SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 1, Pāda 1

प्रमाणम्

विधिरूपं मानमीरितम्

8adhikaraṇas
32sūtras
1.1.1 प्रथमे धर्मशास्त्रारम्भप्रतिज्ञाधिकरणे सूत्रम्
अथातो धर्मजिज्ञासा।। 1।।
इत्थं संगतीर्व्युत्पाद्याथ प्रत्यधिकरणं विषयसंशयपूर्वपक्षसिद्धान्तांश्चतुरोऽवयवान्संजिघृक्षुः प्रथमाध्यायस्य प्रथमे पादे प्रथमाधिकरणं भट्टमतेनारचयति-

1विषयः

तदेतस्य प्रथमाधिकरणस्य विषयः ''स्वाध्यायोऽध्येतव्यः'' इत्यध्ययनविधिः अक्षरग्रहणमात्रपर्यवसायीति केचिन्मन्यन्ते।

2संशयः

तत्रैवं संशयः- 'इदं विचारशास्त्रं विधिप्रयुक्त्या नारम्भणीयम्, उतारम्भणीयम्' इति।

3पूर्वपक्षः

तत्र 'अर्थज्ञानायाध्ययनस्य विधिः' इति वदन्वादी प्रष्टव्यः- किमत्यन्तमप्राप्तमध्ययनं विधीयते, किं वा पक्षेऽप्राप्तमवघातवन्नियम्यते इति।
नाद्यः- विमतं वेदाध्ययनमर्थज्ञानहेतुः, अध्ययनत्वात्, भारताध्ययनवत्, इत्यनुमानेनैव विधिनिरपेक्षेण प्राप्तत्वात्।
तर्ह्यस्तु द्वितीयः पक्षः- अवघातवन्नियमविधित्वसंभवात्। यथा नखैरवधातेन वा तण्डुलनिष्पत्तिसंभवात्पक्षेऽप्राप्तोऽवधातो विधिनाऽवश्यं कर्तव्य इति नियम्यते, तथा लिखितपाठेन गुरुपूर्वकाध्ययनेन वाऽर्थज्ञानसंभवात्पक्षेऽप्राप्तमध्ययनं विधिना नियम्यत इति चेत्-
न। वैषम्यात्। अवघातनिष्पन्नैरेव तण्डुलैरवान्तरापूर्वद्वारेण दर्शपूर्णमासौ परमापूर्वे जनयतः, नान्यथा। ततो दर्शपूर्णमासापूर्वमवघातस्य नियमहेतुः। अत्र तु लिखितपाठजन्येनैवार्थज्ञानेन क्रत्वनुष्ठानसिद्धेरध्ययनस्य नियमहेतुर्नास्ति। अतो द्विविधविध्यसंभवादर्थज्ञानहेतुविचारशास्त्रारम्भस्य वैधत्वं नास्ति। तर्हि श्रूयमाणस्य विधेः का गतिरिति चेत्, स्वर्गायाक्षरग्रहणमात्रं विधेयमिति वदामः। अश्रुतोऽपि स्वर्गो विश्वजिन्न्यायेन कल्पनीयः। स स्वर्गः स्यात्सर्वान्प्रत्यविशेषात्- [पू.मी.सू.4।3।15] इति सूत्रेण विश्वजित्यश्रूयमाणमप्यधिकारिणं सम्पादयितुं तद्विशेषणं स्वर्गफलं युक्त्या स्थापितम्। तद्वदध्ययनेऽप्यस्तु। एतदेवाभिप्रेत्योक्तम्-
विनाऽपि विधिना दृष्टलाभान्नहि तदर्थता । कल्प्यस्तु विधिसामर्थ्यात्स्वर्गो विश्वजिदादिवत् ।।
इति । एवं च सति ''वेदमधीत्य स्नायात्'' इति शास्त्रमनुगृह्यते। अस्मिञ्शास्त्रे वेदाध्ययनसमावर्तनयोर्नैरन्तर्यं प्रतीयते। त्वत्पक्षे तु- अधीतेऽपि वेदे धर्मविचारणाय गुरुकुल एवाधिवासः कर्तव्यः। तथा सति तन्नैरन्तर्यं बाध्यते। तस्माद्विचारशास्त्रस्य वैधत्वाभावात्पाठमात्रेण धर्मसिद्धेः समावर्तनशास्त्राच्च धर्मविचारशास्त्रं नारम्भणीयमिति पूर्वः पक्षः ।

