत इति स्वस्थान एवायं ग्रहः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.20 विंशे- आश्विनादीनां ग्रहाणामैन्द्रवायवस्य पुरस्तात्प्रतिकर्षाधिकरणे सूत्राणि 70-72
पुरस्तादैन्द्रवायवस्याग्रस्य कृतदेशत्वात्।। 70।।
तुल्यधर्मत्वाच्च।। 71।।
तथा च लिङ्गदर्शनम्।। 72।।
विंशाधिकरणमारचयति-

1विषयः

स सर्वादावैन्द्रवायवादौ वाऽत्राविशेषतः

3पूर्वपक्षः

सर्वादावाश्रयादैन्द्रवायवादौ धृतेरपि
स पूर्वोक्तः प्रतिकर्षः सर्वेषामुपांश्वादीनां ग्रहाणामादौ युक्तः। कुतः- विशेषाश्रवणात्। सामान्यतः श्रुतमग्रत्वमनपेक्षितत्वात्सर्वमुख्यम्।

4सिद्धान्तः

नैतदेवम्
प्राकृतान्धाराग्रहानाश्रित्य फलाय शुक्राग्रत्वविधानात्
किंच ''धारयेयुस्तं, यं कामाय गृह्णीयुः
ऐन्द्रवायवं गृहीत्वा सादयेत्'' इति श्रूयते
तत्र काम्यस्य शुक्रादेर्धारणानन्तरमैन्द्रवायवस्य ग्रहणं विवक्षितार्थे लिङ्गम्
तस्मात्- ऐन्द्रवायवादौ प्रतिकर्षः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- आश्विनाग्रादीनां ग्रहाणां प्रतिकर्षाधिकरणे सूत्राणि 67-69”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- ऐन्द्रवायवस्य धाराग्रहाग्रत्वं स्वस्थाने पाठादेव प्राप्तम् शुक्रादीनां तु तन्न इति वैषम्यम् तथा सति विधीयमानाग्रत्वं पाठक्रमबाधमन्तरेणानुपपन्नत्वात्प्रतिकृष्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.21 एकविंशे- सादनस्यापि प्रतिकर्षाधिकरणे सूत्रे 73-74
सादनं चापि शेषत्वात्।। 73।।
लिङ्गदर्शनाच्च।। 74।।
एकविंशाधिकरणमारचयति-

1विषयः

नापकर्षोऽपकर्षो वा सादनस्याश्रुतत्वतः

3पूर्वपक्षः

न मैवं ग्रहशेषत्वात्तच्चाशक्तेर्ग्रहान्तरम्
सर्वत्र ग्रहान्गृहीत्वा साद्यन्ते। तथा सति यत्र काम्यस्य ग्रहस्यापकर्षः, तत्र सादनस्यापकर्षो न शङ्क्यः। कुतः- अश्रुतत्वात्। 'शुक्राग्रान्' इत्यग्रशब्देन यथा ग्रहणस्यापकर्षः श्रूयते, न तथा सादनापकर्षप्रतिपादकः कश्चिच्छब्दोऽस्ति। तस्मात्- नापकर्षः।

4सिद्धान्तः

नैतद्युक्तम्
सादनस्य ग्रहशेषत्वमशक्तेरवगम्यते
न तु पूर्वग्रहमसादयित्वा ग्रहान्तरं शक्यं ग्रहीतुम्
अतो ग्रहापकर्षे तच्छेषभूतसादनमप्यपकृष्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे- आश्विनादीनां ग्रहाणामैन्द्रवायवस्य पुरस्तात्प्रतिकर्षाधिकरणे सूत्राणि 70-72”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नैतदेवम् प्राकृतान्धाराग्रहानाश्रित्य फलाय शुक्राग्रत्वविधानात् किंच ''धारयेयुस्तं, यं कामाय गृह्णीयुः ऐन्द्रवायवं गृहीत्वा सादयेत्'' इति श्रूयते तत्र काम्यस्य शुक्रादेर्धारणानन्तरमैन्द्रवायवस्य ग्रहणं विवक्षितार्थे लिङ्गम् तस्मात्- ऐन्द्रवायवादौ प्रतिकर्षः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.22 द्वाविंशे- प्रदानस्याप्रतिकर्षाधिकरणे सूत्रे 75-76
प्रदानं चापि सादनवत्।। 75।।
न वा प्रधानत्वाच्छेषत्वात्सादनं तथा।। 76।।
द्वाविंशाधिकरणमारचयति-

