8.1.1
प्रथमे- विशेषचिन्ताधिकरणे सूत्रम्
SŪअथ विशेषलक्षणम्।। 1।।
अष्टमाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति-
1विषयः
कस्माच्चिदतिदिश्यन्ते नियतात्कर्मणोऽथवा
3पूर्वपक्षः
अविशेषादादिमोऽन्त्यः शास्त्रार्थस्य व्यवस्थितेः
विहितेतिकर्तव्यतारहिते सौर्यादौ कर्मणि तद्युक्ताद्यतः कुतश्चित्कर्मणो धर्मा अतिदिश्यन्ते। कुतः- नियामकस्य विशेषस्याभावात्। अतो विशेषचिन्ता न कार्या। इति चेत्-
4सिद्धान्तः
मैवम्
शास्त्रार्थव्यवस्थाया नियामकत्वात्
तस्मात्- नियतादेकस्मात्कर्मणो धर्मातिदेशः
तेन विशेषचिन्ता कर्तव्या
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये गवामयन ऐकाहिकेतिकर्तव्यतानुष्ठानाधिकरणे सूत्राणि 13-20”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.2
द्वितीये- विशेषकर्मणो धर्मातिदेशाधिकरणे सूत्रम्
SŪयस्य लिङ्गमर्थसंयोगादभिधानवत्।। 2।।
द्वितीयाधिकरणमारचयति-
1विषयः
तद्धितोक्त्यादिलिङ्गं किं न विशेषनियामकम्
3पूर्वपक्षः
भवेद्वा, न ह्यशब्दत्वाद्भवेच्छब्दे प्रवेशतः
दर्शपूर्णमासयोः- ''आग्नेयमष्टाकपालं निर्वपति'' इत्यत्र तद्धितोक्त्या देवतानिर्देशः, एकदेवतायोगित्वम्, औषधद्रव्यकत्वं निर्वापः, इत्येतान्याग्नेययागसंबन्धितया श्रूयमाणत्वादाग्नेयलिङ्गानि। ''सौर्यं चरुं निर्वपेत्'' इत्यत्रापि तान्युपलभ्यन्ते। न तेषामाग्नेयधर्मातिदेशं नियन्तुं सामर्थ्यमस्ति। कुतः- तेषामशब्दरूपत्वेन शब्दैकसमधिगम्येऽर्थे प्रामाण्यायोगात्। इति प्राप्ते
4सिद्धान्तः
ब्रूमः- लिङ्गस्मारितोपकारसहितमेव सौर्ययागं तच्छब्दो विदधाति
तथा सति प्रणाड्या(ल्या) लिङ्गस्य शब्दे प्रवेशात् 'आग्नेयवत्सौर्योऽनुष्ठेयः' इत्येतादृशं चोदकवाक्यमनुमापयता लिङ्गेन धर्मविशेषा नियम्यन्ते
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- विशेषचिन्ताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् शास्त्रार्थव्यवस्थाया नियामकत्वात् तस्मात्- नियतादेकस्मात्कर्मणो धर्मातिदेशः तेन विशेषचिन्ता कर्तव्या”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.3
तृतीये- सोम ऐष्टिकधर्मानतिदेशाधिकरणे सूत्राणि 3-10
SŪप्रवृत्तित्वादिष्टेः सोमे प्रवृत्तिः स्यात्।। 3।।
SŪलिङ्गदर्शनाच्च।। 4।।
SŪकृत्स्नविधानाद्वाऽपूर्वत्वम्।। 5।।
SŪस्रुगभिघारणाभावस्य च नित्यानुवादात्।। 6।।
SŪविधिरिति चेत्। 7।।
SŪन वाक्यशेषत्वात्।। 8।।
SŪशङ्कते चानुपोषणात्।। 9।।
SŪदर्शनमैष्टिकानां स्यात्।। 10।।
तृतीयाधिकरणे प्रथमं वर्णकमारचयति-
1विषयः
विध्यन्त ऐष्टिकः सोमे स्यान्नो वा स्यात्प्रवृत्तितः
3पूर्वपक्षः
उपदिष्टैर्नैरपेक्ष्याद्विध्यन्तो नैष्टिकोऽत्र हि
ऐष्टिको विध्यन्तः प्रयाजादिः। स च सोमाङ्गभूते दीक्षणीयादौ प्रवृत्तत्वात्सोमेऽप्यनिवार्यः। इति चेत्-
4सिद्धान्तः
मैवम्
प्रत्यक्षोपदिष्टैरभिषवाद्यङ्गकलापैः सोमस्य निराकाङ्क्षत्वात्
