SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Vaiyāsika Nyāyamālā · Adhyāya 4, Pāda 4

फलम्

पूर्वभागेन निर्गुणब्रह्मविदः विदेहकैवल्यप्राप्तिरभिहिता

6adhikaraṇas
22sūtras
4.4.1 सम्पद्याविर्भावाधिकरणम्
सम्पद्याविर्भावः स्वेनशब्दात्॥4.4.1॥
मुक्तः प्रतिज्ञानात्॥4.4.2॥
आत्मा प्रकरणात्॥4.4.3॥
अविभागेन दृष्टत्वात्॥4.4.4॥
चतुर्थाध्यायस्य चतुर्थपादे प्रथमाधिकरणमारचयति –

1विषयः

नाकव.न्नूतनं मुक्ति-रूपं यद्वा पुरातनम्।

3पूर्वपक्षः

अभिनिष्पत्तिवचना-त्फलत्वा.दपि नूतनम्॥ 1॥
प्रथमे मुक्ते.र्नवीनत्वनिराकरणाधिकरणे सूत्राणि
“एष सम्प्रसादोऽस्मा.च्छरीरा.त्समुत्थाय, परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” इति श्रूयते। अस्यायमर्थः- “सम्यक्प्रसीद.त्युपाध्युपशान्तौ,” इति सम्प्रसादो जीवः।
स च शरीरत्रयाभिमानं परित्यज्य, परं ब्रह्म प्राप्य, मुक्तरूपेणावतिष्ठते,- इति। तत्र- एतन्मुक्तिरूपं न जीवस्य पूर्वसिद्धम्, किन्तु स्वर्गव.दागन्तुकम्। कुतः? “अभिनिष्पद्यते” इत्युत्पाद्यत्वश्रवणात्। पूर्वसिद्धत्वे, संसारदशायामपि सद्भावेन फलत्वं न स्यात्। तस्मात्- स्वर्गव.दिदं नूतनं मुक्तिरूपम्। इति प्राप्ते,

4सिद्धान्तः

स्वेन रूपेणेति वाक्ये स्वशब्दा.त्तत्पुरातनम्।
आविर्भावोऽभिनिष्पत्तिः फलं चाज्ञानहानितः॥ 2॥
ब्रूमः- “स्वेन रूपेणाभिनिष्पद्यते” इति स्वशब्देन विशेषितत्वात्, पूर्वमपि विद्यत एवेदं मुक्तिरूपम्। न च- अत्र स्वशब्दः स्वकीय.मभिधत्ते, विशेषणवैयर्थ्यप्रसङ्गात्।
यद्यद्रूपं मुक्ता.वुपादत्ते, तत्त.त्स्वकीयमेव- इति, कस्य व्यावृत्तये विशेष्येत।
आत्मवाचित्वे तु स्वशब्दस्य स्वकीयत्वव्यावृत्तिः प्रयोजनम्। नच- अभिनिष्पत्ति.रुत्पत्तिः, पूर्वसिद्धस्योत्पत्ते.रसंभवात्।
किं तर्हि तत्त्वज्ञानेन ब्रह्मत्वाविर्भावोऽभिनिष्पत्तिः? नच- एवं सति, “उपसम्पद्य, अभि निष्पद्यते” इत्यनयोः पुनरुक्तिः- इति शङ्कनीयम्, उपसम्पत्तिशब्देन तत्पदार्थशोधनस्य विवक्षितत्वात्। अभिनिष्पत्तिस्तु वाक्यार्थावबोधः।
नच- पूर्वसिद्धत्वे मुक्तिरूपस्य फलत्वविरोधः, निवृत्ताज्ञानत्वाकारेण पूर्वसिद्धत्वाभावात्। तस्मात्- पुरातनं वत्स्वेव मुक्तिरूपम्॥
अविभागेनदृष्टत्वाध्यधिरणम्
द्वितीये मुक्तेर्ब्रह्मभिन्नतानिराकरणाधिकरणे सूत्रम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन निर्गुणब्रह्मविदः विदेहकैवल्यप्राप्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अप्रतीकालम्बनाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति वैयासिकन्यायमालायां चतुर्थाध्यायस्य तृतीयः पादः॥ 3॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
द्वितीयाधिकरणमारचयति –