1विषयः

प्रदानस्यापकर्षोऽस्ति न वा सादनवद्भवेत्

3पूर्वपक्षः

प्रदानस्य तु मुख्यत्वान्नापकर्षोऽत्र युज्यते
पूर्वोक्तकाम्यानां ग्रहाणां ग्रहणापकर्षानुसारेण सादनस्य यथाऽपकर्षः, तद्वत्प्रदानस्यापि। इति चेत्-

4सिद्धान्तः

मैवम्
वैषम्यात्
सादनं दि ग्रहणशेषः प्रदानं तु न तथा
प्रत्युत- ग्रहणमेव प्रदानस्य शेषः
अत एव शेषानुसारेण न शेषिणोऽपकर्षो युक्तः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकविंशे- सादनस्यापि प्रतिकर्षाधिकरणे सूत्रे 73-74”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नैतद्युक्तम् सादनस्य ग्रहशेषत्वमशक्तेरवगम्यते न तु पूर्वग्रहमसादयित्वा ग्रहान्तरं शक्यं ग्रहीतुम् अतो ग्रहापकर्षे तच्छेषभूतसादनमप्यपकृष्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.23 त्रयोविंशे- त्र्यनीकायामैन्द्रवायवाग्रतोक्तेः समानविध्यर्थताधिकरणे सूत्रे 77-78
त्र्यनीकायां न्यायोक्तेष्वाम्नानं गुणार्थं स्यात्।। 77।।
अपि वाऽहर्गणेष्वग्निवत्समानविधानं स्यात्।। 78।।
त्रयोविंशाधिकरणमारचयति-

1विषयः

त्र्यनीकायामैन्द्रवायवशुक्राग्रानुवादता
परिसंख्या वाऽर्थवादो वा विधिर्वा नहि तत्त्रयम्

2संशयः

तत्र चतुर्धा संशयः- अनुवादो वा, परिसंख्या वा, अर्थवादो वा, विधिर्वा, इति।

3पूर्वपक्षः

वैयर्थ्येन त्रिदोषत्वाल्लक्षणापत्तितस्तथा
विधिराग्रयणाग्रत्व इवानैमित्तिको हि सः
तत्र 'प्राप्तत्पादनुवादः' इति चेत्- न। वैयर्थ्यापत्तेः। तर्हि गुणान्तरपरिसंख्याऽस्तु- इति चेत्- न। दोषत्रयापत्तेः। चतुर्थेऽहन्यप्राप्तस्याग्रयणाग्रत्वस्य प्रशंसार्थोऽयमर्थवादः- इति चेत्-

4सिद्धान्तः

लक्षणावृत्तिप्रसङ्गात्
तस्मात्- आग्रयणाग्रत्वे यथा विधिः, तथेतरयोरपि द्रष्टव्यः
न च प्राप्तत्वादविधिः- इति वाच्यम्, अस्य विधेरनैमित्तिकत्वाभ्युपगमात्
रथंतरादिनिमित्तकयोरेव हि चोदकेन प्राप्तिः
प्रयोजनं द्वादशाहविकृतिषु यत्र क्वापि रथंतरनिमित्ताभावेऽप्यैन्द्रवायवाग्रत्वसिद्धिः।
36