तस्मात्- नैष्टिको विध्यन्तः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- विशेषकर्मणो धर्मातिदेशाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- लिङ्गस्मारितोपकारसहितमेव सौर्ययागं तच्छब्दो विदधाति तथा सति प्रणाड्या(ल्या) लिङ्गस्य शब्दे प्रवेशात् 'आग्नेयवत्सौर्योऽनुष्ठेयः' इत्येतादृशं चोदकवाक्यमनुमापयता लिङ्गेन धर्मविशेषा नियम्यन्ते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
द्वितीयवर्णकमारचयति-
1विषयः
इष्ट्यग्निहोत्रसोमानां मूलप्रकृतिता न हि
3पूर्वपक्षः
अस्ति वा नालौकिकत्वादियत्तानवधारणात्
अलौकिकत्वेनं 'एतावद्भिरङ्गैः संपूर्ण उपकारः' इति निश्चेतुमशक्यत्वादिष्ट्यादौ नास्ति मूलप्रकृतित्वम्। इति चेत्-
मैवम्। लौकिकसदृशत्वात्। यथा लौकिकभुजिक्रियायामोदनः करणम्, तस्याः संनिपत्योपकारिणः शाकसूपादयः, आरादुपकारिणः पीठदीपादयः। तथा भावनायां यागः करणम्, अवघातादयः संनिपातिनः, प्रयाजादय आरादुपकारिणः। अतो नात्यन्तमलौकिकत्वम्। इत्यत्ता तु लौकिके यथा प्रत्यक्षेण निश्चीयते, तथा श्रौते श्रुत्या निश्चीयताम्। तस्मात्- इष्ट्यग्निहोत्रसोमानां मूलप्रकृतित्वमस्ति।। 5।। 6।।
4सिद्धान्तः
लोकवत्संनिपत्यारादुपकारिद्वयश्रुतेः
इयत्ताया निश्चितत्वान्मूलप्रकृतिता त्रिषु
8.1.4
चतुर्थे- ऐन्द्राग्नादावैष्टिकधर्मातिदेशाधिकरणे सूत्रम्
SŪइष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात्।। 11।।
चतुर्थाधिकरणमारचयति-
1विषयः
ऐन्द्राग्नादौ सौमिकः स्यादैष्टिको वा द्वयोरिह
3पूर्वपक्षः
संभवादैच्छिकोऽन्त्योऽत्र स्यात्कपालादिलिङ्गतः
''ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः'' इत्यादौ सौमिकैष्टिकयोर्विध्यन्तयोरन्यतर इच्छया ग्राह्यः। कुतः- उभयत्र विध्यन्तसंभवेनातिदेष्टुमर्हत्वात्। इति चेत्-
4सिद्धान्तः
न
कपालनिर्वापादिभिर्लिङ्गविशेषैरैष्टिकस्यैवात्रोचितत्वात्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- सोम ऐष्टिकधर्मानतिदेशाधिकरणे सूत्राणि 3-10”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रत्यक्षोपदिष्टैरभिषवाद्यङ्गकलापैः सोमस्य निराकाङ्क्षत्वात् तस्मात्- नैष्टिको विध्यन्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.5
पञ्चमे- अग्नीषोमीयपशौ दार्शपूर्णमासिकधर्मातिदेशाधिकरणे सूत्रम्
SŪपशौ च लिङ्गदर्शनात्।। 12।।
पञ्चमाधिकरणमारचयति-
1विषयः
न पशावैष्टिकः स्याद्वा, न कपालाद्यभावतः
स्याद्व्यक्तद्रव्यदेवत्वप्रयाजस्रुच्यसाम्यतः
3पूर्वपक्षः
अग्नीषोमीयपशावैष्टिको विध्यन्तो नास्ति। कुतः- पूर्वेवदत्र निर्वापकपालादिलिङ्गाभावात्। इति चेत्-
मैवम्। ''आग्नेयमष्टाकपालम्'' इत्यत्रोत्पत्तिवाक्ये यथा द्रव्यदेवते व्यक्ते, तथा ''अग्नीषोमीयं पशुम्'' इत्यत्रापि। न तु 'सोमेन यजेत' इत्यत्रेव देवताया अव्यक्तत्वम्। तदेतद्व्यक्तद्रव्यदेवत्वमेकं लिङ्गम्। ''एकादश प्रयाजान्यजति'' इति प्रयाजवत्त्वं द्वितीयम्। ''स्रुच्यमाघार्य जुह्वा पशुमनक्ति'' इत्याघाराञ्जने लिङ्गान्तरे। आलम्भो लिङ्गान्तरम्, इष्टावपि ''ईषामालभते'' इति दर्शनात्। तस्मात्- अस्ति पशावैष्टिकः।। 8।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- ऐन्द्राग्नादावैष्टिकधर्मातिदेशाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न कपालनिर्वापादिभिर्लिङ्गविशेषैरैष्टिकस्यैवात्रोचितत्वात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.6
