SŪआम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्, तस्मादनित्यमुच्यते।। 1।
SŪशास्त्रदृष्टविरोधाच्च।। 2।।
SŪतथा फलाभावात्।। 3।।
SŪअन्यानर्थक्यात्।। 4।।
SŪअभागिप्रतिषेधाच्च।। 5।।
SŪअनित्यसंयोगात्।। 6।।
SŪविधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः।। 7।।
SŪतुल्यं च साम्प्रदायिकम्।। 8।।
SŪअप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच्छब्दार्थस्त्वप्रयोगभूतस्तस्मादुपपद्येत।। 9।।
SŪगुणवादस्तु।। 10।।
SŪरूपात्प्रायात्।। 11।।
SŪदूरभूयस्त्वात्।। 12।।
SŪअपराधात्कर्तुश्च पुत्रदर्षनम्।। 13।।
SŪअकालिकेप्सा।। 14।।
SŪविद्याप्रशंसा।। 15।।
SŪसर्वत्वमाधिकारिकम्।। 16।।
SŪफलस्य कर्मनिष्पत्तेस्तेषां लोकवत्परिमाणतः फलविशेषः स्यात्।। 17।।
SŪअन्त्ययोर्यथोक्तम्।। 18।।
3पूर्वपक्षः
द्वितीयपादस्य प्रथमाधिकरणमारचयति ।
काम्यपशुकाण्डे विध्यर्थवादौ श्रूयेते। ''वायव्यं श्वेतमालभेत भूतिकामः'' इति विधिः। ''वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति'' इत्यर्थवादः। तत्र विधिवाक्यगता वायव्यादिशब्दा अर्थवादशब्दनैरपेक्ष्येणैव विशिष्टमर्थं विदधति। अर्थवादशब्दाश्चेतरनैरपेक्ष्येणैव भूतार्थमन्वाचक्षते। 'क्षिप्रगामी वायुः स्वोचितेन भागेन तोषितो भागप्रदायैश्वर्यं प्रयच्छति' इत्युक्ते रामायण भारतादाविव वृत्तान्तः कश्चित्प्रतीयते। न त्वनुष्ठेयं किञ्चित्। अत एकवाक्यत्वाभावान्नास्त्यर्थवादस्य धर्मे प्रामाण्यमिति प्राप्ते-
4सिद्धान्तः
ब्रूमः- मा भूत्पदैकवाक्यता। वाक्यैकवाक्यता तु विद्यते। विधिवाक्यं तावत्परुषं प्रेरयितुं विधेयार्थस्य प्राशस्त्यमपेक्षते। अर्थवादवाक्यञ्च फलवदर्थावबोधपर्य्यवसिताध्ययनविधिपरिगृहीतत्वेन पुरुषार्थमपेक्षते। तत्र पुरुषार्थपर्यवसितविध्यपेक्षितं प्राशस्त्यं लक्षणावृत्त्या समर्पयदर्थवादवाक्यं विधिवाक्येन सहैकवाक्यतामापद्यते। 'यतः क्षिप्रगामिस्वभावतया शीघ्रफलप्रदो वायुरस्य पशोर्देवता, ततः प्रशस्तमिमं वायव्यं पशुमालभेत' इति वाक्ययोरन्वयः। तस्मादर्थवादा धर्मे प्रमाणम्।
अस्मिन्नेवाधिकरणे मतान्तरमनुसृत्य पूर्वोत्तरपक्षावाह ।
'यतो वायुः क्षिप्रमेव फलप्रदः, अतो वायव्यमालभेत' इत्येवमर्थवादोक्तं हेतुमपेक्ष्य विधिः पुरुषं नियुङ्क्ते। ततः सापेक्षत्वादप्रामाण्यमिति पूर्वपक्षः।
'विमतं कर्मानुष्ठेयम् फलप्रददेवतोपेतत्वात्, राजसेवादिवत्' इत्यनुमानं यद्यर्थवादे विवक्ष्यते, तदानीमागमप्रमाणस्य विधिवाक्यस्य प्रमाणान्तरसापेक्षत्वं स्यात्। नत्वेवं विवक्षितम्। किन्तु फलप्रददेवतातोषकत्वोपन्यासमुखेन कर्मप्राशस्त्यमुपलक्ष्यते। तथा सति 'प्रशस्तं कर्मानुष्ठेयम्' इत्यस्मिन्नर्थे सार्थवादस्य विधेः पर्यवसानादेकवाक्यता लभ्यते। तत्र कुतः सापेक्षत्वम्। तस्मात् 'विधिः प्रमाणम्' इति राद्धान्तः।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अर्थवादरूपम्। अर्थवादो मन्त्रस्याप्युपलक्षकः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “वेदापौरुषेयत्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “समाख्याध्यापकत्वेन वाक्यत्वं तु पराहृतम् तत्कर्त्रनुपलम्भेन स्यात्ततोऽपौरुषेयता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.2.2