4सिद्धान्तः

अत्रोच्यते- यदुक्तम् 'लोकसिद्धत्वान्नाप्राप्तविधिः' इति तत्तथैवास्तु। नियमविधित्वं तु न वारयितुं शक्यम्। यथा दर्शपूर्णमासजन्यं परमापूर्वमवाघातनियमजन्यस्यावान्तरापूर्वस्य कल्पकम्, एवमशेषक्रतुजन्यमपूर्वजातं साधनाध्ययनक्रतुज्ञाननियमजन्यस्यावान्तरापूर्वस्य कल्पकं भविष्यति। नियमादृष्टाङ्गीकारे च श्रूयमाणो विधिरनर्थकः स्यात्। न च विश्वजिन्न्यायेन स्वर्गार्थत्वं युक्तम्। दृष्टफलेऽर्थज्ञाने संभवत्यदृष्टस्य कल्पयितुमशक्यत्वात्। अत एवोक्तम्-
लभ्यमाने फले दृष्टे नादृष्टपरिकल्पना ।विधेस्तु नियमार्थत्वान्नानर्थक्यं भविष्यति ।।
इति। नन्वेवमपि श्रुतव्याकरणाद्यङ्गस्याधीतवेदस्य पुरुषस्यार्थज्ञानसंभवाद्विचारशास्त्रस्य वैयर्थ्यमिति चेत्- न। ज्ञानमात्रसंभवेऽपि निर्णयस्य विचाराधीनत्वात्। ''अक्ताः शर्करा उपदधाति'' इत्यत्र 'घृतेनैव, न तैलादिना' इत्ययं निर्णयो व्याकरणेन निरुक्तेन निगमेन वा न सिध्यति। विचारशास्त्रं तु ''तेजो वै घृतम्'' इति वाक्यशेषादर्थं निर्णेष्यति। अतो विचारो वैधः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “विधिरूपं मानमीरितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — नास्ति; अयं शास्त्रस्य प्रथमो न्यायः।
गुरुमतम्
अस्मिन्नेवाधिकरणे गुरुमतमाह-

1विषयः

अथवाऽध्यापनात्सिद्धेर्नैवास्त्यध्ययने विधिः
तेन पूर्वोत्तरौ पक्षौ प्रसाध्यावन्यहेतुभिः
विचारशास्त्रं विषयः।

2संशयः

अवैधं वैधं वेति संशयः।

3पूर्वपक्षः

विधेयाध्यापनं सिध्येद्बालस्यार्थधियं विना
तेन निर्विषयं शास्त्रं निष्फलं चेत्युपेक्ष्यताम्
तत्र वैधत्ववादी प्रष्टव्यः- विधेयमाचार्यकर्तृकमध्यापनं किं माणवकस्यार्थज्ञानमपि प्रयुञ्जीत किंवा पाठमात्रम्। नाद्यः। अन्तरेणाप्यर्थज्ञानमध्यापनसिद्धेः । पाठमात्रे तु विचारस्य विषयो न भवति। आपाततः प्रतीतः संदिग्धोऽर्थो विषयः। तथा सति यत्रार्थप्रतीतिरेव नास्ति तत्र संदेहस्य का कथा। निर्णयो विचारस्य फलम्। सोऽपि विषयवद्दूरापेतः। अतो विषयप्रयोजनाभावाद्विचारशास्त्रं नारम्भणीयमिति पूर्वः पक्षः ।

4सिद्धान्तः

स्वतः प्राप्तार्थबोधस्य विवक्षानपनोदनात्
विषयादि सुसंपादं शास्त्रमारभ्यते ततः
अत्रोच्यते- मा नामाध्यापनेनार्थावबोधः प्रयुज्यताम्। तथाऽपि साङ्गवेदाध्यायिनो निगमनिरुक्त-व्याकरणैर्व्युत्पन्नस्य पौरुषेयग्रन्थेष्विव वेदेऽप्यर्थावबोधः स्वत एव प्राप्नोति। ननु यथा 'विषं भुङक्ष्व' इत्यत्र प्रतीयमामनोऽप्यर्थो न विवक्षितः, तथा वेदार्थस्याविवक्षायां विषयाद्यभावस्तदवस्थ इति चेत्- न।
विवक्षाया अपनोदितुमशक्यत्वात्। विषभोजनवाक्यस्याप्तप्रणीतत्वेन बाधो मा भूदिति मुख्यार्थस्तत्र परित्यक्तः। वेदे तु- कुतो न विवक्षितार्थत्वम्। विवक्षिते च वेदार्थे यत्र यत्र पुरुषस्य संदेहः स सर्वोऽपि विचारशास्त्रस्य विषयः। तन्निर्णयः प्रयोजनम्। ततोऽध्यापनविधिप्रयुक्तेनाध्ययनेन बुध्यमानस्यार्थस्य विचार्यत्वाद्विचारशास्त्रस्य वैधत्वं सिद्धम्।। 32।। 33।। 34।।
1.1.2 द्वितीये धर्मलक्षणाधिकरणे सूत्रम्
चोदनालक्षणोऽर्थो धर्मः।। 2।।
द्वितीयाधिकरणं भट्टमतेनारचयति--

