SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 10, Pāda 6

बाधः

''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः

22adhikaraṇas
79sūtras
10.6.1 प्रथमे- रथंतरादीनां साम्नां तृचे गानाधिकरणे सूत्रे 1-2
एकर्चस्थानि यज्ञे स्युः स्वाध्यायवत्।। 1।।
तृचे वा लिङ्गदर्शनात्।। 2।।
षष्ठपादस्य प्रथमाधिकरणमारचयति-

1विषयः

सामैकस्यां तृचे वा स्यादाद्यः स्वाध्यायवद्भवेत्
वचनाल्लिङ्गसंयुक्तात्स्तोत्रे साम तृचे भवेत्

2संशयः

पवमानाज्यपृष्ठादिस्तोत्रेषु यद्विहितं रथंतरबृहद्वैरूपादिसामाध्येतार एकस्यामृच्यधीयते, तत्किं स्तोत्रप्रयोगकालेऽप्येकस्यामृचि गेयं किंवा तृचे गेयम्, इति संशयः।

3पूर्वपक्षः

अध्ययनस्यानुष्ठानार्थत्वाद्यथाऽध्ययनमेकस्यां गेयम्। इति पूर्वः पक्षः।
'अष्टाक्षरेण प्रथमाया ऋचः प्रस्तौति द्व्यक्षरेणोत्तरयोः' इति तिसृष्वृक्षु प्रस्तोत्रा गातव्यो भागो निरूप्यते। तदिदं तृचस्य लिङ्गम्। ''ऋक्सामोवाच मिथुनीसंभवाव'' इत्यादावृग्देवतासामदेवतयोः संवादरूपेऽर्थवादे सामदेवतैकामृचं, द्वे ऋचौ, च प्रत्याख्याय तिस्र ऋचोऽङ्गी चकार। तदिदमपरं लिङ्गम्। ताभ्यां लिङ्गाभ्यामुपबृंहितात् 'एकं साम तृचे क्रियते स्तोत्रीयम्' इति वचनात्तृचे गातव्यम्।। 1।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षड्विंशे- व्यूढे मन्त्राणां छन्दोव्यतिक्रमाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.2 द्वितीये- स्वर्दृक्शब्देन वीक्षणस्य कालार्थताधिकरणे सूत्रम्
स्वर्दृशं प्रति वीक्षणं कालमात्रं परार्थत्वात्।। 3।।
द्वितीयाधिकरणमारचयति-

1विषयः

स्वार्दृक्शब्दे वीक्षणे च किं स्यादङ्गाङ्गिताऽथवा

2संशयः

तत्र संशयः किं स्वर्दृक्शब्दोच्चारणवीक्षणयोरङ्गाङ्गिभावोऽत्र विधीयते, किंवा विधीयमानसंमीलनावधित्वेन स्वर्दृक्शब्दोच्चारणं निर्दिश्यते, इति।

3पूर्वपक्षः

मीलनावधिताद्योऽस्तु भिन्नवाक्येन तद्विधेः
तत्र संमीलनवाक्याद्वीक्षणवाक्यं भिन्नम्। ततो न मीलनावधित्वेनान्वयः संभवतीति। किंच 'वीक्षेत' इति लिङ्प्रत्ययोऽत्र विधायकः श्रूयते। ततः स्वर्दृक्शब्दोच्चारणं वीक्षणाङ्गम्, वीक्षणं वा तदङ्गम्, इत्यङ्गाङ्गिभावोऽभ्युपेयः। तथा सति स्वर्दृक्शब्दरहितयोरुत्तरयोर्ऋचोर्गीयमाने रथंतरे विहितसंमीलनानुवृत्तिः फलिष्यति। इति पूर्वः पक्षः।
'स्वर्दृशं प्रति' इत्यनेन कर्मप्रवचनीयेन प्रतिशब्देन स्वर्दृक्शब्दोच्चारणस्यमीलनकालावधित्वं द्योत्यते। न च- अत्र भिन्नं वाक्यम्। एकवाक्यत्वसंभवात्। तथा हि- निरोधपरिहाराय स्वत एव प्राप्तत्वादीक्षणं न विधेयम्। तथा सति 'आ स्वर्दृक्शब्दोच्चारणात्संमीलयेत्' इत्येकं वाक्यं संपद्यते। एवं सत्युत्तरयोर्ऋचोर्मीलन-विध्यभावः फलिष्यति। इति राद्धान्तः।। 2।। 3।।

4सिद्धान्तः

प्रतिशब्देनावधिर्हि द्योत्यो वाक्यं न भिद्यते
सत्येवं मीलनस्यापि विधिर्नोत्तरयोर्भवेत्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- रथंतरादीनां साम्नां तृचे गानाधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.3 तृतीये- गवामयनिके पृष्ठ्यषडहे बृहद्रथंतरयोर्विभागाधिकरणे सूत्रे 4-5
पृष्ठ्यस्य युगपद्विधेरेकाहवद्द्विसामत्वम्।। 4।।
विभक्ते वा समस्तविधानात्तद्विभागे विप्रतिषिद्धम्।। 5।।
तृतीयाधिकरणमारचयति-

1विषयः

गवामयनिके पृष्ठ्यषडहे प्रत्यहं द्वयम्
बृहद्रथंतरं चोत भवेत्किंचित्क्वचिद्दिने

2संशयः

ततः शिष्यमाणं बृहद्रथंतरसामद्वयं किं प्रत्यहं कर्तव्यम्, किंवा केषुचिदहःसु बृहत्, केषुचिद्रथंतरम्, इति संशयः।

3पूर्वपक्षः

द्वंद्वगर्भबहुव्रीहेराद्योऽन्त्येऽपि समो ह्यसौ
अन्योन्यनिरपेक्षस्य चोदकादन्तिमो भवेत्
बृहच्च रथंतरं च बृहद्रथंतरे, ते च सामनी यस्य, इति द्वंद्वगर्भिते बहुव्रीहावितरेतरयोगद्वंद्वेन साम्नोः साहित्यं प्रतीयते। ततः प्रत्यहं सामद्वयम्। इति पूर्वः पक्षः।