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वाविंशे- प्रदानस्याप्रतिकर्षाधिकरणे सूत्रे 75-76”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् वैषम्यात् सादनं दि ग्रहणशेषः प्रदानं तु न तथा प्रत्युत- ग्रहणमेव प्रदानस्य शेषः अत एव शेषानुसारेण न शेषिणोऽपकर्षो युक्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.24 चतुर्विंशे- व्यूढद्वादशाहस्य समूढविकारत्वाधिकरणे सूत्राणि 79-82
द्वादशाहस्य व्यूढसमूढत्वं पृष्ठवत्समानविधानं स्यात्।। 79।।
व्यूढो वा लिङ्गदर्शनात्समूढविकारः।। 80।।
कामसंयोगात्।। 81।।
तस्योभयथा प्रवृत्तिरैककर्म्यात्।। 82।।
चतुर्विंशाधिकरणमारचयति-

1विषयः

व्यूढोऽपि प्रकृतिः किंवा विकृतिः स्याद्धि पृष्ठवत्
विधिसाम्यादादिमोऽन्त्यो लिङ्गात्कामे विधेरपि

2संशयः

तद्वद्व्यूढोऽपि किं प्रकृतिः किंवा समूढस्य विकृतिः, इति संशयः।

3पूर्वपक्षः

'प्रकृतिः' इति तावत्प्राप्त

4सिद्धान्तः

म्। कुतः- विधिसामान्यात्। यथा समूढप्रकारः क्रत्वर्थो विहितः, तथा व्यूढप्रकारोऽपि। न चात्र कश्चिद्विशेषोऽस्ति, येन तयोः प्रकृतिविकृतिभावो निश्चीयेत। न च- प्रकारद्वयस्य प्रकृतित्वमदृष्टचरम्, रथंतरबृहत्पृष्ठयोर्ज्योतिष्टोमप्रकारयोस्तद्दर्शनात्। इति पूर्वः पक्षः।
व्यूढः समूढस्य विकृतिः। कुतः- लिङ्गदर्शनात्। ''ऐन्द्रावायवस्य वा एतदायतनं यच्चतुर्थमहः'' इति व्यूढे श्रूयते। एतच्च विकृतित्वे सति भवति, नान्यथा। तथा हि व्यूढे प्रायणीयोदयनीयव्यतिरिक्तेषु दशस्वहःसु यच्चतुर्थं तदाग्रयणाग्रत्वान्नैन्द्रवायवायतनम्। समूढे तु तदहर्नवानामह्नां मध्ये त्रिकादित्वादैन्द्रवायवाग्रम्। तच्च व्यूढस्य विकृतितायां चोदकेन प्राप्यमाणं विधिसिद्धाग्रयणाग्रस्तुतयेऽनूद्यते, इति युक्तम्। किंच ''यः कामयेत बहु स्यां प्रजायेय'' इति कामाय व्यूढो विधीयते। तथा सति समूढवत्क्रत्त्वर्थे विध्यभावाद्रथंतरबृहत्पृष्ठवैषम्येण विकल्पितं प्रकृतित्त्वं नास्ति। ततः- समूढस्य द्वादशाहस्य विकृतिः। अहर्गणेषु तयोरन्यतरस्यातिदेशः पूर्वपक्षिणः, समूढस्यैवातिदेशः सिद्धान्तः।। 38।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोविंशे- त्र्यनीकायामैन्द्रवायवाग्रतोक्तेः समानविध्यर्थताधिकरणे सूत्रे 77-78”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न लक्षणावृत्तिप्रसङ्गात् तस्मात्- आग्रयणाग्रत्वे यथा विधिः, तथेतरयोरपि द्रष्टव्यः न च प्राप्तत्वादविधिः- इति वाच्यम्, अस्य विधेरनैमित्तिकत्वाभ्युपगमात् रथंतरादिनिमित्तकयोरेव हि चोदकेन प्राप्तिः प्रयोजनं द्वादशाहविकृतिषु यत्र क्वापि रथंतरनिमित्ताभावेऽप्यैन्द्रवायवाग्रत्वसिद्धिः। 36”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.25 पञ्चविंशे- संवत्सरसत्रेऽनीकानां विवृद्ध्यधिकरणे सूत्राणि 83-87
एकादशिनवत्त्र्यनीका परिवृत्तिः स्यात्।। 83।।
स्वस्थानविवृद्धिर्वाऽह्नामप्रत्यक्षसंख्यत्वात्।। 84।।
पृष्ठ्यावृत्तौ चाग्रयणस्य दर्शनात्त्रयस्त्रिंशे परिवृत्तौ पुनरैन्द्रवायवः स्यात्।। 85।।
वचनात्परिवृत्तिरैकादशिनेषु।। 86।।
लिङ्गदर्शनाच्च।। 87।।
पञ्चविंशाधिकरणमारचयति-

