1.2.1
सर्वत्रप्रसिद्ध्यधिकरणम् ?
SŪसर्वत्र प्रसिद्धोपदेशात्॥1.2.1॥
SŪविवक्षितगुणोपपत्तेश्च॥1.2.2॥
SŪअनुपपत्तेस्तु न शारीरः॥1.2.3॥
SŪकर्मकर्तृव्यपदेशाच्च॥1.2.4॥
SŪशब्दविशेषात्॥1.2.5॥
SŪस्मृतेश्च॥1.2.6॥
SŪअर्भकौकस्त्वात् तव्द्यपदेशाच्च नेति चेत्- न निचाय्यत्वादेवं व्योमवच्च॥1.2.7॥
SŪसम्भोगप्राप्तिरिति चेत्- न वैशेष्यात्॥1.2.8॥
द्वितीयपादस्य प्रथमाधिकरणमारचयति –
1विषयः
प्रथमे ब्रह्मण एव मनोमयत्वाद्यधिकरणे सूत्राणि।
मनोमयोऽयं शारीर ईशो वा प्राणमानसे।
हृदयस्थित्यणीयस्त्वे जीवे स्युस्तेन जीवगाः॥ 1॥
2संशयः
तत्र- प्राणशरीरः “जीवः, ईशो वा” इति सन्देहः।
3पूर्वपक्षः
“जीवः” इति तावत्प्राप्तम्, मनस्सम्बन्धादीनां जीवे सुसम्पादत्वात्। “मनसो विकारो मनोमयः“ इति मनस्सम्बन्धः। “प्राणः शरीरमस्य” इति प्राणसम्बन्धः। न चेदं द्वयमीश्वरे सुसम्पादम्। “अप्राणो ह्यमनाः शुभ्रः”(मुं.उ- 2/1/2) इति निषेधात्। तथा- “एष म आत्माऽन्तर्हृदयेऽणीयान्” इति श्रूयमाणं हृदयेऽवस्थानम्-अणीयस्त्वं च, निराधारस्य सर्वगतस्य न कथञ्चिदुपपद्यते। तस्मात्- जीवः। इति प्राप्ते,-
4सिद्धान्तः
शमवाक्यगतं ब्रह्म तद्धितादिरपेक्षते।
प्राणादियोगश्चिन्तार्थ-श्चिन्त्यं ब्रह्म प्रसिद्धितः॥ 2॥
ब्रूमः- “सर्वं खल्विदं ब्रह्म तज्जलान् इति शान्त उपासीत” ”(छां.उ- 3/14/1) इत्येतस्मिन् शमविधिपरे पूर्ववाक्ये श्रूयमाणं यद्ब्रह्म, तदेव “मनोमयः, प्राणशरीरः” इत्येताभ्यां तद्धित-बहुव्रीहिभ्यां विशेष्यत्वेनापेक्ष्यते। शमवाक्यस्यायमर्थः- “यस्मात्सर्वमिदं ब्रह्म- तज्जत्वात्, तल्लत्वात्, तदंस्त्वाच्च, तस्मात्सर्वात्मके ब्रह्मणि (विषये) रागद्वेषविषयासम्भवादुपास्तिकाले शान्तो भवेत्” इति। एतद्वाक्यगते ब्रह्मणि विशेष्यत्वेनान्विते मनोमयवाक्यमपि ब्रह्मपरं भविष्यति।
न च- ब्रह्मणो मनःप्राणसम्बन्धाद्यनुपपत्तिः, निरुपाधिके तदनुपपत्तावपि, सोपाधिकस्योपास्यस्य चिन्तनार्थतायाः तदुपपत्तेः। तस्मात्- सर्वेष्वपि वेदान्तवाक्येषु यद्ब्रह्म उपास्यत्वेन प्रसिद्धं- तदेव अत्राप्युपास्यम्। न हि क्वचिदपि वेदान्ते जीवस्योपास्यत्वं प्रसिद्धम्। ततो “ब्रह्मैव” इति सिद्धान्तः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रतर्दनाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रह्मणोऽनेकलिङ्गानि तानि सिद्धान्यनन्यथा। अन्येषामन्यथासिद्धे-र्व्युत्पाद्यं ब्रह्म नेतरत्॥ 38॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪअत्ता चराचरग्रहणात्॥1.2.9॥
SŪप्रकरणाच्च॥1.2.10॥
द्वितीयाधिकरणमारचयति –
1विषयः
द्वितीये ईश्वरस्यैवात्तृत्वाधिकरणे सूत्रे।
जीवोऽग्निरीशो वाऽत्ता स्या-दोदने जीव इष्यताम्।
स्वाद्वत्तीति श्रुतेर्वह्नि-र्वाऽग्निरन्नाद इत्यतः॥ 3॥
3पूर्वपक्षः
ब्रह्मक्षत्रादिजगतो भोज्यत्वात् स्यादिहेश्वरः॥