4सिद्धान्तः

ते सामनी यस्याह्न इत्यह्नो यद्यन्यपदार्थत्वम्, तदा भवदुक्तमेव स्यात्
इह तु षडहोऽन्यपदार्थः
तथा सति षडहे द्वयोः साम्नोः साहित्यं सिद्धान्तेऽपि समानम्
प्रकृतौ साम्नोरन्योन्यनिरपेक्षत्वादिहापि निरपेक्षमेव साम चोदकेनातिदिश्यते
तस्मात्- केषुचिदहःसु किंचित्साम
इति राद्धान्तः।
4

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- स्वर्दृक्शब्देन वीक्षणस्य कालार्थताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रतिशब्देनावधिर्हि द्योत्यो वाक्यं न भिद्यते सत्येवं मीलनस्यापि विधिर्नोत्तरयोर्भवेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.4 चतुर्थे- प्रायणीयोदयनीययोरैकादशिनानां विभागाधिकरणे सूत्राणि 6-12
समासस्त्वैकादशिनेषु तत्प्रकृतित्वात्।। 6।।
विहारप्रतिषेधाच्च।। 7।।
श्रुतितो वा लोकवद्विभागः स्यात्।। 8।।
विहारप्रकृतित्वाच्च।। 9।।
विशये च तदासत्तेः।। 10।।
त्रयस्तथेति चेत्।। 11।।
न समत्वात्प्रयाजवत्।। 12।।
चतुर्थाधिकरणमारचयति-

1विषयः

स्युरेकादशिनाः किं प्रायणीयोदयनीययोः

3पूर्वपक्षः

प्रत्येकमखिलाः किंवा विभज्याः स्युस्तयोरपि
द्वादशाहे श्रूयते ''एकादशिनान्प्रायणीयोदयनीययोरतिरात्रयोरालभेरन्'' इति। त एते पशव एकादशापि प्रायणीयेऽहनि कर्तव्याः, तथोदयनीयेऽपि सर्वे कर्तव्याः। कुतः प्रायणीयादेयनीययोरुद्देश्यत्वेन प्राधान्यात्। प्रतिप्रधानं चाङ्गावृत्तेर्युक्तत्वात्। इति पूर्वः पक्षः।
वचनान्तरेण विहितानामेकादशानां प्रकरणेन द्वादशाहाङ्गत्वे सिद्धे देशाकाङ्क्षायां तान्पशूनुद्दिश्य प्रायणीयोदयनीयौ देशत्वेन विधीयेते। तत्र कुत उद्देश्यत्वम्, कुतस्तरां प्राधान्यम्, कुतस्तमां पश्वावृत्तिः। एवं सति यथा 'शतं देवदत्तयज्ञदत्तयोर्विधीयताम्' इत्यत्र 'देवदत्ते पञ्चाशद्विधीयते यज्ञदत्ते पञ्चाशत्' इति विभागः, तथा 'प्रायणीये पञ्च पशवः, उदयनीये पञ्च' इति विभागो युक्तः। यस्त्ववशिष्ट एकः पशुरन्तिमः, स प्रत्यासन्नत्वादन्तिमेऽहन्युदयनीये कर्तव्यः।। 7।।

4सिद्धान्तः

उद्देश्ययोः प्रधानत्वात्प्रत्येकं पशवोऽखिलाः
नोद्देश्यौ शतवद्भागः शिष्टस्त्वासत्तितोऽन्तिमे

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- गवामयनिके पृष्ठ्यषडहे बृहद्रथंतरयोर्विभागाधिकरणे सूत्रे 4-5”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ते सामनी यस्याह्न इत्यह्नो यद्यन्यपदार्थत्वम्, तदा भवदुक्तमेव स्यात् इह तु षडहोऽन्यपदार्थः तथा सति षडहे द्वयोः साम्नोः साहित्यं सिद्धान्तेऽपि समानम् प्रकृतौ साम्नोरन्योन्यनिरपेक्षत्वादिहापि निरपेक्षमेव साम चोदकेनातिदिश्यते तस्मात्- केषुचिदहःसु किंचित्साम इति राद्धान्तः। 4”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.5 पञ्चमे- सर्वपृष्ठे देशविशेषव्यवस्थाधिकरणे सूत्रे 13-14
सर्वपृष्ठे पृष्ठशब्दात्तेषां स्यादेकदेशत्वं पृष्ठस्य कृतदेशत्वात्।। 13।।
विधेस्तु विप्रकर्षः स्यात्।। 14।।
पञ्चमाधिकरणमारचयति-

1विषयः

किं सर्वपृष्ठे सर्वाणि पृष्ठदेशे यथोक्ति वा

2संशयः

तत्र माध्यंदिनपवमानमैत्रावरुणसाम्नोरन्तरालरूपे पृष्ठस्तोत्रदेशे किं सर्वाणि पृष्ठसामानि कार्याणि, किंवा यथावचनं देशव्यवस्था, इति संशयः।

3पूर्वपक्षः

पृष्ठशब्दात्पृष्ठदेशे वचनात्तु व्यवस्थितिः
पृष्ठकार्यगमकेन पृष्ठशब्देन पृष्ठदेशे (इति) प्राप्ते-