1विषयः

विचारविषयो धर्मो लक्षणेन विवर्जितः
मानेन वाऽथवोपेतस्ताभ्यामिति विचिन्त्यते

3पूर्वपक्षः

लौकिकाकारहीनस्य तस्य किं नाम लक्षणम्
मानशङ्का तु दूरेऽत्र प्रत्यक्षाद्यप्रवर्तनात्
लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिः। अत एवाहुः-
मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणात्
इति । सजातीयविजातीयव्यावर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्ध आकारो लक्षणम्। तेन च लक्षणेन लक्ष्ये वस्तुनि संभावनाबुद्धौ जातायां प्रमातुमुद्युक्तः प्रमाणेन तदवगच्छति। तद्यथा- 'सास्नादिमती गौः' इत्युपश्रुत्य चतुष्पात्सु जीवेषु तल्लक्षणलक्षितपदार्थमन्विष्य 'इयं गौः' इति चक्षुषाऽवगच्छति। एवं च सत्यलौकिकत्वाद्धर्मस्य नास्ति लक्षणम्। तत्र कुतः प्रमातुमुद्योगः। कथंचित्तदुपयोगेऽपि न तत्र प्रमाणसद्भावः शङ्कितुमपि शक्यः। न तावदत्र प्रत्यक्षं क्रमते। धर्मस्य रूपादिरहितत्वात्। अत एव व्याप्तिग्रहणाभावान्नानुमानम्। प्रत्यक्षाद्यनुमानमूलश्च शब्दस्य संगतिग्रहः। ततो व्युत्पत्त्यभावान्नागमोऽपि तत्र प्रवर्तते। तस्माद्धर्मो लक्षणप्रमाणरहित इति प्राप्ते-

4सिद्धान्तः

चोदनागम्य आकारो ह्यर्थत्वे सति लक्षणम्
अत एव प्रमाणं च चोदनैवात्र नो कुतः
ब्रूमः- मा भूच्चक्षुरादिगम्यो लौकिक आकारः। तथाऽपि चोदनागम्यः स्वर्गफलसाधनत्वादिलक्षण आकारोऽस्ति। तेन 'अर्थत्वे सति चोदनागम्यो धर्मः' इति लक्षणं भवति।
'अर्थो धर्मः' इत्युक्ते ब्रह्मणि चैत्यवन्दनादौ घटादौ चातिव्याप्तिः। तद्व्यवच्छेदाय 'चोदनागम्यः' इत्युक्तम्।
तावत्येवोक्ते विधिगम्येऽनर्थफलत्वेनानर्थरूपे श्येनाद्यभिचारकर्मण्यतिव्याप्तिः। तद्व्यवच्छेदाय 'अर्थः' इत्युक्तम्।
यद्यपि श्येनस्य शत्रुवधः फलम्, न तु नरकः, तथाऽपि तस्य वधस्य नरकहेतुत्वाद्वधद्वारा श्येनोऽनर्थः।
न चैवमग्नीषोमीयपशुहिंसाया अपि वधत्वेन नरकहेतुत्वं स्यादिति शङ्कनीयम्। तस्याः क्रत्वङ्गत्वेन क्रतुफलस्वर्गव्यतिरेकेण फलान्तराभावात्। यतश्चोदनागम्यत्वे सत्यर्थत्वं धर्मलक्षणम्। अत एव गम्ये धर्मे गमकं विधिवाक्यं प्रमाणम्। यद्यपि प्रत्यक्षानुमानयोरविषयो धर्मः, तथाऽपि प्रसिद्धपदसमभिव्याहारेण व्युत्पत्तिः संभवति। तस्माल्लक्षणप्रमाणाभ्यामुपेतो धर्मः।। 35।। 36।। 37।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “विधिरूपं मानमीरितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे धर्मशास्त्रारम्भप्रतिज्ञाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अस्मिन्नेवाधिकरणे गुरुतममाह-

