SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 1, Pāda 3

प्रमाणम्

स्मृतिरूपम्। स्मृतिराचारमप्युपलक्षयति

10adhikaraṇas
35sūtras
1.3.1 प्रथमे स्मृतिप्रामाण्याधिकरणे सूत्रे 1-2
SŪधर्मस्य शब्दमूलत्वादशब्दमनपेक्ष्यं स्यात्।। 1।।
SŪअपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यात्।। 2।।
तृतीयपादस्य प्रथमाधिकरणमारचयति –

3पूर्वपक्षः

''अष्टकाः कर्तव्याः'' इत्यादिस्मृतिवाक्यं न धर्मे प्रमाणम्, पौरुषेयवाक्यत्वे सति मूलप्रमाणरहितत्वात्, विप्रलम्भकवाक्यवत्। अथ मूलप्रमाणवत्त्वाय वेदार्थ एव स्मृतिभिरुच्यत इति मन्येथाः। तर्हि वेदेनैव तदर्थस्यावगतत्वादियं स्मृतिरनर्था स्यात्। तदानीमनुवादकत्वादप्रामाण्यमिति प्राप्ते-

4सिद्धान्तः

ब्रूमः- 'विमता स्मृतिर्वेदमूला, वैदिकमन्वादिप्रणीतस्मृतित्वात्, उपनयनाध्ययनादिस्मृतिवत्'।
अस्मिन्नेव मतान्तरेण पूर्वोत्तरपक्षावाह-
''यां जनाः प्रतिनन्दति'' इत्ययं मन्त्रोष्टकाश्राद्धस्याङ्गम्। तच्च श्राद्धं स्मार्तम्। न हि तस्य प्रतिपादकं वेदवाक्यमुपलभामहे। तस्मादिदं मन्त्रवाक्यं न धर्मे प्रमाणमिति चेत्-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्मृतिरूपम्। स्मृतिराचारमप्युपलक्षयति” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे मन्त्रलिङ्गाधिकरणे सूत्राणि 31- 53”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.3.2 द्वितीये श्रुतिप्राबल्याधिकरणे सूत्रम्
SŪविरोधे त्वनपेक्ष्यं स्यात् , असति ह्यनुमानम्।। 3।।
द्वितीयाधिकरणमारचयति-

1विषयः

औदुम्बरी वेष्टनीया सर्वेत्येषा स्मृतिर्मितिः
अमितिर्वेति संदेहे मितिः स्यादष्टकादिवत्

3पूर्वपक्षः

औदुम्बरीं स्पृशन्गायेदिति प्रत्यक्षवेदतः
विरोधान्मूलवेदस्याननुमानादमानता
ज्योतिष्टोमे सदोनामकस्य मण्डपस्य मध्ये काचिदौदुम्बरी शाखा निखन्यते। तस्याश्च वाससा वेष्टनं स्मर्यते- ''औदुम्बरी सर्वा वेष्टयितव्या'' इति। सा स्मृतिः प्रमाणम्, अष्टकादिस्मृतिष्विव मूलवेदस्यानुमातुं शक्यत्वादिति प्राप्ते-

4सिद्धान्तः

ब्रूमः- ''औदुम्बरीं स्पृष्ट्वोद्गायेत्'' इति प्रत्यक्षवेदवचनेन स्पर्शो विधीयते
न च सर्ववेष्टने स्पर्शः संभवति
अतो मूलवेदानुमानं कालात्ययापदिष्टम्
अतो विप्रलम्भकवाक्यवन्निर्मूला स्मृतिरप्रमाणम्।
4

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्मृतिरूपम्। स्मृतिराचारमप्युपलक्षयति” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे स्मृतिप्रामाण्याधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अस्मिन्नेवाधिकरणे मतान्तरमाह-

1विषयः

प्रत्यक्षानुमितश्रुत्योर्यद्वा व्याघातदर्शनात्
अमात्वे शङ्किते बाधोऽनुमानस्यात्र वर्ण्यते

3पूर्वपक्षः

परप्रत्यक्षवेदोऽत्र मूलं चेद्वेष्टनस्य तत्
अस्त्वेवमप्यनुष्ठानं स्वप्रत्यक्षानुरोधतः
स्पर्शसर्ववेष्टनविषययोः प्रत्यक्षानुमितश्रुत्योः परस्परविरोधादुभयोरप्यप्रामाण्यमिति पूर्वपक्षः ।

4सिद्धान्तः

अनुमानस्य कालात्ययापदिष्टतया विरुद्धश्रुत्यभावेन स्पर्शश्रुतिः स्वार्थे प्रमाणम्
यदि पुरुषान्तरप्रत्यक्षवेदः सर्ववेष्टनस्मृतेर्मूलमित्युच्यते, तर्हि मा भूत्तस्या अप्रामाण्यम्
तथाऽपि परप्रत्यक्षात्स्वप्रत्यक्षस्याभ्यर्हितत्वेन स्पर्श एवात्रानुष्ठेयो नतु सर्ववेष्टनम्।
6
1.3.3 तृतीये दृष्टमूलकस्मृत्यप्रामाण्याधिकरणे सूत्रम्
SŪहेतुदर्शनाच्च।। 4।।
तृतीयाधिकरणमारचयति-