1विषयः

मुक्तरूपा.द्ब्रह्म भिन्न-मभिन्नं वा, विभिद्यते।

3पूर्वपक्षः

संपद्य ज्योति.रित्येवं कर्मकर्तृभिदोक्तितः॥ 3॥
पूर्वाधिकरणे निर्णीतं यदेत.न्मुक्तस्वरूपम्, तत्परस्मा.द्ब्रह्मणो भिन्नं भवितु.मर्हति। कुतः? कर्मकर्तृभेदव्यपदेशात्। “एष सम्प्रसादः परं ज्योति.रुपसम्पद्य” इत्यत्र, सम्प्रसादशब्दोदितो जीवः, उपसम्पत्तौ कर्तृत्वेन व्यपदिश्यते। ज्योति.श्शब्दवाच्यं च ब्रह्म कर्मत्वेन। तस्मात्- मुक्तस्य जीवस्य स्वरूपं, ब्रह्मणो भिन्नम्। इति प्राप्ते,

4सिद्धान्तः

अभिनिष्पन्नरूपस्य स उत्तमपुमा.निति।
ब्रह्मत्वोक्ते.रभिन्नं त-द्भेदोक्ति.रुपचारतः॥ 4॥
ब्रूमः- “ज्योति.रुपसम्पद्य” इति वाक्यं तत्पदार्थशुद्धिविषय.मुक्तम्। अतस्तदानीं भेदोऽस्तु नाम। तत उपरि “स्वेन रूपेणाभिनिष्पद्यते” इति वाक्यं, वाक्यार्थदशापन्नं मुक्तिस्वरूपं प्रतिपादयति।
न च- तस्य ब्रह्मणा भेदोऽस्ति, “स उत्तमः पुरुषः” इति वाक्ये, तच्छब्देनाभिनिष्पन्नरूप.मुक्तस्वरूपं परामृश्य, तस्योत्तमपुरुषशब्दवाच्य-ब्रह्मस्वरूपत्वाभिधानात्। तस्मात्- मुक्तस्वरूपं ब्रह्माभिन्नम्॥
4.4.2 ब्राह्माधिकरणम्
ब्राह्मेण जैमिनि.रुपन्यासादिभ्यः॥4.4.5॥
चिति.तन्मात्रेण तदात्मकत्वा.दित्यौडुलोमिः॥4.4.6॥
एवमप्युपन्यासा.त्पूर्वभावा.दविरोधं बादरायणः॥4.4.7॥
तृतीयाधिकरणमारचयति –

1विषयः

क्रमेण युगपद्वाऽस्य सविशेषाविशेषते।

3पूर्वपक्षः

विरुद्धत्वा.त्कालभेदा-द्व्यवस्था श्रुतयो.स्तयोः॥ 5॥
तृतीये सविशेषत्वादि.व्यवस्थानिराकरणाधिकरणे सूत्राणि
मुक्तस्य स्वरूपभूतं ब्रह्म, श्रुतिषु द्विधा प्रतिपाद्यते- क्वचि.त्सविशेषम्। क्वचिन्निर्विशेषम्। तथा हि-
“य आत्माऽपहतपाप्मा विजरो विमृत्युः विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः” इति सविशेषत्वश्रुतिः।
“स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव, एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव” इति निर्विशेषत्वश्रुतिः।
ते एते सविशेषत्वनिर्विशेषत्वे मुक्तिदशायां ब्रह्मणो न युगप.त्संभवतः, परस्परविरुद्धत्वात्। अतः कालभेदेनोभे व्यवस्थापनीये। इति प्राप्ते,