कठवल्लीषु द्वितीयवल्ल्यवसाने पठ्यते –
“यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः”॥ (कठ.उ- 1/2/24)इति
अयमर्थः– “ब्राह्मणक्षत्रियजाती यस्यौदनस्थानीये, मृत्युश्चोपसेचनस्थानीयः, स पुरुषो यत्र वर्तते- तत्स्थानम् “इदमित्थम्” इति को वेद? न कोपि जानाति- इत्यर्थः। अत्र ओदनोपसेचनशब्दाभ्यां कश्चिद्भक्षकः प्रतीयते। स जीवः, अग्निः, ईशो वा इति त्रेधा सन्दिह्यते।
“जीवः” इति तावत्प्राप्त
4सिद्धान्तः
ईशप्रश्नोत्तरत्वाच्च संहारस्तस्य चात्तृता॥ 4॥
म्। कुतः- “तयोरन्यः पिप्पलं स्वाद्वत्ति” (मुं.उ- 3/1) इति जीवस्यात्तृत्वश्रवणात्। अथवा वह्निर्भवेत्, “अग्निरन्नादः” (बृ.उ- 1/4/6) इत्यत्तृत्वावगमात्। इति प्राप्ते,-
उच्यते- ब्रह्मक्षत्रयोरुपलक्षणत्वेन कृत्स्नं जगदिह भोज्यत्वेनावगम्यते। नहि तादृशस्य भोज्यस्य जगतः- ईश्वरादन्योऽत्ता सम्भवति। किञ्च-
“अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद”॥(कठ. उ- 1/2/14)
इति धर्माधर्म-कार्यकारण-कालत्रयातीते परमेश्वरे नचिकेतसा पृष्टे सति, “यस्य ब्रह्म च”- इति वाक्येन यम उत्तरं ददौ। तस्माद्- ईश्वरोऽत्र प्रतिपाद्यः। “अनश्नन्नन्योऽभिचाकाशीति” इति ईश्वरे भोक्तृत्वं निषिध्यते- इति चेत्। तर्हि अत्रात्तृत्वं नाम संहर्तृत्वं भविष्यति। तच्चेश्वरस्य सर्वेषु वेदान्तेषु प्रसिद्धम्॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सर्वत्रप्रसिद्ध्यधिकरणम् ?”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “शमवाक्यगतं ब्रह्म तद्धितादिरपेक्षते। प्राणादियोगश्चिन्तार्थ-श्चिन्त्यं ब्रह्म प्रसिद्धितः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.2.3
गुहाप्रविष्टाधिकरणम्
SŪगुहां प्रविष्टावात्मानौ हि तद्दर्शनात्॥1.2.11॥
SŪविशेषणाच्च॥1.2.12॥
तृतीयाधिकरणमारचयति –
1विषयः
तृतीये जीवब्रह्मणोरेव गुहाप्रवेशाधिकरणे सूत्रे।
गुहां प्रविष्टौ धीजीवौ जीवेशौ वा हृदि स्थितेः।
छायातपाभ्यां दृष्टान्ता-द्धीजीवौ स्तो विलक्षणौ॥ 5॥
2संशयः
“तौ द्वौ- बुद्धिजीवौ, जीवेशौ वा”- इति सन्देहः।
3पूर्वपक्षः
“बुद्धिजीवौ” इति प्राप्तम्, तयोः परिच्छिन्नयोः गुहाप्रवेशसम्भवात्। जडाजडरूपत्वेन छायातपवद्वैलक्षण्याच्च॥ इति चेत्-
4सिद्धान्तः
पिबन्ताविति चैतन्यं द्वयोर्जीवेश्वरौ ततः।
हृत्स्थानमुपलब्ध्यै स्या-द्वैलक्षण्यमुपाधितः॥ 6॥
अत्रोच्यते- “पिबन्तौ” इति द्विवचनेन द्वयोश्चेतनत्वं प्रतीयते। ततः- चेतनाविह जीवेश्वरौ भवतः। सर्वगतस्यापीश्वरस्य हृदयेवस्थानमुपलब्ध्यै वर्ण्यते। द्वयोश्चेतनत्वसाम्येपि सोपाधिकत्व-निरुपाधिकत्वाभ्यां वैलक्षण्यमुपपद्यते॥ अतः जीवेशावेव उच्येते।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अत्त्रधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ईशप्रश्नोत्तरत्वाच्च संहारस्तस्य चात्तृता॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪअन्तरः उपपत्तेः॥1.2.13॥