1विषयः

वैसर्जनाख्यहोमीयवाससो ग्रहणस्मृतिः

3पूर्वपक्षः

प्रमा न वा श्रुत्यबाधात्प्रमा स्यादष्टकादिवत्
ज्योतिष्टोमेऽग्नीषोमीयस्य पशोस्तन्त्रे प्रक्रान्ते वैसर्जनहोमो विहितः। तत्र यजमानं पत्नीं पुत्रांश्च भ्रातॄंश्चाहतेन वाससा प्रच्छाद्य वाससोऽन्ते स्रुग्दण्डमुपनिबध्य जुहोति। तस्मिन्वासस्येवं स्मर्यते- ''वैसर्जनहोमीयं वासोऽध्वर्युर्गृह्णाति'' इति। सेयं स्मृतिः सर्ववेष्टनस्मृतिवत्प्रत्यक्षश्रुत्या न बाध्यते। ततोऽष्टकादिस्मृतिवत्प्रमाणमिति प्राप्ते-

4सिद्धान्तः

दृष्टलोभैकमूलत्वसंभवे श्रुत्यकल्पनात्
सर्ववेष्टनवद्बाधहीनाऽप्येषा न हि प्रमा
ब्रूमः- कदाचित्कश्चिदध्वर्युर्लोभादेतद्वासो जग्राह। तन्मूलैवैषा स्मृतिरित्यपि कल्पना संभवति। दृष्टानुसारिणी चैषां कल्पना। दक्षिणया परिक्रीतानामृत्विजां लोभदर्शनात्। तथा सत्यस्याः स्मृतेरन्यथाऽप्युपपत्तावष्टकादिश्रुतिवन्न मूलश्रुतिः कल्पयितुं शक्यते। अतो बाधाभावेऽपि मूलवेदाभावान्नेयं स्मृतिः प्रमाणम्।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्मृतिरूपम्। स्मृतिराचारमप्युपलक्षयति” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये श्रुतिप्राबल्याधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- ''औदुम्बरीं स्पृष्ट्वोद्गायेत्'' इति प्रत्यक्षवेदवचनेन स्पर्शो विधीयते न च सर्ववेष्टने स्पर्शः संभवति अतो मूलवेदानुमानं कालात्ययापदिष्टम् अतो विप्रलम्भकवाक्यवन्निर्मूला स्मृतिरप्रमाणम्। 4”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.3.4 चतुर्थे पदार्थप्रबल्याधिकरणे सूत्राणि 5- 7
SŪशिष्टाकोपे विरुद्धमिति चेत्।। 5।।
SŪन, शास्त्रपरिमाणत्वात्।। 6।।
SŪअपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्।। 7।।
चतुर्थाधिकरणं भाष्यमतेनारचयति-

1विषयः

आचान्तेनेत्यमा मा वा स्मृतिरेषा न मा भवेत्

3पूर्वपक्षः

वेदं कृत्वेति यः श्रौतः क्रमस्तेन विरोधतः
''क्षुत आचामेत्'' इति विहितं पुरुषार्थमाचमनम्। यदा तु क्रतुमध्ये क्षुतादि निमित्तं प्राप्नोति तदा नैमित्तिकमाचमनं क्रत्वङ्गत्वेन स्मृत्या विधीयते।''आचान्तेन कर्तव्यम्'' इति। सेयं स्मृतिर्न प्रमाणम्। कुतः- विरुद्धत्वात्। ''वेदं कृत्वा वेदिं करोति'' इति श्रुतौ पूर्वकालवाचिना त्वाप्रत्ययेन क्रमः प्रतीयते। वेदो नाम दर्भमयं संमार्जनसाधनम्। वेदिराहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गुलखाता भूमिः। तयोर्मध्ये यदि क्षुतादिनिमित्तमाचमनं कुर्यात्, तदा श्रुत्युक्तं नैरन्तर्यं विरुध्येत। तस्माद्वेष्टनस्मृतिवदाचमनस्मृतिर्न प्रमाणमिति प्राप्ते-

4सिद्धान्तः

आचान्तादिः पदार्थोऽत्र क्रमो धर्मः पदार्थगः
धर्मस्य धर्म्यपेक्षत्वादबाधादस्ति मानता
ब्रूमः- वेदवेद्यादिश्रुत्युक्तपदार्थवदाचमनादयः स्मृत्युक्ता अनुष्ठेयपदार्थाः। क्रमस्तु पदार्थनिष्ठो धर्मः। स च पदार्थानुपजीवति। तत उपजीव्यविरोधात्क्रम एव बाध्यते। नतु क्रमेणाचमनस्य बाधोऽस्ति। तस्मादियं स्मृतिः प्रमाणम्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्मृतिरूपम्। स्मृतिराचारमप्युपलक्षयति” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये दृष्टमूलकस्मृत्यप्रामाण्याधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “दृष्टलोभैकमूलत्वसंभवे श्रुत्यकल्पनात् सर्ववेष्टनवद्बाधहीनाऽप्येषा न हि प्रमा”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
अस्मिन्नेव वार्तिककारः प्रकारान्तरेण विचारद्वयं चकार। तत्र प्रथमं विचारं दर्शयति-

