प्रथमे अर्चिरादिकस्यैव ब्रह्मलोकमार्गताधिकरणे सूत्रे
SŪअर्चिरादिना तत्प्रथितेः॥4.3.1॥
तृतीयपादे प्रथमाधिकरणमारचयति –
1विषयः
नानाविधो ब्रह्मलोक-मार्गो यद्वाऽर्चिरादिकः।
3पूर्वपक्षः
नानाविध.स्स्या.द्विद्यासु वर्णना.दन्यथाऽन्यथा॥ 1॥
ब्रह्मलोकमार्ग.श्छान्दोग्यबृहदारण्यकयोः पञ्चाग्निविद्याया.मर्चिरादिकः पठितः- “तेऽर्चिष.मभिसंभवन्ति”, “अर्चिषोऽहः”- इति। विद्यान्तरे तु वाय्वादिकः- “स वायु.मागच्छति” इति। कौषीतकिनः पर्यङ्गविद्याया.मग्निलोकादिक.मामनन्ति- “स एतं देवयानं पन्थान.मापद्याग्निलोक.मागच्छति” इति। एव.मन्यत्रापि द्रष्टव्यम्। तस्मात्- बहुविधो मार्गः। इति प्राप्ते,
4सिद्धान्तः
एक एवार्चिरादि.स्स्या-न्नानाश्रुत्युक्तपर्वकः।
यतः पञ्चाग्निविद्यायां विद्यान्तरवतां श्रुतः॥ 2॥
ब्रूमः- अर्चिरादिक एक एव मार्गः। कुतः- पञ्चाग्निविद्यावाक्यशेषे पञ्चाग्निविद्याविदो विद्यान्तरोपासकांश्च उद्दिश्य, अर्चिरादिमार्गस्यैव पठितत्वात्। “य इत्थं विदुः, ये चेमेऽरण्ये श्रद्धां तप इत्युपासते, तेऽर्चिष.मभिसंभवन्ति” इति श्रुत्यन्तरोक्तानां वाय्वादीनां गुणोपसंहारन्यायेन, अर्चिरादिमार्गप्रवेशे सति तत्पर्वत्व.संभवात्। तस्मात्- अर्चिरादिमार्ग एक एव॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविदो मृतस्योत्तरमार्गोऽभिहितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दक्षिणायनाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति वैयासिकन्यायमालायां चतुर्थाध्यायस्य द्वितीयः पादः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
द्वितीये वायोः सन्निवेशाधिकरणे सूत्रम्
SŪवायु.मब्दा.दविशेषविशेषाभ्याम्॥4.3.2॥
द्वितीयाधिकरणमारचयति-
1विषयः
सन्निवेशयितुं वायु-रत्राशक्योऽथ शक्यते।
3पूर्वपक्षः
न शक्यो वायुलोकस्य श्रुतक्रम.विवर्जनात्॥ 3॥
“तेऽर्चिष.मभिसम्भवन्ति, अर्चिषोऽहः, अह्नः आपूर्यमाणपक्षम्, आपूर्यमाणपक्षात् यान्षडुदङ्ङेति मासां.स्तान्, मासेभ्यः संवत्सरम्, संवत्सरा.दादित्यम्, आदित्या.च्चन्द्रमसम्, चन्द्रमसो विद्युतम्, तत्पुरुषोऽमानवः, स एता.न्ब्रह्म गमयति” इति श्रूयमाणेऽर्चिरादिमार्गे, शाखान्तरे श्रुतो वायुः केनापि संनिवेशेन अन्तर्भावयितु.मशक्यः, “अस्योपरि वायुः” इति क्रमस्याश्रुतत्वात्, कल्पकाभावाच्च। इति प्राप्ते,
4सिद्धान्तः
वायुच्छिद्रा.द्विनिष्क्रम्य स आदित्यं व्रजेदिति।
श्रुते.रर्वा.ग्रवे.र्वायु-र्देवलोक.स्ततोऽप्यधः॥ 4॥
ब्रूमः- श्रुत्यन्तरं तत्कल्पकम्। तथा हि- “स वायु.मागच्छति, तस्मै स विजिहीते- यथा रथचक्रस्य खम्, तेन स ऊर्ध्व आक्रमते, स आदित्य.मागच्छति” इति। इतो निर्गत्य, उपासको यदा वायुमागच्छति, तदा तद्वायुमण्डलं छिद्रितं भवति, तेन रथचक्रच्छिद्रप्रमाणेन वायुच्छिद्रेण, वायुमण्डल.मुल्लङ्घ्य, आदित्यमण्डलं प्राप्नोति इत्यर्थः।