षष्ठे सवनीयपशावग्नीषोमीयधर्मातिदेशाधिकरणे सूत्रम्
SŪदैक्षस्य चेतरेषु।। 13।।
षष्ठाधिकरणमारचयति-
1विषयः
सवनीयादिके दार्शो दैक्षो, वा प्रकृतित्वतः
3पूर्वपक्षः
आद्योऽन्त्यो लिङ्गतोऽन्यत्र विकृतिः प्रकृतिर्भवेत्
सवनीयानुबन्ध्यनिरूढादिपशुषु दर्शपूर्णमाससंबन्धी विध्यन्तः। कुतः- दर्शस्य प्रकृतित्वात्। दैक्षोऽग्नीषोमीयपशुविध्यन्तः, दीक्षितेनानुष्ठेयेषु पशुविध्यन्तेषु प्रथमभावित्वात्। तस्य चाग्नीषोमीयस्येष्टिविकृतित्वान्न प्रकृतित्वमस्ति। अतो न तस्य विध्यन्तोऽतिदेशार्हः। इति प्राप्ते
4सिद्धान्तः
ब्रूमः- आलम्भोऽग्नीषोमीयपशौ लिङ्गम्
तच्च सवनीयादिष्वस्ति
तथा प्रातःसवनीयादिषु वपादिप्रचारोऽपरं लिङ्गम्
इष्टिं प्रति विकृतेरप्यन्यत्र सवनीयादौ प्रकृतित्वं न विरुध्यते
तस्मात्- अग्नीषोमीयपशोर्विध्यन्तं सवनीयादिपशुष्वतिदिशेत्
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- अग्नीषोमीयपशौ दार्शपूर्णमासिकधर्मातिदेशाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.7
सप्तमे- ऐकादशिनपशौ समानधर्मातिदेशाधिकरणे सूत्रम्
SŪऐकादशिनेषु सौत्यस्य द्वैरशन्यस्य दर्शनात्।। 14।।
सप्तमाधिकरणमारचयति-
1विषयः
स्यादैकादशिने दैक्षात्सौत्याद्वाद्योऽस्तु पूर्ववत्
रशनाद्वयसौत्यत्वविशेषाल्लिङ्गतोऽन्तिमः
3पूर्वपक्षः
ऐकादशिनाः पशव एवमाम्नायन्ते- ''आग्नेयः कृष्णग्रीवः। सारस्वती मेषी। बभ्रुः सौम्यः। पौष्णः श्यामः। शितिपृष्ठो बार्हस्पत्यः। शिल्पो वैश्वदेवः। ऐन्द्रोऽरुणः। मारुतः कल्माषः। ऐन्द्राग्नः संहितः। अधोरामः सावित्रः। वारुणः कृष्णः। एकशितिपात्येत्वः'' इति।
यद्यप्यश्वमेधप्रकरण एते पठिताः, तथाऽपि ज्योतिष्टोमप्रकरणेऽप्येते विधीयन्ते- ''प्रैवाग्नेयेन वापयति। मिथुनं सारस्वत्या करोति। रेतः सौम्येन दधाति। प्रजनयति पौष्णेन'' इत्यादिना। तेष्वैकादशिनेषु दैक्षादग्नीषोमीयाद्विध्यन्तस्यातिदेशः स्यात्। कुतः- अग्नीषोमीयस्य पशुप्रकृतित्वेन पूर्वाधिकरणे निर्णीतत्वात्। इति चेत्-
मैवम्। सौत्यगतविशेषलिङ्गदर्शनात्। सुत्याकाले भवः सौत्यः सवनीयः पशुः। तत्र चोदकप्राप्ता रशनैका। वाचनिकी द्वितीया। एतत्तु तृतीये निर्णीतम्। तदेतद्रशनाद्वयमग्नीषोमीयपशावसंभवात्सवनीयस्य विशेषलिङ्गमेकम्, सुत्याकालीनत्वं द्वितीयम्। ते च द्वे लिङ्गे ऐकादशिनेषु दृश्येते। तत्रेदमाम्नायते- ''द्वे द्वे रशने आदाय द्वाभ्यां द्वाभ्यां रशनाभ्यामेकैकं यूपं परिव्ययति'' इति। सुत्याकालीनत्वं च तेष्वस्ति। ततः सौत्याद्धर्मातिदेशः।। 10।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे सवनीयपशावग्नीषोमीयधर्मातिदेशाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- आलम्भोऽग्नीषोमीयपशौ लिङ्गम् तच्च सवनीयादिष्वस्ति तथा प्रातःसवनीयादिषु वपादिप्रचारोऽपरं लिङ्गम् इष्टिं प्रति विकृतेरप्यन्यत्र सवनीयादौ प्रकृतित्वं न विरुध्यते तस्मात्- अग्नीषोमीयपशोर्विध्यन्तं सवनीयादिपशुष्वतिदिशेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.8