1विषयः

शाक्योक्ताहिंसनं धर्मो न वा धर्मः श्रुतत्वतः

3पूर्वपक्षः

न धर्मो नहि पूतं स्याद्गोक्षीरं श्वदृतौ धृतम्
''ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन रक्षेत्'' इति श्रुतावहिंसादिर्धर्मत्वेनोक्तः। स एव धर्मः शाक्येनाप्युक्तः। तस्माच्छाक्यस्मृतिर्धर्मे प्रमाणमिति चेत्-

4सिद्धान्तः

न
स्वरूपेण धर्मस्यापि गोक्षीरन्यायेन शाक्यसंबन्धे सत्यधर्मत्वप्रसङ्गात्
तदीयग्रन्थेनाहिंसादि- र्नावगन्तव्यः
तस्मान्न सा स्मृतिर्धर्मे प्रमाणम्
अपरः पक्षः
विचारान्तरं दर्शयति-

1विषयः

सदाचारोऽप्रमा मा वा निर्मूलत्वादमानता
अष्टकादेरिवैतस्य समूलत्वात्प्रमाणता

3पूर्वपक्षः

होलाकोत्सवादिसदाचारस्य मूलभूतवेदाभावादप्रामाण्यमिति चेत्-
न। वैदिकैः शिष्टैः परिगृहीतत्वेनाष्टकादिवद्वेदमूलत्वात्। अत एव मन्वादिभिर्ग्रन्थगौरवभयाद्विशेषाकारेण अनुपदिष्टोऽपि सदाचारः सामान्याकारेणोपदिष्टः।
''श्रुतिः स्मृतिः सदाचारः'' इत्येवं धर्मे प्रमाणोपन्यासात्। तस्माच्छिष्टाचारः प्रमाणम्।
1.3.5 पञ्चमे शास्त्रप्रसिद्धार्थप्रामाण्याधिकरणे (आर्यम्लेच्छाधिकरणे) सूत्रे 8- 9
SŪतेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात्।। 8।।
SŪशास्त्रस्था वा तन्निमित्तत्वात्।। 9।।
पञ्चमाधिकरणमारचयति-

1विषयः

यवादिशब्दाः किं द्व्यर्था नो वार्यम्लेच्छसाम्यतः

3पूर्वपक्षः

दीर्घशूकप्रियंग्वाद्या द्वयेऽप्यर्था विकल्पिताः
''यवमयश्चरुर्भवति'' ''वाराही उपानहावुपमुञ्चते'' इति श्रूयते। तत्र यवशब्दमार्या दीर्घशूकेषु प्रयुञ्जते वराहशब्दं च सूकरे। म्लेच्छास्तु यवशब्दं प्रियंगुषु, वराहशब्दं च कृष्णशकुनौ। तथा सति लोकव्यवहारेण निश्चेतव्येषु शब्दार्थेष्वार्यम्लेच्छप्रसिद्ध्योः समानबलत्वादुभयविधा अप्यर्था विकल्पेन स्वीकार्या इति प्राप्ते-

4सिद्धान्तः

यत्रान्या इति शास्त्रस्था प्रसिद्धिस्तु बलीयसी
शास्त्रीयधर्मे तेनात्र प्रियंग्वादि न गृह्यते
ब्रूमः- शास्त्रीयधर्मावबोधे शास्त्रप्रसिद्धिर्बलीयसी। प्रत्यासन्नत्वादविच्छिन्नपारम्पर्यागतत्वाच्च। शास्त्रे यवविध्यर्थवाद एवं श्रूयते ''यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोत्तिष्ठन्ति'' इति। इतरौषधिविनाशकालेऽभिवृद्धिर्दीर्घशूकेषु दृश्यते न तु प्रियंगुषु, तेषामितरौषधिपरिपाकात्पूर्वं पच्यमानत्वात्। वाराहोपानद्विध्यर्थवादश्चैवं भवति- ''वराहं गावोऽनुधावन्ति'' इति। गवामनुधावनं शूकरे संभवति न तु
कृष्णशकुनौ। तस्माद्दीर्घशूकादिर्यवादिशब्दार्थः ।
अत्र वार्तिककारः पीलुशब्दमुदाजहार। तं च म्लेच्छा हस्तिनि प्रयुञ्जते, आर्यास्तु वृक्षे। तत्राविप्लुतव्यवहारस्यार्येषु संभवाद्वृक्ष एव पीलुशब्दार्थः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्मृतिरूपम्। स्मृतिराचारमप्युपलक्षयति” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे पदार्थप्रबल्याधिकरणे सूत्राणि 5- 7”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आचान्तादिः पदार्थोऽत्र क्रमो धर्मः पदार्थगः धर्मस्य धर्म्यपेक्षत्वादबाधादस्ति मानता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अस्मिन्नेवाधिकरणे गुरुमतमाह-

1विषयः

यवाद्यर्थानिर्णयेन तद्वाक्यं न प्रमेति चेत्
न शास्त्रस्य बलित्वेन तत्प्रसिद्ध्याऽर्थनिर्णयात्