एवं च वायो.रादित्या.त्पूर्वव.त्प्रतीतेः क्रमविशेषोऽवगन्तुं शक्यते।- “मासेभ्यः संवत्सरम्, संवत्सरा.द्वायुम्, वायो.रादित्यम्” इत्येवं संनिवेशः कर्तव्यः। बृहदारण्यके तु- मासानन्तरं संवत्सरं परित्यज्य, तस्य स्थाने देवलोकः पठितः। स च संवत्सरानन्तरं वायो.रर्वाङ्निवेशयितव्यः, माससंवत्सरयोः संबन्धित्वेन प्रसिद्धयो.रानन्तर्यस्यानिवारणीयत्वात्। तदेवं संवत्सरादित्ययो.र्मध्ये देवलोक.वायुलोकौ सन्निवेशयितव्यौ॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविदो मृतस्योत्तरमार्गोऽभिहितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अर्चिराद्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एक एवार्चिरादि.स्स्या-न्नानाश्रुत्युक्तपर्वकः। यतः पञ्चाग्निविद्यायां विद्यान्तरवतां श्रुतः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
तृतीये वरुणादिलोकानां व्यवस्थाधिकरणे सूत्रम्
SŪतडितोऽधि वरुणः सम्बन्धात्॥4.3.3॥
तृतीयाधिकरणमारचयति –
1विषयः
वरुणादे.स्सन्निवेशो नास्ति तत्रोत विद्यते।
3पूर्वपक्षः
नास्ति वायोरिवैतस्य व्यवस्था श्रुत्यभावतः॥ 5॥
कौषीतकिनः पठन्ति- “स वरुणलोकम्, स इन्द्रलोकम्, स प्रजापतिलोकम्” इति। ते वरुणादय.स्त्रयो लोका अर्चिरादिमार्गे निवेशयितु.मशक्याः, वायोरिव व्यवस्थापकाभावात्। इति प्राप्ते,
4सिद्धान्तः
विद्युत्संबन्धिवृष्टिस्थ-नीरस्याधिपतित्वतः।
वरुणो विद्युतोऽस्त्यूर्ध्वं तत इन्द्रप्रजापती॥ 6॥
ब्रूमः- विद्युल्लोकस्योपरि वरुणलोकः सम्बन्धवशा.द्व्यवस्थाप्यते, “विद्युत्पूर्वकवृष्टिगत.नीरस्य वरुणोऽधिपतिः” इति विद्युद्वरुणयोः संबन्धः। इन्द्रप्रजापत्योस्तु स्थानान्तरासंभवेऽपि, “आगन्तुकाना.मन्ते सन्निवेशः” इति न्यायेन वरुणलोकस्योपरि संनिवेशः।
तदेवं वरुणादीनां सन्निवेशा.दर्चिरादिमार्गो व्यवस्थितः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविदो मृतस्योत्तरमार्गोऽभिहितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “वाय्वधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वायुच्छिद्रा.द्विनिष्क्रम्य स आदित्यं व्रजेदिति। श्रुते.रर्वा.ग्रवे.र्वायु-र्देवलोक.स्ततोऽप्यधः॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪआतिवाहिका.स्तल्लिङ्गात्॥4.3.4॥
SŪउभयव्यामोहा.त्तत्सिद्धेः॥4.3.5॥
SŪवैद्युतेनैव तत.स्तच्छ्रुतेः॥4.3.6॥
चतुर्थाधिकरणमारचयति –
1विषयः
मार्गचिह्नं भोगभू.र्वा नेतारो वाऽर्चिरादयः।
3पूर्वपक्षः
आद्यौ स्यातां मार्गचिह्न-सारूप्या.ल्लोकशब्दतः॥ 7॥