1विषयः

दण्डाकलितवत्सत्रे त्र्यनीकावृत्तिरिष्यते
स्वस्थानवृद्धिरथवा स्यादाद्योऽहर्विवक्षया

3पूर्वपक्षः

न विवक्षा वाक्यभेदान्नवानीकैस्तु पूरणम्
एकैकवृद्ध्या न विना तेनैकैकं विवर्धते
अस्ति समूढस्य द्वादशाहस्य विकृतिर्गवामयनं संवत्सरसत्रम्। तत्र त्र्यनीकाचोदकेन प्राप्ता। त्रीण्यनीकान्यग्राण्यैन्द्रवायवशुक्राग्रयणरूपाणि यस्यां क्रियायां सा त्र्यनीका। तया च त्रिः परिवृत्तया द्वादशाहाद्यन्तयोः प्रायणीयोदयनीययोरह्नोर्मध्ये वर्तमानेषु दशस्वहःसु दशमव्यतिरिक्तानि नवसंख्याकान्यहानि पूरितानि। अतः संवत्सरसत्रेऽपि प्रायणीयोदयनीयमध्यवर्तीनि पूरयितव्यानि। तत्पूरणं च यथोक्तायास्त्रिः परिवृत्ताया नवदिवसयुक्तायास्त्र्यनीकायाः समूहावृत्तिमन्तरेण न सिध्यतीति सावृत्तिः प्राप्ता।
तस्यां च द्वैविध्यं विद्यते। यथा- दण्डस्यावृत्त्या भूमावाकलितव्यायामादिमध्यावसानभागैः सहितं कृत्स्नदण्डं पुनः पुनरावर्तयन्ति, न त्वेकैकं भागम्। तथा नवदिवसानामावृत्तिरित्येकः प्रकारः।
यथा- अध्येतारः प्रपाठकमावर्तयितुकामा एकैकभागमसकृत्पठन्ति, तथा नवदिवससमूहव-र्त्येककैस्याह्नोऽसकृदनुष्ठानमित्यपरः प्रकारः।
तत्राद्यस्तावत्प्राप्नोति। कुतः- अहःशब्दस्य विवक्षितत्वात्। 'ऐन्द्रवायवाग्रं प्रथममह' इत्युक्तोऽहःशब्दः 'अथ शुक्राग्रम्। अथाग्रयणाग्रम्' इत्याद्यष्टसु वाक्येष्वनुषज्यते। यथोक्ताग्रत्वविशिष्टानामह्नां क्रमविशेषश्चाथशब्दैर्नियम्यते। तथा सति यद्यैन्द्रवायवाग्रमेवाहर्नैरन्तर्येणासकृदावर्त्यते, तदानीम् 'अथ शुक्राग्रमहः' इत्यादिकं बाध्येत। तस्मात्- क्रमयुक्तानामग्रत्वविशेषोपेतानामह्नां नवानां चोदकप्राप्तानां तथैवानुष्ठाने सति पुनः पुनश्चोदकेन तथैव प्राप्तेर्दण्डाकलितवदावृत्तिः। इति पूर्वः पक्षः।
अहःशब्दो न विवक्षितः, वाक्यभेदप्रसङ्गात्। 'ऐन्द्रवायवाग्रं प्रथमं भवति, तच्चाहः' इत्यहः संघातनिवृत्तये वाक्यं भेत्तव्यं प्रसज्येत। अहःशब्दे त्वविवक्षिते सत्यष्टभिरथशब्दैर्यथोक्ताग्रत्वानामेवानन्तर्यं नियम्यते। तथा सति द्वितीयपर्याये विहितस्याग्रयणाग्रत्वस्योपर्यैन्द्रवायवाग्रत्वं नानुष्ठातुं शक्यम्। तदनुष्ठानाभावे च स्वस्थानविवृद्ध्यैव प्रायणीयोदयनीयान्तरालपूर्तिर्भवति। पूरयितव्यमन्तरालं नवधा विभज्य प्रथमभागगतेष्वहःस्वैन्द्रवायवाग्रत्वम्, द्वितीयभागेषु शुक्राग्रत्वम्, इत्यनेन क्रमेणानुष्ठातव्यम्। सेयं स्वस्थानविवृद्धिः। स्वस्यैन्द्रवायवाग्रत्वस्य स्थानं शुक्राग्रात्पूर्वभावित्वम्। तत्प्रकृतावेकस्मिन्नह्नि भवति। इह तु बहुष्वहःसु। इति तद्वृद्धिः।