4सिद्धान्तः

वचनेन देशविशेषो व्यवस्थाप्यते
वचनं चैवमाम्नायते- ''पवमाने रथंतरं करोति, आर्भवे बृहत्, मध्य इतराणि- वैरूपं होतुः, पृष्ठं वैराजं ब्रर्ह्मसाम, शाक्वरं मैत्रावरुणसाम, रैवतमच्छावाकसाम'' इति
वचनं हि न्यायाद्बलीयः
तस्मात् देशविशेषो व्यवस्थितः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- प्रायणीयोदयनीययोरैकादशिनानां विभागाधिकरणे सूत्राणि 6-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उद्देश्ययोः प्रधानत्वात्प्रत्येकं पशवोऽखिलाः नोद्देश्यौ शतवद्भागः शिष्टस्त्वासत्तितोऽन्तिमे”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.6 षष्ठे- वैरूपवैराजसाम्नोः पृष्ठकार्ये निवेशाधिकरणे सूत्राणि 15-21
वैरूपसामा क्रतुसंयोगात्रिवृद्वदेकसामा स्यात्।। 15।।
पृष्ठार्थे वा प्रकृतिलिङ्गसंयोगात्।। 16।।
त्रिवृद्वदिति चेत्।। 17।।
न प्रकृतावकृत्स्नसंयोगात्।। 18।।
विधित्वान्नेति चेत्।। 19।।
स्याद्विशये तन्न्यायत्वात्कर्माविभागात्।। 20।।
प्रकृतेश्चाविकारात्।। 21।।
षष्ठाधिकरणमारचयति-

1विषयः

कार्त्स्न्याद्वैरूपवैराजे उक्थ्यषोडशिनोरुत

3पूर्वपक्षः

पृष्ठे स्यात्क्रतुसंयोगादाद्योऽन्त्यः पृष्ठलिङ्गतः
इदमाम्नायते- ''उक्थ्यो वैरूपसामा- एकविंशः, षोडशी वैराजसामा'' इति। तत्र कृत्स्न उक्थ्ये वैरूपं साम, कृस्ने षोडशिनि वैराजं साम, 'वैरूपं साम यस्मिन्नुक्थ्ये क्रतौ, वैराजं साम यस्मिन्षोडशिनि क्रतौ' इत्येवं क्रतुसंबन्धप्रतीतेः।

4सिद्धान्तः

मैवम्
प्रकृतौ 'रथंतरसामा, बृहत्सामा' इत्येवंविधस्य निर्देशस्य पृष्ठस्तोत्रविषयत्वदर्शनादत्रापि तर्न्निर्देशेन पृष्ठलिङ्गेन पृष्ठकार्ये वैरूपं वैराजं च भवितुमर्हति
क्रतुसंबन्धस्तयोः पृष्ठद्वारेणोपपद्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- सर्वपृष्ठे देशविशेषव्यवस्थाधिकरणे सूत्रे 13-14”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वचनेन देशविशेषो व्यवस्थाप्यते वचनं चैवमाम्नायते- ''पवमाने रथंतरं करोति, आर्भवे बृहत्, मध्य इतराणि- वैरूपं होतुः, पृष्ठं वैराजं ब्रर्ह्मसाम, शाक्वरं मैत्रावरुणसाम, रैवतमच्छावाकसाम'' इति वचनं हि न्यायाद्बलीयः तस्मात् देशविशेषो व्यवस्थितः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.7 सप्तमे- त्रिवृति स्तोमगतसंख्याविकाराधिकरणे सूत्रे 22-23
त्रिवृति संख्यात्वेन सर्वसंख्याविकारः स्यात्।। 22।।
स्तोमस्य वा तल्लिङ्गत्वात्।। 23।।
सप्तमाधिकरणमारचयति-

1विषयः

त्रिवृदग्निष्टुदित्येतत्सर्वत्र स्तोम एव वा

3पूर्वपक्षः

आद्यस्त्रैगुण्यवाचित्वादन्त्यः स्तोमेऽस्य रूढितः
एवं श्रूयते ''त्रिवृदग्निष्टुदग्निष्टोमः'' इति। किं त्रिवृत्त्वमग्निष्टुति क्रतौ सर्वेषु साधनेषु संबध्यते, किंवा स्तोममात्रसंबन्धि तत्। 'त्रिवृद्रज्जुः' इत्यादौ त्रिवृच्छब्दस्य त्रैगुण्यवाचित्वदर्शनादत्रापि क्रतुसाधनेषु या या संख्या श्रूयते, सा सर्वा त्रिवृत्त्वेन विक्रियते। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- यद्यपि त्रिवृच्छब्दोऽवयवप्रसिद्ध्या लोके त्रैगुण्यं ब्रूते तथाऽपि वेदे रूढ्या स्तोमवाची
'त्रिवृद्बहिष्पवमानः' इत्युक्त्वा स्तोत्रियाणां नवानामृचामनुक्रमणेन स्तोमविषयमेव त्रिवृत्त्वम्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- वैरूपवैराजसाम्नोः पृष्ठकार्ये निवेशाधिकरणे सूत्राणि 15-21”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रकृतौ 'रथंतरसामा, बृहत्सामा' इत्येवंविधस्य निर्देशस्य पृष्ठस्तोत्रविषयत्वदर्शनादत्रापि तर्न्निर्देशेन पृष्ठलिङ्गेन पृष्ठकार्ये वैरूपं वैराजं च भवितुमर्हति क्रतुसंबन्धस्तयोः पृष्ठद्वारेणोपपद्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.8 अष्टमे- उभयसाम्नि बृहद्रथंतरयोः समुच्चयाधिकरणे सूत्राणि 24-26
उभयसाम्नि विश्वजिद्वद्विभागः स्यात्।। 24।।
पृष्ठार्थे वाऽतदर्थत्वात्।। 25।।
लिङ्गदर्शनाच्च।। 26।।

1विषयः

संसवादौ द्वयोरेकं पृष्ठं यद्वा समुच्चितम्
एकं प्रकृतिवद्विश्वजिद्वदन्यत्र चेतरत्

2संशयः

किमत्र बृहद्रथंतरयोरेकं पृष्ठस्तुतौ, इतरदन्यस्तुतौ स्यात्, किंवा समुच्चितमुभयं पृष्ठस्तुतौ, इति संशयः।

