SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Vaiyāsika Nyāyamālā · Adhyāya 1, Pāda 1

समन्वयः

स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम्

11adhikaraṇas
31sūtras
1.1.1 जिज्ञासाधिकरणम्
अथेदानीं प्रत्यधिकरणमवयवचतुष्टयं श्लोकाभ्यां सङ्गृह्यते- तत्र प्रथमे ब्रह्मणो विचार्यत्वाधिकरणे शास्त्रस्य प्रथमं सूत्रम्॥
SŪअथाऽतो ब्रह्मजिज्ञासा॥ 1.1.1॥ (अथ, अतः, ब्रह्मजिज्ञासा)
प्रथमाधिकरणमारचयति-

1विषयः

अविचार्यं विचार्यं वा ब्रह्माध्यासानिरूपणात्।
तदेतद्विचारविधायकं वाक्यं विषयः।

2संशयः

“ब्रह्मविचारात्मकं न्यायनिर्णयात्मकं शास्त्रमनारभ्यम्, आरभ्यं वा” इति सन्देहः।

3पूर्वपक्षः

असन्देहाफलत्वाभ्यां न विचारं तदर्हति॥ 11॥
पूर्वोत्तरपक्षयुक्तिद्वयं सर्वत्र सन्देहबीजमुन्नेयम्। तत्र “अनारभ्यम्” इति तावत्प्राप्तं, विषयप्रयोजनयोरभावात्। सन्दिग्धं हि विचारविषयो भवति। ब्रह्म तु असन्दिग्धम्। तथाहि- तत्किं ब्रह्माकारेण सन्दिह्यते, आत्माकारेण वा? नाद्यः, “सत्यं ज्ञानमनन्तं ब्रह्म”। (तै.उ 2।1।1) इति वाक्येन ब्रह्माकारस्य निश्चयात्। न द्वितीयः, अहंप्रत्ययेनात्माकारस्यापि निश्चयात्- अध्यस्तात्मविषयत्वेन भ्रान्तोऽहंप्रत्ययः इति चेत्, न, अध्यासानिरूपणात्। तमःप्रकाशवद्विरुद्धस्वभावयोर्जडाजडयोर्देहात्मनोः शुक्तिकारजतवत् अन्योन्यतादात्म्याध्यासो न निरूपयितुं शक्यते। तस्मादभ्रान्ताभ्यां श्रुत्यहंप्रत्ययाभ्यां निश्चितस्यासन्दिग्धत्वात्, विचारस्य न विषयोऽस्ति। नापि प्रयोजनं पश्यामः, उक्तप्रकारेण ब्रह्मात्मनि निश्चितेपि, मुक्त्यदर्शनात्। तस्मात् “ब्रह्म विचारानर्हम्” इति- शास्त्रमनारम्भणीयम् इति पूर्वपक्षः।

4सिद्धान्तः

अध्यासोऽहंबुद्धिसिद्धो-ऽसङ्गं ब्रह्म श्रुतीरितम्।
सन्देहान्मुक्तिभावाच्च विचार्यं ब्रह्मवेदतः॥ 12॥
अत्रोच्यते- शास्त्रमारम्भणीयम्। कुतः- विषयप्रयोजनसद्भावात्। श्रुत्यहंप्रत्यययोर्विप्रतिपत्त्या सन्दिग्धं ब्रह्मात्मवस्तु। “अयमात्मा ब्रह्म”।(बृ.उ 2/5/19) इति श्रुतिः असङ्गं ब्रह्मात्मत्वेनोपदिशति। “अहं मनुष्यः” इत्याद्यहंबुद्धि-र्देह-तादात्म्याध्यासेनात्मानं गृह्णाति। अध्यासस्य च दुर्निरूपणत्वमलङ्काराय। तस्मात्सन्दिग्धं वस्तु विषयः। तन्निश्चयेन मुक्तिलक्षणप्रयोजनं श्रुत्या विद्वदनुभवेन च प्रसिद्धम्। तस्मात्-वेदान्तवाक्यविचारमुखेन ब्रह्मणो विचारार्हत्वात् शास्त्रमारम्भणीयम् इति सिद्धान्तः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — नास्ति; अयं शास्त्रस्य प्रथमो न्यायः।
1.1.2 जन्माद्यधिकरणम्
द्वितीये ब्रह्मणो लक्षणाधिकरणे सूत्रम्
SŪजन्माद्यस्य यतः॥1.1.2॥ (जन्मादि, अस्य, यतः)
द्वितीयाधिकरणमारचयति-

1विषयः

लक्षणं ब्रह्मणो नास्ति किं वाऽस्ति, न हि विद्यते।
[तै.उ 2/1/1] इति वाक्यद्वयं विषयः।