2संशयः

तत्र संशयः- किं मन्त्रार्थवादप्रतीतः सिद्धार्थोऽपि वेदार्थो भवति, किंवा विधिवाक्यप्रतीतः कार्यार्थ एव वेदार्थः, इति।

3पूर्वपक्षः

तत्र-
लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः ।
इति न्यायेन व्युत्पत्त्यनुसारी वेदार्थो वर्णनीयः। व्युत्पत्तिश्च सिद्धार्थेऽप्यस्ति। 'पुत्रस्ते जातः' इति वार्ताहरव्याहारजन्यं श्रोतुर्हर्षमनुमाय हर्षहेतौ पुत्रजन्मनि संगतिं प्रतिपद्यते। अतो मन्त्रार्थवादप्रतीतोऽप्यर्थो वेदार्थ इति प्राप्ते

4सिद्धान्तः

ब्रूमः-
1.1.3 तृतीये धर्मप्रमाणपरीक्षाधिकरणे सूत्रम्
तस्य निमित्तपरीष्टिः।। 3।।
तृतीयाधिकरणं भट्टमतेनारचयति-

1विषयः

धर्मस्य ज्ञापकं मानं यदुक्तं चोदनात्मकम्
एतत्किं न परीक्ष्यं स्यात्किंवा सम्यक्परीक्ष्यताम्

3पूर्वपक्षः

मानोपदेशान्मेयस्य सिद्धत्वात्किं परीक्षया
मैवं विचारशास्त्रेऽस्मिन्परीक्षोपेक्षते कुतः

4सिद्धान्तः

स्पष्टोऽर्थः।
41

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “विधिरूपं मानमीरितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये धर्मलक्षणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “चोदनागम्य आकारो ह्यर्थत्वे सति लक्षणम् अत एव प्रमाणं च चोदनैवात्र नो कुतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अस्मिन्नेवाधिकरणे गुरुमतमाह-

1विषयः

आदौ परीक्ष्यो वेदार्थश्चोदनामानताऽथवा

3पूर्वपक्षः

वेदार्थस्य प्रधानत्वात्प्रथमं तत्परीक्ष्यताम्
द्वितीयाध्यायाद्यैः कर्मभेदशेषशेषित्वादिरूपो वेदार्थः सूत्रकारेण परीक्षिष्यते। चोदनाप्रामाण्यं तु प्रथमाध्याये परीक्ष्यते। तदेतदयुक्तम्। कुतः- वेदार्थस्य प्रधानत्वेनादौ परीक्षणीयत्वात्। प्रधानभूतो हि वेदः। पुरुषार्थत्वेनानुष्ठेयत्वात्। प्रमाणं तु तद्बोधनाय प्रवृत्तं सत्तच्छेषतया न प्रधानमिति प्राप्ते

4सिद्धान्तः

चोदनामानतैवात्र प्रथमं साध्यतां गता
अनपेक्षतया तस्य यतो मुख्यत्वमाश्रितम्
ब्रूमः-
अस्त्वनुष्ठानोपाधौ वेदार्थप्रमाणयोः प्रधानोत्सर्जनभावः। प्रमाणप्रमेयभावोपाधौ तु प्रमाणस्यैव मुख्यत्वं निरपेक्षत्वात्। नहि स्वतः प्रामाण्यवादिनां मते सापेक्षता प्रमाणस्यास्ति। प्रमेयं तु सापेक्षम्। 'मानाधीना मेथसिद्धिः' इत्युक्तत्वात्। तदेतन्मुख्यत्वमाश्रित्य सूत्रकारः प्रमाणपरीक्षामादौ चकारेति युज्यते। अथान्यत्प्राधान्यमाश्रित्य धर्मविचार एवादौ कस्मान्न कृतः। न कृतः- अपरीक्षितेन प्रमाणेन धर्मस्यासिद्धौ तद्विचारस्याश्रयासिद्धेः।। ।43।।।। 44।।
तदेवमधिकरणत्रये व्युत्पादनाय भट्टप्राभाकरमतभेद उपन्यस्तः। अथ प्रायेण भाट्टमतमेवोपन्यस्यते।
1.1.4 धर्मे प्रत्यक्षाद्यगम्यत्वाधिकरणम्
सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात्।। 4।।
चतुर्थाधिकरणमारचयति-