4सिद्धान्तः

मुक्तामुक्तदृशो.र्भेदा-द्व्यवस्थासंभवे सति।
अविरुद्धं यौगपद्य-मश्रुतं क्रमकल्पनम्॥ 6॥
ब्रूमः- प्रतिपत्तृभेदा.द्युगपदेव सविशेषत्वनिर्विशेषत्वे उपपद्येते। मुक्तप्रतिपत्त्या निर्विशेषत्वमेव, बद्धप्रतिपत्त्या तु सविशेषं मुक्तस्वरूपं ब्रह्म सर्वज्ञत्वादि.गुणविशिष्टं सज्जगत्कारणत्वेनावभासते।
न हि मुक्ताः पुरुषाः, कदाचिदपि “सर्वज्ञत्व-सत्यसंकल्पत्वादिगुणयुक्ता वयम्” इति प्रतिपद्यन्ते, तत्प्रतिपत्तिहेतुभूताया अविद्यायाः, विनाशितत्वात्। बद्धस्वरूपास्त्वविद्यायुक्ताः सन्तो, निर्विशेषमेव ब्रह्म “सर्वज्ञत्वादि.विशिष्टम्” इति कल्पयन्ति। अतः प्रतिपत्तृभेदा.द्व्यवस्थासिद्धौ किमनेन कालभेदकल्पनेन, तस्मात्- युगपदेव सविशेषत्वनिर्विशेषत्वे॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन निर्गुणब्रह्मविदः विदेहकैवल्यप्राप्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सम्पद्याविर्भावाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “स्वेन रूपेणेति वाक्ये स्वशब्दा.त्तत्पुरातनम्। आविर्भावोऽभिनिष्पत्तिः फलं चाज्ञानहानितः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.3 सङ्कल्पाधिकरणम्
चतुर्थे परलोकगोपासकस्य भोग्यवस्तुसृष्टौ सङ्कल्पहेतुताधिकरणे सूत्रे
सङ्कल्पा.देव तु तच्छ्रुतेः॥4.4.8॥
अत एव चानन्याधिपतिः॥4.4.9॥
चतुर्थाधिकरणमारचयति –

1विषयः

भोग्यसृष्टा.वस्ति बाह्यो हेतु.स्सङ्कल्प एव वा।

3पूर्वपक्षः

आशामोदकवैषम्या-द्धेतुर्बाह्योऽस्ति लोकवत्॥ 7॥
पूर्वाधिकरणत्रयेण विदेहमुक्तौ विचारितायां, ब्रह्मलोकलक्षणाया मुक्ते.रवशिष्टत्वात्, तद्विचार आपादसमाप्तेः प्रवर्तते। तत्र- अर्चिरादिमार्गेण ब्रह्मलोकं प्राप्तस्योपासकस्य, भोग्यवस्तूनां सृष्टौ बाह्यहेतु.रपेक्षितः,
न तु मानससंकल्पमात्रं तद्धेतुः, तथात्वे सति, आशामोदकसमत्वेन पुष्कलभोगाभावप्रसङ्गात्। इति प्राप्ते,

4सिद्धान्तः

सङ्कल्पा.देव पितर इति श्रुत्याऽवधारणात्।
सङ्कल्प एव हेतु.स्स्या-द्वैषम्यं चानुचिन्तात्॥ 8॥
ब्रूमः- “स यदि पितृलोककामो भवति, सङ्कल्पा.देवास्य पितरः समुत्तिष्ठन्ति” इत्यादिना, पितृ-मातृ-भ्रातृ-गन्ध-माल्यादिभोग्यसृष्टौ सङ्कल्पस्य साधनत्व.मभिधाय, एवकारेण बाह्यहेतुं निराचष्टे।
न च- सङ्कल्पकार्याणा.माशामोदकसमानत्वं शङ्कनीयम्, उपार्जितमोदकसमानत्वस्यापि सङ्कल्पयितुं शक्यत्वात्। सङ्कल्पशक्तेः, उपासनाप्रसादेन निरङ्कुशत्वात्। तस्मात्- सङ्कल्प एव भोग्यसृष्टौ हेतुः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन निर्गुणब्रह्मविदः विदेहकैवल्यप्राप्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “ब्राह्माधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मुक्तामुक्तदृशो.र्भेदा-द्व्यवस्थासंभवे सति। अविरुद्धं यौगपद्य-मश्रुतं क्रमकल्पनम्॥ 6॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.4 अभावाधिकरणम्
अभावं बादरि.राह ह्येवम्॥4.4.10॥
भावं जैमिनि.र्विकल्पामननात्॥4.4.11॥
द्वादशाहव.दुभयविधं बादरायणोऽतः॥4.4.12॥
तन्वभावे सन्ध्यव.दुपपत्तेः॥4.4.13॥
भावे जाग्रद्वत्॥4.4.14॥
पञ्चमाधिकरणमारचयति –