2संशयः

तत्र-“श्रूयमाणं ब्रह्मलक्षणं न घटते, घटते वा”?- इति संशयः।

3पूर्वपक्षः

जन्मादेरन्यनिष्ठत्वात् सत्यादेश्चाप्रसिद्धितः॥ 13॥
न घटते। तथाहि, किं जन्मादिकं तल्लक्षणम्, उत सत्यादिकम्। नाद्यः, तस्य जगन्निष्ठत्वेन ब्रह्मसम्बन्धाभावात्। द्वितीयेऽपि लोकप्रसिद्धस्य सत्यज्ञानादेः स्वीकारे भिन्नार्थत्वादखण्डं ब्रह्म न सिध्येत्, अप्रसिद्धस्य तु सत्यादेर्लक्षणत्वमयुक्तम्। तस्मात्- तटस्थलक्षणं स्वरूपलक्षणं च न विद्यते।

4सिद्धान्तः

ब्रह्मनिष्ठं कारणत्वं स्याल्लक्ष्यं स्रग्भुजङ्गवत्।
लौकिकान्येव सत्यादी-न्यखण्डं लक्षयन्ति हि॥ 14॥
अत्रोच्यते- यल्लक्षणं रूपानन्तर्भूतं सत्पदार्थान्तरव्यवस्थाहेतुः, तत्तटस्थलक्षणम्। जन्मादेरन्यनिष्ठत्वेऽपि तत्कारणत्वं ब्रह्मणि कल्पनया सम्बद्धं तटस्थलक्षणं भविष्यति। “यो भुजङ्गः- सा स्रक्” इतिवत्, “यज्जगत्कारणं- तद्ब्रह्म” इति कल्पितेनापि वस्तुना उपलक्षयितुं शक्यत्वात्। भिन्नार्थानामपि पितृ-सुत-भ्रातृ-जामात्रादि-शब्दानामेकदेवदत्तपर्यवसायित्वे यथा न विरोधः, तथा लोकसिद्धभिन्नार्थवाचि.सत्यादिशब्दानामखण्डब्रह्मपर्यवसायित्वे स्वरूपलक्षणसिद्धिः, इत्युभयमप्युपपन्नम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “जिज्ञासाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अध्यासोऽहंबुद्धिसिद्धो-ऽसङ्गं ब्रह्म श्रुतीरितम्। सन्देहान्मुक्तिभावाच्च विचार्यं ब्रह्मवेदतः॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.1.3 शास्त्रयोनित्वाधिकरणम्
SŪशास्त्रयोनित्वात्॥1.1.3॥ (शास्त्रस्य योनिः- शास्त्रयोनिः, तस्मात्)
तृतीयाधिकरणस्य प्रथमं वर्णकमारचयति-

1विषयः

तृतीये ब्रह्मणो वेदकर्तृत्ववेदैकमेयताधिकरणे सूत्रम्।
न कर्तृ ब्रह्म वेदस्य किं वा कर्तृ, न कर्तृ तत्।
विरूप नित्यया वाचे-त्येवं नित्यत्ववर्णनात्॥ 15॥

2संशयः

************************************************************************************************************ नित्यसिद्धस्य ब्रह्मणो निश्वासः इव अयत्नेन सिद्धम्” इत्यर्थः “ब्रह्म वेदं करोति, न करोति वा” इति सन्देहः।

3पूर्वपक्षः

न करोति, वेदस्य नित्यत्वात्। “वाचा विरूप नित्यया”(तै.सं 2/6/11) इत्यस्मिन्मत्रे “विरूप” इति देवतां सम्बोध्य “नित्यया वाचा स्तुतिं प्रेरय” इत्येवं प्रार्थ्यते। नित्या वाग्वेद एव,
अनादिनिधना नित्या वागुत्सृष्टा स्वम्भुयवा। आदौ वेदमयी दिव्या यतस्सर्वाः प्रवृत्तयः॥()
इति स्मृतेः। अतः न वेदकर्तृ ब्रह्म। इति प्राप्ते,

4सिद्धान्तः

कर्तृनिश्वसिताद्युक्ते-र्नित्यत्वं पूर्वसाम्यतः।
सर्वावभासिवेदस्य- कर्तृत्वात्सर्वविद्भवेत्॥ 16॥
ब्रूमः- ब्रह्म वेदस्य कर्तृ भवितुमर्हति। कुतः- निश्श्वसितन्यायेन अप्रयत्नोत्पत्त्यवगमात्। “तस्माद्यज्ञात्सर्वहुतः, ऋचस्सामानि जज्ञिरे” इति, सर्वैर्यज्ञैः हूयमानाद्यज्ञशब्दवाच्याद्ब्रह्मणो विस्पष्टमेव वेदोत्पत्तिश्रवणाच्च। अप्रयत्नोत्पत्त्यैवार्थेषु बुद्ध्या रचितैः कालिदासादिवाक्यैर्वैलक्षण्यात् अपौरुषेयत्वम्। प्रतिसर्गं पूर्वसाम्येनोत्पन्नैः प्रवाहरूपेण नित्यता। सर्वजगद्व्यवस्थावभासि.वेदकर्तृत्वनिरूपणेन ब्रह्मणः सर्वज्ञत्वं निरूपितं भवति॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “जन्माद्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रह्मनिष्ठं कारणत्वं स्याल्लक्ष्यं स्रग्भुजङ्गवत्। लौकिकान्येव सत्यादी-न्यखण्डं लक्षयन्ति हि॥ 14॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
द्वितीयं वर्णकमाह -