अष्टमे- पशुगणेष्वैकादशिनधर्मातिदेशाधिकरणे सूत्रम्
SŪतत्प्रवृत्तिर्गणेषु स्यात्प्रतिपशु यूपदर्शनात्।। 15।।
अष्टमाधिकरणमारचयति-
1विषयः
ललामादिगणे दैक्षादैकादशिनतोऽथवा
आद्यो विशेषराहित्यान्न गणत्वाविशेषतः
3पूर्वपक्षः
काम्यपशुकाण्डे पशुगणः श्रूयते ''वसन्ते ललामांस्त्रीन्वृषभानालभेत'' इति। तत्र- रशनाद्वयादिविशेषलिङ्गाभावाद्दैक्षादग्नीषोमीयाद्धर्मातिदेशः। इति चेत्-
न। गणत्वेन विशेषलिङ्गेनैकादशिनेभ्योऽतिदेशात्। ऐकादशिनानां पशुगणप्रकृतित्वं लिङ्गादवगम्यते। तथा हि सौत्रामण्यां पशुगणं प्रकृत्यैवमाम्नायते- ''यत्रिषु यूपेष्वालभेत। बहिर्धाऽस्मादिन्द्रियं वीर्यं दध्यात्। भ्रातृव्यमस्मै जनयेदेकयूप आलभते'' इति। यद्यत्राग्नीषोमीयः प्रकृतिः स्यात्, तदा चोदकादेकस्यैव यूपस्य प्राप्तत्वेन यूपत्रयप्रसक्त्यभावात्तदुपन्यासेन दोषाभिधानम्, पुनरेकयूपविधानं च व्यर्थं स्यात्। ऐकादशिनानां प्रकृतित्वे तु प्रतिपशु पृथग्यूपातिदेशेन प्रसक्तिसद्भावात्तदुपपद्यते। तस्मात्पशुगणेष्वैकादशिनेभ्योऽतिदेशः।। 11।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- ऐकादशिनपशौ समानधर्मातिदेशाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.9
नवमे- अव्यक्तपशौ सौमिकधर्मातिदेशाधिकरणे सूत्रम्
SŪअव्यक्तासु तु सोमस्य।। 16।।
नवमाधिकरणमारचयति-
1विषयः
इष्टेः सोमस्य वा धर्मा विश्वजित्प्रमुखेष्विह
3पूर्वपक्षः
अविशेषादैच्छिकाः स्युः सोमस्याव्यक्तिसाम्यतः
''विश्वजिता यजेत'' ''अभिजिता यजेत'' ''द्वादशाहेन यजेत'' इत्यादिषु नियामकाभावादिष्टिसोमयोरन्यतरस्य धर्मा इच्छया ग्रहीतव्याः। इति चेत्-
4सिद्धान्तः
मैवम्
अव्यक्तत्वलिङ्गेन सोमसाम्यात्
उत्पत्तिवाक्ये देवतानभिधानमव्यक्तिः
तस्मात्- सोमस्य धर्मानतिदिशेत्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- पशुगणेष्वैकादशिनधर्मातिदेशाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.10
दशमे- अहर्गणेषु द्वादशाहिकधर्मातिदेशाधिकरणे सूत्रम्
SŪगणेषु द्वादशाहस्य।। 17।।
दशमाधिकरणमारचयति-
1विषयः
अहर्गणेषु सोमस्य द्वादशाहस्य वाऽग्रिमः
पूर्ववद्दिनसंघादिविशेषैरन्तिमो भवेत्
3पूर्वपक्षः
द्विरात्रमारभ्य शतरात्रपर्यन्तेषु गवामयने च पूर्ववदव्यक्तिलिङ्गेन सोमस्य धर्माः। इति चेत्-
न। विशेषलिङ्गसद्भावात्। द्वादशाहपदान्तर्गतोऽहःशब्दः षष्टिघटिकात्मकदिनपरः। द्विरात्रादिपदान्तर्गतो रात्रिशब्दश्च तादृशः। एतदेकं विशेषलिङ्गम्। अहःसंघोद्वितीयम्। द्वादश दीक्षास्तृतीयम्। तच्च गवामयने विद्यते। तत्र हि ''अभीन्धत एव दीक्षाभिः'' इत्युक्त्वा दीक्षायुग्मानि षडुपन्यस्तानि- ''द्वाभ्यां लोमावद्यन्ति। द्वाभ्यां त्वचम्। द्वाभ्यामसृक्। द्वाभ्यां मांसम्। द्वाभ्यामस्थि। द्वाभ्यां मज्जानम्'' इति। तस्मात्- अहर्गणेषु द्वादशाहस्य धर्माः।। 13।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- अव्यक्तपशौ सौमिकधर्मातिदेशाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अव्यक्तत्वलिङ्गेन सोमसाम्यात् उत्पत्तिवाक्ये देवतानभिधानमव्यक्तिः तस्मात्- सोमस्य धर्मानतिदिशेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.11