3पूर्वपक्षः

स्पष्टोऽर्थः ।
गुरुमतम्
अस्मिन्नेवाधिकरणे वार्तिककारमतेन वर्णकान्तरमारचयति-

1विषयः

यो मातुलविवाहादौ शिष्टाचारः स मा न वा
इतराचारवन्मात्वममात्वं स्मार्तबाधनात्

3पूर्वपक्षः

स्मृतिमूलो हि सर्वत्र शिष्टाचारस्ततोऽत्र च
अनुमेया स्मृतिः स्मृत्या बाध्या प्रत्यक्षया तु सा
केषुचिद्दक्षिणदेशेषु मातुलस्य दुहितरं शिष्टाः परिणयन्ति। सोऽयमाचारः प्रमाणं, शिष्टाचारत्वात्, होलाकाद्याचारवत्, इति चेत् ।
न। स्मृतिविरुद्धत्वेन कालात्ययापदिष्टत्वात्। तथा च स्मृतिः-
मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च। समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्।। इति।
न च स्मृत्याचारयोर्मूलवेदानुमापकत्वसाम्यात्समबलत्वमिति शङ्कनीयम्। होलाकादिसदाचारस्य मन्वादिस्मृतिवद्वेदानुमापकत्वायोगात्। न हीदानींतनाः शिष्टा मन्वादिवद्देशकालविप्रकृष्टं वेदं दिव्यज्ञानेन साक्षात्कर्तुं शक्नुवन्ति। येन शिष्टाचारो मूलवेदमनुमापयेत्। शक्नोति च यः कोपि शिष्टो यत्र क्वापि देशविशेषे कालविशेषे च यं कंचनापि होलाकाद्याचरस्य मूलभूतं स्मृतिग्रन्थमवलोकयितुम्। तस्माच्छिष्टाचारेण स्मृतिरेवानुमातुं शक्यते, न तु श्रुतिः। अनुमिता च स्मृतिर्विरुद्धया प्रत्यक्षया स्मृत्या बाध्यते। अत एवाहुः-
आचारात्तु स्मृतिं ज्ञात्वा स्मृतेश्च श्रुतिकल्पनम् । तेन द्व्यन्तरितं तेषां प्रामाण्यं विप्रकृष्यते ।।

4सिद्धान्तः

इति
तस्मादीदृशस्याचारस्याप्रामाण्यमभ्युपेयम्।
17
वर्णकान्तरम्
तत्रैवापरं वर्णकमारचयति-

1विषयः

लौकिको वाक्यगो वाऽर्थस्त्रिवृदादेः समत्वतः

3पूर्वपक्षः

उभौ विध्यर्थवादैकवाक्यत्वादस्त्विहान्तिमः
''त्रिवृद्बहिष्पवमानम्'' इति श्रुतौ त्रिवृच्छब्दस्य त्रैगुण्यं लोकसिद्धोऽर्थः। वाक्यशेषादृक्त्रयात्मकेषु त्रिषु
सूक्तेष्ववस्थितानां बहिष्पवमानात्मकस्तोत्रनिष्पादनक्षमाणाम् ''उपास्मै गायता नरः'' इत्यादीनामृचां
नवकमर्थः। तत्र धर्मनिर्णये वेदस्य प्रबलत्वेऽपि पदपदार्थनिर्णये लोकवेदयोः समानबलत्वादुभावप्यर्थौ विकल्पेन ग्रहीतव्याविति चेत्-

4सिद्धान्तः

मैवम्
लौकिकार्थस्वीकारपक्षे विधिवाक्येऽर्थस्त्रैगुण्यम्, अर्थवादवाक्ये स्तोत्रियाणामृचां नवकम्, इत्येवं विध्यर्थवादयोर्वैयधिकरण्यादेकवाक्यत्वं न स्यात्
अत एकवाक्यत्वाय स्तोत्रियाणां नवकमित्येव विधिवाक्ये नियतोऽर्थः
1.3.6 षष्ठे म्लेच्छप्रसिद्धार्थप्रामाण्याधिकरणे सूत्रम्
SŪचोदितं तु प्रतीयेताविरोधात्प्रमाणेन।। 10।।
षष्ठाधिकरणमारचयति-

1विषयः

कल्प्यः पिकादिशब्दार्थो ग्राह्यो वा म्लेच्छरूढितः
कल्प्य आर्येष्वसिद्धत्वादनार्याणामनादरात्

3पूर्वपक्षः

ग्राह्या म्लोच्छप्रसिद्धिस्तु विरोधादर्शने सति
पिकनेमादिशब्दानां कोकिलाद्यर्थता ततः
आर्याः पिकादिशब्दं न क्वाप्यर्थे प्रयुञ्जते, म्लेच्छाश्च न प्रमाणभूताः। तस्मान्निगमनिरुक्तव्याकरणैः पिकनेमादिशब्दानामर्थः कल्पनीय इति चेत्-

4सिद्धान्तः

मैवम्
आर्यप्रसिद्धिविरोधस्यादृष्टत्वेनेदृशे विषये म्लेच्छप्रसिद्धेरप्यादरणीयत्वात्
कल्प्यमानादव्यवस्थि- तादर्थाद्वरं म्लेच्छरूढिः
यत्रेदृश्या अपि रूढेरभावस्तत्र निरुक्तादयश्चरितार्थाः
तस्मादनार्यप्रसिद्ध्या पिकः कोकिलः, नेमशब्दोऽर्धवाची, तामरसशब्दः पद्मवाची, इत्येवं द्रष्टव्यम्।
20