चतुर्थे अर्चिरादीना.मातिवाहिकत्वाधिकरणे सूत्राणि
य एतोऽर्चिरादयः श्रुताः, ते मार्गचिह्नानि भवितु.मर्हन्ति, लौकिकमार्गचिह्नसारूप्येण निर्दिश्यमानत्वात्। लोका मार्गज्ञानाय एवं निर्दिशन्ति- ग्रामा.न्निर्गत्य नदीं व्रज, ततः पर्वतम्, ततो घोषम्, इति। तद्व.दत्रापि- “अह्न आपूर्यमाणपक्षम्” इति निर्दिश्यते। तस्मात्- मार्गचिह्नानि।
यद्वा- ब्रह्मलोकं जिगमिषो.र्विश्रामस्थान.भोगभूमयोऽर्चिरादयः। कुतः? वायुलोकम्- वरुणलोकम्- इति प्रयुक्तस्य लोकशब्दस्य, भोगभूमौ प्रसिद्धत्वात्। इति प्राप्ते,
4सिद्धान्तः
अन्ते गमयतीत्युक्ते-र्नेतार.स्तेषु चेदृशः।
निर्देशोऽस्त्यत्र लोकाख्या तन्निवासिजना.न्प्रति॥ 8॥
ब्रूमः- “तत्पुरुषोऽमानवः, स एता.न्ब्रह्म गमयति” इत्यन्ते श्रूयमाणस्यामानवस्य विद्युत्पुरुषस्य नेतृत्वावगमात्। तत्साहचर्येणार्चिरादयोऽपि आतिवाहिकदेवताः इत्यवगम्यते। यत्तु- निर्देशसाम्य.मुक्तम्, तदातिवाहिकदेवतास्वपि समानम्, “गच्छ त्वमितो बलवर्माणम्, ततो जयगुप्तम्, ततो देवदत्तम् इत्यादिनिर्देशदर्शनात्”। लोकशब्द.स्तूपासकानां तत्र भोगाभावेऽपि, आतिवाहिकदेवानां भोग.मपेक्ष्य, उपपद्यते। तस्मात्- आतिवाहिका अर्चिरादयः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविदो मृतस्योत्तरमार्गोऽभिहितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तडिदधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विद्युत्संबन्धिवृष्टिस्थ-नीरस्याधिपतित्वतः। वरुणो विद्युतोऽस्त्यूर्ध्वं तत इन्द्रप्रजापती॥ 6॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪकार्यं बादरि.रस्य गत्युपपत्तेः॥4.3.7॥
SŪविशेषितत्वाच्च॥4.3.8॥
SŪसामीप्यात्तु तद्व्यपदेशः॥4.3.9॥
SŪकार्यात्यये तदध्यक्षेण सहातः पर.मभिधानात्॥4.3.10॥
SŪस्मृतेश्च॥4.3.11॥
SŪपरं जैमिनि.र्मुख्यत्वात्॥4.3.12॥
SŪदर्शनाच्च॥4.3.13॥
SŪन च कार्ये प्रतिपत्त्यभिसन्धिः॥4.3.14॥
पञ्चमाधिकरणमारचयति –
1विषयः
परं ब्रह्माथ वा कार्य-मुदङ्मार्गेण गम्यते।
3पूर्वपक्षः
मुख्यत्वा.दमृतत्वोक्ते-र्गम्यते परमेव तत्॥ 9॥
पञ्चमे कार्यब्रह्मण एवोत्तरमार्गगम्यत्वाधिकरणे सूत्राणि
“स एता.न्ब्रह्म गमयति” इति श्रूयमाणं, यदुत्तरमार्गप्राप्यं वस्तु, तत्परं ब्रह्म भवितु.मर्हति। कुतः? ब्रह्मशब्दस्य तत्र मुख्यत्वात्। “तयोर्ध्वमाय.न्नमृतत्व.मेति” इत्यमृतत्वकथनाच्च। इति प्राप्ते,
4सिद्धान्तः
कार्यं स्या.द्गतियोग्यत्वा-त्परस्मिं.स्तदसम्भवात्।
सामीप्या.द्ब्रह्मशब्दोक्ति-रमृतत्वं क्रमा.द्भवेत्॥ 10॥