3पूर्वपक्षः

वचनाद्विश्वजित्येते सामनी स्तोत्रयोर्द्वयोः
नेहास्ति तत्पृष्ठ एव साहित्यं स्यात्पुनर्विधेः
प्रकृतौ द्वयोर्विकल्पितत्वादेकस्मिन्प्रयोग एकस्य पृष्ठत्वादन्यत्रापि तथात्वं युक्तम्। तथा सत्यवशिष्टं साम सर्वपृष्ठविश्वजिन्न्यायेन स्तोत्रान्तरे प्रयोक्तव्यम्। इति पूर्वः पक्षः।

4सिद्धान्तः

तादृग्वचनाभावेनात्र विश्वजिद्वैषम्यात्
प्रकृतिवद्विकल्पे सति पुनर्विधानवैयर्थ्यात्समुच्चीयते
इति राद्धान्तः।
11

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- त्रिवृति स्तोमगतसंख्याविकाराधिकरणे सूत्रे 22-23”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- यद्यपि त्रिवृच्छब्दोऽवयवप्रसिद्ध्या लोके त्रैगुण्यं ब्रूते तथाऽपि वेदे रूढ्या स्तोमवाची 'त्रिवृद्बहिष्पवमानः' इत्युक्त्वा स्तोत्रियाणां नवानामृचामनुक्रमणेन स्तोमविषयमेव त्रिवृत्त्वम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.9 नवमे- मध्वशनघृताशनयोः षडहान्तेऽनुष्ठानाधिकरणे सूत्रे 27-28
पृष्ठे रसभोजनमावृत्ते संस्थिते त्रयस्त्रिंशेऽहनि स्यात्तदानन्तर्यात्प्रकृतिवत्।। 27।।
अन्ते वा कृतकालत्वात्।। 28।।
नवमाधिकरणमारचयति-

1विषयः

त्रयस्त्रिंशारम्भणे किं तदन्ते मधुभोजनम्

3पूर्वपक्षः

षडहान्तेऽथवाद्यः स्यात्सांनिध्याद्वाक्यतोऽन्तिमः
पृष्ठ्यः षडहो द्विविधः- त्रयस्त्रिंशान्तः, त्रयस्त्रिंशादिश्चेति। द्वादशाहे- त्रिवृत् पञ्चदशः, सप्तदशः, एकविंशः, त्रिणवः, त्रयस्त्रिंशः, इत्येतैः स्तोमैर्युक्तान्यहानि षड्विहितानि। सोऽयं त्रयस्त्रिंशान्तः। क्वचिद्विकृतौ व्यत्यासेन त्रयस्त्रिंशादिस्त्रिवृदन्तः- ''पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भणस्त्रिवृदुत्तमः कार्यः'' इति। तत्र मधु भोजनं चोदकप्राप्तम्। तच्च प्रकृतौ (विहितम्)। त्रयस्त्रिंशेऽहन्यनुष्ठितेऽन्तरं कृतम्, इत्यत्रापि सांनिध्यात्रयस्त्रिंशान्ते कर्तव्यम्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- ''संस्थिते पृष्ठ्ये षडहे मध्वाशयेद्घृतं वा'' इति वाक्येन प्रकृतौ षडहप्रगोगस्यान्ते मधुभोजनं विहितम्
त्रयस्त्रिंशसंनिधिस्तु नान्तरीयकः
अतोऽत्रापि षडहावसाने कर्तव्यत्वान्त्रिवृत्संनिधौ तदनुष्ठानम्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- उभयसाम्नि बृहद्रथंतरयोः समुच्चयाधिकरणे सूत्राणि 24-26”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तादृग्वचनाभावेनात्र विश्वजिद्वैषम्यात् प्रकृतिवद्विकल्पे सति पुनर्विधानवैयर्थ्यात्समुच्चीयते इति राद्धान्तः। 11”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.10 दशमे- षडहावृत्तावपि मध्वशनघृताशनयोः सकृदनुष्ठानाधिकरणे सूत्रे 29-30
अभ्यासे च तदभ्यासः कर्मणः पुनः प्रयोगात्।। 29।।
अन्ते वा कृतकालत्वात्।। 30।।
दशमाधिकरणमारचयति-

1विषयः

अभ्यासे षडहे भुक्तिमभ्यस्येत्किं न वाऽग्रिमः

3पूर्वपक्षः

स्तोत्रशस्त्रादिवन्मैवं संस्थिते तद्विधानतः
''आवृत्तं पृष्ठमुपयन्ति'' इति श्रूयते। तत्र षडहावृत्तौ यथा स्तोत्रादीन्यावर्तन्ते, तथा मधुभोजनमपि। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- संस्थिते षडहे भोजनं विधीयते
संस्था नाम पुनः षडहविशेषव्यापाराभावः
अतः षडहावृत्तेरन्ते मधुभोजनं सकृदेव कार्यम्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- मध्वशनघृताशनयोः षडहान्तेऽनुष्ठानाधिकरणे सूत्रे 27-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- ''संस्थिते पृष्ठ्ये षडहे मध्वाशयेद्घृतं वा'' इति वाक्येन प्रकृतौ षडहप्रगोगस्यान्ते मधुभोजनं विहितम् त्रयस्त्रिंशसंनिधिस्तु नान्तरीयकः अतोऽत्रापि षडहावसाने कर्तव्यत्वान्त्रिवृत्संनिधौ तदनुष्ठानम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.11 एकादशे- गवामयने मध्वशनघृताशनयोः प्रतिमासमावृत्त्यधिकरणे सूत्रम्
आवृत्तिस्तु व्यवाये कालभेदात्स्यात्।। 31।।
एकादशाधिकरणमारचयति-