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्मृतिरूपम्। स्मृतिराचारमप्युपलक्षयति” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे शास्त्रप्रसिद्धार्थप्रामाण्याधिकरणे (आर्यम्लेच्छाधिकरणे) सूत्रे 8- 9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यत्रान्या इति शास्त्रस्था प्रसिद्धिस्तु बलीयसी शास्त्रीयधर्मे तेनात्र प्रियंग्वादि न गृह्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अस्मिन्नेवाधिकरणे गुरुमतमाह-

1विषयः

अर्थाबोधादप्रमाणं पिकालम्भनचोदना

3पूर्वपक्षः

मैवं म्लेच्छप्रसिद्ध्याऽपि तब्दोधादविरुद्धया

4सिद्धान्तः

स्पष्टोऽर्थः
1.3.7 सप्तमे कल्पसूत्रास्वतःप्रामाण्याधिकरणे सूत्राणि 11 – 14
SŪप्रयोगशास्त्रमिति चेत्।। 11।।
SŪनासंनियमात्।। 12।।
SŪअवाक्यशेषाच्च।। 13।।
SŪसर्वत्र च प्रयोगात्संनिधानशास्त्राच्च।। 14।।
सप्तमाधिकरणमारचयति-

1विषयः

अपौरुषेयाः कल्पाद्याः कृत्रिमा वा न कृत्रिमाः
श्रुतिस्मृत्योर्धर्मबुद्धेः स्वतो मात्वं यतः समम्

3पूर्वपक्षः

पुंनामोक्तेः पौरुषेयाः काठकाद्यसमत्वतः
तत्रोपलेभिरे केचिदापस्तम्बादिकर्तृताम्
बौधायनापस्तम्बाश्वलायनकात्यायनादिनामाङ्किताः कल्पसूत्रग्रन्थाः, निगमनिरुक्तादिषडङ्गग्रन्थाः, मन्वादिस्मृतयश्चाषौरुषेयाः, धर्मबुद्धिजनकत्वात्, वेदवत्।
न च मूलप्रमाणसापेक्षत्वेन वेदवैषम्यमिति शङ्कनीयम्। उत्पन्नाया बुद्धेः स्वतःप्रामाण्याङ्गीकारेण निरपेक्षत्वात्।
मैवम्। उक्तानुमानस्य कालात्ययापदिष्टत्वात्। बौधायनसूत्रम्, आपस्तम्बसूत्रम् इत्येवं पुरुषनाम्ना ते ग्रन्था उच्यन्ते।
न च काठकादिसमाख्यवत्प्रवचननिमित्तत्वं युक्तम्।तद्ग्रन्थनिर्माणकाले तदानींतनैः कैश्चिदुपलब्धत्वात्।

4सिद्धान्तः

तच्चाविच्छिन्नपारम्पर्येणानुवर्तते
ततः कालिदासादिग्रन्थवत्पौरुषेयाः
तथाऽपि वेदमूलत्वात्प्रमाणम्।
23

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्मृतिरूपम्। स्मृतिराचारमप्युपलक्षयति” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे म्लेच्छप्रसिद्धार्थप्रामाण्याधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् आर्यप्रसिद्धिविरोधस्यादृष्टत्वेनेदृशे विषये म्लेच्छप्रसिद्धेरप्यादरणीयत्वात् कल्प्यमानादव्यवस्थि- तादर्थाद्वरं म्लेच्छरूढिः यत्रेदृश्या अपि रूढेरभावस्तत्र निरुक्तादयश्चरितार्थाः तस्मादनार्यप्रसिद्ध्या पिकः कोकिलः, नेमशब्दोऽर्धवाची, तामरसशब्दः पद्मवाची, इत्येवं द्रष्टव्यम्। 20”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अत्रैव गुरुमतमाह-

1विषयः

कल्पे सर्वतिथौ दर्शकार्यतोक्तेः श्रुतिर्न मा

3पूर्वपक्षः

न कल्पे साध्यवेदत्वप्रहाणाद्दुर्बलत्वतः
सर्वतिथौ दर्शयागकर्तव्यतां कल्पसूत्रकार आह- ''सर्वासु तिथिष्वमावास्या कर्तव्या'' इति। श्रुतिस्त्वमावास्यायामेव तिथौ कर्तव्यतां ब्रूते। ततः कल्पसूत्ररूपेण वेदेन विरुद्धत्वादियं श्रुतिर्न मानमिति चेत्-

4सिद्धान्तः

मैवम्
कल्पस्य वेदत्वं नाद्यापि सिद्धम्
किंतु यत्नेन साध्यम्
न च तत्साधयितुं शक्यम्
पौरुषेयत्वस्य समाख्यया तत्कर्तुरुपलम्भेन च, साधितत्वात्
अतः कल्पसूत्रस्य दुर्बलतया न श्रुतेरप्रामाण्यम्
1.3.8 अष्टमे होलाकाधिकरणे सूत्राणि 14 – 23
SŪअनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात्।। 15।।
SŪअपि वा सर्वधर्मः स्यात्तन्न्यायत्वाद्विधानस्य।। 16।।
SŪदर्शनाद्विनियोगः स्यात्।। 17।।
SŪलिङ्गाभावाच्च नित्यस्य।। 18।।
SŪआख्या हि देशसंयोगात्।। 19।।
SŪन स्याद्देशान्तरेष्विति चेत्।। 20।।
SŪस्याद्योगाख्या हि माथुरवत्।। 21।।
SŪएकधर्मो वा प्रवणवत्।। 22।।
SŪतुल्यं तु कर्तृधर्मेण।। 23।।