1विषयः

प्रत्यक्षादिभिरप्येष गम्यते विधिनैव वा

3पूर्वपक्षः

अक्षादीनां प्रमाणत्वान्मेयधर्मावभासिता
अक्षं प्रत्यक्षम्। प्रत्यक्षादीनां प्रमाणत्वात् प्रमेयावभासकत्वम् तावदविवादम्। धर्मश्च प्रमेयः, असन्दिग्धा- विपर्यस्तत्वे सति बुध्यमानत्वात्। घटादिवत्। तस्मात् प्रत्यक्षादिभिरप्येष धर्मो गम्यत इति प्राप्ते-

4सिद्धान्तः

वर्त्तमानैकविषयमक्षं धर्मस्तु भाव्यसौ
अक्षमूलोऽनुमानादिस्तेन विध्येकमेयता
ब्रूमः- धर्मस्य प्रमेयत्वेऽपि प्रत्यक्षयोग्यता नास्ति, प्रत्यक्षस्य वर्त्तमानमात्रविषयत्वात्। यस्तु प्रत्यक्षस्यात्यन्तमविषयः, तत्रानुमानादीनां कैव कथा। क्वचित् प्रत्यक्षेण गृहीते व्याप्त्यादौ पश्चादनुमानादीनां प्रवृत्तिः। तस्माद्विधिनैव धर्मो गम्यते।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “विधिरूपं मानमीरितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये धर्मप्रमाणपरीक्षाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “स्पष्टोऽर्थः। 41”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.1.5 धर्मे विधिप्रामाण्याधिकरणम्
औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः, तस्यज्ञानमुपदेशोव्यतिरेकश्चार्थेनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् ।। 5।।

1विषयः

अबोधको बोधको वा न तावद्बोधको विधिः

3पूर्वपक्षः

शक्तेरलौकिके धर्मे ग्रहणं दुर्घटं यतः
पञ्चमाधिकरणमारचयति ।
यथा धर्मे प्रत्यक्षादीनां प्रामाण्यं नास्ति। तथा विधेरपि नास्ति प्रामाण्यम्। शक्तिग्रहणपूर्वकं हि प्रामाण्यमाप्तवाक्यस्य लोके दृष्टम्। शक्तिश्च लोकप्रसिद्धे गवादौ गृह्यते। धर्मस्त्वलौकिकः। अतस्तत्र शक्तिग्रहणं दुर्घटम्। तस्माद्विधेरबोधकत्वान्न धर्मे प्रामाण्यमिति प्राप्ते-

4सिद्धान्तः

समभिव्याहृते धर्मे शक्तिग्रहण सम्भवात्
बोधकस्य विधेर्मात्वमनपेक्षतया स्थितम्
ब्रूमः- 'यथा प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति' इत्यत्र मधुकरपदस्यार्थमजानन्नन्यपदार्थमवगत्य तत्समभिव्याहारात्। कमलस्य मध्यगते मधुपानं कुर्वति दृश्यमाने भ्रमरे मधुकरशब्दस्य सङ्गतिं गृहीत्वा वाक्यार्थं प्रतिपद्यते। तथा ''कारीर्या वृष्टिकामो यजेत'' इत्यत्र लोकप्रसिद्धार्थवृष्ट्यादिपदसमभिव्याहारादलौकिकभावनायां विधेः सङ्गतिं गृहीत्वा विधिवाक्यार्थं पुरुषो बुद्ध्यते। तस्मादबोधकत्वलक्षणमप्रामाण्यं नास्ति।
न च संवादाभावादप्रामाण्यम्, समनन्तरभाविप्रतिनियतदृष्टफले वृष्ट्यादौ संवादस्यापि सम्भवात्। अनियतदृष्टफले चित्रायागादौ, प्रतिनियतजन्मान्तरफले ज्योतिष्टोमादौ च संवादः कथमिति चेत्-
एवं तर्हि स्वतः प्रामाण्याभ्युपगमान्नास्ति क्वापि संवादाद्यपेक्षा। तस्मादबोधकत्वसापेक्षत्वयो रप्रामाण्यकारणयोरभावाद्विधेः स्वतः सिद्धं प्रामाण्यं नापह्नोतुं शक्यम्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “विधिरूपं मानमीरितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “धर्मे प्रत्यक्षाद्यगम्यत्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वर्त्तमानैकविषयमक्षं धर्मस्तु भाव्यसौ अक्षमूलोऽनुमानादिस्तेन विध्येकमेयता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.1.6 शब्दनित्यताधिकरणम्
कर्मैके तत्र दर्शनात्।। 6।।
अस्थानात्।। 7।।
करोतिशब्दात्।। 8।।
सत्त्वान्तरे च यौगपद्यात्।। 9।।
प्रकृतिविकृत्योश्च।। 10।।
वृद्धिश्च कर्तृभूम्नास्य।। 11।।
समं तु तत्र दर्शनम्।। 12।।
सतः परमदर्शनं विषयानागमात्।। 13।।
प्रयोगस्य परम्।। 14।।
आदित्यवद्यौगपद्यम्।। 15।।
वर्णान्तरमविकारः।। 16।।
नादवृद्धिपरा।। 17।।
नित्यस्तु स्याद्दर्शनस्य परार्थत्वात्।। 18।।
सर्वत्र यौगपद्यात्।। 19।।
संख्याभावात्।। 20।।
अनपेक्षत्वात्।। 21।।
प्रख्याभावाच्च योगस्य।। 22।।
लिङ्गदर्शनाच्च।। 23।।
षष्ठाधिकरणमारचयति-

