3पूर्वपक्षः
चित्रस्त्रीत्वगुणो रूढेरग्नीषोमीयके पशौ
तृतीयाधिकरणमारचयति
''चित्रया यजेत पशुकामः'' इत्याम्नायते। तत्र चित्राशब्दो नोद्भिच्छब्दवद्यौगिकः, किंतु रूढ्या चित्रत्वं स्त्रीत्वं चाभिधत्ते। ततो न पूर्वन्यायेन नामत्वम्। तथा सति ''अग्नीषोमीयं पशुमालभेत'' इति विहितं पशुयागमात्रं 'यजेत' इत्यनेन पदेनानूद्य तस्मिन्पशौ चित्रत्वस्त्रीत्वे गुणौ विधीयेते इति प्राप्ते-
4सिद्धान्तः
द्वयोर्विधौ वाक्यभेदो वैशिष्ट्ये गौरवं ततः
स्यान्नाम पृष्ठाज्यबहिष्पवमानेषु तत्तथा
ब्रूमः- चित्रत्वं स्त्रीत्वं चेति द्वावेतौ गुणौ। तयोर्द्वयोर्विधाने वाक्यं भिद्येत। तथा चोक्तम्-
प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः। अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ।।
इति। अथ वाक्यभेदपिरहाराय गुणद्वयावीशिष्टं पशुद्रव्यरूपं कारकं विधीयते तदा गौरवं स्यात्। तस्माच्चित्राशब्दः पूर्ववद्यजिसामानाधिकरण्येन यागनामधेयं भवति। चित्रत्वं तु तस्य विलक्षणद्रव्यद्वारेणोपपद्यते। ''दधि, मधु, घृतम्, आपः, धानाः, तण्डुलाः, तत्संसृष्टं प्राजापत्यम्'' इति दध्यादीनि विचित्राणि प्रदेयद्रव्याणि षडाम्नातानि। तदेतच्चित्रानामकस्य यागस्योत्पत्तिवाक्यम्। यागस्वरूपभूतयोर्दध्यादिद्रव्यप्रजापतिदेवतयोरत्रोपदिश्यमानत्वात्। उत्पन्नस्य तस्य यागस्य ''चित्रया यजेत पशुकामः'' इत्येतत्फलवाक्यम्। एवं सति प्रकृतार्थो लभ्यते। अग्नीषोमीयपश्वनुवादेन गुणविधाने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम्। लिङ्प्रत्ययस्यानुवादकत्वाङ्गीकारान्मुख्यो विध्यर्थो बाध्येत। तस्माच्चित्रापदं नामधेयम्।
यथा चित्राशब्दे नामधेयत्वम्। तथा बहिष्पवमानशब्दे, आज्यशब्दे, पृष्ठशब्दे च तन्नामधेयत्वं योजनीयम्। एवं हि श्रूयते ''त्रिवृद्बहिष्पवमानम्'' ''पञ्चदशान्याज्यानि'' ''सप्तदशानि पृष्ठानि'' इति। अस्य वाक्यत्रयस्यार्थो विव्रियते- सामगानामुत्तराग्रन्थे तृचात्मकानि सूक्तान्याम्नातानि।
तत्र ''उपास्मै गायता नरः'' इत्याद्यं सूक्तम्।
''दविद्युतत्या रुचा'' इति द्वितीयम्।
''पावमानस्य ते कवे'' इति तृतीयम्।
ज्योतिष्टोमस्य प्रातःसवनानुष्ठाने तेषु त्रिषु सूक्तेषु गायत्रं साम गातव्यम्। तदिदं सूक्तत्रयगानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते तत्रावस्थितानामृचां पवमानार्थत्वात्, बहिःसंबन्धाच्च। न खल्बिदं स्तोत्रमितरस्तोत्रवत्सदोनामकस्य मण्डपस्य मध्य औदुम्बर्याः स्तम्बशाखायाः संनिधौ प्रयुज्यते, किंतु सदसो बहिः प्रसर्पद्भिः प्रयुज्यते। तस्य च बहिष्पवमानस्य त्रिवृन्नामकः स्तोमो भवति। तस्य च स्तोमस्य विधायकं ब्राह्मणवाक्यमेवमाम्नायते- ''तिसृभ्यो हिं करोति स प्रथमया, तिसृम्यो हिं करोति स मध्यमया तिसृभ्यो हिं करोति स उत्तमया, उद्यती त्रिवृतो विष्टुतिः'' इति। अयमर्थः- 'सूक्तत्रयपठितानां नवानामृचां गानं त्रिभिः पर्यायैः कर्तव्यम्। तत्र प्रथमे पर्याये- त्रिषु सूक्तेष्वाद्यास्तिस्त्र ऋचः, द्वितीये पर्याये- मध्यमाः, तृतीये पर्याये चोत्तमाः। तिसृभ्य इति तृतीयार्थे पञ्चमी। हिं करोति गायति' इत्यर्थः। सेयं यथोक्तप्रकारोपेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः स्तुतिप्रकारविशेषः। तस्या विष्टुतेरुद्यती नाम, इति।