SŪस्थानादिव्यपदेशाच्च॥1.2.14॥
SŪसुखविशिष्टाभिधानादेव च॥1.2.15॥
SŪश्रुतोपनिषत्कगत्यभिधानाच्च॥1.2.16॥
SŪअनवस्थितेरसम्भवाच्च नेतरः॥1.2.17॥
चतुर्थाधिकरणमारचयति –
1विषयः
चतुर्थे ब्रह्मण एवाक्षिगतत्वाधिकरणे सूत्राणि।
छायाजीवौ देवतेशौ वाऽसौ योऽक्षिणि दृश्यते।
आधारदृश्यतोक्त्येशा-दन्येषु त्रिषु कश्चन॥ 7॥
3पूर्वपक्षः
छान्दोग्यस्य चतुर्थाध्याये- उपकोसलविद्यायामुपकोसलं शिष्यं प्रति सत्यकामो गुरुराह। तत्रत्यं वाक्यमेतत्- “य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच, एतदमृतम्, एतद्ब्रह्म” (छां. उ- 4/15/1) इति।
तत्र चतुर्धा संशये सति- “अक्षिणि सर्वैर्दृश्यमाना छाया पुरुषः” इति तावत् प्राप्तम्, अक्ष्याधारत्व-दृश्यत्वयोः, तस्यामेव स्पष्टत्वात्।(छाया नाम रूपग्रहणं, न तु रूढः प्रकाशाभावः।) यद्वा- जीवोऽयं भवितुमर्हति, रूपदर्शनवेलायां तस्य चक्षुष्यवस्थितत्वेन अन्वयव्यतिरेकाभ्यां दृश्यमानत्वात्।
अथवा- देवः स्यात्, “आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्” इति दर्शनात्। सर्वथा न परमात्मा, तस्याधारत्व-दृश्यत्वासम्भवात्। तस्मात्- छाया-जीव-देवेषु यः कोऽप्यस्तु इति प्राप्ते –
4सिद्धान्तः
कं खं ब्रह्म यदुक्तं प्राक्- तदेवाक्षिण्युपास्यते।
वामनीत्वादिनाऽन्येषु नामृतत्वादिसम्भवः॥ 8॥
ब्रूमः- “कं ब्रह्म खं ब्रह्म” (छां. उ- 4/14/1) इति सुखरूपम्, आकाशवत्परिपूर्णं यद्ब्रह्म पूर्ववाक्येनोक्तम्, तदेव “य एषोऽक्षिणि” इति प्रकृतवाचकेनैतच्छब्देन परामृश्य, अक्षिण्युपास्यत्वेनोपदिश्य वामनीत्व-भामनीत्व-संयद्वामत्वादिगुणान् उपासनयोपदिशति। वामनीत्वं कामप्रापकत्वम्। भामनीत्वं जगद्भासकत्वम्। संयद्वामत्वं प्राप्तकामत्वम्। एतैर्गुणैरुपास्यब्रह्मणः सोपाधिकत्वादक्ष्याधारत्वं शास्त्रदृष्ट्या दृश्यमानत्वं च न विरुध्यते। छायाजीवदैवतेषु त्वमृतत्वाभयत्वादीनि न सम्भवन्ति। तस्मात्- ईश्वरोऽत्रोपास्यः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “गुहाप्रविष्टाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पिबन्ताविति चैतन्यं द्वयोर्जीवेश्वरौ ततः। हृत्स्थानमुपलब्ध्यै स्या-द्वैलक्षण्यमुपाधितः॥ 6॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪअन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्॥1.2.18॥
SŪन च स्मार्तमतद्धर्माभिलापात्॥1.2.19॥
SŪशारीरश्चोभयेऽपि हि भेदेनैनमधीयते॥1.2.20॥
पञ्चमाधिकरणमारचयति –
1विषयः
पञ्चमे परमेश्वरस्यैवान्तर्यामिताधिकरणे सूत्राणि।
प्रधानं जीव ईशो वा कोऽन्तर्यामी जगत्प्रति।
कारणत्वात्प्रधानं स्या-ज्जीवो वा कर्मणो मुखात्॥ 9॥
3पूर्वपक्षः