1विषयः

सर्वान्ते प्रतिमासं वा पृष्ठ्यान्ते मधुभोजनम्

3पूर्वपक्षः

सर्वान्ते पूर्ववन्मैवं संस्थितानां पृथक्त्वतः
गवामयने श्रूयते ''चत्वारोऽभिप्लवाः षडहाः। पृष्ठ्यः षडहः समासः सद्वितीयः सतृतीयः सचतुर्थः सपञ्चमः'' इति। तत्र षडहपञ्चकरूपे मासेऽभ्यस्यमाने पृष्ठ्योऽप्यावर्तते। तथा सति पूर्वन्यायेनावृत्तेषु पृष्ठ्येषु सर्वेषु समाप्तेष्वन्ते मधुभोजनम्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- प्रतिमासं संस्थितानां पृष्ठ्यानां पृथक्त्वाद्भोजनमपि प्रतिमासमावर्तनीयम्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- षडहावृत्तावपि मध्वशनघृताशनयोः सकृदनुष्ठानाधिकरणे सूत्रे 29-30”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- संस्थिते षडहे भोजनं विधीयते संस्था नाम पुनः षडहविशेषव्यापाराभावः अतः षडहावृत्तेरन्ते मधुभोजनं सकृदेव कार्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.12 द्वादशे- द्वादशाहे सत्रिभिरपि मध्वशनाधिकरणे सूत्रे 32-33
मधु न दीक्षिता ब्रह्मचारित्वात्।। 32।।
प्राश्येत वा यज्ञार्थत्वात्।। 33।।
द्वादशाधिकरणमारचयति-

1विषयः

मध्वभक्ष्यं भक्ष्यते वा सत्रिभिर्ब्रह्मचारिणः

3पूर्वपक्षः

निषिद्धत्वादादिमोऽन्त्यः पुंस्क्रत्वर्थविभेदतः
सत्रात्मकद्वादशाहे पृष्ठ्यषडहे संस्थिते मध्वभक्ष्यम्। कुतः- सत्रिणां दीक्षितत्वेन ब्रह्मचारित्वात्। ब्रह्मचारिणां च मधुमांसप्रतिषेधात्। इति चेत्-

4सिद्धान्तः

मैवम्
तन्निषेधस्य पुमर्थत्वेन, भक्षणविधेः क्रत्वर्थत्वेन च विषयभेदात्
तस्मात्- सत्रिभिर्भक्ष्यम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- गवामयने मध्वशनघृताशनयोः प्रतिमासमावृत्त्यधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- प्रतिमासं संस्थितानां पृष्ठ्यानां पृथक्त्वाद्भोजनमपि प्रतिमासमावर्तनीयम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.13 त्रयोदशे- मानसस्य द्वादशाहाङ्गताधिकरणे सूत्राणि- 34-44
मानसमहरन्तरं स्याद्भेदव्यपदेशात्।। 34।।
तेन च संस्तवात्।। 35।।
अहरन्ताच्च परेण चोदना।। 36।।
पक्षे संख्या सहस्त्रवत्।। 37।।
अहरङ्गं वांऽशुवच्चोदनाभावात्।। 38।।
दशमविसर्गवचनाच्च।। 39।।
दशमेऽहन्निति च तद्गुणशास्त्रात्।। 40।।
संख्यासामञ्जस्यात्।। 41।।
पश्वतिरेके चैकस्य भावात्।। 42।।
स्तुतिव्यपदेशमङ्गेन विप्रतिषिद्धं व्रतवत्।। 43।।
वचनादतदन्तत्वम्।। 44।।
त्रयोदशाधिकरणमारचयति-

1विषयः

मानसं किमहर्भिन्नमङ्गं वा दशमेऽहनि

3पूर्वपक्षः

भिन्नं स्तुत्यादिनाऽङ्गं तद्विसर्गोक्त्यादिभिर्भवेत्
द्वादशाहे मानसग्रहणं श्रूयते ''अनया त्वा पृथिव्या पात्रेण समुद्ररसया प्रजापतये त्वा जुष्टं गृह्णामीति मानसं प्राजापत्यं गृह्णाति'' इति। अयमर्थः- 'पृथिवी पात्रम्, समुद्रः सोमः, प्रजापतिर्देवता, एवंविशिष्टस्य ग्रहस्य ग्रहणे मनः साधनम्, तदिदं मानसम्' इति। एतच्च द्वादशभ्यो भिन्नमहस्त्रयोदशेऽहनि कर्तव्यो यागविशेषः। कुतः- स्तुत्यादिभ्यः। मानसेन द्वादशाहस्य स्तुतिरेवमाम्नायते ''द्वादशाहस्य हृतरसानि च्छन्दांसि तानि मानसेनाप्यायन्ति'' इति। स्तुतिसाधनं च मानसं स्तोतव्याद्भिन्नं भवितुं युक्तम्। तथा व्यपदेशभेदोऽपि श्रूयते ''वाग्वै द्वादशाहः, मनो मानसम्'' इति। एवमाद्युपपत्तिभिर्भिन्नमहः। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- दशमस्याह्नोऽङ्गं तत्स्यात्
विसर्गोक्त्यादिभ्यः
''एष वै दशमस्याह्नो विसर्गो यन्मानसम्'' इति विसर्गोक्तिः
इयं च दशमाहाङ्गत्वं गमयति
अहरन्तरत्वे द्वादशाहसमाख्या च विरुध्यते
अङ्गभूतेनापि मानसस्तुतिव्यपदेशभेदादिकमुपपद्यते
तस्मात्- अभेदः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- द्वादशाहे सत्रिभिरपि मध्वशनाधिकरणे सूत्रे 32-33”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् तन्निषेधस्य पुमर्थत्वेन, भक्षणविधेः क्रत्वर्थत्वेन च विषयभेदात् तस्मात्- सत्रिभिर्भक्ष्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.14 चतुर्दशे- सत्रस्य बहुकर्तृकत्वाधिकरणे सूत्राणि 45-50
सत्रमेकः प्रकृतिवत्।। 45।।
वचनात्तु बहूनां स्यात्।। 46।।
अपदेशः स्यादिति चेत्।। 47।।
नैकव्यपदेशात्।। 48।।
संनिवापं च दर्शयति।। 49।।
बहूनामिति चैकस्मिन्विशेषवचनं व्यर्थम्।। 50।।
चतुर्दशाधिकरणमारचयति-