एवं परिवर्तिनी कुलायिनीति द्वे विष्टुती। तयोः परिवर्तिन्येवमाम्नायते- ''तिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचीभिः, परिवर्तिनी त्रिवृतो विष्टुतिः''- इति। पराचीभिरनुक्रमेणाम्नाताभिरित्यर्थः। कुलायिन्येवमाम्नायते- ''तिसृभ्यो हिं करोति स पराचीभिस्तिसृभ्यो हिं करोति, या मध्यमा सा प्रथमा, योत्तमा सा मध्यमा, या प्रथमा सोत्तमा, तिसृभ्यो हिं करोति योत्तमा सा प्रथमा, या प्रथमा, सा मध्यमा या मध्यमा सोत्तमा, कुलायिनी त्रिवृत्तो विष्टुतिः'' इति। अत्र प्रथमसूक्ते पाठक्रम एव। द्वितीये मध्यमोत्तमप्रथमाः। तृतीये तूत्तमप्रथममध्यमा इत्येवं व्यत्ययेन मन्त्रा गातव्याः। तदिदं विष्टुतित्रयं विकल्पितम्। त्रिवृच्छब्दस्येदृशं स्तोमस्वरूपमर्थो, न तु त्रैगुण्यमिति पूर्वपादे निर्णीतम्।।
उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वं चत्वारि सूक्तान्याम्नातानि-
''अग्न आ याहि वीतये'' इत्याद्यं सूक्तम्।
''आ नो मित्रावरुणा'' इति द्वितीयम्।
''आ याहि सुषुमा हि ते'' इति तृतीयम्।
''इन्द्राग्नी आ गतं सुतम्'' इति चतुर्थम्।
तान्येतानि प्रातःसवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते। तन्निर्वचनं च श्रूयते ''यदाजिमीयुः, तदाज्यानामाज्यत्वम्'' इति। तेष्वाज्यस्तोत्रेषु पञ्चदशनामकः स्तोमो भवति। तस्य स्तोमस्य विष्टुतिरेवमाम्नायते- ''पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिंकरोति स एकया स एकया स तिसृभिः'' इति। एकं सूक्तं त्रिरावर्तनीयम्। तत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः। द्वितीयावृत्तौ मध्यमायाः। तृतीयावृत्तावृत्तमायाः। सोऽयं पञ्चदशस्तोमः।
उक्तेभ्यश्चतुर्भ्यः सूक्तेभ्य ऊर्ध्वमुत्तराग्रन्थे त्रीणि माध्यंदिनपवमानसूक्तान्याम्नाय तत ऊर्ध्वं चत्वारि सूक्तान्याम्नातानि- तेषु
''अभि त्वा शूर नोनुम'' इत्याद्यम्,
''कया नश्चित्र आभुवत्'' इति द्वितीयम्।
''तं वो दस्ममृतीषहम्'' इति तृतीयम्।
''तरोभिर्वो विदद्वसुम्'' इति चतुर्थम्।
एतानि क्रमेण रथंतरवामदेव्यनौधसकालेयसामभिर्माध्यंदिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते। 'स्पर्शनात्पृष्ठानि' इत्येवं निरुक्तिर्द्रष्टव्या। तेषु स्तोत्रेषु सप्तदशस्तोमो भवति। तस्य स्तोमस्य विष्टुतिरेवमाम्नायते- ''पञ्चभ्यो हिंकरोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिंकरोति स एकया स तिसृभिः, सप्तभ्यो हिंकरोति स एकया स तिसृभिः स तिसृभिः''- इति। अत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः, तृतीयावृत्तौ मध्यमोत्तमयोः सोऽयं सप्तदशस्तोमः। अत्र त्रिष्वपि वाक्येषु त्रिवृत्पञ्चदशसप्तदशशब्दा गुणविधायकत्वेन संमताः। यदि बहिष्पवमानाज्यपृष्ठशब्दा अपि गुणविधायकाः स्युः, तदा प्रत्युदाहरणम्। गुणद्वयविधानाद्वाक्यभेदः स्यात्। तस्माद्बहिष्पवमानादिशब्दाः स्तोत्रनामधेयानि। तैर्नामभिः कर्माण्यनूद्य त्रिवृदादिगुणा विधीयन्ते।। 6।। 7।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीय उद्भिदादिशब्दानां यागनामधेयताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “फलोद्भेदात्समानैषा निरुक्तिर्यागनाम्न्यपि नामत्वमुचितं यागसामानाधिकरण्यतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]