1विषयः

बिध्यादिरूपो यः शब्दः सोऽनित्योऽथाविनश्वरः
तस्य च प्रत्ययस्य वर्णव्यतिरिक्तः कश्चित् स्फोटनामकः पदार्थो विषयः।

3पूर्वपक्षः

अनित्यो वर्णरूपत्वाद्वर्णे जन्मोपलम्भनात्
स च नित्यः। स एव शब्दः, न तु वर्ण इति। तदेतन्नैयायिकादयो न सहन्ते। वर्णेष्वेवैकार्थावच्छेदोपाधिना पदैक्यबुद्धेरुपपत्तौ वर्णातिरिक्तस्फोटकल्पना निरर्थिका। तस्माद्वर्णानामेव शब्दत्वम्। वर्णाश्च प्रतिपुरुषं प्रत्युच्चारणं च जन्मविनाशवन्त उपलभ्यन्ते। तस्मादनित्यः शब्दः। तस्य च कारणदोषसम्भवाद्विधेरप्रामाण्यमिति पूर्वपक्षः।
बहुभिः पुरुषैः प्रत्येकं बहुकृत्व उच्चारिते गोशब्दे 'त एवेमे गकारादयो वर्णा' इत्यबाधितप्रत्यभिज्ञा जायते। तद्बलान्नित्या वर्णाः।
न च वर्णानां जन्माभावे बहुकृत्व उच्चारणप्रयत्नो व्यर्थ इति शङ्कनीम्, तत्प्रयत्नस्य व्यञ्जकत्वाङ्गीकारात्। एवं सति पुरुषभेदादुच्चारणभेदाश्च यथायोगमुदात्तादिभेदैः पटुमृदुत्वादिभेदैश्चोपेतान्ध्वनिविशेषानुत्पाद्य चरितार्था भविष्यन्ति। तस्मान्नित्ये शब्दे कारणदोषाभावान्नास्त्यप्रामाण्यम्।

4सिद्धान्तः

अबाधितप्रत्यभिज्ञाबलाद्वर्णस्य नित्यता
उच्चारणप्रयत्नेन व्यज्यतेऽसौ न जन्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “विधिरूपं मानमीरितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “धर्मे विधिप्रामाण्याधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “समभिव्याहृते धर्मे शक्तिग्रहण सम्भवात् बोधकस्य विधेर्मात्वमनपेक्षतया स्थितम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.1.7 वेदप्रत्यायकत्वाधिकरणम्
उत्पत्तौ वावचनाः स्युरर्थस्यातन्निमित्तत्वात्।। 24।।
तद्भूतानां क्रियार्थेन समाम्नायोर्थस्य तन्निमित्तत्वात्।। 25।।
लोके संनियमनात्प्रयोगसन्निकर्षः स्यात्।। 26।।
सप्तमाधिकरणमारचयति-