1विषयः

सत्रमेकः करोत्याहो बहवः प्रकृताविव

3पूर्वपक्षः

एकः कुर्यादिहासीरन्नित्युक्त्या बहवो मताः
द्वादशाहादिसत्रस्य ज्योतिष्टोमः प्रकृतिः। तत्र कर्त्रैक्याच्चोदकेन सत्रेऽपि कर्त्रैक्ये प्राप्ते-

4सिद्धान्तः

प्रत्यक्षवचनाद्बहवोऽभ्युपेयाः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- मानसस्य द्वादशाहाङ्गताधिकरणे सूत्राणि- 34-44”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- दशमस्याह्नोऽङ्गं तत्स्यात् विसर्गोक्त्यादिभ्यः ''एष वै दशमस्याह्नो विसर्गो यन्मानसम्'' इति विसर्गोक्तिः इयं च दशमाहाङ्गत्वं गमयति अहरन्तरत्वे द्वादशाहसमाख्या च विरुध्यते अङ्गभूतेनापि मानसस्तुतिव्यपदेशभेदादिकमुपपद्यते तस्मात्- अभेदः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.15 पञ्चदशे- सत्रे यजमानानामेवर्त्विक्त्वाधिकरणे सूत्राणि 51-58
अन्ये स्युर्ऋत्विजः प्रकृतिवत्।। 51।।
अपि वा यजमानाः स्युर्ऋत्विजामभिधानसंयोगात्तेषां स्याद्यजमानत्वम्।। 52।।
कर्तृसंस्कारो वचनादाधातृवदिति चेत्।। 53।।
स्याद्विशये तन्न्यायत्वात्प्रकृतिवत्।। 54।।
स्वाम्याख्याः स्युर्गृहपतिवदिति चेत्।। 55।।
न प्रसिद्धग्रहणत्वादसंयुक्तस्य तद्धर्मेण।। 56।।
दीक्षितादीक्षितव्यपदेशश्च नोपपद्यतेऽर्थयोर्नित्यभावित्वात्।। 57।।
अदक्षिणत्वाच्च।। 58।।
पञ्चदशाधिकरणमारचयति-

1विषयः

ऋत्विजोऽन्येऽत्र यष्टृभ्यः स्युस्त एवोत चोदकात्

3पूर्वपक्षः

अन्ये यष्टार एव स्युः प्रस्यक्षवचनादिभिः
अत्र सत्रे किं यजमानेभ्यो व्यतिरिक्ता ऋत्विजः कर्तव्याः किंवा यजमाना एवर्त्विजः। ज्योतिष्टोमे यजमानादन्य ऋत्विजः। तद्विकृतित्वादिहापि चोदकादन्ये स्युः। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- 'ये यजमानास्त एव ऋत्विजः' इति प्रत्यक्षवचनात्, ''अदक्षिणानि सत्राणीत्याहुः'' इति दक्षिणाराहित्यश्रवणात् ''अध्वर्युर्गृहपतिंदीक्षयित्वा ब्रह्मणं दीक्षयति, तत उद्वातारम्'' इत्यादिना ब्रह्मोद्गात्रादिसमाख्यासंयोगदीक्षासंयोगयोरार्त्विज्ययाजमानद्योतकयोः प्रतिभानाच्च यजमाना एवर्त्विजः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- सत्रस्य बहुकर्तृकत्वाधिकरणे सूत्राणि 45-50”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रत्यक्षवचनाद्बहवोऽभ्युपेयाः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.16 षोडशे- सत्राहीनयोर्विवेकाधिकरणे सूत्रे 59-60
द्वादशाहस्य सत्रत्वमासनोपायिचोदनेन यजमानबहुत्वेन च सत्रशब्दाभिसंयोगात्।। 59।।
यजतिचोदनादहीनत्वं स्वामिनां चास्थितपरिमाणत्वात्।। 60।।
षोडशाधिकरणमारचयति-

1विषयः

अहीनसत्रयोर्लक्ष्मभेदो नास्त्यस्ति वा नहि

3पूर्वपक्षः

आवृत्तिसाम्यादाद्यः स्यादिज्यासिभ्यां तयोर्भिदा
अस्ति द्वादशाहस्याहीनत्वं सत्रत्वं च। तत्रैवं चिन्त्यते- किमहीनसत्रयोर्लक्षणभेदो नास्ति, उत- अस्ति, इति।
तत्र 'नास्ति' इति तावत्प्राप्त