1विषयः

होलाकादेर्व्यवस्था स्यात्साधारण्यमुताग्रिमः
देशभेदेन दृष्टत्वात्साम्यं मूलसमत्वतः

3पूर्वपक्षः

अष्टमाधिकरणमारचयति
होलाकादिशिष्टाचाराणां हारीतादिस्मृतिविशेषाणां चानुष्ठातृपुरुषभेदेन व्यवस्थितं प्रामाण्यम्। कुतः, देशविशेषे तेषां दृष्टत्वात्। होलाकादयः प्राच्यैरेव क्रियन्ते। वसन्तोत्सवो होलाका। आह्नीनैबुकादयो दाक्षिणात्यैः स्वस्वकुलागतं करञ्जार्कादिस्थावरदेवतापूजादिकमाह्नीनैबुकशब्देनोच्यते। उद्वृषभयज्ञादय उदीच्यैः, ज्येष्ठमासस्य पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्ति सोऽयमुद्वृषभयज्ञः। एवं हारीतादिस्मृतिः काचित्क्वचिद्देशविशेषे दृश्यते। तस्माद्व्यवस्थितं प्रामाण्यमिति चेत्-
मैवम्। तन्मूलत्वेनानुमितस्य वेदस्य सर्वसाधारणत्वेन तेषामपि सर्वसाधारणत्वात्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्मृतिरूपम्। स्मृतिराचारमप्युपलक्षयति” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे कल्पसूत्रास्वतःप्रामाण्याधिकरणे सूत्राणि 11 – 14”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तच्चाविच्छिन्नपारम्पर्येणानुवर्तते ततः कालिदासादिग्रन्थवत्पौरुषेयाः तथाऽपि वेदमूलत्वात्प्रमाणम्। 23”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अत्रैव गुरुमतमाह-

1विषयः

प्राच्यादिपदयुक्तायाः श्रुतेरनुमितौ पदे

3पूर्वपक्षः

अर्थाबोधादमात्वं चेन्न सामान्यानुमानतः
प्राच्यादिभिर्व्यवस्थया होलाकादिष्वनुष्ठीयमानेषु तन्मूलश्रुतिरपि प्राच्यादिपदयुक्तैवानुमातव्या। तत्र प्राच्यादिपदस्यार्थो न बुध्यते। ये पुरुषाः कंचित्कालं प्राच्यां निवसन्ति, त एव कालान्तरे प्रतीच्यां निवसन्त उपलभ्यन्ते। तत्र श्रौतप्राच्यादिपदस्यार्थाबोधादप्रमाणं श्रुतिरिति चेत्-

4सिद्धान्तः

मैवम्
अनुष्ठानसामान्यस्य मूलश्रुतिकल्पकत्वात्
अतः प्राच्यादिपदराहित्ये सत्यर्थबोधादनुमिता श्रुतिः प्रमाणम्
1.3.9 नवमे साधुपदप्रयुक्त्यधिकरणे सूत्राणि 24- 29
SŪप्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात्।। 24।।
SŪशब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम्।। 25।।
SŪअन्यायश्चानेकशब्दत्वम्।। 26।।
SŪतत्र तत्त्वमभियोगविशेषात्स्यात्।। 27।।
SŪतदशक्तिश्चानुरूपत्वात्।। 28।।
SŪएकदेशत्वाच्च विभक्तिव्यत्यये स्यात्।। 29।।
नवमाधिकरणमारचयति-

1विषयः

गोगाव्यादिषु साधुत्वे प्रयोगे वा न कश्चन

3पूर्वपक्षः

नियमोऽत्रास्ति वा नास्ति व्याकृतेर्मूलवर्जनात्
व्याकरणाभिज्ञैः सास्नादिमद्वस्तुनि 'गौः' इत्येष शब्दः प्रयुज्यते। तदनभिज्ञैस्तु स्वस्वदेशीयभाषामनुसृत्य गावी, गोणी, गोपोतलिका इत्येवमादयः शब्दाः प्रयुज्यन्ते। तत्र- 'ईदृश एव शब्दः साधुः, नेदृशः'- इत्यस्मिन्नर्थे नियामकं नास्ति। तथा प्रयोगेऽपि तन्नास्ति- 'ईदृश एव शब्दः प्रयोक्तव्यः, नेदृशः' इति न तावद्वृद्धव्यवहारो नियामकः। तस्य सर्वेषु शब्देषु समानत्वात्। नापि व्याकरणस्मृतिर्नियामिका, तस्या निर्मूलत्वेनाप्रमाणत्वात्। न ह्यभियुक्तप्रयोगस्तन्मूलम्, अन्योन्याश्रयत्वप्रसङ्गात्। व्याकरणस्मृतेः प्रामाण्यसिद्धौ तदनुसारेण प्रयोक्तॄणामभियुक्तत्वसिद्धिः, तत्सिद्धौ तत्प्रयोगमूलतया व्याकरणस्य प्रामाण्यम्। तस्मान्नास्ति साधुत्वप्रयोगयोर्नियमः, इति प्राप्ते-