1विषयः

अस्त्यन्यमेयताऽप्यस्य किंवा वेदैकमेयता।
तद्वाक्यं विषयः।

2संशयः

तत्र- “ब्रह्मणः प्रत्यक्षादिगम्यत्वमस्ति, न वा” इति संशयः।

3पूर्वपक्षः

घटवत्सिद्धवस्तुत्वा-द्ब्रह्मान्येनापि मीयते॥ 17॥
पूर्वपक्षस्तु विस्पष्टः। रूपरसाद्यभावान्नेन्द्रिययोग्यता। लिङ्गसादृश्यादिराहित्याच्च न अनुमानोपमानादियोग्यता। “उपनिषत्स्वेवाधिगतः” इति व्युत्पत्त्या “नावेदविन्मनुते तं बृहन्तम्”(तै.ब्रा- 3/12/9) इत्यन्यनिषेधश्रुत्या च वेदैकमेयत्वम्। भाष्यकारैः “जन्मादि” सूत्रे “श्रुत्यादयोऽनुभवादयश्च यथासम्भवमिह प्रमाणम्” इत्यन्यमेयत्वमङ्गीकृतम् इति चेत्। बाढम्। प्रथमतः श्रुत्यैव प्रमिते ब्रह्मणि, पश्चादनुवादरूपेणानुमानानुभवयोरङ्गीकारात्। अतो वेदैकमेयं ब्रह्म॥

4सिद्धान्तः

रूपलिङ्गादिराहित्या-न्नास्य मान्तरयोग्यता।
तं त्वौपनिषदेत्यादौ प्रोक्ता वेदैकमेयता॥ 18॥
1.1.4 समन्वयाधिकरणम्
चतुर्थे वेदान्तानां ब्रह्मैकपरत्वाधिकरणे सूत्रम्
SŪतत्तु समन्वयात्॥1.1.4॥(तत्, तु, समन्वयात्)
चतुर्थाधिकरणस्य प्रथमवर्णकमाह –

1विषयः

वेदान्ताः कर्तृदेवादिपरा ब्रह्मपरा उत।

3पूर्वपक्षः

अनुष्ठानोपयोगित्वात् कर्त्रादिप्रतिपादकाः॥ 19॥
स्पष्टौ विषयसन्देहौ। जीवप्रकाशकवाक्यानि कर्तृपराणि। ब्रह्मप्रकाशकवाक्यानि देवतापराणि। सृष्टिप्रकाशकवाक्यानि साधनपराणि। तथा सति वेदान्तानामनुष्ठानोपयोगित्वं भविष्यति। ब्रह्मपरत्वे तु, अनुष्ठानासम्भवान्निष्प्रयोजनत्वं स्यात्। तस्मात् वेदान्ताः कर्तृ-देवता-साधन-प्रतिपादकाः॥

4सिद्धान्तः

भिन्नप्रकरणाल्लिङ्ग-षट्काच्च ब्रह्मबोधिकाः।
सति प्रयोजनेऽनर्थ-हानेऽनुष्ठानतोऽत्र किम्॥ 20॥
अत्रोच्यते- ब्रह्मपरा वेदान्ताः। कुतः- भिन्नप्रकरणपठितानां तेषां कर्त्रादिप्रतिपादकतया कर्मशेषत्वासम्भवात्। तात्पर्यनिश्चयहेतु-लिङ्गषट्केन ब्रह्मपरत्वसम्भवाच्च। लिङ्गषट्कं पूर्वाचार्यैर्दर्शितम्-
उपक्रमोपसंहारा-वभ्यासोऽपूर्वता फलम्।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये॥ इति
“सदेव सोम्येदमग्र आसीत्”(छां.उ- 6/2/1) इत्युपक्रमः। “ऐतदात्म्यामिदं सर्वम्। तत्सत्यं- स आत्मा- तत्त्वमसि” (छां.उ- 6/8/7) इत्युपसंहारः। तयोर्ब्रह्मविषयत्वेन ऐकरूप्यमेकं लिङ्गम्।
असकृत् “तत्त्वमसि” इत्युक्तिरभ्यासः।
मानान्तरागम्यत्वमपूर्वत्वम्।
एकविज्ञानेन सर्वविज्ञानं फलम्।
उत्पत्ति-स्थिति-प्रलय-प्रवेश-नियमनानि पञ्चार्थवादाः।
मृदादिदृष्टान्ता उपपत्तयः।
एतैर्लिङ्गैर्ब्रह्मपरत्वं निश्चेयम्।
न चानुष्ठानमन्तरेण प्रयोजनाभावः, “नायं सर्पः” इत्यादाविव बोधात् अनर्थनिवृत्तेस्सम्भवात्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “शास्त्रयोनित्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “कर्तृनिश्वसिताद्युक्ते-र्नित्यत्वं पूर्वसाम्यतः। सर्वावभासिवेदस्य- कर्तृत्वात्सर्वविद्भवेत्॥ 16॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
द्वितीयं वर्णकमाह –