4सिद्धान्तः

ब्रूमः- 'आसीरन् उपेयुः' इति चोदनाद्वयं यजमानबहुत्वं च सत्रलक्षणम्
यजतिचोदना यजमानबहुत्वनियमाभावश्चाहीनलक्षणम्
वैदिकप्रयोगेषु तयोरव्यभिचारात्
इति राद्धान्तः
म्। कुतः- ज्योतिष्टोमावृत्तिरूपस्य समानत्वात्। यथा द्विरात्रादीनामेकादश-रात्रान्तानामहीनानामावृत्तौ ज्योतिष्टोमस्वरूपत्वम्, तथा त्रयोदशरात्रादीनां सत्राणाम्। इति प्राप्ते।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- सत्रे यजमानानामेवर्त्विक्त्वाधिकरणे सूत्राणि 51-58”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- 'ये यजमानास्त एव ऋत्विजः' इति प्रत्यक्षवचनात्, ''अदक्षिणानि सत्राणीत्याहुः'' इति दक्षिणाराहित्यश्रवणात् ''अध्वर्युर्गृहपतिंदीक्षयित्वा ब्रह्मणं दीक्षयति, तत उद्वातारम्'' इत्यादिना ब्रह्मोद्गात्रादिसमाख्यासंयोगदीक्षासंयोगयोरार्त्विज्ययाजमानद्योतकयोः प्रतिभानाच्च यजमाना एवर्त्विजः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.17 सप्तदशे- पौण्डरीके सकृदेव दक्षिणादानाधिकरणे सूत्राणि 61-67
अहीने दक्षिणाशास्त्रं गुणत्वात्प्रत्यहं कर्मभेदः स्यात्।। 61।।
सर्वस्य वैककर्म्यात्।। 62।।
पृषदाज्यवद्वाऽह्नां गुणशास्त्रं स्यात्।। 63।।
ज्यौतिष्टोम्यस्तु दक्षिणाः सर्वासामेककर्मत्वात्प्रकृतिवत्तस्मान्नासां विकारः स्यात्।। 64।।
द्वादशाहे वचनात्प्रत्यहं दक्षिणाभेदस्तत्प्रकृतित्वात्परेषु तासां संख्याविकारः स्यात्।। 65।।
परिक्रयाविभागाद्वा समस्तस्य विकारः स्यात्।। 66।।
भेदस्तु गुणसंयोगात्।। 67।।
सप्तदशाधिकरणमारचयति-

1विषयः

अयुतादि प्रत्यहं स्यात्सकृद्वाऽङ्ग्यनुसारतः

3पूर्वपक्षः

आद्यो भवेत्प्रयोगोऽङ्गी तदैक्येन सकृद्भवेत्
अस्ति पौण्डरीकः। ''पौण्डरीकेणैकादशरात्रेण स्वाराज्यकामो यजेत'' इति तद्विधानात्। तत्र श्रूयते ''अयुतं पुण्डरीके दद्यादश्वसहस्त्रमेकादशम्'' इति। तत्र गवायुताश्वसहस्रे प्रत्यहं दातव्ये। कुतः- दक्षिणाया अङ्गत्वेन प्रतिप्रधानमावर्तनीयत्वात्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- अहर्गणरूपस्य पौण्डरीकस्य प्रयोगो दक्षिणाङ्गं प्रत्यङ्गी
स चैकः
अतः- सकृदेव दानम्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- सत्राहीनयोर्विवेकाधिकरणे सूत्रे 59-60”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- 'आसीरन् उपेयुः' इति चोदनाद्वयं यजमानबहुत्वं च सत्रलक्षणम् यजतिचोदना यजमानबहुत्वनियमाभावश्चाहीनलक्षणम् वैदिकप्रयोगेषु तयोरव्यभिचारात् इति राद्धान्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.18 अष्टादशे- पौण्डरीके सर्वासां दक्षिणानां विभज्य नयनाधिकरणे सूत्राणि 68-71
प्रत्यहं सर्वसंस्कारः प्रकृतिवत्सर्वासां सर्वशेषत्वात्।। 68।।
एकार्थत्वान्नेति चेत्।। 69।।
स्यादुत्पत्तौ कालभेदात्।। 70।।
विभज्य तु संस्कारवचनाद्द्वादशाहवत्।। 71।।
अष्टादशाधिकरणमारचयति-

1विषयः

सकृत्किं प्रत्यहं वाऽस्य नयनं तत्र चोत्तमे
सर्वस्य वा विभक्तस्य सकृत्संस्कारसिद्धितः

2संशयः

तद्विकृतित्वेन नयनमिह सकृत्कार्यम्, किंवा प्रत्यहम्, इत्येकः संशयः।

3पूर्वपक्षः

प्रतिमाध्यंदिनं चोदकप्राप्तेः प्रत्यहं तदा
सर्वं नेयं तदेकत्वाद्विभज्य द्वादशाहवत्
तयोरुत्तमे पक्षे प्रत्यहं किं दक्षिणाद्रव्यस्य सर्वस्य नयनम्, किंवा दशस्वहःसु गवामेकैकसहस्रम्, एकादशेऽह्नि- अश्वसहस्रम्, इति द्वितीयः संशयः।
तत्र 'सकृन्नयनम्' इति तावत्प्राप्त

4सिद्धान्तः

विभज्य नेयम्
कुतः- द्वादशाहविकृतित्वात्
द्वादशहे चान्वहं विभज्य नीतत्वात्
इति राद्धान्तः।
22
म्। कुतः- तावतैव चिकीर्षितसंस्कारस्य सिद्धत्वात्। अथवा प्रतिमाध्यंदिनसवनं चोदकप्राप्तेः समानत्वात्प्रत्यहं नयनं कार्यम्, तदाऽपि गवायुताश्वसहस्ररूपस्य द्रव्यस्यैकदक्षिणारूपत्वात्सर्वं नेयम्। इति पूर्वः पक्षः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे- पौण्डरीके सकृदेव दक्षिणादानाधिकरणे सूत्राणि 61-67”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- अहर्गणरूपस्य पौण्डरीकस्य प्रयोगो दक्षिणाङ्गं प्रत्यङ्गी स चैकः अतः- सकृदेव दानम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.19 एकोनविंशे- मानवीषु पञ्चदशानामेव सामिधेनीत्वाधिकरणे सूत्राणि 72-75
लिङ्गेन द्रव्यनिर्देशे सर्वत्र प्रत्ययः स्याल्लिङ्गस्य सर्वगामित्वादाग्नेयवत्।। 72।।
यावदर्थं वाऽर्थशेषत्वादल्पेन परिमाणं स्यात्तस्मिंश्च लिङ्गसामर्थ्यम्।। 73।।
आग्नेये कृत्स्नविधिः।। 74।।
ऋजीषस्य प्रधानत्वादहर्गणे सर्वस्य प्रतिपत्तिः स्यात्।। 75।।
एकोनविंशाधिकरणमारचयति-