1विषयः

व्यवस्थिता.वैच्छिकौ वा भावाभावौ तनो.र्यतः।

3पूर्वपक्षः

विरुद्धौ तेन पुंभेदा-दुभौ स्यातां व्यवस्थितौ॥ 9॥
<w:tab w:val=“left” w:pos=“1980”/></w:tabs><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:b/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:b/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t xml:space=“preserve”>पञ्चमे देहभावाभावयोगैच्छिकताधिकरणे सूत्राणि
“मनसैतान्कामा.न्पश्य.न्रमते, य एते ब्रह्मलोके” इति मानसं भोगमुपपादयन्ती श्रुतिः, बाह्यदेहस्य सेन्द्रियस्याभाव.माह। “स एकधा भवति त्रिधा भवति” इति श्रुतिः, देहसद्भावं ब्रूते। तावेतौ देहभावाभावा.वेकस्मि.न्पुरुषे विरुद्धौ। तयोः पुरुषभेदेन व्यवस्थितिः। इति प्राप्ते,

4सिद्धान्तः

एकस्मिन्नपि पुंस्येता-वैच्छिकौ कालभेदतः।
अविरोधा.त्स्वप्न.जाग्र-द्भोगवद्यु.ज्यते द्विधा॥ 10॥
ब्रूमः- एकस्यापि पुरुषस्य, कालभेदेन तौ व्यवस्थितौ। यदा देह.मिच्छति, तदा संकल्पेन देहं सृष्ट्वा, तत्रावस्थितो, जाग्रद्दशाया.मिव भोगा.न्भुङ्क्ते।
यदा देहं नेच्छति, तदा संकल्पेन तमेव देह.मुपसंहृत्य, स्वप्नदशायामिव, मनसैव भोगा.न्भुङ्क्ते। तस्मात्- एकस्यापि पुरुषस्य, ऐच्छिकौ देहभावाभावौ॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन निर्गुणब्रह्मविदः विदेहकैवल्यप्राप्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सङ्कल्पाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सङ्कल्पा.देव पितर इति श्रुत्याऽवधारणात्। सङ्कल्प एव हेतु.स्स्या-द्वैषम्यं चानुचिन्तात्॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.5 प्रदीपाधिकरणम्
षष्ठे ज्ञानिनोऽनेकदेहेषु सात्मकत्वाधिकरणे सूत्रे
प्रदीपव.दावेश,स्तथा हि दर्शयति॥4.4.15॥
स्वाप्यय.सम्पत्त्यो.रन्यतरापेक्ष.माविष्कृतं हि॥4.4.16॥
षष्ठाधिकरणमारचयति –

1विषयः

निरात्मानोऽनेकदेहाः सात्मका वा, निरात्मकाः।

3पूर्वपक्षः

अभेदा.दात्ममनसो.रेकस्मिन्नेव वर्तनात्॥ 11॥
“स एकधा भवति, त्रिधा भवति, पञ्चधा, सप्तधा, नवधा” इति युगप.दनेकशरीरस्वीकारः ऐच्छिकः आम्नायते। तत्र- एको देहः सात्मकः, इतरे निरात्मकाः, आत्ममनसो.र्बहुभावस्याश्रुतत्वात्। कल्पकाभावाच्च। इति प्राप्ते,