4सिद्धान्तः

साधूनेव प्रयुञ्जीत गवाद्या एव साधवः
इत्यस्ति नियमः पूर्वपूर्वव्याकृतिमूलतः
ब्रूमः- 'साधूनेव प्रयुञ्जीत, न त्वपभ्रंशान्' इत्यस्ति नियमः। उभयत्र क्रमेण दोषगुणवादिनोर्वेदवाक्ययोः श्रवणात्। 'एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति' इति गुणवाक्यम्। 'तस्माद्ब्राह्मणेन न म्लेच्छितवै नापभाषितवै, म्लेच्छो ह वा एष यदपशब्दः' इति दोषवाक्यम्। यथा प्रयोगे नियमस्तथा साधुत्वेऽपि नियमो द्रष्टव्यः- 'गवाद्या एव साधवः, न तु गाव्यादयः' इति। अस्मिन्नर्थे व्याकरणस्य नियामकत्वात्।
न च निर्मूलत्वम्, पूर्वपूर्वव्याकरणस्य तन्मूलत्वात्। एतदेवाभिप्रेत्योक्तम्- 'तत्र यूपादिकरणवद्व्याकरणपरम्परा नादित्वादनुपालम्भः' इति व्याकरण प्रामाण्यं वेदेनैव साक्षादुपन्यस्तम्।
तथाचार्थवणिका आमनन्ति- ''द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च। तत्रापरा- ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम्'' इति।
तैत्तिरीयकब्राह्मणेऽपि व्याकरणस्योपादेयता श्रूयते ''वाग्वै पराच्यव्याकृताऽवदत्। ते देवा इन्द्रमब्रुवन्- इमां नो वाचं व्याकुरु, इति। तामिन्द्रो मध्यतोऽपक्रम्य व्याकरोत्। तस्मादियं व्याकृता वागुद्यते'' इति। व्याकर्तारश्च पाणिनिकात्यायनपतञ्जलयो मन्वादिसमानाः। तस्मात्साधूनामेव प्रयोगे गवादीनामेव साधुत्वे व्याकरणस्मृतिः प्रमाणम्।। 28।। 29।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्मृतिरूपम्। स्मृतिराचारमप्युपलक्षयति” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे होलाकाधिकरणे सूत्राणि 14 – 23”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अत्रैव गुरुमतमाह-

1विषयः

अश्वालम्भनशास्त्रस्य दन्त्यतालव्यसंशयात्

3पूर्वपक्षः

अमात्वेऽदन्त्यनिर्णीतिराप्तोक्तव्याकृतेर्बलात्
''अश्वमालभेत'' इत्यत्राकारवकारयोर्मध्यवर्तिनो वर्णस्य दन्त्यत्वे 'स्वं धनम्, तद्रहितं दरिद्रमालभेत' इत्यर्थो भवति। तालव्यत्वे तुरंगमवाचित्वम्। ततः संशयादप्रामाण्यमिति चेत्-

4सिद्धान्तः

न
व्याकरणानुसारेण 'अशू व्याप्तौ' इत्यस्माद्धातोरौणादिके वप्रत्यये सति तालव्यत्वनिर्णयात्
तस्मादश्वालम्भनशास्त्रं प्रमाणम्
1.3.10 दशमे लोकवेदयोः शब्दैक्याधिकरण आकृत्यधिकरणे वा सूत्राणि 30- 35
SŪप्रयोगचोदनाभावादर्थैकत्वमविभागात्।। 30।।
SŪअद्रव्यशब्दत्वात्।। 31।।
SŪअन्यदर्शन्नाच्च।। 32।।
SŪआकृतिस्तु क्रियार्थत्वात्।। 33।।
SŪन क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति चेत्।। 34।।
SŪतदर्थत्वात्प्रयोगस्याविभागः।। 35।।

1विषयः

लोके पदापदार्थौ यौ न तौ वेदेऽथवाऽत्र तौ
रूपभेदात्पदं भिन्नमुत्तानादिभिदा स्फुटा

3पूर्वपक्षः

वर्णैकत्वात्पदैकत्वं क्वाचित्की रूपभिन्नता
प्रायिकेण पदैक्येन तदर्थैक्यं तथाविधम्
दशमाधिकरणे प्रथमं वर्णकमाचरयति-
वैदिकौ पदपदार्थौ लौकिकाभ्यां पदपदार्थाभ्यामन्यौ। कुतः- रूपभेदात्। पदे तावद्रूपभेदो दृश्यते। आत्मशब्द आकारादित्वेन लोके नियतः। वेदे तु क्वचिदाकाररहितः पठ्यते- ''प्रयतं पुरूषं त्मना'' इति। 'ब्राह्मणाः' इति लोके। वेदे त्वन्यथा पठ्यते- ''ब्राह्मणासः पितरः सोम्यासः'' इति। अर्थभेदोऽपि स्फुटः। ''उत्ताना वै देवगवा वहन्ति'' इति श्रूयते। मनुष्यगवास्त्ववाञ्चो वहन्ति। वेदे वनस्पतिर्हिरण्यवर्णः तथा च श्रूयते ''देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम्''- इति। तस्मात् 'लोकवेदयोः पदपदार्थावन्यौ' इति प्राप्ते-