एकादशे- संवत्सरसत्रेषु गवामयनिकधर्मातिदेशाधिकरणे सूत्रम्
SŪगव्यस्य च तदादिषु।। 18।।
एकादशाधिकरणमारचयति-
1विषयः
द्वादशाहस्य गव्यस्य वादित्याद्यङ्कितायने
3पूर्वपक्षः
पुरेवाद्यो गव्यधर्मा वत्सरत्वादिलिङ्गतः
आदित्यानामयनम्, गवामयनम्, तपस्विनामयनम्, इत्यादिष्वहर्गणत्वादिलिङ्गेन द्वादशाहस्य धर्माः। इति चेत्-
4सिद्धान्तः
न
गव्यलिङ्गस्य विशेषस्य सत्त्वात्
गवां संबन्धि गव्यम्
गवामयनमिति यावत्
तस्य धर्मा एतेषु ग्राह्याः
कुतः- संवत्सरसाध्यत्वसामान्यात्
षष्ट्युत्तरशतत्रयदिवससाध्यत्वनियमसद्भावाच्च
'पत्नय उपगायन्ति' इत्येतस्य गवामयनगतमाहाव्रतिकधर्मस्य दर्शनाच्च
तस्मात्- गव्यस्य धर्माः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- अहर्गणेषु द्वादशाहिकधर्मातिदेशाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.12
द्वादशे- निकायिनामुत्तरेषु पूर्वनिकायिधर्मातिदेशाधिकरणे सूत्रम्
SŪनिकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिः स्यात्।। 19।।
द्वादशाधिकरणमारचयति-
1विषयः
साद्यस्क्रे सौमिकः पूर्वधर्मो वाऽव्यक्तभावतः
3पूर्वपक्षः
सौमिकः स्यादेकनामैकसंघस्थत्वतोऽन्तिमः
साद्यस्क्रा इत्येकनामका एकसंघवर्तिनो बहवो यागाः श्रुताः। तथा- 'साहस्राः' इति। तस्मिन्साद्यस्क्रसंघे प्रथमः साद्यस्क्रो धर्मसंयुक्त आम्नातः। एवं साहस्रेष्वपि। तत्र धर्मरहिते द्वितीयादिके साद्यस्क्रे साहस्रे चाव्यक्तत्वसाम्यात्सौमिको धर्मः। इति चेत्-
4सिद्धान्तः
मैवम्
एकनामत्वैकसंघवर्तित्वाभ्यां विशेषलिङ्गाभ्यां प्रथमसाद्यस्क्रप्रथमसाहस्रधर्मस्यैवोचितत्वाद्द्वितीयादिसाद्यस्क्रादिष्वतिदेशः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- संवत्सरसत्रेषु गवामयनिकधर्मातिदेशाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न गव्यलिङ्गस्य विशेषस्य सत्त्वात् गवां संबन्धि गव्यम् गवामयनमिति यावत् तस्य धर्मा एतेषु ग्राह्याः कुतः- संवत्सरसाध्यत्वसामान्यात् षष्ट्युत्तरशतत्रयदिवससाध्यत्वनियमसद्भावाच्च 'पत्नय उपगायन्ति' इत्येतस्य गवामयनगतमाहाव्रतिकधर्मस्य दर्शनाच्च तस्मात्- गव्यस्य धर्माः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.13
त्रयोदशे फलादीनामनतिदेशाधिकरणे सूत्राणि 20-22
SŪकर्मणस्त्वप्रवृत्तित्वात्फलनियमकर्तृसमुदायस्यानन्वयस्तद्बन्धनत्वात्।। 20।।
SŪप्रवृत्तौ चापि तादर्थ्यात्।। 21।।
SŪअश्रुतित्वाच्च।। 22।।
त्रयोदशाधिकरणमारचयति-
1विषयः
फलं च नियमः कर्ता संघः सौर्ये न वाऽग्रिमः
प्रयाजवन्न विध्यादिविध्यन्तत्वविभेदतः
3पूर्वपक्षः