1विषयः

वेदवाक्यममानं स्यान्मानं वा नास्य मानता

3पूर्वपक्षः

पृथक् सङ्केतवीक्षायामनपेक्षत्ववर्जनात्
यद्यपि वर्णानां नित्यत्वादेकार्थावच्छेदकस्यापि पदस्य वर्णरूपतया नित्यत्वाद्वर्णपदद्वारा वेदस्य कारणसापेक्षत्वं नास्ति। तथापि ''अग्निहोत्रं जुहुयात् स्वर्गकामः'' इत्यादिवाक्यस्य वाक्यार्थे सङ्गतिग्रहणमपेक्षितम्। ततो नैरपेक्ष्याभावात्प्रामाण्यं नास्तीति प्राप्ते-

4सिद्धान्तः

वेदेऽपि लोकवन्नैव वाक्यार्थे सङ्गतिः पृथक्
ग्रहीतव्या ततो वाक्यं प्रमाणं नैरपेक्ष्यतः
ब्रूमः- लाके 'गामानय' इत्यादिपदप्रयोगेषु पदपदार्थयोरेव सङ्गतिर्गृह्यते। वाक्यं त्वाकाङ्क्षायोग्यतासन्निधिवशात् स्वार्थं प्रतिपादयतीत्यविवादम्। तथा वेदवाक्यस्यापि प्रत्यायकत्वादनपेक्षत्वेन प्रामाण्यमविरुद्धम्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “विधिरूपं मानमीरितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “शब्दनित्यताधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अबाधितप्रत्यभिज्ञाबलाद्वर्णस्य नित्यता उच्चारणप्रयत्नेन व्यज्यतेऽसौ न जन्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.1.8 वेदापौरुषेयत्वाधिकरणम्
वेदांश्चैके सन्निकर्षं पुरुषाख्याः।। 27।।
अनित्यदर्षनाच्च।। 28।।
उक्तं तु शब्दपूर्वत्वम्।। 29।।
आख्याः प्रवचनात्।। 30।।
परं तु श्रुतिसामान्यमात्रम्।। 31।।
कृते वा विनियोगः स्यात्कर्मणः सम्बन्धात्।। 32।।
अष्टमाधिकरणमारचयति-

1विषयः

पौरुषेयं न वा वेदवाक्यं स्यात्पौरुषेयता

3पूर्वपक्षः

काठकादिसमाख्यानाद्वाक्यत्वाच्चान्यवाक्यवत्
'काठकं कौथुमं तैत्तिरीयकम्' इत्यादि समाख्यातम्। तद्वेदविषया लोके दृष्टाः। तद्धितप्रत्ययश्च 'तेन प्रोक्तम्' [पा.सू 4-3-101] इत्यस्मिन्नर्थे वर्त्तते। तथा सति 'व्यासेन प्रोक्तं वैयासिकं भारतम्' इत्यादाविव पौरुषेयत्वं प्रतीयते। किञ्च 'विमतं वेदवाक्यं पौरुषेयम्, वाक्यत्वात्, कालिदासादिवाक्यवत्' इति प्राप्ते-

4सिद्धान्तः

समाख्याध्यापकत्वेन वाक्यत्वं तु पराहृतम्
तत्कर्त्रनुपलम्भेन स्यात्ततोऽपौरुषेयता
ब्रूमः- अध्ययनसम्प्रदायप्रवर्त्तकत्वेन समाख्योपपद्यते। कालिदासादिग्रन्थेषु तत्तत्सर्गावसाने कर्त्तार उपलभ्यन्ते। तथा वेदस्यापि पौरुषेयत्वे तत्कर्तोपलभ्येत। न चोपलभ्यते। अतो वाक्यत्वहेतुः प्रतिकूलतर्कपराहतः। तस्मादपौरुषेयो वेदः। तथा सति पुरुषबुद्विदोषकृतस्याप्रामाण्यस्यानाशङ्कनीयत्वाद्विधिवाक्यस्य धर्मे प्रामाण्यं सुस्थितम्।
इति माधवौये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य प्रथमः पादः।
अत्र पादे - अधिकरणानि 8 , सूत्राणि 32।
आदितः- अधिकरणानि 8 , सूत्राणि 32।
 प्रथमाध्याये द्वितीयः पादः
(अर्थवादो मन्त्रस्याप्युपलक्षकः)

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “विधिरूपं मानमीरितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “वेदप्रत्यायकत्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वेदेऽपि लोकवन्नैव वाक्यार्थे सङ्गतिः पृथक् ग्रहीतव्या ततो वाक्यं प्रमाणं नैरपेक्ष्यतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
Contents Adhyāya 1, Pāda 2 →