SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 8, Pāda 2

विशेषातिदेशः

अस्पष्टैर्लिङ्गैरतिदेशः। तद्यथा- वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते। तत्र लिङ्गमस्पष्टम्, शीघ्रं तद्बुद्ध्यनुत्पादनात्

6adhikaraṇas
32sūtras
8.2.1 प्रथमे- ऐष्टिकसौत्रामण्योरैष्टिकधर्मातिदेशाधिकरणे सूत्राणि 1-9
वाजिने सोमपूर्वत्वं सौत्रामण्यां च ग्रहेषु ताच्छब्द्यात्।। 1।।
अनुवषट्काराच्च।। 2।।
समुपहूय भक्षणाच्च।। 3।।
क्रयणश्रपणपुरोरुगुपयामग्रहणासादनवासोपनहनं च तद्वत्।। 4।।
हविषा वा नियम्येत तद्विकारत्वात्।। 5।।
प्रशंसा सोमशब्दः।। 6।।
वचनानीतराणि।। 7।।
व्यपदेशश्च तद्वत्।। 8।।
पशुपुरोडाशस्य च लिङ्गदर्शनम्।। 9।।
द्वितीयपादे प्रथमाधिकरणमारचयति-

1विषयः

सुरावाजिनयोः सोमस्योष्टेर्वा सोमशब्दतः

3पूर्वपक्षः

आद्यो मैवं हविःसाम्यात्सोमशब्दः प्रशस्तये
सौत्रामण्यां सुराग्रहाः ''आश्विनं गृह्णाति'' इत्यादिना।चातुर्मास्येषु वाजिनयागः श्रुतः ''वाजिभ्यो वाजिनम्'' इति।तत्र- उभयत्र सोमस्य विध्यन्तः कर्तव्यः। कुतः ''सोमो वै वाजिनम्'',''सुरा सोमः'' इति वाजिने सुरायां च सोमशब्दप्रयोगात्। सोमशब्दश्चाग्निहोत्रशब्दवद्धर्मानतिदिशति। इति चेत्-

4सिद्धान्तः

मैवम्
ऐष्टिकहविःसाम्यात्
औषधविकृता सुरा
सांनाय्यविकृतं वाजिनम्
तस्मात्- ऐष्टिको विध्यन्तः
सोमशब्दस्त्वर्थवादगतत्वान्नाग्निहोत्रादिनामवदतिदेशकः
यदि वाजिनस्य प्रतिपत्तिकर्मत्वान्नास्ति धर्मापेक्षा, तर्हि तस्मिन्नंशे कृत्वाचिन्ताऽस्तु

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टैर्लिङ्गैरतिदेशः। तद्यथा- वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते। तत्र लिङ्गमस्पष्टम्, शीघ्रं तद्बुद्ध्यनुत्पादनात्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- मधूदक उपांशुयाजीयाज्यधर्मातिदेशाधिकरणे सूत्राणि 40-43”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरेऽष्टमाध्यायस्य प्रथमः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.2.2 द्वितीये-पशौ सांनाय्यधर्मातिदेशाधिकरणे सूत्राणि 10-14
पशुः पुरोडाशविकारः स्याद्देवतासामान्यात्।। 10।।
प्रोक्षणाच्च।। 11।।
पर्यग्निकरणाच्च।। 12।।
सांनाय्यं वा तत्प्रभवत्वात्।। 13।।
तस्य च पात्रदर्शनात्।। 14।।
द्वितीयाधिकरणमारचयति-

1विषयः

पुरोडाशस्य सांनाय्यस्य वा धर्मः पशौ यतः

3पूर्वपक्षः

देवैक्यमाद्यस्तस्मान्नो हविर्जन्मादिसाम्यतः
अग्नीषोमीये पशावग्नीषोमीयपुरोडाशस्य धर्मः कार्यः। कुतः- देवतैक्यात्। इति चेत्-