4सिद्धान्तः

एकस्मा.न्मनसोऽन्यानि मनांसि स्युः प्रदीपवत्।
आत्मभि.स्तदवच्छिन्नैः सात्मका.स्स्यु.स्त्रिधेत्यतः॥ 12॥
ब्रूमः- अस्ति कल्पकं युगप.दनेकदेहभोगानुपपत्तिरूपम्। भोगाय हि बहवो देहा निर्मिताः। न च एकेनैवात्मना मनसा च, युगप.द्बहुदेहानां भोगो दृष्टचरः। तस्मात्- आत्ममनसो.र्बहुत्वं कल्पयितव्यम्॥
यद्यपि नात्मान उत्पाद्याः, तथाऽप्येकेन मनसा संकल्प्य, बहुषु मनस्सूत्पादितेषु, तैर्मनोभि.रवच्छिन्नाः आत्मानो बहवस्स्युः। एतदेवाभिप्रेत्य “स एकधा भवति, त्रिधा भवति” इत्यादि श्रुतम्। तस्मात्- सात्मकाः सर्वे देहाः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन निर्गुणब्रह्मविदः विदेहकैवल्यप्राप्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अभावाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एकस्मिन्नपि पुंस्येता-वैच्छिकौ कालभेदतः। अविरोधा.त्स्वप्न.जाग्र-द्भोगवद्यु.ज्यते द्विधा॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.6 जगद्व्यापाराधिकरणम्
जगद्व्यापारवर्जं प्रकरणा.दसन्निहितत्वाच्च॥4.4.17॥
प्रत्यक्षोपदेशादिति चे.न्नाधिकारिकमण्डलस्थोक्तेः॥4.4.18॥
विकारावर्ति च तथाहि स्थिति.माह॥4.4.19॥
दर्शयतश्चैव प्रत्यक्षानुमाने॥4.4.20॥
भोगमात्रसाम्य.लिङ्गाच्च॥4.4.21॥
अनावृत्तिः शब्दा.दनावृत्तिः शब्दात्॥4.4.22॥
सप्तमाधिकरणमारचयति –

1विषयः

जगत्स्रष्टृत्व.मस्त्येषां योगिना.मथ नास्ति वा।
अस्ति स्वाराज्य.माप्नोती-त्युक्तैश्वर्यानवग्रहात्॥ 13॥

3पूर्वपक्षः

सृष्टा.वप्रकृतत्वेन स्रष्टृता नास्ति योगिनाम्।
स्वाराज्य.मीशो भोगाय ददौ मुक्तिं च विद्यया॥ 14॥
सप्तमे ज्ञानिनो जगत्स्रष्टृत्व.निराकरणाधिकरणे सूत्राणि
ब्रह्मलोकं प्राप्ताना.मुपासकानां यथा भोगयोग्य.देहेन्द्रियस्रष्टृत्व.मस्ति, तथा वियदादिजगत्स्रष्टृत्व.मस्ति, “आप्नोति स्वाराज्यम्” इति श्रुत्या निरवग्रहैश्वर्यावगमात्। इति प्राप्ते,

4सिद्धान्तः

इति वैयासिकन्यायमालायां चतुर्थाध्यायस्य चतुर्थः पादः॥ 4॥
ब्रूमः- वियदादि.जगत्सृष्टिप्रतिपादकेषु प्रकरणेषु सर्वत्र, परमात्मैव स्रष्टृत्वेनावगम्यते, न क्वापि योगिन.स्तथाऽवगम्यन्ते। अतो न तेषां जगत्स्रष्टृत्वम्। अन्यथाऽनेकेश्वरत्वे सति, कश्चि.त्सिसृक्षति, कश्चि.त्संजिहीर्षति, इति जगद्व्यवस्था न सिध्येत्।
कथं तर्हि स्वाराज्यश्रुतिः? “ईश्वराधीनस्वाराज्याभिप्रायेण” इति ब्रूमः। ईश्वरो ह्युपासनया तोषित.स्तेषां भोगमात्रसिद्धये स्वाराज्यं ददौ, मुक्तिं च तत्त्वविद्योत्पादनेन दत्तवान्। तस्मात्- जगत्सृष्टौ स्वातन्त्र्यभावेऽपि, भोगमोक्षयो.स्तेषां स्वातन्त्र्यमस्ति॥ ओं तत्सत्
॥ समाप्तश्चायमध्यायो ग्रन्थश्च॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन निर्गुणब्रह्मविदः विदेहकैवल्यप्राप्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रदीपाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एकस्मा.न्मनसोऽन्यानि मनांसि स्युः प्रदीपवत्। आत्मभि.स्तदवच्छिन्नैः सात्मका.स्स्यु.स्त्रिधेत्यतः॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 4, Pāda 3 Contents