4सिद्धान्तः

इति
स्वरुयूपाहवनीयादिशब्दानां तदर्थानां चालौकिकत्वेऽपि प्रसिद्धपदसमभिव्याहाराद्व्युत्पत्तिः संभवति
उत्तानवहनादिकं त्वर्थवादः
अस्तु वा तथावहनम्, तथाऽप्युत्तानादिशाब्दास्तदर्थाश्च लोकप्रसिद्धा एव
तस्माद्य एव लौकिकाः पदपदार्थास्त एव वैदिकाः।
31
ब्रूमः- य एव लौकिकाः पदार्थाः, त एव वैदिकाः। तथा हि- वर्णानां तावन्नित्यत्वं प्रथमपादे साधितम्। यथा प्रयोक्तॄणां पुरुषाणां भेदेऽप्येकैकस्य पुरुषस्य बहुकृत्व उच्चारणभेदेऽपि 'त एवामी वर्णाः' इति प्रत्यभिज्ञानाद्वर्णैक्यम्। तथा 'यानि लोके गवादिपदानि, तान्येव वेदेऽधीयमानानि' इत्यबाधितप्रत्यभिज्ञया पदैकत्वमभ्युपेयम्।'त्मना, देवासः' इत्यादिपदभेदस्तु क्वाचित्कः। नैतावता बहुतरप्रत्यभिज्ञावगतं पदैक्यमपोढुं शक्यम्। अन्यथा 'सोऽयं देवदत्तः' इति प्रत्यभिज्ञातं देवदत्तैक्यमपि देशादिभेदमात्रेणापोद्येत। पदैक्ये चार्थैकत्वमवश्यंभावि। अन्यथा वेदे पृथग्व्युत्पत्त्यभावादबोधकत्वं प्रसज्येत। एतदेवाभिप्रेत्योक्तम्-
लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः ।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्मृतिरूपम्। स्मृतिराचारमप्युपलक्षयति” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे साधुपदप्रयुक्त्यधिकरणे सूत्राणि 24- 29”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “साधूनेव प्रयुञ्जीत गवाद्या एव साधवः इत्यस्ति नियमः पूर्वपूर्वव्याकृतिमूलतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
द्वितीयवर्णकमारचयति-

1विषयः

व्यक्तिंर्व्रीह्यादिशब्दार्थ आकृतिर्वा क्रियान्वयात्

3पूर्वपक्षः

व्यक्तिर्व्युत्पत्तिवेलायामाकृत्या सोपलक्ष्यते
''व्रीहीनवहन्ति'' ''पशुमालभेत'' ''गामानय'' ''ब्राह्मणो न हन्तव्यः'' इत्यादिप्रयोगेषु व्रीह्यादिशब्दानां व्यक्तिरर्थः। कुतः- अवहननादिक्रियाभिर्व्यक्तेरन्वेतुं शक्यत्वात्। नह्याकृतिरवहन्तुमालब्धुमानेतुं वा योग्या। नन्वानन्त्यव्यभिचाराभ्यां न व्यक्तौ व्युत्पत्तिः संभवति। अनन्ता हि व्यक्तयः। अतीतानागतानामनेकदेशवर्तिनां गवामियत्ताया अनवधारणात्। किं च शुक्लव्यक्तौ व्युत्पन्नो गोशब्दः कृष्णव्यक्तौ प्रयुज्यमानः स्वार्थे व्यभिचरेत्। तत्र कथं व्युत्पत्तिरिति चेत्- एवं तर्हि व्युत्पत्तिकाले सा व्यक्तिराकृत्योपलक्ष्यतामिति प्राप्ते-

4सिद्धान्तः

शक्तिग्रहादियुक्तिभ्य आकृतेरर्थतोचिता
क्रियापर्यवसानाय व्यक्तिस्तत्रोपलक्ष्यताम्
ब्रूमः- अन्वयव्यतिरेकाभ्यामाकृतेः शक्तिग्रहणनिमित्तत्वाच्छाब्दार्थत्वं तस्या एवोचितम्। किं च गोशब्द उच्चारिते व्यक्तिवादिनः संशयो भवेत्। तस्मादाकृतेरेवाभिधेयत्वम्। यद्याकृताववहननादिक्रिया न पर्यवस्येत् तर्हि व्यक्तिस्तत्रोपलक्षणीया। किंच- ''श्येनचितं चिन्वीत'' इत्यादावाकृतेरेव सादृश्यप्रतियोगितया कार्यान्वयो दृश्यते। तस्मात् आकृतिः शब्दार्थः।। 33।। 34।।
गुरुमतम्
अत्रैव गुरुमतमाह-

1विषयः

गवादिचोदना नो मा जातिव्यक्त्योरनिर्णयात्
आनन्त्यव्यभिचाराभ्यां न व्यक्तिरिति निर्णयः

3पूर्वपक्षः

स्पष्टोऽर्थः
अत्र पादे- अधिकरणानि 10, सूत्राणि 22।
आदितः- अधिकरणानि 35, सूत्राणि 120।
प्रथमाध्याये चतुर्थः पादः
उद्भिच्चित्रादिनामरूपम्

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य तृतीयः पादः
← Adhyāya 1, Pāda 2 Contents Adhyāya 1, Pāda 4 →