4सिद्धान्तः

मैवम्
सांनाय्यं पशोरुत्पन्नम्, पशुरपि पशोरुत्पन्नः
श्रपणार्थमुखा सांनाय्यपश्वोः समा
'हविःसाम्यं च बलीयः' इत्युक्तम्
तस्मात्- सांनाय्यस्य धर्मः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टैर्लिङ्गैरतिदेशः। तद्यथा- वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते। तत्र लिङ्गमस्पष्टम्, शीघ्रं तद्बुद्ध्यनुत्पादनात्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- ऐष्टिकसौत्रामण्योरैष्टिकधर्मातिदेशाधिकरणे सूत्राणि 1-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ऐष्टिकहविःसाम्यात् औषधविकृता सुरा सांनाय्यविकृतं वाजिनम् तस्मात्- ऐष्टिको विध्यन्तः सोमशब्दस्त्वर्थवादगतत्वान्नाग्निहोत्रादिनामवदतिदेशकः यदि वाजिनस्य प्रतिपत्तिकर्मत्वान्नास्ति धर्मापेक्षा, तर्हि तस्मिन्नंशे कृत्वाचिन्ताऽस्तु”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.2.3 तृतीये- पशौ पयोधर्मातिदेशाधिकरणे सूत्राणि 15-18
दध्नः स्यान्मूर्तिसामान्यात्।। 15।।
पयो वा कालसामान्यात्।। 16।।
पश्वानन्तर्यात्।। 17।।
द्रवत्वं चाविशिष्टम्।। 18।।
तृतीयाधिकरणमारचयति-

1विषयः

दध्नोऽत्र पयसो वाद्यो घनत्वस्य समत्वतः

3पूर्वपक्षः

द्रवत्वासत्तिकालेभ्यो धर्मः स्यात्पयसः पशौ
सांनाय्यधर्मवत्यस्मिन्पशौ घनत्वेन दध्नो धर्मः। इति चेत्-

4सिद्धान्तः

मैवम्
'द्रवति गच्छति' इति द्रवत्वं पशावस्ति
पयसि च तद्विद्यते
प्रत्यासन्नं च पयः, साक्षात्पशुप्रभवत्वात्
दधि तु पयसा व्यवहितम्, एकाहकालीने च पशुपयसी
द्व्यहकालीनं दधि
तस्मात्- पशौ पयसो धर्मः कार्यः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टैर्लिङ्गैरतिदेशः। तद्यथा- वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते। तत्र लिङ्गमस्पष्टम्, शीघ्रं तद्बुद्ध्यनुत्पादनात्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये-पशौ सांनाय्यधर्मातिदेशाधिकरणे सूत्राणि 10-14”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् सांनाय्यं पशोरुत्पन्नम्, पशुरपि पशोरुत्पन्नः श्रपणार्थमुखा सांनाय्यपश्वोः समा 'हविःसाम्यं च बलीयः' इत्युक्तम् तस्मात्- सांनाय्यस्य धर्मः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.2.4 चतुर्थे- आमिक्षायां पयोधर्मातिदेशाधिकरणे सूत्राणि 19-23
आमिक्षोभयभाव्यत्वादुभयविकारः स्यात्।। 19।।
एकं वा चोदनैकत्वात्।। 20।।
दधिसंघातसामान्यात्।। 21।।
पयो वा तत्प्रधानत्वाल्लोकवत्, दध्नस्तदर्थत्वात्।। 22।।
धर्मानुग्रहाच्च।। 23।।
चतुर्थाधिकरणमारचयति-

1विषयः

द्वयोर्दध्नोऽथ पयस आमिक्षायां द्विजत्वतः

3पूर्वपक्षः

द्वयोर्दध्नो घनत्वेन प्राधान्यात्पयसो भवेत्
''तप्ते पयसि दध्यानयति सा वैश्वदेव्याभिक्षा'' इति श्रुतायामामिक्षायां सांनाय्यगतयोर्दधिपयसोर्द्वयोर्धर्मः कार्यः। कुतः- आमिक्षाया उभयजन्यत्वात्। इत्येकः पक्षः।
घनत्वसाम्यस्याधिक्याद्दधिधर्मः। इति द्वीतीयः पक्षः।