1विषयः

प्रतिपत्तिं विधित्सन्ति ब्रह्मण्यवसिता उत।

3पूर्वपक्षः

शास्त्रत्वात्ते विधातारो मननादेश्च कीर्तनात्॥ 21॥
एकदेशी मन्यते- ब्रह्मपरत्वेऽपि वेदान्ता न ब्रह्मण्येव पर्यवस्यन्ति। किं तर्हि? पारोक्ष्येण ब्रह्मतत्वं प्रतिपाद्य, पश्चादपरोक्षप्रतिपत्तिं विदधति। तथा च सति वेदान्तानां शासनाच्छास्त्रत्वमुपपद्यते। किञ्च, “श्रोतव्यः” इति श्रवणं शब्दज्ञानात्मकं विधाय, अथ “मन्तव्यो निदिध्यासितव्यः”(बृह.उ- 2/4/5) इत्यनुभवज्ञानात्मकं मननादिकं स्पष्टमेव विधीयते। तस्मात्- प्रतिपत्तेर्विधातारो वेदान्ताः। इति प्राप्ते-

4सिद्धान्तः

नाकर्तृ तन्त्रेस्ति विधिः शास्त्रत्वं शंसनादपि।
मननादेः पुराबोधाद्-ब्रह्मण्यवसितास्ततः॥ 22॥
ब्रूमः। न प्रतिपत्तेर्विधिः सम्भवति, कर्तुम्-अकर्तुम्-अन्यथा वा कर्तुम्-अशक्यत्वादपुरुषतन्त्रत्वत्। शास्त्रत्वं तु नानुष्ठेयशासनादेव नियतम्, सिद्धवस्तुशंसनेनापि तदुपपत्तेः। शाब्दज्ञाने जाते पश्चादनुभवात्मकं मननादिकं विधीयते- इति वक्तुं न युक्तम्। “दशमस्त्वमसि” इतिवत् शब्दस्यैवापरोक्षानुभवजनकत्वेन शाब्दबोधात् पुरैव असम्भावनादिनिवृत्तये व्यापाररूपस्य कर्तृतन्त्रस्य मननादेर्विधानात्। तस्मात् “तत्त्वमसि' इत्यादयो वेदान्ता ब्रह्मण्यवसिताः॥
1.1.5 ईक्षत्यधिकरणम्
पञ्चमे ब्रह्मण एव सच्छब्दवाच्यताधिकरणे सूत्रम्
SŪईक्षतेर्नाशब्दम्॥1.1.5॥(ईक्षतेः, न, अशब्दम्)
SŪगौणश्चेन्नात्मशब्दात्॥1.1.6॥(गौणश्चेत्, न, आत्मशब्दात्)
SŪतन्निष्ठस्य मोक्षोपदेशात्॥1.1.7॥ (ईक्षतेः, न, अशब्दम्)
SŪहेयत्वावचनाच्च॥1.1.8॥
SŪस्वाप्ययात्॥1.1.9॥
SŪगतिसामान्यात्॥1.1.10॥
SŪश्रुतत्वाच्च॥1.1.11॥
पञ्चमाधिकरणमारचयति –

1विषयः

तदैक्षतेतिवाक्येन प्रधानं ब्रह्म वोच्यते।

3पूर्वपक्षः

ज्ञानक्रियाशक्तिमत्त्वात् प्रधानं सर्वकारणम्॥ 23॥
छान्दोग्ये षष्ठाध्याये- “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्” ”(छां.उ- 6/2/1) इति प्रस्तुत्य, “तदैक्षत बहु स्यां प्रजायेय इति तत्तेजोऽसृजत” ”(छां.उ- 6/2/3) इति श्रूयते। तत्र सांख्या मन्यन्ते- सच्छब्दवाच्यं सर्वजगत्कारणं प्रधानम्- न तु ब्रह्म, प्रधानस्य सत्त्वगुणयुक्ततया परिणामितया च ज्ञानशक्तिक्रियाशक्तिसम्भवात्, निर्गुणस्य कूटस्थस्य ब्रह्मणस्तदसम्भवात्- इति।

4सिद्धान्तः

ईक्षणाच्चेतनं ब्रह्म क्रियाज्ञाने तु मायया।आत्मशब्दात्मतादात्म्ये प्रधानस्य विरोधिनी॥ 24॥
अत्रोच्यते- ईक्षितृत्वश्रवणादेव ब्रह्म सच्छद्बवाच्यम्। अचेतनस्य प्रधानस्येक्षितृत्वायोगात्। ज्ञानक्रियाशक्ती तु ब्रह्मणि मायया सम्भविष्यतः। किञ्च- “अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि”(…….) इति नामरूपव्याकर्त्री जगत्कारणदेवता स्ववाचकेनात्मशब्देन चेतनं जीवं व्यपदिशति।
तथा “तत्त्वमसि” इति चेतनस्य श्वेतकेतोर्जगत्कारणतादात्म्यं गुरुरुपदिशति। तदुभयमप्यचेतनस्य प्रधानस्य जगत्कारणत्वे विरुद्ध्यते। तस्मात्- चेतनं ब्रह्म सच्छब्देनोच्यते॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “समन्वयाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “भिन्नप्रकरणाल्लिङ्ग-षट्काच्च ब्रह्मबोधिकाः। सति प्रयोजनेऽनर्थ-हानेऽनुष्ठानतोऽत्र किम्॥ 20॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.1.6 आनन्दमयाधिकरणम्
SŪआनन्दमयोऽभ्यासात्॥1.1.12॥
SŪविकारशब्दान्नेति चेन्न प्राचुर्यात्॥1.1.13॥
SŪतद्धेतुव्यपदेशाच्च॥1.1.14॥
SŪमान्त्रवर्णिकमेव च गीयते॥1.1.15॥
SŪनेतरोऽनुपपत्तेः ॥1.1.16॥
SŪभेदव्यपदेशाच्च॥1.1.17॥
SŪकामाच्च नानुमानापेक्षा॥1.1.18॥
SŪतस्मिन्नस्य च तद्योगं शास्ति॥1.1.19॥