विधिवन्निगदाधिकरणम्
SŪविधिर्वास्यादपूर्वत्वाद्वादमात्रं ह्यनर्थकम्।। 19।।
SŪलोकवदिति चेत्।। 20।।
SŪन पूर्वत्वात्।। 21।।
SŪउक्तं तु वाक्यशेषत्वम्।। 22।।
SŪविधिश्चानर्थकः क्वचित्, तस्मास्तुतिः प्रतीयेत, तत्सामान्यादितरेषु तथात्वम्।। 23।।
SŪप्रकरणे सम्भवन्नपकर्षो न कल्प्येत, विद्यानर्थक्यं हि तं प्रति।। 24।।
SŪविधौ च वाक्यभेदः स्यात्।। 25।।
द्वितीयाधिकरणमारचयति-
3पूर्वपक्षः
इदमाम्नायते- ''औदुम्बरो यूपो भवति, ऊर्ग्वा उदुम्बरः, ऊर्क्पशवः ऊर्जैवास्मा ऊर्जं पशूनाप्नोति, ऊर्जोऽवरुद्ध्यै'' इति। अमृतशब्दाभिधेयोऽत्यन्तसारभूतः सूक्ष्मोऽन्नरस ऊर्गुच्यते। उदुम्बररूपयोर्जा यजमानार्थमध्वर्य्युः पशुरूपामूर्जमाप्नोति। ततो यूपस्यौदुम्बरत्वमूर्जः सम्पादनाय भवतीत्यर्थः। अत्र 'अवरुद्ध्यै' इति तादर्थ्ये चतुर्थी। तया फलत्वं गम्यते। 'धनलाभाय राजसेवा' इत्यादौ तादर्थ्यदर्शनात्। न च फलपरस्य वचनस्य स्तावकत्वं युज्यते। अन्यथा स्वर्गकाम इत्यत्र स्वर्गशब्दस्यापि ज्योतिष्टोमस्तावकत्वप्रसङ्गादिति प्राप्ते-
4सिद्धान्तः
ब्रूमः- अयमूर्जोऽवरोधः कस्य फलम्। किमविहितस्यौडुम्वरत्वस्य उत विहितस्य। नाद्यः। अनुष्ठानमन्तरेण द्रव्यमात्रात्फलानुत्पत्तेः। द्वितीये किमत्र विधिः प्रत्यक्षः, उतोन्नेयः। नाद्यः ''औदुम्बरो यूपो भवति'' इत्यत्र लिङ्प्रत्ययाश्रवणात्। द्वितीये स्तुत्या स उन्नेयः। न चात्र स्तुतिमङ्गीकरोषि।
अथोच्येत 'विधिना यूपौदुम्बरत्वं स्तूयते तत्फलं चावबोध्यते' इति तर्हि वाक्यं भिद्येत। ततः फलविधिवन्निगद्यमा-
नमप्येतद्वाक्यं स्तावकमेव।
अत्रैव गुरुमतेन पूर्वोत्तरपक्षावाह ।
'ऊर्जं पशूनाप्नोति' इत्यपूर्वार्थत्वाद्विधित्वं प्रतिभासते। लिङ्ङाद्यभावादर्थवादत्वम्। अतः सन्दिग्धत्वान्न प्रामाण्यं चोदनाया इति पूर्वपक्षः।
एकवाक्यत्वलाभेनार्थवादत्वं निर्णीयते। अतः प्रमाणं चोदनेति राद्धान्तः।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अर्थवादरूपम्। अर्थवादो मन्त्रस्याप्युपलक्षकः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अर्थवादाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.2.3
तृतीये हेतुवन्निगदाधिकरणे सूत्राणि 26 – 30
SŪहेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम्।। 26।।
SŪस्तुतिस्तु शब्दपूर्वत्वात् , अचोदना तस्य।। 27।।
SŪअर्थे स्तुतिरन्याय्येति चेत्।। 28।।
SŪअर्थस्तु विधिशेषत्वाद्यथा लोके।। 29।।
SŪयदि च हेतुरवतिष्ठेत निर्देशात्, सामान्यादिति चेदव्यवस्था विधीनां स्यात्।। 30।।
तृतीयाधिकरणमारचयति-
1विषयः
तेन ह्यन्नमिति प्रोक्तो वादो हेतुरुत स्तुतिः
हिना श्रुता हेतुताऽतः शूर्पमन्यच्च साधनम्
3पूर्वपक्षः
शूर्पसाधनता श्रौती नाश्रौतैः सा विकल्प्यते
अतो निरर्थको हेतुः स्तुतिस्तस्मात्प्रवर्तिका
इदमाम्नायेत- ''शूर्पेण जुहोति तेन ह्यन्नं क्रियते'' अयमर्थवादो विधेये शूर्पे हेतुत्वेनान्वेति। हिशब्दस्य
हेतुवाचित्वात्। 'यस्मादन्नसाधनं, तस्माच्छूर्पेण होतव्यम्' इत्युक्ते 'यद्यदन्नसाधनं दर्वीपिठरादिकं तेन सर्वेण