4सिद्धान्तः

पयस्यामिक्षामुत्पादयितुं सहकारित्वेन दध्यानीयते
ततः पयस एव मुख्यकारणत्वात्तद्धर्म एव न्याय्यः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टैर्लिङ्गैरतिदेशः। तद्यथा- वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते। तत्र लिङ्गमस्पष्टम्, शीघ्रं तद्बुद्ध्यनुत्पादनात्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- पशौ पयोधर्मातिदेशाधिकरणे सूत्राणि 15-18”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'द्रवति गच्छति' इति द्रवत्वं पशावस्ति पयसि च तद्विद्यते प्रत्यासन्नं च पयः, साक्षात्पशुप्रभवत्वात् दधि तु पयसा व्यवहितम्, एकाहकालीने च पशुपयसी द्व्यहकालीनं दधि तस्मात्- पशौ पयसो धर्मः कार्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.2.5 पञ्चमे- द्वादशाहे सत्राहीनयोर्व्यवस्थया धर्मातिदेशाधिकरणे सूत्राणि 24-28
सत्रमहीनश्च द्वादशाहः, तस्योभयथा प्रवृत्तिरैककर्म्यात्।। 24।।|
अपि वा यजतिश्रुतेरहीनभूतप्रवृत्तिः स्यात्, प्रकृत्या तुल्यशब्दत्वात्।। 25।।
द्विरात्रादीनामैकादशरात्रादहीनत्वं यजतिचोदनात्।। 26।।
त्रयोदशरात्रादिषु सत्रभूतस्तेष्वासनोपायिचोदनात्।। 27।।
लिङ्गाच्च।। 28।।
पञ्चमाधिकरणमारचयति-

1विषयः

अहीनसत्रयोर्द्वादशाहान्तावव्यवस्थितौ
व्यवस्थितौ वाऽविशेषादाद्योऽन्त्यः स्वस्वलिङ्गतः

3पूर्वपक्षः

प्रायणीयः, अतिरात्रः, पृष्ठ्यः, षडहः, त्रयश्छन्दोमाः, अविवाक्यमहः, उदयनीयोऽत्रिरात्रः इत्येवमहर्गणो द्वादशाहः। स च याज्ञिकप्रसिद्ध्या द्विविधः- सत्रम्, अहीनश्चेति। संज्ञाव्यवस्थया द्वयोर्धर्मा आम्नाताः- ''एको द्वौ बहवो वाऽहीनेन यजेरन्। अदीक्षिता याजयेयुः। गृहपतिसप्तदशाः स्वयमृत्विजो ब्राह्मणाः सत्रमुपेयुः'' इत्यादयः। ततो द्विविधो द्वादशाहस्य विध्यन्तः। 'द्वादशाहश्चाहर्गणानां प्रकृतिः' इत्युक्तम्। अहर्गणाश्च द्विविधाः- द्विरात्रादयः, एकादशरात्रान्ता अहीनाः। त्रयोदशरात्रादीनि च सत्राणि। तत्राहीनसत्रयोर्द्वादशाहविध्यन्तावव्यवस्थया प्राप्नुतः। कुतः- व्यवस्थापकविशेषाभावात्। इति चेत्-
मैवम्। तत्तल्लिङ्गस्य व्यवस्थापकत्वात्। 'आसीरन्' 'उपेयुः' इति चोदनाद्वयम्, यजमानबहुत्वनियमः, ऋत्विग्यजमानैक्यं च सत्रलिङ्गम्। यजतिचोदना, यजमानबहुत्वविकल्पः, ऋत्विग्यजमानभेदश्चाहीनलिङ्गम्। एतच्च दशमाध्याये (6 पादे, अधि.16) एवं विचारयिष्यते-
अहीनसत्रयोर्लक्ष्मभेदो नास्त्यस्ति वा नहि। आवृत्तिसाम्यादाद्यः स्यादिज्यासिभ्यां तयोर्भिदा।।
इति। एतच्च लिङ्गद्वयं द्वादशाहे श्रूयते ''द्वादशाहेन प्रजाकामं याजयेत्'' इति, ''द्वादशाहमृद्धिकामा उपेयुः'' इति, ''द्वादशाहमृद्धिकामा आसीरन्'' इति च। द्विरात्रादिषु यजतिचोदनैव- ''द्विरात्रेण यजेत'' ''त्रिरात्रेण यजेत'' इत्यादि। त्रयोदशरात्रादिषु सत्रलिङ्गमेव- ''त्रयोदशरात्रमृद्धिकामा उपेयुः'' इति, ''चतुर्दशरात्रं प्रतिष्ठाकामा आसीरन्'' इति च। तस्मात्- यथालिङ्गं धर्मव्यवस्था।। 5।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टैर्लिङ्गैरतिदेशः। तद्यथा- वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते। तत्र लिङ्गमस्पष्टम्, शीघ्रं तद्बुद्ध्यनुत्पादनात्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- आमिक्षायां पयोधर्मातिदेशाधिकरणे सूत्राणि 19-23”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पयस्यामिक्षामुत्पादयितुं सहकारित्वेन दध्यानीयते ततः पयस एव मुख्यकारणत्वात्तद्धर्म एव न्याय्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.2.6 षष्ठे पञ्चदशरात्रादिषु सत्रधर्मातिदेशाधिकरणे सूत्राणि 29-32
अन्यतरतोऽतिरात्रत्वात्पञ्चदशरात्रस्याहीनत्वं कुण्डपायिनामयनस्य च तद्भूतेष्वहीनत्वस्य दर्शनात्।। 29।।
अहीनवचनाच्च।। 30।।
सत्रे वोपायिचोदनात्।। 31।।
सत्रलिङ्गं च दर्शयति।। 32।।
षष्टाधिकरणमारचयति-