3पूर्वपक्षः

षष्ठे ब्रह्मण आनन्दमयताधिकरणे सूत्राणि
षष्ठाधिकरणमेकदेशिमतेनाह –
तैत्तिरीयके देह-प्राण-मनो-बुद्ध्यानन्दरूपाः अन्नमय-प्राणमय-मनोमय-विज्ञानमया-नन्दमयसंज्ञकाः पञ्च पदार्थाः क्रमेणैकैकस्मादान्तराः पठिताः। तत्र सर्वान्तर आनन्दमयः संसारी, परमात्मा वा- इति सन्देहे, संसारी इति प्राप्तम्। कुतः? “आनन्दस्य विकार आनन्दमयः” इति व्युत्पत्तेः संसारिणि सम्भवात्। अविकृते तु परमात्मन्यसौ न सम्भवति। किञ्च “तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः। आनन्द आत्मा। ब्रह्म पुच्छं प्रतिष्ठा”(तै.उ- 2/5) इत्यानन्दमयस्य पञ्चावयवा उच्यन्ते।
अपेक्षितविषयदर्शनजन्यं सुखं प्रियम्।
तल्लाभजन्यो मोदः।
तद्भोगजन्यः प्रमोदः।
सुषुप्त्यादौ भासमानमज्ञानोपहितं सुखसामान्यमानन्दः।
निरुपाधिकं सुखं ब्रह्म।
प्रियादीनां पञ्चावयवानां शिरआदिरूपत्वं प्रतिपत्तिसौकर्याय कल्प्यते। पक्षित्वेन कल्पितस्यानन्दमयस्य शिरः पक्षौ च इत्यवयवत्रयम्, आत्मशब्देन मध्यशरीरं चतुर्थावयवत्वेनोच्यते। पुच्छमपरभागः। प्रतिष्ठा पादौ, अयं पञ्चमोऽवयवः। न च निरंशस्य परमात्मनोऽवयवा युक्ताः। तस्मात्- संसार्येवानन्दमयः। इत्येवं प्राप्ते,-

4सिद्धान्तः

ब्रूमः– आनन्दमयः परमात्मा। कुतः- अभ्यासात् “सैषानन्दस्य मीमासा भवति, एतमानन्दमयमात्मानमुपसङ्क्रामति” (तै.उ 2/8) इत्यादिना आनन्दमयोऽभ्यस्यते। अभ्यासश्च तात्पर्य लिङ्गं, तात्पर्यञ्च वेदान्तानां ब्रह्मण्येव इत्यवोचाम। किञ्च “सत्यं ज्ञानमनन्तं ब्रह्म”(तै.उ- 2/1) इति ब्रह्मोपक्रमात् “इद सर्वमसृजत”(तै.उ- 2/6) इति सर्वस्रष्टृत्वादिभ्यश्चानन्दमयो ब्रह्म।
न च ब्रह्मणि मयट्च्छब्दानुपपत्तिः, प्राचुर्यार्थत्वसम्भवात्। प्रियाद्यवयवाः अपि विषयदर्शनाद्युपाधिकृता भविष्यन्ति। तस्मात्- परमात्मानन्दमयः इत्येकदेशिनां मतम्॥
इदानीं स्वमतानुसारेणाधिकरणं रच्यते-
“ब्रह्म पुच्छं प्रतिष्ठा” (तै.उ- 2/6) इति यच्छ्रुतं ब्रह्म, तत्किमानन्दमयस्याङ्गत्वेन निर्दिश्यते, उत स्वयं प्राधान्येन प्रतिपाद्यते इति संशयः, आनन्दमयस्यावयवत्वेन इति तावत्प्राप्तम्। लोके पुच्छशब्दस्यावयववाचित्वेन प्रसिद्धत्वात्।
उच्यते- न पुच्छशब्दोऽवयववाची। किन्तु लाङ्गूलवाची। न चानन्दमयस्य लाङ्गूलं सम्भवति। लाङ्गूलस्य गवादिलक्षणान्नमयावयवत्वात् आनन्दमयस्यावयवत्वायोगात्। अतः पुच्छशब्देन मुख्यार्थासम्भवे सति, योग्यतावशात्, अत्र आधारो लक्ष्यते। ब्रह्म आनन्दमस्य जीवस्याधारः, तत्कल्पनाधिष्ठानत्वात्।
न च आनन्दमयः परमात्मा, प्राचुर्यार्थस्वीकारेऽप्यल्पदुःखसद्भावप्रतीतेः। तस्मात्– जीवाधारो ब्रह्म प्राधान्येन प्रतिपाद्यते। तथाच- असन्नेव स भवति। असद्ब्रह्मेति वेद चेत्। अस्तिब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुरिति।(तै.उ- 2/6) इत्यादि ब्रह्माभ्यासः, “ब्रह्मविदाप्नोति परम्” (तै.उ- 2/1) इति ब्रह्मोपक्रमश्चानुकूलो भवति।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “ईक्षत्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ईक्षणाच्चेतनं ब्रह्म क्रियाज्ञाने तु मायया।आत्मशब्दात्मतादात्म्ये प्रधानस्य विरोधिनी॥ 24॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.1.7 अन्तरधिकरणम्
सप्तमे परमेश्वरस्यैव हिरण्मयपदवाच्यताधिकरणे सूत्रे
SŪअन्तस्तद्धर्मोपदेशात्॥1.1.20॥
SŪभेदव्यपदेशाच्चान्यः॥1.1.21॥
सप्तमाधिकरणमारचयति –