इष्टौ फलादयश्चत्वारः सन्ति। फलं- स्वर्गः, नियमः- यावज्जीवकत्वम्, कर्ता- स्वर्गकामः, संघः- आग्नेयादीनां षष्णां साहित्यम्। त एते चत्वारः सौर्ये प्रयाजादिवदतिदेष्टव्याः। इति चेत्-
न। वैषम्यात् प्रयाजादिराकाङ्क्षितविध्यन्तत्वादतिदिश्यते। विध्यादिस्तु नाकाङ्क्षितः। 'सौर्यं चरुं निर्वपेत्' इति मुख्यविधेः प्रत्यक्षश्रवणात्। अन्यथा विध्यन्तेऽपि कस्याकाङ्क्षा वर्ण्येत। तस्मात्- प्रधानकर्मणोऽनाकाङ्क्षितस्य विकृतावप्रवृत्तेस्तत्संबद्धाः फलादयोऽप्यनाकाङ्क्षितत्वान्नातिदिश्यन्ते।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- निकायिनामुत्तरेषु पूर्वनिकायिधर्मातिदेशाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् एकनामत्वैकसंघवर्तित्वाभ्यां विशेषलिङ्गाभ्यां प्रथमसाद्यस्क्रप्रथमसाहस्रधर्मस्यैवोचितत्वाद्द्वितीयादिसाद्यस्क्रादिष्वतिदेशः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.14
चतुर्दशे- गुणकामानां गोदोहनादीनामनतिदेशाधिकरणे सूत्राणि 23-25
SŪगुणकामेष्वाश्रितत्वात्प्रवृत्तिः स्यात्।। 23।।
SŪनिवृत्तिर्वा कर्मभेदात्।। 24।।
SŪअपि वाऽतद्विकारत्वात्क्रत्वर्थत्वात्प्रवृत्तिः स्यात्।। 25।।
चतुर्दशाधिकरणमारचयति-
1विषयः
गोदोहनाद्यस्ति नो वा भवेत्प्रणयनाश्रयात्
3पूर्वपक्षः
अनङ्गत्वादपेक्षाया अभावान्नातिदिश्यते
''चमसेनापः प्रणयेत्। गोदोहनेन पशुकामस्य'' इति दर्शपूर्णमासयोः श्रुतं गोदोहनं सौर्येऽप्यतिदेष्टव्यम्। कुतः- तदाश्रयस्य प्रणयनस्य सद्भावात्। इति चेत्-
4सिद्धान्तः
मैवम्
क्रत्वङ्गतया चमस एव प्रणयनसाधनमपेक्षितम्
न त्वनङ्गं पुरुषार्थं गोदोहनम्
अतः फलनियमादिवन्नातिदेशः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे फलादीनामनतिदेशाधिकरणे सूत्राणि 20-22”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.15
पञ्चदशे- सौर्ये चरावभिमर्शनद्वयस्य विकल्पाधिकरणे सूत्रम्
SŪएककर्मणि विकल्पोऽविभागो हि चोदनैकत्वात्।। 26।।
पञ्चादशाधिकरणमारचयति-
1विषयः
स्पर्शद्वयं व्यवस्थाप्यं विकल्प्यं वा, व्यवस्थितिः
3पूर्वपक्षः
प्रकृताविव नो तत्र तस्याः शाब्दत्ववर्जनात्
दर्शपूर्णमासयोर्हविषां स्पर्शनद्वयं व्यवस्थितमन्त्रद्वयसाध्यमाम्नातम्- ''चतुर्होत्रा पौर्णमासीमभिमृशेत्। पञ्चहोत्रामावास्याम्'' इति। ''पृथिवी होता'' इत्यादिमन्त्रश्चतुर्होता। ''अग्निर्होता'' इत्यादिमन्त्रः पञ्चहोता। तदेतदुभयं सौर्यादौ चोदकप्राप्तं सत्कालभेदेनानुष्ठानद्वये व्यवस्थापनीयम्। कुतः- प्रकृतौ पौर्णमास्यमावास्ययोः कालयोर्भेदेन व्यवस्थितत्वात्। इति चेत्-
4सिद्धान्तः
न
प्रकृतौ व्यवस्थाया आर्थिकत्वात्
शाब्दस्यैवाङ्गत्वेनातिदेशार्हत्वात्
तस्मात्- उभयं विकृताविच्छया विकल्प्यताम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- गुणकामानां गोदोहनादीनामनतिदेशाधिकरणे सूत्राणि 23-25”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् क्रत्वङ्गतया चमस एव प्रणयनसाधनमपेक्षितम् न त्वनङ्गं पुरुषार्थं गोदोहनम् अतः फलनियमादिवन्नातिदेशः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.16