बृहदारण्यके पञ्चमाध्याये याज्ञवल्क्य उद्दालकं प्रत्याह- “यः पृथिवीमन्तरो यमय-त्येष त आत्माऽन्तर्याम्यमृतः” (बृ.उ- 3/7/1,2) इति। तत्र- पृथिव्यादिजगत्प्रति योऽन्तर्यामी श्रूयते- तस्मिंस्त्रेधा संशये सति, “प्रधानम्” इति प्राप्तम्। तस्य सकलजगदुपादानत्वेन स्वकार्यं प्रति नियामकत्वसम्भवात्। अथवा- जीवोऽन्तर्यामी। स हि धर्माधर्मरूपं कर्मानुष्ठितवान्। तच्च कर्म स्वफलदानाय फलभोगसाधनं जगदुत्पादयति। अतः कर्मद्वारा जगदुत्पादकत्वाज्जीवोऽन्तर्यामी॥ इति प्राप्ते-
4सिद्धान्तः
जीवैकत्वामृतत्वादे-रन्तर्यामी परेश्वरः।
द्रष्टृत्वादेर्न प्रधानं न जीवोऽपि नियम्यतः॥ 10॥
ब्रूमः- “एष त आत्माऽन्तर्याम्यमृतः” इत्यन्तर्यामिणो जीवतादात्म्यममृतत्वं च श्रूयते। तथा- पृथिव्यन्तरिक्षादिषु सर्ववस्तुष्वन्तर्यामित्वोपदेशेन सर्वव्यापित्वं प्रतीयते। तेभ्यो हेतुभ्योऽन्तर्यामी परमेश्वरः। न च प्रधानस्यान्तर्यामित्वं सम्भवति, “अदृष्टो द्रष्टा, अश्रुतः श्रोता” इति द्रष्टृत्व-श्रोतृत्वाद्यवगमात्, अचेतनस्य प्रधानस्य तदसम्भवात्। नापि जीवोऽन्तर्यामी, “य आत्मानमन्तरो यमयति” इति जीवस्य नियम्यत्वश्रवणात्। तस्माद्- अन्तर्यामी परमेश्वरः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अन्तराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “कं खं ब्रह्म यदुक्तं प्राक्- तदेवाक्षिण्युपास्यते। वामनीत्वादिनाऽन्येषु नामृतत्वादिसम्भवः॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪअदृश्यत्वादिगुणको धर्मोक्तेः॥1.2.21॥
SŪविशेषणभेदव्यपदेशाभ्यां च नेतरौ॥1.2.22॥
SŪरूपोपन्यासाच्च॥1.2.23॥
SŪप्रकरणत्वात्॥1.2.24॥
षष्ठाधिकरणमारचयति-
1विषयः
षष्ठे परमेश्वरस्यैव भूतयोनित्वाधिकरणे सूत्राणि।
भूतयोनिः प्रधानं वा जीवो वा यदि वेश्वरः।
आद्यौ पक्षावुपादान-निमित्तत्वाभिधानतः॥ 11॥
3पूर्वपक्षः
मुण्डकोपनिषदि श्रूयते- “तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः”(मुं.उ- 1/1/6) इति। तत्र (प्रधान-जीव-ईश्वरेषु कतर इति) त्रेधा संशये सति- प्रधानम्, जीवो वा, इति पक्षद्वयं तावत्प्राप्तम्। योनिशब्दस्य उपादान-निमित्तलक्षणार्थद्वयवाचित्वात्। प्रधानस्य विश्वाकारेण परिणममानस्योपादानत्वात्। जीवस्य च धर्माधर्मद्वारेण निमित्तत्वात्॥इति चेत्-
4सिद्धान्तः
ईश्वरो भूतयोनिस्स्यात् सर्वज्ञत्वादिकीर्तनात्।
दिव्याद्युक्तेर्न जीवस्स्यात् न प्रधानं भिदोक्तितः॥ 12॥
अत्रोच्यते –“यः सर्वज्ञः सर्ववित्, यस्य ज्ञनमयं तपः” इति “सामान्याकारेण सर्वज्ञत्वम्, विशेषाकारेण सर्ववित्त्वं, पर्यालोचनात्मकं तपश्च”, इत्येतादृशस्य ब्रह्मलिङ्गस्य कीर्तनाद्भूतयोनिः परमेश्वरः।
न च जीवस्य भूतयोनित्वं युक्तम्, “दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः” इति बाह्याभ्यन्तरव्यापित्व-जन्मराहित्ययोः श्रुतत्वात्, परिच्छिन्नस्य जन्मादिमतो जीवस्य तदसम्भवात्।