1विषयः

हिरण्मयो देवतात्मा किं वाऽसौ परमेश्वरः।

2संशयः

अतस्तयोः संशयः।

3पूर्वपक्षः

मर्यादाधाररूपोक्ते-र्देवतात्मैव नेश्वरः॥ 29॥
तत्र “देवतात्मा” इति तावत्प्राप्त

4सिद्धान्तः

सार्वात्म्यात् सर्वदुरित-राहित्याच्चेश्वरो मतः।
मर्यादाद्या उपास्त्यर्थ-मीशेऽपि स्युरुपाधिगाः॥ 30॥
म्। कुतः मर्यादाधाररूपाणामुच्यमानत्वात्। “ये चामुष्मात्पराञ्चो लोकाः, तेषां चेष्टे देवकामानाञ्च”(छां.उ- 1/6/8) इत्यैश्वर्यमर्यादोक्तिः, “अन्तरादित्ये” इत्याधारोक्तिः, “हिरण्मयः” इति रूपोक्तिः। न हि सर्वेश्वरस्य सर्वाधारस्य नीरूपस्य परमेश्वरस्य ऐश्वर्य-मर्यादा-धाररूपाणि सम्भवन्ति। तस्मात् देवतात्मा। इति प्राप्ते-
उच्यते- हिरण्मय ईश्वरो भवेत्। कुतः- सर्वात्मत्वश्रवणात्। सैवर्क्, तत्साम, तदुक्थम्, तद्यजुः, तद्ब्रह्म”(….) इति वाक्ये तच्छब्दैः- प्रकृतं हिरण्मयं पुरुषं परामृश्य, तस्य ऋक्सामाद्यशेषजगदात्मकत्वमुपदिश्यते। तच्चाद्वितीये परमेश्वरे मुख्यमुपपद्यते। न तु सद्वितीयायां देवतायाम्।
तथा-“स एष सर्वेभ्यः पाप्मभ्य उदितः”(छां.उ – 1/6/7) इति श्रूयमाणं सर्वपापराहित्यं ब्रह्मणोऽसाधारणं लिङ्गम्। यद्यपि देवतायाः कर्मण्यनधिकारात् क्रियमाणकरिष्यमाणपापयोरभावः, तथाऽपि असुरादिजनित-दुःखसद्भावात् तद्धेतुभूतं जन्मान्तरसञ्चितदुरितमनुवर्तत एव। मर्यादाधाररूपाणि तु, उपाधिधर्मतया सोपाधिके परमात्मन्युपास्ये वर्तितुमर्हन्ति। तस्मात् ईश्वरो हिरण्मयः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आनन्दमयाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.1.8 आकाशाधिकरणम्
अष्टमे ब्रह्मण एवाकाशशब्दवाच्यताधिकरणे सूत्रम्॥
SŪआकाशस्तल्लिङ्गात्॥1.1.22॥

1विषयः

आकाश इति होवाचे-त्यत्र खं ब्रह्म वाऽत्र खम्।

2संशयः

तत्र-आकाशशब्दार्थो वियत्, ब्रह्म वा इति सन्देहः।

3पूर्वपक्षः

शब्दस्य तत्र रूढत्वात् वाय्वादेः सर्जनादपि॥ 31॥
रूढत्वात् “वियत्” इति प्राप्तम्। सर्वभूतोत्पत्तिलयहेतुत्वं च वियत उपपद्यते। “आकाशाद्वायुः। वायोरग्निः।”(तै.उ- 2/1) इत्यादौ वाय्वादीनां सर्वभूतानां वियत्कार्यत्वश्रवणात्। इति चेत्-