4सिद्धान्तः

न त्र्यनीका चोदकाप्ता प्रत्यक्षविहिता तु सा
तस्यामुक्तो विचारः स्यादिति वार्तिक ईरितम्।
39

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्विंशे- व्यूढद्वादशाहस्य समूढविकारत्वाधिकरणे सूत्राणि 79-82”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.5.26 षड्विंशे- व्यूढे मन्त्राणां छन्दोव्यतिक्रमाधिकरणे सूत्रम्
छन्दोव्यतिक्रमाद्व्यूढे भक्षपवमानपरिधिकपालस्य मन्त्राणां यथोत्पत्तिवचनमूहवत्स्यात्।। 88।।
षड्विंशाधिकरणमारचयति-

2संशयः

तत्र संशयः- योऽयं छन्दोव्यतिक्रमः, सः, भक्षपवमानपारिधिकपालरूपिणामर्थानामुभयविधमन्त्रगत-च्छन्दोवाचिशब्दानां च कार्यः, किंवा तेषां शब्दानामेव, इति।

3पूर्वपक्षः

तत्र 'मन्त्रगतानामेव' इति विशेषाश्रवणात् 'सर्वत्र व्यतिक्रमः' इत्याद्यः पक्षः। तेन गायत्रशब्दनिर्दिष्टः प्रातःसवनीयो भक्षस्त्रैष्टुभशब्दस्य माध्यंदिनीयभक्षस्य स्थाने, माध्यंदिनीयो जागतस्य स्थाने, जागतो गायत्रस्य प्रातस्सवनिकस्य स्थाने। तथा बहिष्पवमाने माध्यंदिनसवने माध्यंदिनपवमानस्तृतीयसवने, आर्भवपवमानः प्रातःसवने। तथा मध्यमः स्थविष्ठः परिधिर्दक्षिणतः, अणीयान्द्राघीयानुत्तरतः, अणिष्ठो ह्रसिष्ठो मध्यतः। तथा- अष्टाकपालो माध्यंदिनसवने, एकादशकपालस्तृतीयसवने, द्वादशकपालः प्रातः सवने। सोऽयमर्थव्यतिक्रमो मन्त्रद्वयशब्देष्वप्येवं योज्यः। इति प्राप्ते

4सिद्धान्तः

-
अत्र पादे- अधिकरणानि 26, सूत्राणि 88।
आदितः- अधिकरणानि 714, सूत्राणि 2007।
दशमाध्यायस्य षष्ठः पादः
''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चविंशे- संवत्सरसत्रेऽनीकानां विवृद्ध्यधिकरणे सूत्राणि 83-87”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न त्र्यनीका चोदकाप्ता प्रत्यक्षविहिता तु सा तस्यामुक्तो विचारः स्यादिति वार्तिक ईरितम्। 39”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 10, Pāda 4 Contents Adhyāya 10, Pāda 6 →