षोडशे- सौर्यचरावाग्नेयधर्मातिदेशाधिकरणे सूत्राणि 27-31
SŪलिङ्गसाधारण्याद्विकल्पः स्यात्।। 27।।
SŪऐकार्थ्याद्वा नियम्येत पूर्ववत्त्वाद्विकारो हि।। 28।।
SŪअश्रुतित्वान्नेति चेत्। 29।।
SŪस्याल्लिङ्गभावात्।। 30।।
SŪतथा चान्यार्थदर्शनम्।। 31।।
षोडशाधिकरणमारचयति-
1विषयः
षट्त्सु कस्याप्युताग्नेयस्यैव सौर्येऽग्रिमो यतः
3पूर्वपक्षः
अविशेषो, न देवैक्यादौषधद्रव्यकत्वतः
दर्शपूर्णमासगतेषु षट्त्सु यागेषु यस्य कस्यापि विध्यन्तः सौर्ये कर्तव्यः। 'अस्यैव' इति विशेषनियामकस्याभावात्। इति चेत्-
न। देवतैक्यस्य नियामकत्वात्।
सौर्यशब्दगततद्धितप्रत्ययविग्रहस्य 'सूर्यौ' इति द्विवचनेनापि कर्तुं शक्यत्वाद्देवतैक्यमनिश्चितमिति चेत्-
न। विधिशेषार्थवादोक्तौ ''अमुमेवादित्यम्'' इत्येकवचनेन तद्व्यपदेशादाग्नेयार्थवादेऽपि ''सोऽग्नयेऽध्रियत'' इत्येकवचनं व्यपदिष्टम्। अत आग्नेयस्यैव विध्यन्तः, न त्वग्नीषोमैन्द्राग्नयोः।
4सिद्धान्तः
यद्यपि- ऐन्द्रयोर्दधिपयसोः प्राजापत्य उपांशुयाजेऽपि दैवतैक्यमस्ति, तथाऽपि- औषधद्रव्यकत्वमाग्नेये विशिष्यते
तस्मात्- तस्यैव विध्यन्तः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- सौर्ये चरावभिमर्शनद्वयस्य विकल्पाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न प्रकृतौ व्यवस्थाया आर्थिकत्वात् शाब्दस्यैवाङ्गत्वेनातिदेशार्हत्वात् तस्मात्- उभयं विकृताविच्छया विकल्प्यताम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.17
सप्तदशे- हविर्देवतयोः संनिपाते हविः सामान्यस्य बलीयस्त्वाधिकरणे सूत्राणि 32-34
SŪविप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपास्यत्वात्।। 32।।
SŪतेन च कर्मसंयोगात्।। 33।।
SŪगुणत्वेन देवताश्रुतिः।। 34।।
सप्तदशाधिकरणमारचयति-
1विषयः
देवो बली हविर्वैन्द्रे पुरोडाशेऽग्रिमो यतः
3पूर्वपक्षः
देवो मुख्योऽन्तरङ्गं तद्धविः कर्मण्यतो बलि
''ऐन्द्रमेकादशकपालं निर्वपेत्'' इत्यत्र देवतासाम्येन सांनाय्यधर्मः प्राप्नोति। हविःसाम्येन पुरोडाशधर्मः। तत्र देवो बली। कुतः- मुख्यत्वात्। तच्च प्राथमिकेन पदेनोच्यमानत्वात्प्रातिपदिकार्थत्वाच्च द्रष्टव्यम्। हविस्तु द्वितीयेन पदेनोच्यते। तत्रापि- 'एकादशसु कपालेषु संस्कृतः' इत्यस्मिन्नर्थे विहितस्य प्रत्ययस्यार्थः। अतो मुख्यत्वाद्देवतासामान्यं प्रबलम्। इति प्राप्ते-
4सिद्धान्तः
एवम्- ''आग्नेयं पयः'' इत्यत्र सांनाय्यधर्मो द्रष्टव्यः
ब्रूमः- त्यज्यमानतया त्यागरूपे कर्मणि हविः प्रत्यासन्नम्। देवता तु मनसैवोद्दिश्यमानत्वाद्यागक्रियाया बहिरङ्गम्। यत्तु मुख्यत्वमुक्तम्। तत्- शब्दोपाधिकम्। न तु स्वाभाविकम्। तस्मात्- स्वाभाविकेनान्तरङ्गत्वेन हविःसामान्यस्य प्रबलत्वात्पुरोडाशधर्मः कर्तव्यः।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- सौर्यचरावाग्नेयधर्मातिदेशाधिकरणे सूत्राणि 27-31”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यद्यपि- ऐन्द्रयोर्दधिपयसोः प्राजापत्य उपांशुयाजेऽपि दैवतैक्यमस्ति, तथाऽपि- औषधद्रव्यकत्वमाग्नेये विशिष्यते तस्मात्- तस्यैव विध्यन्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.18