4सिद्धान्तः

साकाशजगदुत्पत्ति-हेतुत्वाच्छ्रौतरूढितः।
एवकारादिना चात्र ब्रह्मैवाकाशशब्दितम् ॥ 32 ॥
अत्रोच्यते- ब्रह्मैवाकाशशब्दार्थः। “सर्वाणि ह वै” इत्यत्र असङ्कुचितसर्वशब्देन वियत्सहितसर्वभूतोत्पत्तिहेतुत्वश्रवणात्। न च वियतो वियद्धेतुत्वं सम्भवति। रूढिस्तु लौकिकी वियत्येवास्तु। श्रौती तु ब्रह्मण्यपि। “आकाशो वै नामरूपयोर्निर्वहिता”(छां.उ 8/14/1) इवि प्रयोगदर्शनात्। किञ्च “आकाशादेव” इत्येवकारः कारणान्तरं व्युदस्यति। न चैतद्वियत्पक्षे सम्भवति, घटादिषु वियद्व्यतिरिक्तानां मृदादिकारणानामुपलम्भात्।
ब्रह्मपक्षे तु, ब्रह्मणः सद्रूपस्य सर्वानन्यतया कारणान्तरव्युदास उपपद्यते। ज्यायस्त्वपरायणत्वे च श्रुत्यन्तरे ब्रह्मणः श्रूयेते- “ज्यायान्पृथिव्याः, ज्यायानन्तरिक्षात्”, (छां.उ- 3/14/3) “विज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम्”(छं.उ- 3/9/28) इति। “कर्मफलं दातुं समर्थम्” इत्यर्थः। तस्मात्- ब्रह्मैवाकाशशब्देन विवक्षितम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अन्तरधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सार्वात्म्यात् सर्वदुरित-राहित्याच्चेश्वरो मतः। मर्यादाद्या उपास्त्यर्थ-मीशेऽपि स्युरुपाधिगाः॥ 30॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.1.9 प्राणाधिकरणम्
नवमे ब्रह्मण एव प्राणशब्दवाच्यत्वाधिकरणे सूत्रम्॥
SŪअत एव प्राणः॥1.1.23॥

1विषयः

नवमाधिकरणमारचयति।
मुखस्थो वायुरीशो वा प्राणः प्रस्तावदेवता।
वायुर्भवेत्तत्र सुप्तौ भूतसारेन्द्रियक्षयात्॥ 33॥

2संशयः

तत्र “प्राणशब्दार्थो मुखबिलान्तर्वर्ती वायुः, ब्रह्म वा” इति सन्देहः।

3पूर्वपक्षः

मुखबिलान्तर्वर्ती वायुर्भवेत्, सर्वभूतलयस्य तत्र सुसम्पादत्वात्। सृषुप्तिकाले सर्वभूतसाराणामिन्द्रियाणां प्राणवायौ प्रविलयात्। इति प्राप्ते

4सिद्धान्तः

सङ्कोचोऽक्षपरत्वे स्यात् सर्वभूतलयश्रुतेः।
आकाशशब्दवत्प्राण-शब्दस्तेनेशवाचकः॥ 34॥
,
उच्यते- इन्द्रियमात्रलयपरत्वे व्याख्यायमाने, “सर्वाणि ह वै” इत्यसौ सर्वशब्दः सङ्कुचितः स्यात्। आकाशशब्दवत्प्राणशब्दोऽपि श्रौतरूढ्येवकाराभ्यां ब्रह्मवाचकः। अस्ति हि प्राणशब्दस्य ब्रह्मणि श्रौतरूढिः, “प्राणस्य प्राणम्”(बृ.उ- 4/4/18) इत्यत्र ब्रह्मविवक्षया द्वितीयप्राणशब्दप्रयोगात्। तस्मात्- ईश्वरः प्राणः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आकाशाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “साकाशजगदुत्पत्ति-हेतुत्वाच्छ्रौतरूढितः। एवकारादिना चात्र ब्रह्मैवाकाशशब्दितम् ॥ 32 ॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.1.10 ज्योतिश्चरणाधिकरणम्
SŪज्योतिश्चरणाभिधानात्॥1.1.24॥
SŪछन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात् तथा हि दर्शनम्॥1.1.25॥
SŪभूतादिपादव्यपदेशोपपत्तेश्चैवम्॥1.1.26॥
SŪउपदेशभेदान्नेति चेन्नोभयस्मिन्नविरोधात्॥1.1.27॥
दशमाधिकरणमारचयति –

1विषयः

कार्यं ज्योतिरुत ब्रह्म ज्योतिर्दीप्यत इत्यदः।

2संशयः

तत्र-“द्युलोकात्परं दीप्यमानं वस्तु किं कार्यरूपं, नेत्रानुग्राहकं तेजः, उत ब्रह्म” इति संशयः।

3पूर्वपक्षः

ब्रह्मणोऽसन्निधेः कार्यं तेजोलिङ्गबलादपि॥ 35॥
कार्यम् इति तावदाप्तम्। ब्रह्मणोऽसन्निहितत्वेन वाक्यस्य ब्रह्मपरत्वायोगात्। तेजःपरत्वं तूपपद्यते, तल्लिङ्गसद्भावात्। “इदं वाव तत्, यदिदमस्मिन्नन्तः पुरुषे ज्योतिः”(छां.उ- 3/13/7) इति श्रूयमाणो जाठराग्न्यभेदः तेजोलिङ्गम्।