ब्रूमः- सत्यलोकाख्यं कार्यं ब्रह्म, उपासकव्यतिरिक्तत्वा.त्परिच्छिन्नत्वाच्च गतिपूर्वकप्राप्तियोग्यम्। न तु तथा परं ब्रह्म, तस्य सर्वगत्वात्, उपासकस्वरूपत्वाच्च। ब्रह्मशब्दस्तु मुख्यार्थसंभवेन सामीप्यसंबन्धा.त्सत्यलोक.माचष्टे। समीपे हि सत्यलोकः परब्रह्मणः, तल्लोकवासिनां तत्त्वज्ञानेऽवश्यंभाविनि सति, पुनर्जन्मव्यवधान.मन्तरेण मोक्ष्यमाणत्वात्। अत एव स्मृतिराह –
“ब्रह्मणा सह ते सर्वे प्राप्ते च प्रतिसञ्चरे॥
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” इति।
एवं च सत्यमृतत्वश्रुतिः क्रममुक्त्यभिप्राया। तस्मात्- उत्तरमार्गेण प्राप्यं कार्यं ब्रह्म॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविदो मृतस्योत्तरमार्गोऽभिहितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आतिवाहिकाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अन्ते गमयतीत्युक्ते-र्नेतार.स्तेषु चेदृशः। निर्देशोऽस्त्यत्र लोकाख्या तन्निवासिजना.न्प्रति॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.6
अप्रतीकालम्बनाधिकरणम्
षष्ठे प्रतीकोपासकानां ब्रह्मलोकगति.निराकरणाधिकरणे सूत्रे
SŪअप्रतीकालम्बना.न्नयतीति बादरायण उभयथाऽदोषा.त्तत्क्रतुश्च॥4.3.15॥
SŪविशेषं च दर्शयति॥4.3.16॥
षष्ठाधिकरणमारचयति –
1विषयः
प्रतीकोपासका.न्ब्रह्म-लोकं नयति वा न वा।
अविशेषश्रुते.रेता-न्ब्रह्मोपासकव.न्नयेत्॥ 11॥
3पूर्वपक्षः
ब्रह्मक्रतो.रभावेन प्रतीकार्ह.फलश्रवात्।
न ता.न्नयति पञ्चाग्नि-विदो नयति तच्छ्रुतेः॥ 12॥
“स एतान् ब्रह्म गमयति” इति श्रूयमाणोऽमानवः पुरुषः, ब्रह्मोपासकवत्, प्रतीकोपासकानपि सत्यलोकं प्रापयति, अविशेषश्रवणात्। इति प्राप्ते-
4सिद्धान्तः
इति वैयासिकन्यायमालायां चतुर्थाध्यायस्य तृतीयः पादः॥ 3॥
ब्रूमः- “तं यथा यथोपासते- तदेव भवति” इति श्रुतौ ब्रह्मभावनारूपः क्रतुः, ब्रह्मप्राप्तिहेतु.रित्यवगम्यते। न हि प्रतीकोपासकानां ब्रह्मक्रतु.रस्ति, येन ते सत्यलोकं गच्छेयुः। किंच यथाप्रतीकम्, अर्वाचीनानि फलानि तेषु श्रूयन्ते- “यावन्नाम्नो गतं- तत्रास्य यथाकामचारो भवति” इति। “नामब्रह्मोपासितुः शब्दशास्त्रादिलक्षणे नामविशेषे स्वातन्त्र्यं भवति” इत्यर्थः।
कथं तर्हि पञ्चाग्निविदां प्रतीकोपासकानां सत्यलोकप्राप्तिः? “वचनबलात्” इति ब्रूमः। तस्मात्- प्रायतो न प्रतीकोपासका.न्सत्यलोकं प्रापयति॥
चतुर्थाध्यायस्य चतुर्थः पादः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविदो मृतस्योत्तरमार्गोऽभिहितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “कार्याधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “कार्यं स्या.द्गतियोग्यत्वा-त्परस्मिं.स्तदसम्भवात्। सामीप्या.द्ब्रह्मशब्दोक्ति-रमृतत्वं क्रमा.द्भवेत्॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]