1विषयः

मनोर्ऋचः सामिधेन्यः सर्वाः पञ्चदशैव वा

3पूर्वपक्षः

अविशेषेण सर्वाः स्युः कार्याः पञ्चदशैव ताः
क्वचिद्विकृतिविशेषे श्रूयते- ''मनोर्ऋचः सामिधेन्यो भवन्ति'' इति। तत्र विशेषाश्रवणादृचो यावत्यो मनुसंबन्धिन्य ऋक्संहितायामाम्नाताः, ताः सर्वाः सामिधेन्यः। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- अग्निसमिन्धनमासामृचां कार्यम्
तच्च प्रकृतौ पञ्चदशभिः सिद्धमित्यत्रापि चोदकवशात्पञ्चदशैवोपादेयाः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे- पौण्डरीके सर्वासां दक्षिणानां विभज्य नयनाधिकरणे सूत्राणि 68-71”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विभज्य नेयम् कुतः- द्वादशाहविकृतित्वात् द्वादशहे चान्वहं विभज्य नीतत्वात् इति राद्धान्तः। 22”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.20 विंशे- वाससि मानोपावहरणयोरनुष्ठानाधिकरणे सूत्रम्
वाससि मानोपावहरणे प्रकृतौ सोमस्य वचनात्।। 76।।
विंशाधिकरणमारचयति-

1विषयः

उपावहरणं मानमपि क्वाप्युत वाससि

3पूर्वपक्षः

क्वापि स्यात्प्रांशुताभावाद्वचनाद्वाससोभयम्
ज्योतिष्टोमे सोमस्योपावहरणं मानं च श्रुतम्। तदुभयं संपादनप्रयत्नेन विना स्वत एव लब्धेन केनापि साधनेन कार्यम्।

4सिद्धान्तः

मैवम्
''वाससि मिनोति, वाससा चोपावहरति'' इति वचनेन वाससो विहित्वात्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- मानवीषु पञ्चदशानामेव सामिधेनीत्वाधिकरणे सूत्राणि 72-75”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- अग्निसमिन्धनमासामृचां कार्यम् तच्च प्रकृतौ पञ्चदशभिः सिद्धमित्यत्रापि चोदकवशात्पञ्चदशैवोपादेयाः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.21 एकविंशे- अहर्गणे वासोन्तरोत्पादनाधिकरणे सूत्रम्
तत्राहर्गणेऽर्थाद्वासः प्रकृतिः स्यात्।। 77।।
एकविंशाधिकरणमारचयति-

1विषयः

नान्यद्वासोऽहर्गणे स्यात्स्याद्वा न स्यादनुक्तितः

3पूर्वपक्षः

चोदकात्प्रत्यहं प्राप्तं कार्याद्वासोन्तरं भवेत्
द्वादशाहादावहर्गणे चोदकप्राप्तादेकस्मान्मानोपावहरणहेतोर्वाससोऽन्यद्वासोऽनुक्तत्वान्न संपाद्यम्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- प्रत्यहं सोमस्योपावहरणं चोदकेन प्राप्तम्
तच्चोपावहरणरूपं कार्यं वासोभेदं विना न सिध्यति
हविर्धानशकटेऽवस्थिताद्वासोपनीतसोमात्कियन्तमपि सोमभागमेकैकस्याह्नः पर्याप्तं पृथक्कृत्योपावहर्तुं वासोन्तरं संपाद्यम्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे- वाससि मानोपावहरणयोरनुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''वाससि मिनोति, वाससा चोपावहरति'' इति वचनेन वाससो विहित्वात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.6.22 द्वाविंशे- उपावहरणार्थमेव वासोन्तरोत्पादनाधिकरणे सूत्रे 78-79
मानं प्रत्युत्पादयेत्प्रकृतौ तेन दर्शनादुपावहरणस्य।। 78।।
हरणे वा श्रुत्यसंयोगादर्थाद्विकृतौ तेन।। 79।।
द्वाविंशाधिकरणमारचयति-

1विषयः

तत्किं माने हृतौ वाद्यः प्रकृतावेकतेक्षणात्
अर्थात्तदैक्यं तत्रोक्त्या हृतौ स्यात्सार्थकत्वतः

2संशयः

तत्किं मानकाले, उत- उपावहरणकाले, इति संशयः।

3पूर्वपक्षः

प्रकृतौ- येन सोमो मितः, तेनैवोपावहरणमर्थसिद्धम्
'कियानेव सोमः शकटेऽवस्थापनीयः, कियानेवोपावहर्तव्यः' इति सोमद्वयाभावादर्थसिद्धस्य चैकस्य वाचनिकत्वाभावान्न चोदकेनातिदेशोऽस्ति
अतोऽहर्गणे मानहेतोर्वाससः शकटेऽवस्थितत्वादुपावहरणे वासोन्तरस्य सार्थकत्वात्तत्समये तत्संपाद्यम्
प्रकृतौ मानोपावहरणयोर्वस्त्रैकत्वदर्शनादिहापि तदैक्यसिद्धये मानकाले वासोन्तरं संपाद्यम्। इति पूर्वः पक्षः।
अत्र पादे- अधिकरणानि 22, सूत्राणि 79।
आदितः- अधिकरणानि 736, सूत्राणि 2086।
दशमाध्यायस्य सप्तमः पादः
पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः।

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे दशमाध्यायस्य षष्ठः पादः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकविंशे- अहर्गणे वासोन्तरोत्पादनाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- प्रत्यहं सोमस्योपावहरणं चोदकेन प्राप्तम् तच्चोपावहरणरूपं कार्यं वासोभेदं विना न सिध्यति हविर्धानशकटेऽवस्थिताद्वासोपनीतसोमात्कियन्तमपि सोमभागमेकैकस्याह्नः पर्याप्तं पृथक्कृत्योपावहर्तुं वासोन्तरं संपाद्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 10, Pāda 5 Contents Adhyāya 10, Pāda 7 →