4सिद्धान्तः

चतुष्पात्प्रकृतं ब्रह्म यच्छब्देनानुवर्त्यते।
ज्योतिस्स्याद्भासकं ब्रह्म लिङ्गं तूपाधियोगतः॥ 36॥
अत्रोच्यते- असिद्धोऽसन्निधिः, पूर्वस्मिन्गायत्रीखण्डे- “पादोऽस्य सर्वा भूतानि त्रिपादस्याऽमृतं दिवि”(छां.उ- 3/12/6) इति चतुष्पदो ब्रह्मणः प्रकृतत्वात्। तस्य चात्र प्रकृतवाचिना यच्छब्देनानुवर्तनात्। “अस्य ब्रह्मणः सर्वाणि भूतान्येकांशः, पादत्रयोपलक्षितमनन्तस्वरूपं द्योतनात्मके दिवि स्वस्मिन्नेवावतिष्ठते” इत्यर्थः। न च ज्योतिश्शब्दस्य ब्रह्मणि वृत्त्यनुपपत्तिः, भासकत्ववाचित्वात्। ब्रह्मणो जगद्भासकत्वात्, तेजोलिङ्गं तु- औपाधिके ब्रह्मण्यवकल्प्यते। तस्मात्- ज्योतिः ब्रह्म॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्राणाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सङ्कोचोऽक्षपरत्वे स्यात् सर्वभूतलयश्रुतेः। आकाशशब्दवत्प्राण-शब्दस्तेनेशवाचकः॥ 34॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.1.11 प्रतर्दनाधिकरणम्
SŪप्राणस्तथाऽनुगमात्॥1.1.28॥
SŪन वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्॥1.1.29॥
SŪशास्त्रदृष्ट्या तूपदेशो वामदेववत्॥1.1.30॥
SŪजीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्॥1.1.31॥
एकादशाधिकरणमारचयति –

1विषयः

एकादशे ब्रह्मण एव प्राणशब्दव्युत्पाद्यत्वाधिकरणे सूत्राणि।
प्राणोऽस्मीत्यत्र वाय्विन्द्र-जीवब्रह्मसु संशयः।
चतुर्णां लिङ्गसद्भावात् पूर्वपक्षस्त्वनिर्णयः॥ 37॥

2संशयः

तत्र चतुर्विधलिङ्गवशाच्चतुर्धा संशयः।

3पूर्वपक्षः

“इदं शरीरं परिगृह्योत्थापयति” इति प्राणवायोर्लिङ्गम्। “अस्मि” इति वक्तुरिन्द्रस्याहङ्कारवाद इन्द्रलिङ्गम्। “वक्तारं विद्यात्” इति वक्तृत्वं जीवलिङ्गम्। “आनन्दोऽजरोऽमृतः”(कौ.उ- 3/8) इति ब्रह्मलिङ्गम्। तत्र- प्राबल्यदौर्बल्यविवेकाभावादनिर्णयः- इति पूर्वपक्षः।
सिद्धान्तस्तु- सन्त्यत्र ब्रह्मणोऽनेकलिङ्गानि। तद्यथा-
“त्वमेव मे वृणीष्व- यं त्वं मनुष्याय हिततमं मन्यसे” इति हिततमत्वमेकं लिङ्गम्।
“यो मां विजानीयात्, नास्य केनचन कर्मणा लोको मीयते, न मातृवधेन, न पितृवधेन“(कौ.उ- 3/1) इति ज्ञानमात्रेण महापातकाद्यलेपोऽपरं लिङ्गम्। एवमन्यान्यपि लिङ्गान्युदाहर्तव्यानि।
न चैतानि प्राणेन्द्रजीवपक्षेषु कथञ्चिदप्युपपादयितुं शक्यन्ते। प्राणादिलिङ्गानि तु ब्रह्मण्युपपद्यन्ते, प्राणादीनां ब्रह्मबोधद्वारत्वात्। तथा सति, ब्रह्मलिङ्गानामनेकत्वादनन्यथासिद्धत्वाच्च प्राबल्यम्। तस्मात् “ब्रह्मैवात्र व्युत्पाद्यम्, न प्राणादि” इति सिद्धम्॥
इति वैयासिक न्यायमालायां प्रथमाध्यायस्य प्रथमः पादः॥1.1॥
प्रथमाध्यायस्य द्वितीयः पादः

4सिद्धान्तः

ब्रह्मणोऽनेकलिङ्गानि तानि सिद्धान्यनन्यथा।
अन्येषामन्यथासिद्धे-र्व्युत्पाद्यं ब्रह्म नेतरत्॥ 38॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “ज्योतिश्चरणाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “चतुष्पात्प्रकृतं ब्रह्म यच्छब्देनानुवर्त्यते। ज्योतिस्स्याद्भासकं ब्रह्म लिङ्गं तूपाधियोगतः॥ 36॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
Contents Adhyāya 1, Pāda 2 →