होतव्यम्' इति लभ्यते। ततः 'पिठरादयः शूर्पेण सह विकल्प्यन्ते' इति प्राप्ते
4सिद्धान्तः
ब्रूमः- शूर्पस्य होमसाधनत्वं श्रौतम्, तृतीयया तदवगमात्
पिठरादीनां त्वानुमानिकम्
अतोऽसमानबलत्वान्न विकल्पो युक्तः
ततो हेतुर्व्यर्थः
स्तुतिः प्ररोचनायोपयुक्ता, तस्मात्स्तुतित्वेनान्वयः।
9
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अर्थवादरूपम्। अर्थवादो मन्त्रस्याप्युपलक्षकः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विधिवन्निगदाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.2.4
चतुर्थे मन्त्रलिङ्गाधिकरणे सूत्राणि 31- 53
SŪतदर्थशास्त्रात्।। 31।।
SŪवाक्यनियमात्।। 32।।
SŪबुद्धशास्त्रात्।। 33।।
SŪअविद्यमानवचनात्।। 34।।
SŪअचेतनेऽर्थबन्धनात्।। 35।।
SŪअर्थविप्रतिषेधात्।। 36।।
SŪस्वाध्यायवद्वचनात्।। 37।।
SŪअविज्ञेयात्।। 38।।
SŪअनित्यसंयोगान्मन्त्रानर्थक्यम्।। 39।।
SŪअविशिष्टस्तु वाक्यार्थः।। 40।।
SŪगुणार्थेन पुनः श्रुतिः।। 41।।
SŪपरिसंख्या।। 42।।
SŪअर्थवादो वा।। 43।।
SŪअविरुद्धं परम्।। 44।।
SŪसंप्रैषे कर्मगर्हानुपलम्भः संस्कारत्वात्।। 45।।
SŪअभिधानेऽर्थवादः।। 46।।
SŪगुणादप्रतिषेधः स्यात्।। 47।।
SŪविद्यावचनमसंयोगात्।। 48।।
SŪसतः परमविज्ञानम्।। 49।।
SŪउक्तश्चानित्यसंयोगः।। 50।।
SŪलिङ्गोपदेशश्च तदर्थत्वात्।। 51।।
SŪऊहः।। 52।।
SŪविधिशब्दाश्च।। 53।।
चतुर्थाधिकरणमारचयति-
3पूर्वपक्षः
''उरु प्रथस्व'' इत्ययं कश्चिन्मन्त्रः। तस्यायमर्थः- 'भोः पुरोडाश, त्वमुरु विपुलता यथा भवति तथा प्रसर' इति। एवमादयो मन्त्रा यागप्रयोगेषूच्चार्यमाणा अदृष्टमेव जनयन्ति। नत्वर्थप्रकाशनाय तदुच्चारणम्। पुरोडाशप्रथन- लक्षणस्यार्थस्य व्राह्मणवाक्येनापि भासनात् ''उरु प्रथस्वेति पुरोडाशं प्रथयति'' इति हि ब्राह्मणवाक्यम्, इति चेत्
नैतद्युक्तम्। अर्थप्रत्यायनस्य दृष्टप्रयोजनस्य संभवे सति केवलादृष्टस्य कल्पयितुमशक्यत्वात्। तस्माद्दृष्टमर्थानुस्मरणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम्। ब्राह्मणवाक्येनाप्यर्थानुस्मरणसंभवे 'मन्त्रेणैवानुस्मपणीयम्' इति यो नियमः, तस्य दृष्टासंभवाददृष्टं प्रयोजनमस्तु।
अत्रैव मतान्तरेण पूर्वोत्तरपक्षावाह-
अस्य मन्त्रस्य लिङ्गेन विनियोगे ब्राह्मणवाक्यमविवक्षितार्थं स्यात्। वाक्येन विनियोगे मन्त्रलिङ्गं न विवक्ष्येत। इत्युभयोर्विरोधादप्रामाण्यं चोदनाया इति पूर्वः पक्षः ।
अत्र पादे- अधिकरणानि 4 , सूत्राणि 53।
आदितः- अधिकरणानि 12, सूत्राणि 85।
प्रथमाध्याये तृतीयः पादः
स्मृतिरूपम् - स्मृतिराचारमप्युपलक्षयति
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अर्थवादरूपम्। अर्थवादो मन्त्रस्याप्युपलक्षकः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये हेतुवन्निगदाधिकरणे सूत्राणि 26 – 30”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- शूर्पस्य होमसाधनत्वं श्रौतम्, तृतीयया तदवगमात् पिठरादीनां त्वानुमानिकम् अतोऽसमानबलत्वान्न विकल्पो युक्तः ततो हेतुर्व्यर्थः स्तुतिः प्ररोचनायोपयुक्ता, तस्मात्स्तुतित्वेनान्वयः। 9”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]