1विषयः

किं पञ्चदशरात्रस्य कुण्डपाय्ययनस्य च
अहीनत्वं सत्रता वाऽतिरात्रैकत्वतोऽग्रिमः

3पूर्वपक्षः

उपायिलिङ्गतः सत्रे प्रबलं विधिवाक्यगम्
सन्त्रान्तरेभ्योऽहीनत्वलिङ्गेनैतत्प्रशस्यते
पञ्चदशरात्र एवंविधः- ''त्रिवृदग्निष्टुदग्निष्टोमस्त्रिरात्रो दशरात्र उदयनीयोऽतिरात्रः'' इति। कुण्डपायिनामयनस्योपक्रमे- मासाग्निहोत्रम्, अवसाने- दशरात्रः, महाव्रतम्- उदयनीयोऽतिरात्रः, इति। तयोरुभयोरादावतिरात्रो नास्ति, अन्ते तु विद्यते। तदिदमन्यतरतोऽतिरात्रत्वमहीनलिङ्गम्। संप्रतिपन्नाहीनेषु तद्दर्शनात्। श्रुतिश्च भवति- ''यदन्यतरतोऽतिरात्रस्तेनाहीनः'' इति। तस्मात्- सत्रलिङ्गस्योभयतो-तिरात्रत्वस्याभावादहीनलिङ्गसद्भावाच्च तयोरहीनत्वम्। इति चेत्-
मैवम्। उपायिचोदनारूपस्य सत्रलिङ्गस्य दर्शनात्। सत्रे- ''यज्ञे यं काममिच्छन्ति त एनं पञ्चदशरात्रमुपेयुः'' इति। कुण्डपायिनामयनेऽपि- ''भूतिकामा उपेयुः'' इति। इदं च लिङ्गं विधिवाक्यगतत्वात्प्रबलम्। या तु पञ्चदशरात्रे सलिङ्गा श्रुतिरुदाहृता, तया सत्रान्तरेभ्योऽधिकत्वेन प्रशस्यते- 'इतराणि केवलसत्राण्येव। पञ्चदशरात्रस्तु स्वरूपेण सत्ररूपोऽप्यन्त्यातिरात्रत्वलिङ्गेन 'अहीनः' इत्यपि व्यवहारमर्हति' इति। तस्मात्- सत्रे एते उभे। तयोः सत्रधर्मानेवातिदिशेत्।। 6।। 7।।
अत्र पादे- अधिकरणानि 6, सूत्राणि 32।
आदितः- अधिकरणानि 519, सूत्राणि 1467।
अष्टमाध्यायस्य तृतीयः पादः
प्रबलेन लिङ्गेनातिदेशः। तद्यथा- आभिचारिकेष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयस्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः। प्रबलं च द्विदैवत्यत्वम्। शब्दोच्चारणमात्रेण सहसा प्रतिभासात्। क्रमस्तु विलम्बितप्रतीत्या दुर्बलः।

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरेऽष्टमाध्यायस्य द्वितीयः पादः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टैर्लिङ्गैरतिदेशः। तद्यथा- वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते। तत्र लिङ्गमस्पष्टम्, शीघ्रं तद्बुद्ध्यनुत्पादनात्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- द्वादशाहे सत्राहीनयोर्व्यवस्थया धर्मातिदेशाधिकरणे सूत्राणि 24-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 8, Pāda 1 Contents Adhyāya 8, Pāda 3 →