नापि प्रधानस्य भूतयोनित्वं युक्तम्, “अक्षरात्परतः परः” इत्यक्षरशब्दवाच्यात् प्रधानात् भेदेन भूतयोनेः परत्वाभिधानात्। तस्मात्- ईश्वरो भूतयोनिः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अन्तर्याम्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “जीवैकत्वामृतत्वादे-रन्तर्यामी परेश्वरः। द्रष्टृत्वादेर्न प्रधानं न जीवोऽपि नियम्यतः॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪवैश्वानरस्साधारणशब्दविशेषात्॥1.2.25॥
SŪस्मर्यमाणमनुमानं स्यादिति॥1.2.26॥
SŪशब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेत्- न तथादृष्ट्युपदेशात् असम्भवात्, पुरुषमपि चैनमधीयते॥1.2.27॥
SŪअत एव न देवता भूतं च॥1.2.28॥
SŪसाक्षादप्यविरोधं जैमिनिः॥1.2.29॥
SŪअभिव्यक्तेरित्याश्मरथ्यः॥1.2.30॥
SŪअनुस्मृतेर्बादरिः॥1.2.31॥
SŪसम्पत्तेरिति जैमिनिस्तथा हि दर्शयति॥1.2.32॥
SŪआमनन्ति चैनमस्मिन्॥1.2.33॥
सप्तमाधिकरणमारचयति –
1विषयः
सप्तमे परमेश्वरस्यैव वैश्वानरत्वाधिकरणे सूत्राणि।
वैश्वानरः कौक्ष.भूत-देव.जीवेश्वरेषु कः।
वैश्वानरात्मशब्दाभ्या-मीश्वरान्येषु कश्चन॥ 13॥
2संशयः
किमयं वैश्वानरः कुक्षिस्थितोऽग्निः, किं वा भूताग्निः, आहोस्वित्- आदित्यदेवता, किं वा जीवात्मा, अथवा परमात्मा, इति पञ्चधा संशयः।
3पूर्वपक्षः
तत्र वैश्वानरशब्दवशात्- आद्यं पक्षत्रयं प्राप्तम्।
“अयमग्निर्वैश्वानरो- योऽयमन्तः पुरुषे ??(येनेदमन्नं पच्यते)” इति श्रुतौ वैश्वानरशब्दो जाठराग्नौ प्रयुक्तः।
“विश्वस्मा अग्निं भुवनाय देवा वैश्वानरम्” इति बाह्येग्नौ प्रयुक्तः।
“वैश्वानरस्य सुमतौ स्याम” इति देवतायां प्रयुक्तः। अतः पक्षत्रयमुपपद्यते।
आत्मशब्दस्य जीवे रूढत्वात्, जीवो वा वैश्वानरः स्यात्। न त्वीश्वरः, तद्गमकाभावात्। इति प्राप्ते -
4सिद्धान्तः
द्युमूर्धत्वादितो ब्रह्म-शब्दाच्चेश्वर इष्यते।
वैश्वानरात्मशब्दौ ता-वीश्वरस्यापि वाचकौ॥ 14॥
ब्रूमः- वैश्वानरो ब्रह्म भवितुमर्हति, द्युमूर्धत्वादिश्रवणात्। “तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः” इत्यादिना द्युलोकाद्यशेषजगतो वैश्वानरावयवत्वं श्रूयते। न चैतदीश्वरादन्यत्र सम्भवति।
किञ्च “को न आत्मा, किं ब्रह्म” इति ब्रह्मशब्दश्च ईश्वरे मुख्यः। वैश्वानरशब्दस्तु योगवृत्त्या ब्रह्मणि वर्तते। विश्वश्चासौ नरश्च विश्वानरः। सर्वात्मकपुरुष इत्यर्थः। विश्वानर एव वैश्वानरः। आत्मशब्दश्च जीववद्ब्रह्मण्यपि वर्तते। तस्मात्- वैश्वानरः परमेश्वरः॥
इति वैयासिकन्यायमालायां प्रथमाध्यायस्य द्वितीयः पादः॥1.2॥
प्रथमाध्यायस्य तृतीयः पादः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अदृश्यत्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ईश्वरो भूतयोनिस्स्यात् सर्वज्ञत्वादिकीर्तनात्। दिव्याद्युक्तेर्न जीवस्स्यात् न प्रधानं भिदोक्तितः॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]