अष्टादश- शतकृष्णलाख्यहिरण्य औषधधर्मातिदेशाधिकरणे सूत्राणि 35-39
SŪहिरण्यमाज्यधर्मं तेजस्त्वात्।। 35।।
SŪधर्मानुग्रहाच्च।। 36।।
SŪऔषधं वा विशदत्वात्।। 37।।
SŪचरुशब्दाच्च।। 38।।
SŪतस्मिंश्च श्रपणश्रुतेः।। 39।।
अष्टादशाधिकरणमारचयति-
1विषयः
कृष्णलेषु घृतस्योत व्रीहेस्तेजोयुतेर्भवेत्
3पूर्वपक्षः
घृतस्य मैवं वैशद्याच्चरुशब्दयुतेस्तथा
''प्राजापत्यं घृते चरुं निर्वपेच्छतकृष्णलम्'' इत्यत्र कृष्णलेषूपांशुयाजद्रव्यस्य घृतस्य धर्माः कर्तव्याः। कृष्णलाख्यसुवर्णस्य घृतस्य च तेजस्वित्वसाम्यात्। इति चेत्-
4सिद्धान्तः
मैवम्
सुवर्णशकलव्रीह्योर्वैशद्यसाम्यात्
न हि घृतस्य प्रबलकाठिन्यविरलत्वादिरूपं वैशद्यमस्ति
चरुशब्दश्चौषधद्रव्यविषयः कृष्णलेषु प्रयुज्यमान औषधधर्मान्प्रापयति
तस्मात्- व्रीहिधर्माः कर्तव्याः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे- हविर्देवतयोः संनिपाते हविः सामान्यस्य बलीयस्त्वाधिकरणे सूत्राणि 32-34”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एवम्- ''आग्नेयं पयः'' इत्यत्र सांनाय्यधर्मो द्रष्टव्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.1.19
एकोनविंशे- मधूदक उपांशुयाजीयाज्यधर्मातिदेशाधिकरणे सूत्राणि 40-43
SŪमधूदके द्रवसामान्यात्पयोविकारः स्यात्।। 40।।
SŪआज्यं वा वर्णसामान्यात्।। 41।।
SŪधर्मानुग्रहाच्च।। 42।।
SŪपूर्वस्य चाविशिष्टत्वात्।। 43।।
एकोनविंशाधिकरणमारचयति-
1विषयः
क्षीरस्याज्यस्य वा नीरे मधुन्यप्यग्रिमो यतः
द्रवत्वं न घृतेऽप्यस्य सत्त्वाद्वर्णाच्च संभवत
3पूर्वपक्षः
न
घृतेऽप्यग्निसंपर्केण द्रवत्वसद्भावादशुक्लवर्णत्वादाज्यधर्माणामुत्पवनादीनां संभवात्, पयोधर्माणां दोहनादीनामसंभवाच्चोपांशुयाजगतस्याज्यस्य धर्माः कर्तव्याः
चित्रायागे श्रूयते ''दधि, मधु, घृतम्, आपः, धानाः, तण्डुलाः, तत्संसृष्टं प्राजापत्यम्'' इति। तत्र- मधुन्युदके च द्रवत्वसामान्येन सांनाय्यगतस्य पयसो धर्माः। इति चेत्-
अत्र पादे- अधिकरणानि 19, सूत्राणि 43।
आदितः- अधिकरणानि 513, सूत्राणि 1435।
अष्टमाध्यायस्य द्वितीयः पादः
अस्पष्टैर्लिङ्गैरतिदेशः। तद्यथा- वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते। तत्र लिङ्गमस्पष्टम्, शीघ्रं तद्बुद्ध्यनुत्पादनात्।
4सिद्धान्तः
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरेऽष्टमाध्यायस्य प्रथमः पादः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादश- शतकृष्णलाख्यहिरण्य औषधधर्मातिदेशाधिकरणे सूत्राणि 35-39”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् सुवर्णशकलव्रीह्योर्वैशद्यसाम्यात् न हि घृतस्य प्रबलकाठिन्यविरलत्वादिरूपं वैशद्यमस्ति चरुशब्दश्चौषधद्रव्यविषयः कृष्णलेषु प्रयुज्यमान औषधधर्मान्प्रापयति तस्मात्- व्रीहिधर्माः कर्तव्याः”